भाषा

ENहिગુ
ग्रंथ पाठ

जैमिनीयं ब्राह्मणम् · अध्याय 3

3.10

द्वादशाहः
१२-१९ प्रथममहः-- १२ बहिष्पवमानम्, आज्यं। १३-१५ माध्यन्दिनम्। १६-१९ आर्भवम्।
२०-३४ द्वितीयमहः -- २०-२१ बहिष्पवमानम्, २२ आज्यम्, २३-२७ माध्यन्दिनम् २८-३4 आर्भवम्।
३५ -५७ तृतीयमहः --
५८-८३ चतुर्थमहः--
८४-१३४ पञ्चममहः
१३५-१७३ षष्ठमहः
१७४-२०४ सप्तममहः
२०५-२३९ अष्टममहः
२४०-२७९ नवममहः
२७९- दशममहः
१-

3.11

दुग्धोपसद्यं तद् इत्य् आहुः। न तत्र दुग्धोपसद्यम् अस्तीति ब्रूयात्। वाग् वै रथन्तरं, वाग् आश्विनं, कुतो वा क्षेष्यत इति। एतद् उ ह वा एकच्छन्दो दुग्ध यद् वाग् यद् ईजाना अनीजानाः। तद् उ वा आहुः पवस्व वाचो ऽग्रिय, उपास्मै गायता नरः, पवमानस्य ते कव इति प्रतिपदो भवन्ति। पवमाने रथन्तरं प्रोहन्ति। बृहत् पृष्ठं भवति। जराबोधीयेनाश्विभ्यां स्तुवन्ति। रुद्रस्य वा एतद् देवस्य साम यज् जराबोधीयम्। एतेन वै रुद्रो देवः पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छत् तेन पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छामेति। तद् आहुः क्रूरम् अशान्तम् ईश्वरो यजमानस्य पशून् अभिमन्तोर् इति। तद् उ वा आहुस् सर्वा वा एषा वाग् ब्रह्म यद् आश्विनम्। सर्वयैवैनद् एतद् वाचा ब्रह्मणाश्विनेन शमं यन्तीति। और्ध्वसद्मनम् आपिशर्वरेषु प्रोहन्ति। और्ध्वसद्मनेन वै देवा असुरान् एभ्यो लोकेभ्यो नुत्वा स्व आयतने सत्रम् आसत। और्ध्वसद्मनेनैव वै देवा असुरान् एभ्यो लोकेभ्यो नुत्वा स्व आयतने सत्रम् आसत। और्ध्वसद्मनेनैव द्विषन्तं भ्रातृव्यम् एभ्यो लोकेभ्यो नुत्वा स्व आयतेन सत्रम् आस्ते य एवं वेद

3.12

ब्रह्म वा अग्निष्टोमः। ब्रह्म प्रायणीयम् अहः। एषा वै यज्ञस्य मात्रा यद् अग्निष्टोमः। यैव यज्ञस्य मात्रा तयैवैतत् सत्र आक्रमन्ते यादृक् प्रवयणत स्पर्शस् तादृग् उपप्रार्ञ्जनतः। तस्माद् अग्निष्टोमेनैव प्रयन्त्य्, अग्निष्टोमेनोद्यन्ति। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। प्रत्नं वै बृहद् उप रथन्तरम्। तद् यद् एताः प्रत्नवतीश् चोपवतीश् च भवन्ति बृहद्रथन्तरे एवैतत् सत्राय युज्येते। प्रेति च वा एति च गायत्र्यै रूपम्। तद् यत् प्रेति चेति च भवति गायत्र्या एवैतद् रूपेण प्रयन्ति न वैता भवन्ति न वा हस्यैष युक्त्या ऋचर् चैवाहर् युज्यते यथा नद्धयुगस्य शम्या अवदध्यात् तादृक् तत्। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये प्रायणीयस्याह्नस् तृचान् विच्छिन्दन्तीति। सलक्ष्माणो भवन्ति - सलक्ष्माणो वै प्राणाः - प्राणानाम् एव संतत्या अव्यवच्छेदाय। अग्न आ याहि वीतये, आ नो मित्रावरुणा, आ याहि सुषुमा हि त, इन्द्राग्नी आ गतं सुतम् इत्य् आ याह्य् आ याहीत्य् आज्यानि भवन्ति। आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तत्। त्रिवृत् स्तोमो भवति। ब्रह्म वै त्रिवृत्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति

3.13

प्र सोमासो विपश्चितः, प्र सोम देववीतये, प्र तु द्रव परि कोशं नि षीदेति प्रवतीर् भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। यत् पञ्चसामा विलोम् तद् असमृद्धम्। प्राणो ऽपानो व्यानस् स तृचः। तं विच्छिन्दन्ति। आत्मानं प्रजां जायाम् इमान् लोकांस् तद् विच्छिन्दन्ति। त्रीणि सामानि। तत् क्लृप्तं त्रिवृत् त्रिषामा। अथाश्वं पदनिधनम् अपरिष्टोभं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। इळावान् पवमानस् सोमसाम्ना क्रियते। पञ्चसामा ह खलु वै संवत्सरं यन्तुम् अर्हति। तद् यत् षडक्षरणिधनं यौधाजयं भवति - षड् वा ऋतवस् संवत्सरस् - संवत्सरस्यैव युक्त्यै। अभि द्रोणानि बभ्रव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। सुता इन्द्राय वायवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तासु गायत्रम् उक्तब्राह्मणम्

3.14

अथाश्वम्। प्रजापतिः प्रजा असृजत। ता आश्वेनैवाश्वो भूत्वासृजत। यद् आश्वेनाश्वो भूत्वासृजत तद् आश्वस्याश्वत्वम्। तत् प्रजनननं साम। प्रजनने ऽहन् क्रियते। प्रजया पशुभिर् जायते य एवं वेद। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। प्रजननं वा एतत् साम। प्रजननम् एतद् अहः। प्रजनन एवैतत् प्रजननं क्रियते। तद् व् एवाचक्षते ऽश्वस्य सामुद्रेर् इति। अश्वो वै सामुद्रिर् अकामयताव पशून् रुन्धीय भूमानं पशूनां गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स पशून् अवारुन्ध भूमानं पशूनाम् अगच्छत्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, भूमानं पशूनां गच्छति य एवं वेद। यद् अश्वस् सामुद्रिर् अपश्यत् तस्माद् आश्वम् इत्य् आख्यायते। अथो आहुर् आश्वेन वै देवा अश्वा भूत्वा स्वर्गं लोकम् आयन्न् इति। तद् व् एवाश्वस्याश्वत्वम्। तद् वा अस्य स्वर्ग्यम्। अश्नुते स्वर्गं लोकं य एवं वेद

3.15

अथ सोमसाम। सोमो वै राजा सधमादम् इवान्याभिर् देवताभिर् आसीत्। सो ऽकामयत सर्वेषां देवानां राज्याय सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सर्वेषां देवानां राज्यायासूयत। सूयते स्वानां श्रेष्ठतायै य एवं वेद। तेभ्यस् तिरो ऽभवत्। तद् अन्वैच्छन्। तेभ्य एतेन रूपेणादृश्यत यद् एतच् चन्द्रमसः। तम् अभिसमगच्छन्तादर्श्य् अदर्शीति। तस्माद् यदा दर्शयते ऽथाभिसंगच्छन्ते ऽदर्श्य् अदर्शीति। तम् एतद् अभ्यषिञ्चन्त। स एतद् अभवत्। तद् एतच् छ्रीस्सवस् साम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ सोमो राजा अपश्यत् तस्मात् सोमसामेत्य् आख्यायते। अथ वज्रम्। वज्र आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्धत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ वज्र आंगिरसो ऽपश्यत् तस्माद् वज्रम् इत्य् आख्यायते। अथ यौधाजयं त्रिणिधनं सवनानां क्लृप्त्यै। अथौशनम् अन्त्यं सामान्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। अथ रथन्तरम्। ब्रह्म वा अग्निष्टोमो, ब्रह्म रथन्तरम्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथ नौधसम्। सलोके वै कालेयं च रथन्तरं च

3.16

प्र सोमासो मदच्युत इत्य् आर्भवस्य पवमानस्य प्रवतीर् गायत्र्यो भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। ता मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति, रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ संहितं द्व्यक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै। अथा पवस्व देवयुः, पवते ह्रयतो हरिर् इत्य् उष्णिक्ककुभौ भवतः। गायत्र्यौ रूपेण राथन्तरे सभं पूर्वस्यां विजित्या एव। अथाक्षरं पदनिधनम् अपरिष्टोभं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। प्रजापतिर् वा एतं यज्ञम् असृजत यद् द्वादशाहम्। तस्य तृचैर् अन्यान्य् अहान्य् अकल्पन्तैकर्चैर् एतत्। तद् अस्य सम् इवाप्लीयत। स एते सामनी अपश्यत्। ताभ्याम् एनद् यथा शंकुभ्यां चर्म विहन्याद् एवम् एवाभ्याम् एतद् अहर् व्यहन्। आश्वेन पुरस्ताद् आक्षारेणोपरिष्टात्। तद् यद् एते सामनी भवतो ऽह्न एव धृत्यै। प्र सुन्वानायान्धस इति प्रवतीर् अनुष्टुभो भवन्ति राथन्तरे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति

3.17

तासु गौरिवीतम्। यथा ह वा इदम् अवसानदर्शाववसानं विन्दत एवम् एतौ गौरिवीतस्योदासौ देवेभ्य श्वस्तनं विन्दतः। श्वस्तनं नो ऽसद् इति वै सत्रम् आसते। श्वस्तनं हैवैभ्यो भवति। एतद् ध वा अद्यश्वं देवानां यद् गौरिवीतम्। अक्षितम् अस्याद्यश्वं भवति य एवं वेद। अवसानदर्शो वा एतयोर् उदासो ऽन्यतरो ऽवसाययितान्यः। स यथा प्र स्पष्टं तृणोदकम् अन्ववस्येद् तादृक् तत्। यथा ह वा इदं सोमप्रवाकस् सोमं प्राहैवम् एतौ गौरिवीतस्योदासौ देवेभ्यस् सोमं प्राहतुः। प्रोक्तसोमो ह स तां रात्रिं वसति यस्मिन्न् अहनि गौरिवीतं भवति। अथो हैनं देवा ईक्षन्ते धावत श्वो यष्टेति। तद् यद् एकाहे गौरिवीतं न कुर्वन्ति नेद् देवान् लापयामहा इति। यथा ह वा इदं वृक्षस्याक्रमणानि कृतान्य् एवम् एतानि गौरिवीतस्याक्रमणानि कृतानि स्वर्गस्य लोकस्य समष्ट्यै। प्र स्वर्गं लोकम् आप्नोति य एवं वेद। यथा ह वा इदम् अभीयायम् उप विमोकं यायाद् एवम् एतद् यद् गौरिवीतम्। तत् तथैव गेयम्

3.18

शाक्त्यास् तरसपुरोडाशास् सत्रम् आसत। स गौरिवीतिश् शाक्त्यो मृगम् अहन्। तम् तार्क्ष्यस् सुपर्ण उपरिष्टाद् अभ्यवापतत्। तस्मा उपप्रत्यधत्त। तम् अब्रवीद् - ऋषे, मा मे ऽस्थः। श्वस्तनं ते वक्ष्यामि। अद्य वाव त्वं वेत्थ न श्व इति। तस्मा एतद् गौरिवीतम् अब्रवीत्। ततो वै स श्वस्तनम् अपश्यत्। तत् प्रजा वै श्वस्तनं पशव श्वस्तनं स्वर्गो लोक श्वस्तनम्। तद् यद् गौरिवीतं भवत्य, एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्यै।
वाचो वै रसो ऽत्यक्षरत्। तद् गौरिवीतम् अभवत्। यद् अन्वहं गौरिवीतं भवत्य्, अन्वहम् एवैतद् वाचो रसं दधतो यन्ति। ये गौरिवीतम् अहीने ऽवसृजेयुस् तान् ब्रूयाद् - अश्वस्तना अप्रजसो भविष्यथेति। अश्वस्तना हैवाप्रजसो भवन्ति

3.19

अथ त्वाष्ट्रीसाम मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। प्रद्रुतम् इवैतद् अहर् यत् त्रिवृत्। तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अप्रस्रंसायैव। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानो गाः प्राविशत्। ता अकामयन्तेन्द्रं जनयेमेति। ता एतानि सामान्य् अपश्यंस् त्वाष्ट्रीसामानि। तैर् इन्द्रम् अजनयन्। तानि वा एतानि वीरजननानि सामानि । आस्य वीरो जायते य एवं वेद। अथो पशवो वै त्वाष्ट्र्यः। तद् यद् एतानि सामानि भवन्ति पशूनाम एवावरुद्ध्यै। तद् ऐळं भवति - पशवो वा इळा - पशूनाम् एवावरुद्ध्यै। यद् उ त्वाष्ट्र्यो ऽपश्यंस् तस्मात् त्वाष्ट्रीसामेत्य् आख्यायते। अभि प्रियाणि पवते चनोहित इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। तासु कावम् उक्तब्राह्मणम् । अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्

3.20

पवस्व वाचो अग्रिय इति प्रतिपदो भवन्ति। बृहद्रथन्तरे यद् असृज्येतां बृहत् पूर्वम् असृज्यताथ रथन्तरम्। तस्मात् पवस्व वाचो ऽग्रिय इति प्रतिपदो भवन्ति। प्रेत्य् अन्य ऋषयो ऽपश्यन्न् एत्य् अन्ये। अथैतन् न प्रेति नैति स्थितम्। वाचो बाहर्तं रूपं भरद्वाज ऋषिर् अपश्यत्। भरद्वाजस्य वा एतद् आर्षेयं यद् बृहत्। मनो बृहत्। प्रजापतिर् बृहत्। प्रजापतिताम् एवाश्नुते य एवं वेद। सोम चित्राभिर् ऊतिभिर् अभि विश्वानि काव्या त्वं समुद्रिया अप इति। त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। अग्रियो वाच ईरयन्न् इत्य् अग्रं वा एतद् अहः। द्वितीयं वा एतद् अहस् सत् तद् अग्रम् इत्य् आख्यायते। तुभ्येमा भुवना कवे महिम्ने सोम तस्थिर इति। प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यन् महिम्ने सोम तस्थिर इत्य् अह्न् एवोपस्थित्यै। तुभ्यं धावन्ति धेनव इति समष्ट्यै

3.21

ता एता भवन्ति गायत्र्यस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धा। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यन्ते। सम् अस्मा ऋध्यते य एवं वेद। पवस्वेन्दो वृषा सुत इति वृषण्वान् अनुरूपो भवति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य् रूपम्। तद् आहुर् अह्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेण साम्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। मनो वै स्तोत्रियो, वाग् अनुरूपः। साम वै स्तोत्रिय, ऋग् अनुरूपः। अहर् वै स्तोत्रियो, रात्रिर् अनुरूपः। इयं वै स्तोत्रियो, ऽसाव् अनुरूपः। आत्मा वै स्तोत्रियः, प्रजानुरूपः। स्तोत्रियानुरूपयोर् ह खलु वै तद् रूपं, यस्माद् यां श्रेष्ठीं वाचं वदति तां पापीयान् अनुवदति, यस्मात् कर्ता च करणश् च सदृशौ सन्तौ विज्ञायेते। स्तोत्रियानुरूपयोर् वै हेतोः प्रजा अनुरूपा आजायन्त। आ हास्यानुरूपः प्रजायां जायते य एवं वेद। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये प्रायणीयस्याह्नस् तृचान् विच्छिन्दन्तीति। संततान् अत्र पञ्च तृचान् उपयन्ति प्राणानाम् एव संतत्या अव्यवच्छेदाय। सर्वे वृषण्वन्तो भवन्ति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य रूपम्। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। पञ्चदशस्तोमो भवति - इन्द्रियं वै वीर्यं पञ्चदश - इन्द्रिय एवैतद् वीर्यं प्रतितिष्ठन्तो यन्ति

3.22

अग्निं दूतं वृणीमह इत्य् आग्नेयम् आज्यम् भवति। प्रेत्य् अन्य ऋषयो ऽपश्यन्न् एत्य् अन्ये। अथैतन् न प्रेति नेति स्थितम् । वाचो बार्हतं रूपं भरद्वाज ऋषिर् अपश्यत्। भरद्वाजस्य वा एतद् आर्षेयं यद् बृहत्। मनो बृहत्। प्रजापतिर् बृहत्। प्रजापतिताम् एवाश्नुते य एवं वेद। होतारं विश्ववेदसम् इति। हो इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। मित्रं वयं हवामह, इन्द्रम् इद् गाथिनो बृहद्, इन्द्रे अग्ना नमो बृहद् इत्य् एकरूपाण्य् आज्यानि भवन्ति, सर्वाण्य एव बार्हतानि। क्षत्रं वा एतद् अहः। तस्मात् सर्वे राजान एकमन्त्रा एकवचसः। महद्वती द्वे भवतो बृहद्वती द्वे। एतद् वै प्रत्यक्षं बृहतो रूपं यन् महद् यद् बृहत्। बृहद् एवैतत् प्रत्यक्षम् उपयन्ति। पञ्चदशस्तोमो भवति - इन्द्रियं वै वीर्यं पञ्चदश - इन्द्रिय एवैतद् वीर्यं प्रतितिष्ठन्तो यन्ति

3.23

वृषा पवस्व धारयेति माध्यन्दिनस्य पवमानस्य वृषण्वतीर् गायत्र्यो भवन्ति। बार्हतं वा एतद् अहः। त्रैष्टुभं क्षत्रस्य रूपम्। मरुत्वते च मत्सर इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यंदिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तं त्वा धर्तारम् ओण्योर् इति प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यत् तं त्वा धर्तारम् इत्य् अह्न् एव धृत्यै। अया चित्तो विपानया हरिः पवस्व धारयेति हरिवतीर् भवन्ति। हरिवद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ यौक्ताश्वं परिष्टोभवद् बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। वसिष्ठो वै सुदासः पैजवनस्यैक्ष्वाकस्य राज्ञः पुरोहित आस। स सुदाः पैजवनो वसिष्ठे वळवान् न्यधत्त यथा पुरोहिते निदधते तथा। वसिष्ठस् सनिं प्रयन्न् अब्रवीद् युक्ताश्वं कनीयांसं भ्रातरम् एतेषां नौ भार्याणाम् अध्यक्षः स्या इति। स युक्ताश्वो राजवळवानां शिशूञ् जातान् विपर्यहरत्। ये कल्याणा आसंस् तान् आत्मने ऽकृत। ये पापीयांसस् तान् राजवळवासु। ते तद् अन्वबुध्यन्त् - शिशून् ह जातान् विपर्यहार्षीद् इति। तम् अबाधन्त - स्तेनो ऽस्य् अनृषिर् इति। सो ऽकामयत - श्रद्धां विन्देयोप मा ह्वयेरन्न् इति। स एतत् सामापश्यत् । तेनास्तुत - -

3.24

- - स ओ इ ज्वरेत्य् एव निधनम् उपैत्। ततो वै स श्रद्धाम् उपहवम् अविन्दत। श्रद्धां विन्दामहा इति सत्रम् आसते। श्रद्धाम् एव विन्दन्ते । एतद् ध वै वाचस् सत्यं यद् ओ इ ज्वरेति। ज्वरेतीव ह वै वाचस् सत्यम्। सत्येन वै स तद् वाचश् श्रद्धाम् उपहवम् अविन्दत। श्रद्धानीयो भवति, विन्दत उपहवं य एवं वेद। तद् उ प्रजनिष्णु पशव्यं साम। ओ इ ज्वरेति निधनं भवति। अज्यत इति पशुं प्रवीयमाणम् आहुः। अज्वरा हास्य पशवः प्रजनिष्णवो भवन्ति य एवं वेद। यद् उ युक्ताश्वो ऽपश्यत् तस्माद् यौक्ताश्वम् इत्य् आख्यायते। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा ह वा उभे सामनी उद्ययाम। तस्माद् एतां कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः। तासु सोमसामनी परिष्टोभवती बार्हते । तस्माद् बार्हते ऽहनि क्रियेते। वृषा वै सोमो, वृषेन्द्र, ऐन्द्रम् एतद् अहः। क्षत्रं वै सोमः, क्षत्रम् इन्द्र, ऐन्द्रम् एतद् अहः। रेतो वै सोमः प्रजननम् एतद् अहः। तद् यद् एते सामनी एतस्मिन्न् अहनि क्रियेते प्रजनन एवैतद् रेतस् सिच्यते। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। ऊर्ध्वेळम् अन्यद् भवति बृहतो रूपं बार्हते ऽहन्। बार्हतम् अन्यत् त्रिणिधनं माध्यन्दिनस्य रूपं पवमानस्य धृत्यै। यद् उ सोमो राजा ऽपश्यत् तस्मात् सोमसामनी इत्य् आख्यायेते। वृषा शोणो अभिकनिक्रदद् गा इति वृषण्वतीर् भवन्ति। बार्हतं वा एतद् अहस् त्रैष्टुभं क्षत्रस्य रूपम्

3.25

तासु पार्थं द्वियभ्यासं द्वितीयस्याह्नो रूपं परिष्टोभवद् बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। पृथुर् वै वैन्यो ऽकामयत सर्वेषां पशूनां राज्याय सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सर्वेषां पशूनां राज्यायासूयत। तद् एतच् छ्रीस्सवस्साम। सर्वेषां पशूनां राज्याय सूयते य एवं वेद। तद् उ स्तोभप्रस्तावं स्व(आ)रं भवति स्वराणां विभक्त्यै। एतद् ध्य् एतस्याह्न स्वारं यत् स्तोभप्रस्तावम् । स्वारम् ऊर्ध्वम् इवैतद् अहर्, ऊर्ध्वम् इवैतत् साम। अहर् एवैतेन रोहति तुष्टुवानः। यद् उ पृथुर् वैन्यो ऽपश्यत् तस्मात् पार्थम् इत्य् आख्यायते

3.26

वासिष्ठं तु कार्यतरम् आहुः। क्षत्रम् एतद् यत् पार्थं, क्षत्रम् एतद् यत् सोमसामनी, क्षत्रम् एतद् अहः, क्षत्रं तेन यद् ऐन्द्रं, क्षत्रं तेन यत् त्रैष्टुभं, क्षत्रं तेन यद् बार्हतं, क्षत्रं तेन यत् पञ्चदशस्तोमः। एकधैव क्षत्र भवति। तद् यत् पुरस्ताद् यौक्ताश्वं भवति वासिष्ठम् उपरिष्टाद् ऋषिसामनी ब्रह्म एव स विवधतायै। ब्रह्म क्षत्रेण समद्याम्य(भ्य?)सद् इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठम् इत्य् आख्यायते। अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथ श्यैतं, साम्नोर् विवाहो यज्ञस्य सन्ततिः। एकं वावाहस् तद् यत् त्वाम् इदा ह्यो नर इति भवति। तेनैव द्वितीयम् अहः क्रियते

3.27

तासु माधुच्छन्दसम्। मधुच्छन्दा वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्या मुख्या ब्रह्मवर्चसिनो ऽसामेति सत्रम् आसते। अग्र्या एव मुख्या ब्रह्मवर्चसिनो भवन्ति। यद् उ मधुच्छन्दा वैश्वामित्रो ऽपश्यत् तस्मान् माधुच्छन्दसम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व एवैतत् प्रतितिष्ठन्ति

3.28

यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयं सवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। जघ्निर् वृत्रम् अमित्रियम् इति त्रैष्टुभं रूपम्। यद् वै घ्नद्वत् तत् त्रिष्टुभो रूपम्। क्षत्रं हि त्रिष्टुप्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति प्रद्रुतम् इव वा इत एतद् अहर् यद् बार्हतम्। अदो हि बृहत्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथ हाविष्मतं परिष्टोभवद् बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। हविष्मांश् च वै हविष्कृच् चाङ्गिरसाव्, अंगिरसां स्वर्गं लोकं यताम्, अहीयेताम्। ताव् अकामयेताम् अनूत्पतेव स्वर्गं लोकम् इति। तौ तपो ऽतप्येताम् । ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवताम्। तौ स्तुत्वेव हविष्मते हविष्कृत इत्य् एव स्वर्गं लोकम् अनूदपतताम्। पशवो ह खलु वै हविष्मन्तः, पशवो हविष्कृतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धेताम्। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छताम्। ते एते पशव्ये स्वर्ग्ये सामनी। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद

3.29

प्रोक्तिश् च ह खलु वा एते सामनी हविषो निरुक्तिश् च। तद् यद् धाविष्मतं द्वितीये ऽहनि भवति, हविष्मन्त स्म इत्य् एवैतद् देवेभ्यः प्राहुः। हविष्मन्त इव ह्य् एतर्हि भवन्ति। अथ यद् धाविष्कृतं नवमे ऽहनि भवति, हविष्कृत स्म इत्य् एवैतद् देवेभ्यो निराहुः। हविष्कृत इव हि तर्हि भवन्ति। ते ह वा एते सामनी प्रोक्तिश् चैव हविषो निरुक्तिश् च। यद् उ हविष्मांश्च हविष्कृच् चाङ्गिरसाव् अपश्यतां तस्माद् धाविष्मत - हाविष्कृते इत्य् आख्यायेते। पवस्व मधुमत्तम इति मधुमतीः ककुभो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मधुमतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति।
इन्द्राय सोम ऋतुवित्तमो महः।
महि द्युक्षतमो मदः
इत्य् अभिपूर्वम् एवास्मिंस् तद् रसं मदं दधति

3.30

तासु सीदन्तीयम्। देवा वा अकामयन्त स्वर्गे लोके सीदेमेति। त एतत्सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गे लोके ऽसीदन्। स्वर्गे लोके सीदामेति सत्रम् आसते। स्वर्ग एव लोके सीदन्ति। यद् उ देवा एतेन साम्ना स्वर्गे लोके ऽसीदंस् तस्मात् सीदन्तीयम् इत्य् आख्यायते। तद् व् एवाचक्षते शंक्व् इति। शंकुना वै तद् दृंहन्ति यद् दधिषेण्यं भवति। दधिषेण्यम् इवैतद् अहर् यद् द्वितीयम्। तस्माद् द्वितीये ऽहन् क्रियते।
इन्द्रम् अच्छ सुता इमे वृषणं यन्तु हरयः।
श्रुष्टे जातास इन्दव स्वर्विदः॥
इत्य् ऋचा वै पूर्वम् अह स्वर्वत् क्रियते, साम्नैतत्। राथन्तरं हि पूर्वम् अहर्, बार्हतम् एतत्

3.31

तासु सुज्ञानं । देवान् वा असुरा व्यवह्वारम् अजिघांसन् यद् रूपं देवानाम् आसीत् तेन रूपेणानुप्रविश्य - तेषां ह देवानां ये ऽरण्ये स्वाध्यायं चेरुर्, ये ग्राम आसुस्, तेषां तान् रूपेण जिघांसांचक्रुः। अथ ये ग्राम आसुर्, ये ऽरण्ये स्वाध्यायं चेरुर्, तेषाम् उ तान् रूपेण जिघांसांचक्रुः। तान् हैव व्यवंह्वारं जिघांसां चक्रुः। तद् देवाः प्रत्यबुध्यन्त। ते ऽब्रुवन् - संवाचनं करवामहा इति। ते संवाचनम् अकुर्वत - यं पृच्छाम चरन्तं कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीत्य एव स ब्रूताद् इति। ते ह स्म यं पृच्छन्ति चरन्तं - कम् अच्छ चरसीति, इन्द्रम् अच्छ चरामीति ह स्मैवाह। सुज्ञानो ऽसीति ह स्माहुः। तद् एव सुज्ञानस्य सुज्ञानत्वम्। तत् संज्ञानं वा एतत् साम। संज्ञानम् एवास्मै तेन भवति, येन कामयते ऽनेन संजानीयेति, य एवं वेद। तेषाम् उ यो य एव पृष्टो न प्रत्यमनुत, तस्यैतद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद।
देवा वै स्वर्गं लोकं यन्तो ज्ञानाद् अबिभयुः। ते ऽकामयन्त ज्ञानम् आविर्भावं गच्छेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ज्ञानम् आविर्भावम् अगच्छन्। ज्ञानम् आविर्भावं गच्छति य एवं वेद।
अयं पूषा रयिर् भगस् सोमः पुनानो अर्षति।
पतिर् विश्वस्य भूमनो व्य् अख्यद् रोदसी उभे॥
इत्य् उभयोर् एवाह्नोस् समारम्भाय। यथा ह वा इदं श्रमणं व्यवलम्बमानं नयेद् एवं ह वा एतद् अहर् एते अहनी नयतो बार्हतं राथन्तरे। तासु गौरिवीतम् उक्तब्राह्मणम्

3.32

अथ क्रौञ्चम् । क्रुंङ् आंगिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यद् द्वितीयम्। तस्माद् द्वितीये ऽहन् क्रियते। एकं वावाहर् आसीत्। स क्रुंङ् आङ्गिरसो ऽकामयताह्न एवाहर् निर्मिमीयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽह्न एवाहर् निरमिमत। तद् यद् एतत् साम भवत्य्, अह्न एवैतेनाहर् निर्मिमत। एतद् ध स्म वै तत् क्रुंङ् आगिरसो ऽह्न एवाहर् विपिपीते। यद् ध वा इदम् आहुः - क्रुंङ् क्षीरं विपिपीत इति, न ह वै तत् क्रुङ् विपिपीते। क्रुङ् ह स्म वै तद् आंगिरसो ऽह्न एवाहर् विपिपीते। क्रुंङ् आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्। यद् उ क्रुंङ् आंगिरसो ऽपश्यत् तस्मात् क्रौञ्चम् इत्य् आख्यायते। वृषा मतीनां पवते विचक्षण इति वृषण्वतीर् भवन्ति। बार्हतं वा एतद् अहस् त्रैष्टुभं क्षत्रस्य रूपम्

3.33

तासु यामम् । यमम् इव वा एतद् अहर् यद् द्वितीयम्। यथा वै यमौ जायेयाताम् एवम् एतद् अहः। यमैर् वै यमोत्गमोरवं लोकान् निरुंह्य लोकम् अस्याभ्यारोहत्। लोकाद् एव द्विषन्तं भ्रातृव्यं रुंह्य लोकम् अस्याभ्यारोहति य एवं वेद। मन्त्रेणर्षयो निदानवन्तो यामेन यमः। निदानवन्तो ऽसामेति सत्रम् आसते। निदानवन्त एव भवन्ति। तद् गृहा वै निदानं, प्रजा निदानं, पशवो निदानं, स्वर्गो लोको निदानम्। निदानवान् भवति य एवं वेद। यमं वैवस्वतं देवा अमुष्मै लोकायासुवत। सो ऽकामयत निदानवान् अस्मिन् लोके स्याम् इति। स एतानि यामानि सामान्य् अपश्यत्। तैर् अस्तुत। तैर् अस्मिन् लोके निदानवान् अभवत्। एतन्निदानो ह वाव सो ऽस्मिन् लोक एतत्प्रजा एतैर् एव सामभिर् य एवैतानि सामानि वेद। तेनास्मिन् लोके निदानवान् यमस्य पुत्रतां गच्छति य एवं वेद। तद् आहुः पितृदेवत्यानि सामानि। ईश्वरः पुरायुषो ऽमुं लोकम् एतोर् इत्य् आयुर् इति वा स्तोभत्य् अथो वायुर् इति। तथा ह पुरायुषो ऽमुं लोकं नैति। यद् उ यमो ऽपश्यत् तस्माद् यामम् इत्य् आख्यायते। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्।
एह्य् ऊ षु ब्रवाणि ते अग्न इत्थतरा गिरः।
एभिर् वर्धास इन्दुभिः॥
इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्

3.34

तासु साकमश्वं स्वर्ग्यं साम स्वर्गस्य लोकस्य समष्टयै। एवा ह्य् असि वीरयुर् इत्य् एवेति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। तास्व् आमहीयवं प्राजापत्यं साम। क्षत्रं वै प्रजापतिः। प्राजापत्यम् एतद् अहः। तद् गायत्रीषु भवति। ब्रह्म वै गायत्री। क्षत्रम् एतद् अहः। तद् यद् गायत्रीष्व् आमहीयवं भवति, ब्रह्मैव तद् यशसार्पयन्ति। ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद। एतस्माद् ध वा इदं ब्राह्मणानां राज्ञाम् इव प्रकाशो यद् गायत्रीषूक्थं ब्रह्मसाम भवति। तत् समानं वदन्तीषु भवति। यद् ध वै बहवस् समानम् आचक्षते तत् सत्यम्। तद् यद्
एवा ह्य् असि वीरयुर् एवा शूर उत स्थिरः।
एवा ते राध्यं मनः॥
इति भवति सत्यस्यैवर्द्ध्यै। इन्द्रं विश्वा अवीवृधन्न इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्। तास्व् आष्टादंष्ट्रम् उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति। अभीळायै स्वरेण तृतीयम् अह स्वरति

3.35

दविद्युतत्या रुचेति प्रतिपदो भवन्ति। दविद्युतत्या रुचेति वै गायत्र्यै रूपम्। परिष्टोभन्त्या कृपेति त्रिष्टुभः। सोमाश् शुक्रा गवाशिर इति जगत्यै। छन्दसां वा एषां रूपं छन्दोभिस् तृतीयसवनं क्रियते। तृतीयसवनम् इव वै तृतीयम् अहः। ता एता भवन्ति गायत्र्यो जगद्वर्णा अह्नोरूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एते असृग्रम् इन्दव इत्य् अनुरूपो भवति। भूतानुवादिनीर् एत एत इति वै पूर्वाण्य् अतो ऽनुदिशन्ति। बृहद्रथन्तरयोर् एवैतद् यातेन यान्ति त्रिवृत् - पञ्चदशयो स्तोमयोः। तद् आहुस् साम्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेणाह्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति

3.36

ता गोमतीर् इळावतीर् अश्ववतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अन्तरिक्षवतीर् भवन्ति। अन्तरिक्षं ह्य् एतद् अहः। आशीर्वतीर् भवन्ति। आशीर्वद् ध्य् एतद् अहः। अथो आशिरं वै तृतीयसवने ऽवनयन्ति। तृतीयसवनभाजनम् एतद् अहः। पञ्चर्चं भवति - पञ्च वै दिशो - दिशाम् एव धृत्यै। अथो पांक्तो वै यज्ञो यज्ञस्यैवारम्भाय। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। सप्तदशस्तोमो भवति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एवैतत् प्रतितिष्ठन्तो यन्ति

3.37

अग्निनाग्निस् सम् इध्यत इत्य् आग्नेयम् आज्यं भवति राथन्तरम्। राथन्तरं ह्य् एतद् अहः। यद् ध वा अग्निआग्निस् समिद्ध्यते वैरूपं ह वै तद् रथन्तरेण समिध्यते, रथन्तरं वा वैरूपेण। तद् उ होवाच सौजातस्याराटेर् जाया - यन् नु मे द्वे एव पृष्ठे पतिर् अमन्यताथ को ऽयं गर्दभ औदुम्बरिम् अभिनानद्यत इति। तद् आहू राथन्तरम् एतद् अहः। तस्माद् एतस्याह्नो वैरूपम् एव पृष्ठं कार्यम् इति। तद् उ वा आहुः को वा न्वै स्यात् पुरुषः को वा यद् अस्यात्मेव स्यान् न पशवः। आत्मा वै बृहद्रथन्तरे। पशवः पृष्ठानि। तस्माद् एतस्याह्नो वैरूपम् एव पृष्ठं कार्यम् इति। तद् यद् एतस्याह्नो वैरूपं पृष्ठं भवत्य् आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति

3.38

मित्रं हुवे पूतदक्षम् इति मैत्रावरुणं भवति। हु इति वै रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। वरुणं च रिशादसं धियं घृताचीं साधन्तेति सिद्धया एव।
ऋतेन मित्रावरुणाव् ऋतावृधाव् ऋतस्पृशा।
क्रतुं बृहन्तम् आशाथे॥
कवी नो मित्रावरुणा
इति वीति भवत्य् अन्तरिक्षस्य रूपम्। अन्तरिक्षभाजनम् एतद् अहः। इन्द्रेण सं हि दृक्षस इत्य् ऐन्द्रं भवति। सम् इति च वै वीति वान्तरिक्षस्य रूपम्। इतो वा अयं ऊर्ध्वो लोको ऽर्वाङ् असाव् अमुतः। सम् इति च वा इदम् अन्तरिक्षं वीति च। संजग्मानो अबिभ्युषा मन्दू समानवर्चसेति। समानं वै तृतीयं च चतुर्थं चाहनी। तृतीयाद् वा अह्नश् चतुर्थम् अहः प्रजातम्। आद् अह स्वधाम् अनु पुनर् गर्भत्वम् एरिर इति पुनर् एवैतत् तृतीय ऽहनि गर्भत्वम् एरयन्ते चतुर्थस्याह्नः प्रजात्यै।
दधाना नाम यज्ञियम्।
वीळु चिद् आरुजत्नुभिर् गुहा चिद् इन्द्र वह्निभिः।
अविन्द उस्रिया अनु॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः

3.39

ता हुवे ययोर् इदम् इत्य् ऐन्द्राग्नं भवति। वाचम् एवैतद् यज्ञम् ऊहिषीमन्त त उपह्वयन्ते पप्ने विश्वं पुरा कृतम् इति। पुरेव ह्य् एतद् एतर्हि कृतं भवति।
इन्द्राग्नी न मर्धतः।
उग्रा विघनिना मृध
इति। वीति भवत्य् अन्तरिक्षस्य रूपम् अन्तरिक्षभाजनम् एतद् अहः।
हथो वृत्राण्य् आर्या हथो दासानि सत्पती।
हथो विश्वा अप द्विषः॥
इति वार्त्रघ्नं भवत्य् अन्ततो विजित्यै। एतेन वै त्र्यहेण देवा अग्रे व्यजयन्त। तद् यद् एतद् वार्त्रघ्नम् अन्तत आज्यं क्रियते, विजित्या एव भ्रातृव्यस्यैव वधाय। विजयते, हन्ति द्विषन्तं भ्रातृव्यं, य एवं वेद। सप्तदश स्तोमो भवति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एवैतत् प्रतितिष्ठन्तो यन्ति

3.40

उच्चा ते जातम् अन्धसेति। माध्यन्दिनस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्धयै। दिवि सद् भूम्य् आ दद इति द्यावापृथिवीया भवन्ति। अ - प्रतिष्ठितम् इव वा एतद् अहर् यद् वैरूपम्। तद् यद् एता द्यावापृथिवीया भवन्त्य् अहर् एवैताभिः प्रतिष्ठापयन्ति। स न इन्द्राय यज्यवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। एना विश्वान्य् अर्य आ इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ वैष्टम्भम्। ऊर्ध्वा वै देवा स्वर्गं लोकम् उदक्रामन्। ते दिशो नापश्यन्। ते ऽकामयन्त दिशः पश्येमेति। त एते सामनी अपश्यन्। ताभ्याम् अस्तुवत। ततो दिशो ऽपश्यन्। तास्व् आक्रमन्त। तास् सम् इवाप्लीयन्त। ता एताभ्यां निधनाभ्यां यथा चर्म कुशीभ्याम् अन्वस्येद् एवम् एवाभ्याम् अन्वास्यन्। ता अध्रियन्त। तद् यद् एते सामनी भवतो दिशाम् एव धृत्यै स्वर्गस्य च लोकस्योज्जित्यै। दिशो वा एतद् अहर्, दिश एते सामनी। तद् यद् एते सामनी एतस्मिन्न् अहनि क्रियेते, दिश एवैतत् प्रत्यक्षम् आरभन्ते। अभि सोमास आयव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः

3.41

यद् यद् वै देवा यज्ञे ऽकुर्वत, तत् तद् व् एवासुरा अन्वकुर्वत। ते देवा अब्रुवन् - यद् यद् वाव वयं यज्ञे कुर्महे, तत् तन् नो ऽसुरा अनुकुर्वते। एतेमं त्रयं वेदं गाथया संसृजामेति। ते त्रयं वेदं गाथया संयुक्तं न्यास्यन्। तम् असुरा अब्रुवन् - न वा अयम् अभूद् यं गाथया समस्राक्षुः। एतेमं जहामेति। तम् अजहुः। तस्माद् धीनाद् देवा एतं गाथायै रसं प्रावृहन्त। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहन्त, तत् प्रगाथस्य प्रगाथत्वम्। स हैष रस एव प्रवृढः। रसेन हास्य स्तुतं भवति य एवं विद्वान् प्रगाथेन स्तुते। अथ ह वा अग्र ऋक् च गाथा च सदृश्याव् एवासतुर्, तान्यान्याम् अति। ते आजिम् ऐताम्। सैतम् ऋग् गाथायै रसं प्रावृहत। स एष प्रगाथो ऽभवत्। तद् यद् गाथायै रसं प्रावृहत, तद् व् एव प्रगाथस्य प्रगाथत्वम्। स हैष् रस एव प्रवृढः। रसेन हास्य स्तुतं भवति य एवं विद्वान् प्रगाथेन स्तुते

3.42

तस्मिन्न् उ ह देवा विराजम् अन्नाद्यं ददृशुर् मिथुनं प्रजननम्। तद् यच् चतुष्पदा प्रथमा भवति त्रिपदे उत्तरे द्वे, तानि दश पदानि संपद्यन्ते। दशाक्षरा विराड्, अन्नं विराट्। एतां ह तद् ददृशुः। अथ यद् बृहतीति पूर्वाम् आचक्षते प्रगाथ इत्य् उत्तरे तद् उ मिथुनं प्रजननम्। तस्मिन्न् उ हैव वसिष्ठो विराजम् अन्नाद्यं ददर्शाचतुरं मिथुनं प्रजननम्। तद् यच् चतुष्पदा प्रथमा भवति द्विपद उत्तरास् तिस्रस् तानि दश पदानि संपद्यन्ते। दशाक्षरा विराड्, अन्नं विराट्। एतां ह तद् ददर्श। एकेति तद् एका, द्वे इति तत् तिस्रस्, तिस्र इति तत् षट्, चतस्र इति तद् दश। सो एव विराट्। एक इत्य एकेति, द्वाव् इति द्वे इति, त्रय इति तिस्र इति, चत्वार इति चतस्र इत्य्, एतद् वा आचतुरं मिथुनं प्रजननम्। प्र मिथुनेन जायते य एवं वेद

3.43

तासु पौरुमुद्गम्। इळावान् पवमानः पौरुमुद्गेन क्रियते। पुरुमुद्ग आंगिरसः पशु - कामस् तपो ऽतप्यत। स एतत सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुरुमुद्ग आङ्गिरसो ऽपश्यत् तस्मात् पौरुमुद्गम् इत्य् आख्यायते। देवाश् च वा असुराश् चाधि समुद्रम् अस्पर्धन्त। ते देवा अकामयन्त पूर्व एवासुरान् समुद्रे मज्जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुरान् पूर्वे ऽमज्जयन्। तद् यत् पूर्वे ऽमज्जयंस् तद् व् एव पौरुमुद्गस्य पौरुमुद्गत्वम्। पूर्व एव द्विषन्तं भ्रातृव्यं मज्जयति य एवं वेद। तेषाम् उ यो य एवोदमज्जत् तस्यैतेनैव साम्ना प्राघ्नन्। तद् उ भ्रातृव्यहा। कस्माद् एतत् सामाहू रक्षोहेति। रक्षांसीव वा एतत् तान् अघ्नन्। हन्ति द्विषन्तं भ्रातृव्यम्, अव रक्षः पाप्मानं हते य एवं वेद

3.44

अथ गौतमम्। उभौ वर्णौ समृद्धयै बार्हतं प्रस्तावेन राथन्तरम् ऊर्ध्वम्। गोतमो वै राहूगणो ऽकामयत सातसनि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स सातसनिर् अभवत्। सातसनयो ऽसामेति सत्रम् आसते। सातसनय एव भवन्ति। तद् ये च ह वै गोतमाद् ऋषयः पराञ्चो ये चार्वाञ्चस् ते गोतमम् एवर्षिम् उभय उपासते। एतं हि स महिमानम् अपश्यत्। ये च हास्मात् पराञ्चः पितरो भवन्ति, ये चार्वाञ्चस् त एनम् उभय उपासते य एवं वेद। यद् उ गोतमो राहूगणो ऽपश्यत् तस्माद् गौतमम् इत्य् आख्यायते

3.45

अथान्तरिक्षम्। देवान् वा अन्तरिक्षं परेतान् असुरा अविध्यन्। ते ऽकामयन्तान्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहन्। तद् एवान्तरिक्षस्यान्तरिक्षत्वम्। तद् एतद् विजिति स्वर्ग्यं साम। विजयते गच्छति स्वर्गं य एवं वेद। अन्तरिक्षं वा एतद् अहः। लेलेव वा अन्तरिक्षम् तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तस्योभयतः पदं परिष्टोभत्य् अन्तरिक्षस्य रूपम्। उभयत इव हीदम् अन्तरिक्षं परिष्टुब्धम् आभ्यां लोकाभ्याम्। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। अन्तरिक्षं वा एतद् अहर्, अन्तरिक्षम् एतत् साम। अहर् एवैतेन रोहति तुष्टुवानः। यद् उ देवा एतेन साम्नान्तरिक्षाद् एवान्तरिक्षेण विजित्य स्वर्गं लोकम् आरोहंस् तस्माद् अन्तरिक्षम् इत्य् आख्यायते

3.46

अथ काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत - प्रति - तिष्ठेयम् इति। स एतत् सामापश्यत्। तस्य निधनं नापश्यत्। स वृषदंशस्य क्ष्वत उपाशृणोत्। तद् अपश्यत्। तेनास्तुत। ततो वै स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा - साम। प्रतितिष्ठति य एवं वेद। यद् उ कण्वो नार्षदो ऽपश्यत् तस्मात् काण्वम् इत्य् आख्यायते। तिस्रो वाच ईरयति प्र वह्निर् इति त्रिष्टुभो ऽन्त्या भवन्ति तृतीयस्याह्नो रूपम्। तेनै (व) त्रीण्य् अहानि कल्पन्ते।
ऋतस्य धीति ब्रह्मणो मनीषाम्।
गावो यन्ति गोपतिं पृष्छमानास् सोमं यन्ति मतयो वावशानाः॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः

3.47

तासु संक्रोशः। संक्रोशेन वै देवास् संक्रोशमाना स्वर्गं लोकम् आयन्। यत् संक्रोशमाना स्वर्गं लोकम् आयंस् तत् संक्रोशस्य संक्रोशत्वम्। तद् एतत् स्वर्ग्यं साम। संक्रोशमान एवैतेन स्वर्गं लोकम् एति य एवं वेद। तद् व एवाचक्षते ऽङ्गिरसां संक्रोश इति। अंगिरसो वा अकामयन्त - संविदाना एव संक्रोशमाना स्वर्गं लोकम् इयामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते संविदाना एव संक्रोशमाना स्वर्गं लोकम् आयन्। यत् संक्रोशमाना स्वर्गं लोकम् आयंस् तद् व् एव संक्रोशस्य संकोशत्वम्। तद् एतत् स्वर्ग्यं साम। संविदान एवैतेन संक्रोशमान स्वर्गं लोकम् एति य एवं वेद। तच् छ्रीर् वै स्वर्गो लोकः। अश्नुते श्रियं, गच्छति स्वर्गं लोकं, य एवं वेद। यद् व् अङ्गिरसो ऽपश्यंस् तस्माद् अङ्गिरसां संक्रोश इत्य आख्यायते। हूतिश् च ह खलु वा एते सामनी प्रतिश्रुतिश् च हे ये हो वा हा हो इत्य् एवानेनाङ्गिरसो ऽह्वयन्। हा वा ओ वा इत्य् एतेन प्रत्यशृण्वन्। ते ह वा एते सामनी हूतिश् चैव प्रतिश्रुतिश् च, स्वर्ग्यं, स्वर्गस्य लोकस्य समष्टयै

3.48

यद् द्याव इन्द्र ते शतं शतं भूमीर् उत स्युः।
न त्वा वज्रिन् सहस्रं सूर्या अनु
इति यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। न जातम् अष्ट रोदसी इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। आ पप्राथ महिना वृष्ण्या वृषन् विश्वा शविष्ठ शवसेति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अस्मे अव मघवन् गोमति व्रजे वज्रिञ् चित्राभिर् ऊतिभिर् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। तासु वैरूपम्। संवत्सरो वै विरूपो, विरूपा ऋतवो, विरूपा अर्धमासाः। तद् यत् पञ्चनिधनं पञ्च ह्य् ऋतवो, यद् द्वादशनिधनं द्वादश हि मासा, यद् दिग्वद् आक्रमणवत् तेन, यद् विश्ववद् वैश्वदेवं ह्य् एतद् अहः। प्रजननं वा एतद् वैरूपम्। तद् यत् तृतीये ऽहन् क्रियते चतुर्थस्याह्नः प्रजात्यै। यद् देवा अभवंस् तद् असुरा अभवन्। ते देवा अश्वा अभवंस्, तद् असुरा नान्ववायन्। ततो वै देवा अभवन्, परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद

3.49

तद् यद् अश्ववद् भवति भ्रातृव्यस्यैवापनुत्त्यै। अध्यर्धेळा तृतीयस्याह्नो ऽध्यर्धेळा पञ्चमस्य। स यथा मण्डूक इट्कुर्याद् एवम् अत्रेट्कुर्यात्। तेनैव पञ्चमम् अहर् अयातयाम क्रियते। सर्वा वै वाक् तृतीये ऽहन्न् आप्यते। तद् यद् एते वृकणावा भवन्त्य् उभय्या एव वाच उपाप्त्यै, या च ग्राम्या या चारण्या। पञ्चनिधनं तु कार्यतरम्। भूयः प्रजननं, प्रजननस् संवत्सरः, प्रजनना ऋतवः, प्रजनना। अर्धमासा, अथेतरद् एकप्रजननं मासा एव। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। वयं घ त्वा सुतावन्त इति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय

3.50

तासु वैष्टम्भम्। वैष्टम्भेन वै देवा असुरान् एभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रम् आसत। वैष्टम्भेनैव द्विषन्तं भ्रातृव्यम् एभ्यो लोकेभ्यो निष्टभ्य स्व आयतने सत्रम् आस्ते य एवं वेद। नैष्टम्भं ह वै नामैतत्। तद् वैष्टम्भम् इत्य् आख्यायते। उदरं वा एतद् अहः। अन्नम् एतद् यद् वैष्टम्भम्। तद् यद् अत्र वैष्टम्भं क्रियते मध्यत एवैतद् आत्मनो ऽन्नाद्यं दधते। तस्माद् उ हेदं पुरुषो ऽन्नेन विष्टब्ध इव। तरणिर् इत् सिषासतीति प्रज्ञाता स्तोत्रिया भवन्ति। तासु रौरवं त्रिरूपं त्रिपरिष्टोभं तृतीयस्याह्नो रूपम्। अग्निर् वै रुरू, रुद्रो ऽग्निः। यस्मात् पशवो ऽपक्रामन्त्य् अग्निर् एव तस्मात् पशून् अपक्रमयति। अथ यं पशव उपनमन्त्य् अग्निर् एव तस्मै पशून् उपनमयति। आग्नेयास् सत्रिण स्वैवैभ्यो देवता पशून् अवरुन्द्धे। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.51

तिस्रो वाच उद् ईरत इत्य् आर्भवस्य पवमानस्य गायत्र्यो भवन्ति तृतीयस्याह्नो रूपम्। तेनैव त्रीण्य् अहानि कल्पन्ते।
गावो मिमन्ति धेनवः।
हरिर् एति कनिक्रदत्॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो ह्य् एतद् अहः। अभि ब्रह्मीर् अनूषतेत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। राये समुद्रांश् चतुर इति चतुर्थस्यैवाह्नः प्रजात्यै। अस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। आ पवस्व सहस्रिण इति यद् वै शतवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। अथ पाष्ठौहम्। पाष्ठौहीर् आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतद् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ पाष्ठौहीर् आङ्गिरसो ऽपश्यत् तस्मात् पाष्ठौहम् इत्य् आख्यायते। हूतिश् च ह खलु वा एते सामनी प्रतिश्रुतिश् च - हो ये हो वा हा हो इत्य् एवैतेनाङ्गिरसो ऽह्वयन्। हा ओ वा ओ वा इत्य् अनेन प्रत्यशृण्वन्। ते ह वा एते सामनी हूतिश् चैव प्रतिश्रुतिश् च, स्वर्ग्ये, स्वर्गस्य लोकस्य समष्ट्यै। आ सोता परि षिञ्चतेति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः

3.52

तासु वाचस्साम। निष्कर्या देवास् सत्रम् आसते। ते स्वर्गं लोकं न प्रजानन्न् एतत् तृतीयम् अहः। ते ऽकामयन्त प्र स्वर्गं लोकं जानीयामेदं तृतीयम् अहर् इति। तान् वाक्साम गायमानोपाप्लवत। तद् अपश्यन्। तेनास्तुवत। तेनार्ध्नुवन्। तेन स्वर्गं लोकं प्रजानन्न् एतत् तृतीयम् अहः। तद् एतद् ऋद्धि स्वर्ग्यं साम। ऋध्नोति, गच्छति स्वर्गं लोकं य एवं वेद। यद् ध वै शिवं शान्तं वाचस् तत् साम। सामन् वदतीति वा आहुः। साधु वदन्तं तद् यद् एतत् साम भवति शिवेनैवैतद् वाचश् शान्तेन त्र्यहं शमयन्ति। यद् उ वाक्साम गायमानोपाप्लवत् तस्माद् वाचस्सामेत्य् आख्यायते। सखाय आ नि षीदत पुनानाय प्र गायतेति प्रवतीः परिवतीर् भवन्ति। तद् यत् प्रवतीर् भवन्ति चतुर्थस्यैवाह्नः प्रजात्यै। अथ यत् परिवतीर् अन्तस्य रूपम् - अन्तो ह्य् एतद् अहर् - यो ऽन्तस् सो ऽन्तो ऽसद् इति। परि परीति वा अन्तं पर्यन्ति

3.53

तासु शौक्तुम्। अङ्गिरसो वै तपस् तेपाना अशोचन्। ते ऽकामयन्ताप शुचं हनीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेन शुचम् अपाघ्नत। तद् यच् छुचम् अपाघ्नत तच् छौक्तस्य शौक्तत्वम्। अप शुचं हते य एवं वेद। शुक्तिर् आंगिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वर्गं लोकम् आश्नुत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ शुक्तिर् आङ्गिरसो ऽपश्यत् तस्माच् छौक्तम् इत्य् आख्यायते। सुतासो मधुमत्तमास् सोमा इन्द्राय मन्दिन इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति। पवित्रवन्तो अक्षरन् देवान् गच्छन्तु वो मदा इत्य् अभिपूर्वम् एवास्मिंस् तद् रसं मदं दधति।
इन्दुर् इन्द्राय पवत इति देवासो अब्रुवन्।
वाचस् पतिर् मखस्यते विश्वस्येशान ओजसा॥
इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। सहस्रधारः पवते समुद्रो वाचमीङ्खय इति यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः

3.54

तासु गौरिवीतम् उक्तब्राह्मणम्। अथ त्वाष्ट्रीसाम वीरजननं साम। अस्य वीरो जायते य एवं वेद। अथो चतुर्थस्यैवाह्नः प्रजात्यै। प्रजननं ह्य् एतद् यत् त्वाष्ट्रीसाम। तन् मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। यद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तद् उ निषिद्धम् इव भवत्य् अन्तस्य रूपम्। अन्तो वै स्वर्गो लोकानाम्। स्वर्गायैतल् लोकायाह्रियते यत् तृतीयम् अहः। तद् यद् एतन् निषिद्धम् इव भवति स्वर्गस्यैव लोकस्यानतिपादाय। पवित्रं ते विततं ब्रह्मणस् पत इति पवित्रवतीर् भवन्ति। पवित्रम् इव वा इदं विततं यद् अन्तरिक्षम्। अन्तरिक्षभाजनम् एतद् अहः। प्रभुर् गात्राणि पर्य् एषि विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। अतप्ततनूर् न तद् आमो अश्नुते शृतास इद् वहन्तस् सं तद् आशतेति समष्टयै।
तपोष् पवित्रं विततं दिवस् पदे शोचन्तो अस्य तन्तवो व्य् अस्थिरन्।
अवन्त्य् अस्य पवितारम् आशवो दिवः पृष्ठम् अधि तिष्ठन्ति तेजसा॥
इति स्वर्गस्यैव लोकस्य समष्टयै।
अरूरुचद् उषसः पृश्निर् अग्रिय उक्षा मिमाति भुवनेषु वाजयुः।
मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भम् आ दधुः॥
इति पुनर् एवैतत् तृतीये ऽहनि गर्भम् आदधति चतुर्थस्यैवाह्नः प्रजात्यै

3.55

तास्व् अरिष्टं यज्ञस्यैवारिष्टयै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतद् अरिष्टयै। अरिष्टो ह वा एतेन यज्ञः। देवा वा एतं द्वादशरात्रम् अतन्वत। तेषां यद् यद् अरिष्यत् तद् अरिष्टेनारिष्टम् अकुर्वत। तद् अरिष्टस्यारिष्टत्वम्। अरिष्टेन द्वादशरात्रेण पाप्मानं तरति श्रियम् अश्नुते य एवं वेद। तत् त्रीळं भवति - पशवो वा इळा। पशव एतद् अहर् - अभिपूर्वाणाम् एव पशूनाम् अवरुद्धयै। भेषजं ह खलु वै तिस्र इळाः। एतद् ध वै शिवं शान्तं वाचो यत् तिस्र इळाः। तद् यत् त्रीळं तृतीये ऽहनि भवति तेनैव त्रीण्य् अहानि शमयन्ति। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। प्र मंहिष्ठाय गायतेति प्रमंहिष्ठीयम् उक्तब्राह्मणम्। तं ते मदं गृणीमसीति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति। तासु हारिवर्णम् उक्तब्राह्मणम्। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशव उष्णिग् - अभिपूर्वाणाम् एव पशूनाम् अवरुद्धयै

3.56

श्रुधी हवं तिरश्च्या इति तैरश्चम्। ऊर्ध्वान् वा अन्ये लोकान् देवाश् चर्षयश् चाजयन्। अथ तिरश्चिर् आंगिरसो ऽकामयत - तिरश्चो ऽहं लोकाञ् जयेयं, येनेमा आप स्यन्दन्ते, येनायं वायुः पवते, येनासाव् आदित्य एति, येन चन्द्रमा येन नक्षत्राणीति। स एतत् सामापश्यत्। तेनास्तुत। तेन तिरश्चो लोकान् अजयद्, येनेमा आप स्यन्दन्ते, येनायं वायुः पवते, येनासाव् आदित्य एति, येन चन्द्रमा येन नक्षत्राणि। ऊर्ध्वान् ह वा अन्यैः कर्मभिर् लोकाञ् जयन्ति। अथैतेन तिरश्च उभयान् लोकान् सध्रीचः। जयति तिरश्चश् चोर्ध्वांश् च य एवं वेद। तिरश्चिर् हांगिरसश् चकमे - ऽव वीरांश् च पशूंश् च रुन्धीयेति। स एतत् सामापश्यत्। तेनास्तुत।
श्रुधी हवं तिरश्च्या इन्द्र यस् त्वा सर्पयति।
सुवीर्यस्य गोमतो रायस् पूर्धि महं असि॥
इत्य् एव वीरांश् च पशूंश् चावरुन्द्धे। तद् उ वीराणां च पशूनां चावरुद्धिः। अव वीरांश् च पशूंश च रुन्द्धे य एवं वेद। यद् उ तिरश्चिर् आंगिरसो ऽपश्यत् तस्मात् तैरश्चम् इत्य् आख्यायते। देवान् वै स्वर्गं लोकं यतो रक्षांस्य् अन्वसचन्त। ते ऽकामयन्ताप रक्षांसि हनीमहीति। त एतत् सामापश्यन्। तद् देवपुराम् एव कृत्वा तिर्यक् पर्यौहन्। तेन रक्षांस्य् अपाघ्नत। तद् उ रक्षसाम् अपहतिः। अप रक्षः पाप्मानं हते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.57

यदाप्यते यज्ञ, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त इमे लोका, अथ केन चतुर्थम् अहस् तायत् इत्य् आहुः। वाचैवेति ब्रूयात्। वाग् एव तत् उच्छिष्यते ऽक्षरम् एव त्र्यक्षरं परिशिष्यते। तद् एवोत्तरं त्र्यहम् अनुविदधाति। यद् आहाप्यते यज्ञ इति - प्रातस्सवनभाजनं प्रथमम् अहर्, माध्यन्दिनभाजनं द्वितीयं, तृतीयसवनभाजनं तृतीयं - तेन यज्ञ आप्यते। यद् आहाप्यन्ते छन्दांसीति - गायत्रं प्रातस्सवनं, त्रैष्टुभं माध्यन्दिनं सवनं, जागतं तृतीयसवनं - तेन छन्दांस्य् आप्यन्ते। यद् आहाप्यन्ते देवता इति - वसूनां प्रातस्सवनं, रुद्राणां माध्यन्दिनं सवनम्, आदित्यानां तृतीयसवनं - तेन देवता आप्यन्ते। यद् आहाप्यन्त इमे लोका इति - इदं प्रातस्सवनम्, इदं माध्यन्दिनं सवनम्, अदस् तृतीयसवनं - तेनेमे लोका आप्यन्ते। अक्षरम् एव त्र्यक्षरं परिशिष्यते। तद् एवोत्तरं त्र्यहम् अनुविदधाति। यो वै चतुर्थे ऽहनीन्द्रं वेदेन्द्रियावान् भवति। वाग् वाव चतुर्थे ऽहनीन्द्रः। इन्द्रियावान् भवति य एवं वेद

3.58

एता भवन्ति प्र त आश्विनीः पवमान धेनव इति प्रवतीः प्रायणीये ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। दिव्या असृग्रन् पयसा धरीमणीति विराजाम् एवैतद् रूपम् उपगच्छन्ति। वैराजं ह्य् एतद् अहः। प्रान्तरिक्षात् स्थावरीस् ते असृक्षतेत्य् अन्तरिक्षवतीर् भवन्ति। अन्तरिक्षभाजनं वै तृतीयम् अहः। तृतीयाद् अह्न एतत् प्रजातम्। ये त्वा मृजन्त्य ऋषिषाण वेधस इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। उभयतः पवमानस्य रश्मय इत्य् उभाभ्यां ह वा एतत् त्र्यहाभ्यां प्रजनयन्ति। प्रैव पूर्वस्माज् जनयन्ति, तन्वत उत्तरस्मात्। ध्रुवस्य सतः पर्यन्ति केतव इत्य् अहर् वै ध्रुवं छन्दांसि केतवः। स यथा श्रान्तान् अनडुह ऊर्ध्वांस् तान् द्विपरिणायं धुरि युञ्ज्युर् एवम् एवैतद् द्विपरिणायं छन्दांसि युञ्जन्त्य् आप्तेष्व् अहस्सु। यदि पवित्रे अधि मृज्यते हरिर् इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना। सत्ता नि योनौ कलशेषु सीदतीति सोमम् एवैतत् प्रत्यक्षम् अनुवदन्ति। विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोष् टे सतः पर्यन्ति केतव इत्य् अग्निर् ह वा इमान् लोकान् अनु प्रभुः। तम् एवैतत् प्रातस्सवनात् प्रजनयन्ति। तं प्रजातं माध्यन्दिने सवने मन्थन्ति। व्यानशी पवसे सोम धर्मणा पतिर् विश्वस्य भुवनस्य राजसीति स ह्य् अस्य विश्वस्य भुवनस्य राजति

3.59

ता एता भवन्ति जगत्यो गायत्रवर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्र ऋध्यते। सम् अस्मा ऋध्यते य एवं वेद। एतस्य ह वै सन्धेर् अर्पणं न ददृशे। जगदन्तः पूर्वस् त्रियहो भवति। जगत्यैतद् अहः प्रतिपद्यन्ते। समाद् एवैतत् समम् उपयन्ति। यो वै स्तोम चतुर्युजं वेद वहन्त्य् एनं चतस्रस् संयुक्ताः। जगदन्तः पूर्वस् त्रियहो भवति। जगत्यैतद् अहः प्रतिपद्यन्ते। स यथा प्रष्टि प्रष्टियुगाय नियुज्याद् एवम् एवैतत् पूर्वस्मिंस् त्रियह उत्तरं त्र्यहम् अनुनियुनक्ति। वहन्त्य् एनं चतस्रस् संयुक्ता य एवं वेद। यो ह खलु वै व्यूढच्छन्दास् स समूढच्छन्दा, यस् समूढच्छन्दास् स व्यूढच्छन्दाः। जगदन्तः पूर्वस् त्रियहो भवति। जगत्यैतद् अहः प्रतिपद्यन्ते। समाद् एवैतत् समम् उपयन्ति। त्रिष्टुबन्तो द्वितीयस् त्र्यहो भवति। त्रिष्टुभा तृतीयं त्रियहं प्रतिपद्यन्ते। समाद् एवैतत् समं संक्रामन्ति यत्रान्तस् तृतीयस् त्रियहो भवति। गायत्र्या दशमम् अहः प्रतिपद्यन्ते। समाद् एवैतत् समं संक्रामन्तो यन्ति। एष ह वाव समूढच्छन्दाः। पवमानो अजीजनद् इति जनद्वान् अनुरूपो भवति। षोडशिनम् एवैतत् प्रातस्सवनात् प्रजनयन्ति। तं प्रजातं तृतीयसवन आरभन्ते। तद् आहुर् अह्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेण साम्न इति स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो, ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति

3.60

दिवश् चित्रं न तन्यतुं ज्योतिर् वैश्वानरं बृहद् इति बृहतो रूपम् उपगच्छन्ति। बार्हतं ह्य् एतद् अहः। पवमानस्य ते रसः, पवमान रसस् तवेति समानम् अनुतुदति वैराजरूपम्। अनुतुन्नं हि वैराजस्य रूपम्। प्र यद् गावो न भूर्णय इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। त्वेषा अयासो अक्रमुर् घ्नन्तः कृष्णाम् अप त्वचम् इति पाप्मा वै कृष्णा त्वक्। ताम् एवैतेनापघ्नते। सुवितस्य वनामहे अति सेतुं दुराय्यम् इति पूर्वो ह वै त्रियहस् सेतुर् दुराय्यस् तम् एवैतेनातितरन्ति।
शृण्वे वृष्टेर् इव स्वनः पवमानस्य शुष्मिणः।
चरन्ति विद्युतो दिवि॥
इति बृहतो रूपम् उपगच्छन्ति। बार्हतम् ह्य् एतद् अहः।
आ पवस्व महीम् इषं गोमद् इन्दो हिरण्यवत्।
अश्ववत् सोम वीरवत्॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै।
पवस्व विश्वचर्षण आ मही रोदसी पृणा।
उषास् सूर्यो न रश्मिभिः॥
इति सूर्यवतीर् भवन्ति। सौर्यं ह्य् एतद् अहर् एकविंश प्रतिष्ठा वैराजम्।
परि नश् शर्मयन्त्या धारया सोम विश्वतः।
सरा रसेव विष्टपम्॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
आशुर् अर्ष बृहन्मते परि प्रियेण धाम्ना।
यत्र देवा इति ब्रुवन्॥
परिष्कृण्वन्न् अनिष्कृतम्
अयं स यो दिवस् परि
इति परिपरीति भवत्य् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः

3.61

षडृचं भवति - षड् वा ऋतव - ऋतूनाम् एवाप्त्यै। तद् आहुर् यत् षडृचं षष्ठस्याह्नो रूपम्, अथ कस्माच् चतुर्थे ऽहन् क्रियत इति। स ब्रूयात् षड् वा ऋतवस् संवत्सरस्, संवत्सरः प्रजापतिर् यज्ञः। संवत्सरम् एवैतेन प्रजापतिं यज्ञम् आप्त्वा सवनमुखे पुनर् आरभन्ते। आप्यत इव ह्य् एतद् यज्ञो यद् एष पूर्वस् त्र्यह आप्यत इति। उत्तरं षडृचं भवति। अभिपूर्वम् एवैतेन यज्ञम् आरभन्ते। हिन्वन्ति सूरम् उस्रय इति हिन्वन्तीव वै जातम्। जायत उ एतेनाह्ना। स्वसारो जामयस् पतिम् इतीमा ह वाव स्वसारः। इमा उ एव जामयः। महाम् इन्दुं महीयुव इतीमा ह वाव महीयुवः। ता एवैनम् एतद् धिन्वन्ति। पवमान रुचारुचेति रुक्मत् सौर्यरूपम् उपगच्छन्ति। सौर्यं ह्य् एतद् अहर् एकविंशं प्रतिष्ठा वैराजम्।
आ पवमान सुष्ठुतिं वृष्टिं देवेभ्यो दुवः।
इषे पवस्व संयतम्॥
इति पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। एकविंश स्तोमो भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। तास् संस्तुता द्वादश जगत्यो भवन्ति। ताश् चतुर्विंशतिर् गायत्र्यः। ता अष्टादशानुष्टुभः। आनुष्टुभम् एतद् अहः

3.62

जनस्य गोपा अजनिष्ट जागृविर् इत्य् आग्नेयम् आज्यं भवति जनद्वत्। एष ह वाव जनस्य गोपाः। तम् एवैतत् प्रातस्सवनात् प्रजनयन्ति। तं प्रज्ञातं माध्यन्दिने सवने मन्थन्ति। अग्निर् इति निर् एवैनं तद् आह। सुदक्षस् सुविताय नव्यस इति प्राणा वै दक्षः। प्राणान् एवास्मिंस् तद् दधति। घृतप्रतीक इत्य् - एतद् वा अग्नेः प्रियं धाम यद् घृतं - प्रियेणैवैनं तद् धाम्ना समर्धयन्ति। बृहता दिविस्पृशेति बृहतो रूपम् उपगच्छन्ति। बार्हतं ह्य् एतद् अहः। द्युमद् वि भाति भरतेभ्यश् शुचिर् इतीमा ह वै प्रजा भारतीस् - ताभ्य एवैतच् छुचिर् विभाति। अथो यद् एवैनेन भरता अग्र ईजिरे ऽथो यद् एवैष देवेभ्यो हव्यं वहति तस्माद् भारतः। त्वाम् अग्ने आंगिरसो गुहा हितम् इति त्वाम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। अन्व् अविन्दञ् छिश्रियाणां वनेवन इति वनेवन ह्य् एतं शिश्रियाणम् अन्वविन्दन्। स जायसे मथ्यमानस् सहो महद् इति प्रातस्सवनाद् ध वा एतम् अग्रे मन्थन्ति। तं प्रजातं माध्यंदिने सवने जनयन्ति। त्वाम् आहुस् सहसस् पुत्रम् अङ्गिर इति सहसेवं ह्य् एतं जनयन्ति। यज्ञस्य केतुम् इत्य् एष ह वाव यज्ञस्य केतुः। यत्र ह वै क्व च सूयते तद् एष एव पुरस्तात् केतुर् उच्छ्रियते

3.63

प्रथमः पुरोहितम् इति पुर एव वा एनम् एतद् दधते। यद् अग्निम् आदधते ऽग्निं नरस् त्रिषधस्थे सम् इन्धत इतीमा ह वै प्रजा नरः। ता एवैनम् एतत् समिन्धत। इन्द्रेण देवैस् सरथं स बर्हिषि सीदन् नि होता यजथाय सुक्रतुर् इति सर्वदेवत्यं भवति। सर्वदेवत्यं ह्य् एतद् अहर् आनुष्टुभम्। सर्वदेवत्यो वा अनुष्टुप्। अयं वां मित्रावरुणेति मैत्रावरुणं भवति। पुनःप्रोक्तिर् ह वा एषा हविषः। सं ह वा एतद् यज्ञस् तिष्ठते यद् एष पूर्वस् त्र्यह आप्यते। यन् नु वो परो यज्ञ इति ह वा एतद् देवेभ्यः प्राहुः। तस्माद् उ हैतद् द्वितीयं यजमान आज्यं कुर्वीत।
राजानाव् अनभिद्रुहा ध्रुवे सदस्य् उत्तमे।
सहस्रस्थूण आसाते॥
इति सहस्ररूपं विराजाम् उपगच्छन्ति। वैराजं ह्य् एतद् अहः। ता सम्राजा घृतासुती इति सम्राड्वतीर् भवन्ति। साम्राज्यम् इव ह्य् एतर्ह्य् अगच्छन्। इन्द्रो दधीचो अस्थाभिर् इत्य् ऐन्द्रं भवति

3.64

दध्यङ् ह वा आथर्वणस् तेजस्वी ब्रह्मवर्चस्य् आस। तं ह स्म यावन्तो ऽसुराः परापश्यन्ति ते ह स्म तद् एव विशीर्षाणश् शेरते। स उ ह स्वर्गं लोकम् उच्चक्राम। स हेन्द्रो ऽसुरैर् अभिबाढ उवाच क नु स दध्यङ्ङ् भवाद् इति। तस्मै होचु स्वर्गं वै भगवस् स लोकम् उदक्रामद् इति। स होवाच नैवास्येह किं चित् परिशिष्टम् अस्तीति। तस्मै होचुर् आसीद् एवेदम् अश्वशीर्षं येनाश्विभ्यां देववेदं प्राब्रवीत् तत् तु न विद्म यत्राभवद् इति। तद् वा अन्विच्छतेति। तद् धान्वीषुः।
इच्छन्न् अश्वस्य यच् छिरः पर्वतेष्व् अपश्रितम्।
तद् विदच् छर्यणावति॥
इति। शर्यणावद् ध नामैतत् कुरुक्षेत्रस्य जघनार्धे सरस्कम्। तद् एतद् अनु विद्याजह्रुः। तद् अस्मै प्रयच्छन्। तद् ध स्मासुराणां प्रकाशे धारयति। तं ह स्म यावन्तो ऽसुराः परापश्यन्ति। ते ह स्म तद् एव विशीर्षाणश् शेरते

3.65

स ह तैर् एवास्थिभिर् नव नवतीर् जघानासुराणाम्। तद् एतद् भ्रातृव्यहा विजितिः।
इन्द्रो दधीचो अस्थभिर् वृत्राण्य् अप्रतिष्कुतः।
जघान नवतीर् नव॥
इति। विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद।
अत्राह गोर् अमन्वत नाम त्वष्टुर् अपीच्यम्।
इत्था चन्द्रमसो गृहे॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। इयं वाम् अस्य मन्मन इत्य् ऐन्द्राग्नं भवति।
इन्द्राग्नी पूर्व्यस्तुतिः।
अभ्राद् वृष्टिर् इवाजनि॥
इति। अजनीति वा आहुर् जातम्। जायत उ एतेनाह्ना।
शृणुतं जरितुर् हवम् इन्द्राग्नी वनतं गिरः।
ईशाना पिप्यतं धियः॥
मा पापत्वाय नो नरेन्द्राग्नी माभिशस्तये।
मा नो रीरधतं निदे।
इति पाप्मन एवैषोपहतिः। एकविंश स्तोमो भवति। द्वादश मासाः, पञ्चर्तवस्, त्रय इमे लोका, असाव् आदित्य एकविंशः। एतस्य वा एते सलोकतां गच्छन्त्य् एतम् अभ्यारोहन्ति

3.66

पवस्व दक्षसाधन इति माध्यन्दिनस्य पवमानस्य दक्षवतीर् गायत्र्यो भवन्ति। अहर् एवैताभिर् दक्षयन्ति, छन्दांसि दक्षयन्ति, देवता दक्षयन्ति, षोडशिनं दक्षयन्ति। देवेभ्यः पीतये हरे मरुद्भ्यो वायवे मद इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। सं देवैश् शोभते वृषेति वृषेति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान धिया हितो ऽभि योनिं कनिक्रदद् इति योनिमतीर् भवन्ति। योनेर् वै प्रजाः पशवः प्रजायन्ते। जनद्वद् एतस्य वैराजस्याह्नो रूपम्। धर्मणा वायुम् आ रुहेति वायुमतीर् भवन्ति - वायुर् वै शान्तिश् - शान्त्या एवानिर्दाहाय। तासु गायत्रम् उक्तब्राह्मणम्। अथ चतुर्णिधनम् आथर्वणं चतुर्थस्याह्नो रूपम्। अथर्वाण उपरि श्येनं स्वर्गं लोकम् आयन्। ते तत्र न प्रत्यतिष्ठन्। ते ऽकामयन्त प्रति स्वर्गे लोके तिष्ठेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गे लोके प्रत्यष्ठिन्। तच् चतुर्निधनं भवति प्रतिष्ठायै। चतुष्पदीव प्रत्यतिष्ठाद् इति वा आहुः। सुप्रतिष्ठितं तद् एतत् स्वर्ग्यं प्रतिष्ठासाम। गच्छति स्वर्गं लोकं, प्रति स्वर्गे लोके तिष्ठति य एवं वेद। तद् उ भेषजम् एव प्रायश्चित्तिः। अथर्भम् इवै भेषजं कुर्वन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् अनुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। अनुतुन्नम् एवैतस्य वैराजस्याह्नो रूपम्। तेन वै रूपसमृद्धम्। यद् व् अथर्वाणो ऽपश्यंस् तस्माच् चतुर्णिधनम् आथर्वणम् इत्य् आख्यायते

3.67

अथ निधनकामं वैराजम्। एवम् इव वै विराट् नैव स्वारं नैव निधनवन् नैवैळं नैवर्क्समम्। तद् वाङ्निधनं भवति। वाग् वै विराड्, विराज एवारम्भाय। विराजम् एवैतेन प्रत्यक्षम् आरभन्ते। तस्य हैतस्य निधन एव कामाः। स यं कामं कामयेत तं ध्यायेद्, एतस्य निधनम् उपावयन्। स हैवास्मै कामस् समृध्यते। यद् व् अस्य निधने कामास् तस्मान् निधनकामं वैराजम् इत्य् आख्यायते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। एतत् सामापश्यन् तेनास्तुवत्। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तस्यैतद् एव निधनं यम् एतं वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति। तवाहं सोम रारणेति तवेति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
सख्य इन्द्रो दिवेदिवे।
पुरूणि बभ्रो नि चरन्ति माम् अव परिधींर् अति तं इहि॥
इत्य् अति ह्य् आयन्। तवाहं नक्तम् उत सोम ते दिवा दुहानो बभ्र ऊधनीतीमे ह वावोधनी। एते एवैतद् अभिवदत्य्, एते एवास्मै सर्वान् कामान् दुहाते। घृणा तपन्तम् अति सूर्यं पर इति सूर्यवतीर् भवन्ति। सौर्यं ह्य एतद् अहर् एकविंशं प्रतिष्ठा वैराजम्। शकुना इव पप्तिमेत्य् अति ह्य् अपतन्। तास्व् आष्टादंष्ट्रम् उक्तब्राह्मणम्। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपं समृद्धम्

3.68

अथाभीशवम् अभ्यारम्भो यज्ञस्य प्रत्यपसारो, ऽभ्य् एव पञ्चमम् अहर् आरभते प्रति तृतीयम् अपधावति। द्वादशाहेन वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवास्रंसत। त एते सामनी अपश्यन्। ताभ्याम् एनं यथाभीशुभ्यां रथं संगृह्यारोहेद् एवम् एवाभ्यां संगृह्य स्वर्गं लोकम् आरोहन्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा अभीशू वाव न इमे सामनी यज्ञस्याभूताम् इति। तद् एवाभीशवयोर् आभीशवत्वम्। ते एते स्वर्ग्ये सामनी। अश्नुते स्वर्गं लोकं य एवं वेद। तस्माद् उ हैते सामनी उभे कार्ये। यथा हैकाभीशुना यायाद् उभे एव कार्ये। अत्रान्यत् स्यान् नवमे ऽहन्न् अन्यतरत्। अभीशुर् वै श्यावाश्विर् अकामयत - देवा मे सोमस्य तृप्येयुर् इति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै तस्य देवास् सोमस्यातृप्यन्। तयोर् वा एतयोर् अस्त्य् अपसिद्धम् इव यथैव तर्पयेद् एवम्। ए ए इति वा अपसेधन्तस् संतर्पयन्ति। ते एते तृप्तिस्सामनी। तृप्यन्त्य् अस्य देवास् सोमस्य य एवं वेद। यद् व् अभीशुश् श्यावाश्विर् अपश्यत्, तस्माद् आभिशवे इत्य् आख्यायेते

3.69

अथ चतुर्णिधनम् आंगिरसं चतुर्थस्याह्नो रूपम्। अथो तेनैव चत्वार्य् अहानि कल्पन्ते। अंगिरसः पशुकामा स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। त एतां मध्य इळाम् उपेत्य स्वर्य् उपरिष्टाद् उपायन्। पशवो वा इळा स्वर्गो लोक स्वः। पशुषु वाव ते तद् आस्थाय स्वर्गं लोकं अगच्छन्। तद् एतत् पशव्यं स्वर्ग्यं साम। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद। यद् व् अंगिरसो ऽपश्यंस् तस्माच् चतुर्णिधनम् आंगिरसम् इत्य् आख्यायते। अथैता भवन्ति - पुनानो अक्रमीद् अभीत्य् अभ्यतिक्रामन्ति। आ योनिम् अरुणो रुहद् इति योनिमतीर् भवन्ति। योनेर् वै प्रजाः पशवः प्रजायन्ते। जनद्वद् एतस्य वैराजस्याह्नो रूपम्। गमद् इन्द्रो वृषा सुत इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। नू नो रयिं महाम् इन्दो ऽस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। तद् आहुर् यन्ति वा एते त्रिष्टुभः पवमानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। वृषण्वतीर् भवन्ति। वृषण्वद् वै त्रिष्टुभो रूपम्। तेन त्रिष्टुभः पवमानान्तान् न यन्ति। तासु सत्रासाहीयम् उक्तब्राह्मणम्। तद् उक्थसाम भवति - पशवो वा उक्थानि - पशूनाम् एवावरुद्धयै। तद् आहुर् उक्थसाम सत् पवमाने क्रियते कस्मात् तद् इति। प्रातस्सवनभाजनं प्रथमम् अहर्, माध्यन्दिनभाजनं द्वितीयं, तृतीयसवनभाजनं तृतीयम्। अथैतद् उक्थभाजनम्। तद् यद् अत्र सत्रासाहीयं क्रियते तेनैनद् उक्थेभ्यो न च्यावयन्ति। तद् एनत् स्वेनायतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथो पशवो वा उक्थान्य्, आत्मा मध्यन्दिनः। तद् यत् सत्रासाहीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति

3.70

प्रजननं वा एतद् यद् वैराजम्। तद् यन् मिथुनाभ्यां स्तोमाभ्याम् आरभते मिथुनस्यैव प्रजात्यै। त्रयः पूर्वे स्तोभाद् एव सत्यात् प्रजाः प्रजायान्ता इति, त्रय उत्तरे प्राणो ऽपानो व्यानः। त एव तेनोपधीयन्ते। त्रिः पदम् आह। मिथुनं द्वे संभवतः। यन् मिथुनात् प्रजायते तत् तृतीयम्। त्रिर् अनुतुदति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। दशकृत्वो विष्टभ्नोत्य्, अस्थान्य् एव तत् प्रतिवपति। नवोत्तरे स्तोभा निधनं दशमं - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्धयै। अग्निं मन्थन्ति। अग्निर् वै विराट्। विराजम् एव तद् अन्नाद्यं प्रजनयन्ति। हिंकृत्या प्रस्तुत्य मन्थन्ति। हिंकृताद् धि रेतो धीयते। अथो साम्न एवैतन् मध्यतो विराजम् अन्नाद्यं प्रजनयन्ति। उद्गातुर् ऊरौ मन्थन्ति, प्रस्तोतृप्रतिहर्तारौ धारयतो, विराजो ऽनवच्छेदाय। दक्षिण ऊरौ मन्थन्ति। तस्माद् एष पुरुषस्यार्धो वीर्यावत्तरः। शकले ऽधि मन्थन्ति शान्त्यै। अवकास्व् अधि मन्थन्त्य् अनतिदाहाय। तं जातम् आग्नीध्रं हरन्ति। अतो ह्य् अग्नीन् विहरन्ति। तद् उ वा आहुर् आहवनीयम् एव हार्यो यजमानो वा आहवनीयः प्रजैषा। यजमानम् एव तत् प्रजया समर्धयन्ति

3.71

तद् आहुर् अन्नाद्यं वा एतस्माद् धरन्ति यस्माद् अग्निं हरन्तीति। तम् अनुमन्त्रयेत -
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषायुषा।
पुनर् नः पाह्य् अंहसः॥
सह रय्या निवर्तस्वाग्ने पिन्वस्व धारया।
विश्वप्स्न्या विश्वतस् परि॥
इति पुनर् एवान्नाद्यम् आत्मन् धत्ते। येन प्रस्तौति तेन निधनम् उपयन्ति। तस्माद् असाव् आदित्य आ च परा च संचरति। यत एवाद्योदगात् तत श्व उदेता। अथ वामदेव्यम्। पशवो वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। विश्वाः पृतना अभिभूतरं नरस् सजूस् ततक्षुर् इन्द्रं जजनुश् च राजस इति जनद्वतीर् भवन्ति। जनद्वद् एतस्य वैराजस्याह्नो रूपम्

3.72

तासु त्रैशोकम्। व्यवप्लीनातीव वै वैराजं यज्ञम्। तं त्रैशोकेनोत्तभ्नुवन्ति वर्षीयसेव छन्दसा। इमे वै लोकास् सह सन्तस् त्रेधाप्यायन्। ते ऽशोचन् यथैकस् त्रेधा विच्छन्नश् शोचेद् एवम्। ते देवा अब्रुवन्न् एतेषां त्रयाणां लोकानां तिस्रश् शुचो ऽपहनामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनैषां त्रयाणां लोकानां तिस्रश् शुचो ऽपाघ्नन्। तद् यद् एषां त्रयाणां लोकानां तिस्रश् शुचो ऽपाघ्नंस् तत् त्रैशोकस्य त्रैशोकत्वम्। अप शुचं हते य एवं वेद। ताः क्लीबे कितवे पुंश्चल्यां न्यवेशयन्। तस्माद् एते शुचा विद्धाश् शोचन्ति। न हास्यैत आजायन्ते य एवं वेद। तस्माद् उ हैतेषां नो ऽप ब्रूवीत नेच् छुचो ऽपभजा इति। कण्वो वै नार्षदो ऽखगस्यासुरस्य दुहितरम् अविन्दत। तस्यां हास्य त्रिशोकनभाकौ पुत्रौ जज्ञाते। सा ह क्रुद्धा ज्ञातीन् आययौ। तां हान्वाजगाम। तं हासुरा अवलेपेनावलिम्पन्त ऊचुर् - अत्र व्युष्टां विजानीहि यदि ब्राह्मणो ऽसीति। तद् उ हाश्विनाव् अनुबुबुधाते। आश्विना उ ह वै देवानां बद्धमुचौ। तौ हैनम् अदृश्यमानाव् एत्योचतुर् - यदैव त्वावं वीणां समाघ्नन्ता उपर्य् उपर्य् अतिपतावो ऽथ व्युष्टां विजानीताद् इति। ते ह स्मेमे रात्रिम् उत्पतन्त्य् - उत्तिष्ठत, व्यापद् द्युर्, युङ्गध्वं सीराणीति। न वाव नु व्युच्छतीति ह स्माह। अथ हेमौ वीणां समाघ्नन्ता उपरय् उपर्य् अतिपेततुः। स होवाचापहरतेदम् एतर्हि व्यापद् द्युर्, युङ्गध्वं सीराणीति

3.73

ते होचुर् ब्राह्मणो वा अयम् ऋषिर् आसीत्। दुरपहरा वा अस्य जाया। हन्तास्मा इमां ददामेति। तां हास्मै ददुः। सा होवाच पुनर् वाव त्वा परोक्षेणेव जिघांसन्ति। अश्रौषं वा एषां संवदमानानाम्। आसन्दीं वै ते हिरण्मयीं प्रच्छाये निधास्यन्ति। तस्यां मोपवेशीर् इति। ते ह प्रययुः। तस्मै ह हिरण्मयीम् आसन्दीं प्रच्छायै निदधुः। तस्यां ह प्रमत्त उपविवेश। सा हैनं तद् एव शिला भूत्वाभि संविवेष्टे। तद् उ ह त्रिशोकनभाकौ पुत्राव् अनुबुबुधाते - ऽसुरा ह वै नौ पितरं शिलयाभिसमविवेष्टन्न् इति। ताव् आगच्छताम्। सो ऽकामयत नभाकः - प्रैनान् दम्भयेयम् इति। स एतन् नाभाकं सूक्तम् अपश्यत्। तेनैनाम् अभ्यष्टौत्। तस्यां पर्यदृश्यत -

3.74

यथा मणौ मणिसूत्रं परिदृश्येतैवम्। अथाकामयत त्रिशोको - व्य् एनाम् अस्येयम् इति। स एतत् सामापश्यत्। तेनैनां द्वेधा व्यास्यत्। तस्यै तान्तो निवर्तत। तम् अकामयत जीवेद् इति। तम् ओ यि जीवेत्य् एवाभ्यमृशत्। सो ऽजीवत्। तस्मै तम इवासीत्। सो ऽकामयत दिवेवास्मै स्याद् इति। तम् ओ यि दिवेत्य् एवाभ्यमृशत्। तस्मै दिवेवासात्। तम् अकामयत स्वर्गम् एवैनं लोकं गमयेयम् इति। तम् ओ यि दिवम् इत्य् एव स्वर्गं लोकम् अगमयत्। ययस् तान्त इव स्यात् तस्य ओ यि जीवेति निधनम् उपेयात्। अथ यस्मै तम इव स्यात् तस्य ओ यि दिवेति निधनम् उपेयात्। अथ य स्वर्गकाम स्यात् तस्य ओ यि दिवम् इत्य् एव निधनम् उपेयात्। एतानि वा एतस्य साम्नो निधनानि, एते कामाः। एतान् एव कामान् अवरुन्द्धे। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ त्रिशोको ऽपश्यत् तस्मात् त्रैशोकम् इत्य् आख्यायते

3.75

यो राजा चर्षणीनाम् इति राज्यम् इव ह्य् एतर्ह्य् अगच्छन्।
याता रथेभिर् अध्रिगुः।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे॥
इति ज्यैष्ठयम् इव ह्य् एतर्ह्य् अगच्छन्।
इन्द्रं तं शुम्भ पुरुहन्मन्न् अवसे यस्य द्विता विधर्तरि।
हस्तेन वज्रः प्रति धायि दर्शतो महान् देवो न सूर्यः॥
इति सूर्यवतीर् भवन्ति। सौर्यं ह्य् एतद् अहर् एकविंशम्। प्रतिष्ठा वैराजम्। तासु पृश्नि। वाग् वै पृश्नि। वाचम् एतेनाह्ना समिच्छन्ति। ताम् एवैतत् संविदन्ति। तद् व् एवाचक्षते भरद्वाजस्य पृश्नीति। भरद्वाजो वा अकामयत बहुः। प्रजया पशुभिः प्रजायत। सो ऽब्रवीत् पृश्निर् वै बहुः प्रजया पशुभिः प्राजनिषीति। तत् पृश्निनः पृश्नित्वम्। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। अथो ह स्मैतेनैव साम्ना भरद्वाजः पृश्न्य् अन्नाद्यम् अवरुन्द्धे। तद् व् अन्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे, ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ भरद्वाजो ऽपश्यत् तस्माद् भरद्वाजस्य पृश्नीत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.76

परि प्रिया दिवः कविर् इत्य् आर्भवस्य पवमानस्य परिवतीर् गायत्र्यो भवन्त्य् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः। प्रप्र क्षयाय पन्यस इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। स सूनुर् मातरा शुचिर् जातो जाते अरोचयद् इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथौर्णायवम्। ऊर्णायुर् वै गन्धर्वो ऽप्सरसो ऽकामयत। स एतत् सामापश्यत्। तेनास्तुत। तेन यां याम् अकामयत ताम ईयाम् इति यां याम् एवाभ्यमृशत् ताम् उपैत् ताम् अवारुन्द्ध। तद् एतत् कामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। यद् ऊर्णायुर् गन्धर्वो ऽपश्यत् तस्माद् और्णायवम् इत्य् आख्यायते

3.77

अङ्गिरस स्वर्गकामास् सत्रम् आसत। ते स्वर्गं लोकं न प्राजानन्। स श्वित्र आंगिरसस् समिद्धारः परैत्। तम् ऊर्णायुर् गन्धर्व एतेन साम्नोपरिष्टाद् अभ्यवपत्याब्रवीत् - साम वा इदं स्वर्ग्यं, तेन स्तुध्वं, तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्यथ। मम त्व् एव साम ब्रूतात्। यस् त्वा पृच्छेत् - कस् त इदम् अवोचद् इत्य्, ऊर्णायुर् मे ऽवोचद् इत्य् एव ब्रूतात्। मैव मद् अन्यस्य वोच इति। स पुनर् एत्याब्रवीत् - साम वा इदं स्वर्ग्यम्। तेन स्तवामहै। तेन स्तुत्वैव स्वर्गं लोकं प्रज्ञास्याम इति। तम् अब्रुवन् - कस् त इदम् अवोचद् इति। अहम् एवादर्शम् इत्य् अब्रवीत्। तेनास्तुवत। तेन स्तुत्वैव स्वर्गं लोकं प्रजानन्। तेषां स्वर्गं लोकं यतां सो ऽहीयत् अनृतं ह्य् अब्रवीत्, स एष श्वित्रो ऽभवत्। एते ह वा अहयो यच् छ्वित्राः। यद् अहीयत तद् अहीनाम् अहित्वम्। अथ हान्ये सर्पा एव। तस्माद् उ ह यस्माद् एवानुब्रवीत, तं ब्रूयाद् - अमुष्माद् अन्वोच इति। अथो ह सत्यम् एव विवदिषेत्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। त्वं ह्य अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति

3.78

तासु बृहत्कं बृहताम् एकम्। एतेन ह वा एतद् अहर् बार्हतं क्रियते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् बृहद् एव भूत्वा स्वर्गं लोकम् अवहत्। तेनाब्रुवन् स्वर्गं लोकं गत्वा - बृहद् वाव न इदं कम् अभूद् येन स्वर्गं लोकं व्यापामेति। तद् एव बृहत्कस्य बृहत्कत्वम्। तद् एतत स्वर्ग्यं साम। बृहद् अस्मै कं भवत्य्, अश्नुते स्वर्गं लोकं य एवं वेद।
सोमः पुनान ऊर्मिणा अव्यं वारं वि धावति।
अग्रे वाचः पवमानः कनिक्रदत्॥
इत्य् अग्रम् इव भवति। अग्रं ह्य् एतद् अहर् यद् बार्हतम्। धीभिर् मृजन्ति वाजिनम् इति मृजन्तीव वै जातम्। जायत उ एतेनाह्ना।
असर्जि कलशं अभि मीढ्वान् सप्तिर् न वाजयुः।
पुनानो वाचं जनयन्न् असिष्यदत्॥
इति जनद्वतीर् भवन्ति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। सवनात् सवनाद् ध वै षोडशिनं प्रजनयन्ति

3.79

तास्व् आतीषादीयम्। प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा अताम्यन्। सो ऽकामयत न म इमाः प्रजास् ताम्येयुर् इति। स एतत् सामापश्यत्। तेनैना अभ्यमृशत्। तास् समानम्। प्रेव मीयन्ते चतुर्थेनाह्नानुष्टुभं हि गच्छन्ति। अनुष्टुब् वै परा। परावत् सम् एवैतेनानन्ति। तस्माद् उ हैतस्य साम्न आतमितोर् निधनम् उपेयात् सर्वस्यायुषो ऽवरुद्ध्यै। तद् आहुर् अताम्यन्न् एवोपेयात्। यदा वै ताम्यत्य् अथ म्रियते। तस्माद् अताम्यन्न् एवोपेयाद् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् साद एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन्न् एति वै साद इति। यद् अब्रुवन्न् एति वै साद इति, तद् एतीषादीयस्येतीषादीयत्वम् । त उ स्वर्गं लोकं गत्वाब्रुवन्न् आत इव बत स्वर्गे लोके सदामेति। तद् व् एवातीषादीयस्यातीषादीयत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। अथैता भवन्ति पुरोजिती वो अन्धस इति विराजो ऽनुष्टुभो वैराजे ऽहन्, विराज एवान्नाद्यस्यावरुद्ध्यै। अथो यथान्यौ नवतरौ चक्राव् उपास्येद्, एवम् एवैताम् अनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति स्वर्गस्य लोकस्य समष्ट्यै

3.80

तासु नानदम्। नानदेन वा इन्द्रो वृत्रं नानद्यमानम् अहन्। यन् नानद्यमानम् अहंस् तन् नानदस्य नानदत्वम्। नानद्यमानम् एवैतेन द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद। तस्य षोडशभिर् अक्षरैः प्रस्तौति। षोडशिनम् एवैतेन प्रत्यक्षम् आरभन्ते। औपोदितिर् ह स्माह गौपालयो - विशालं लिबुजयाभ्यधात्। अनुष्टुभि नानदम् अकृद् गौरिवीतेन षोडशिनम् अतुष्टुवन्, न श्रियावपद्य इति। न ह वै श्रियावपद्यते य एवं वेद। तद् उ श्वस्तनवद् अपि प्रजया उपक्लृप्तम्। अधान्धीगवं वैराजं साम वैराजे ऽहन् क्रियते, वैराज एवान्नाद्यस्यावरुद्ध्यै। तस्यैतां दशाक्षरां विराजं मध्यत उपयन्ति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै।
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः।
जनिताग्नेर् जनिता सूर्यस्य जनितेन्द्र्स्य जनितोत विष्णोः॥
इति जनिता जनितेति भवति। षोडशिनम् एवैतत् तृतीयसवनात् प्रजनयन्ति। यथा बाधस्व बाधस्व जायस्व जायस्वेत्य् एवम् एवैतद् अभिपूर्वं तृतीयसवनात् षोडशिनं प्रजनयन्ति

3.81

तासु वात्सप्रम्। वत्सप्रियं वै भालन्दनं प्रतिसत्रिणो ऽबाधन्त् - स्तेनस् ते पितेति। सो ऽकामयत श्रद्धां विन्देयोप मां ह्वयेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स श्रद्धाम् उपहवम् अविन्दत। श्रद्धां विन्दामहा इति सत्रम् आसते। श्रद्धाम् एव विन्दन्ते। वैराजस्य ह खलु वा एतद् अनुरूपं साम। यथा ह वै वैराजस्य स्तोभाः पदवृत्तय एवं ह वै वात्सप्रस्य स्तोभाः पदवृत्तयः। प्रजा ह वा एषा वैराजस्य। आ हास्यानुरूपः प्रजायां जायते य एवं वेद। एतद् ध वा एनं तद् उपजुहुविरे - ऽनुरूपं वैराजस्यासृष्टेति। तद् अनुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। अनुतुन्नम् एतस्य वैराजस्याह्नो रूपम्। तेन वै रूपसमृद्धम्। यद् उ वत्सप्रीर् भालन्दनो ऽपश्यत् तस्माद् वात्सप्रम् इत्य् आख्यायते। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। अग्निं वो वृधन्तम् इति वृद्धं ह्य् एतद् अहर् यद् बार्हतम्

3.82

तासु सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचम् एतेनाह्ना समिच्छन्ति ताम् एवैतत् संविन्दन्ति। सिन्धुक्षिद् वै भारतो राजा ज्योग् अपरुद्धश्चरन् सो ऽकामयताव स्व ओकसि गच्छेयम् इति। सिन्धुं हैव चचार। सास्य सिन्धुक्षित्ता। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽव स्व ओकस्य् अगच्छत्। तद् एतत् सामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समर्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तद् उ श्रीर् एव राज्यम्। राज्यं वै स तद् अगच्छत्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ सिन्धुक्षिद् भारतो राजापश्यत् तस्मात् सैन्धुक्षितम् इत्य् आख्यायते। वयम् उ त्वाम् अपूर्व्येत्य् अपूर्वाम् इव ह्य् एतर्हि तन्वम् अगच्छन्। तासु सौभरं बृहतस् तेजः। व्यवप्लीनातीव वै वैराजं यज्ञम्। तत् सौभरेणोत्तभ्नुवन्ति बृहतस् तेजसा। तद् ऊकारणिधनं भवति। एतद् वै प्रत्यक्षं बृहतो रूपं यद् ऊकारो यद् ईकारः। तेन वै रूपसमृद्धम्। इमम् इन्द्र सुतं पिब ज्येष्ठम् अमर्त्यं मदम् इति ज्यैष्ठ्यम् इव ह्य् एतर्ह्य् अगच्छन्। अथो तृतीयसवन एवैतद् रसं मदं दधति

3.83

तासु वासिष्ठम्। वसिष्ठो वा अकामयत विराजं पश्येयं, ताम् अवरुन्धीयेति। स प्रस्तुवन्न् एवैतां दक्षाक्षरां विराजम् अपश्यत्। ताम् उपैत्, ताम् अवारुन्द्ध। तद् एतद् विराजो ऽन्नाद्यस्यावरुद्धिस् साम। अव विराजम् अन्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठम् इत्य् आख्यायते। तद् व् एवाचक्षते वसिष्ठस्यप्रियम् इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। सो ऽब्रवीत् प्रियं वावेदं ममाभूद् येन प्रियां प्रजाम् अवारुत्सीति। तद् एव प्रियस्य प्रियत्वम्। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते य एवं वेद। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्यप्रियम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति। अथ षोडशी। प्रातस्सवनभाजनं प्रथमम् अहर्, माध्यन्दिनभाजनं द्वितीयं, तृतीयसवनभाजनं तृतीयम्। अथैतद् उक्थभाजनम्। उक्थानां वा एष एको यत् षोडशी। तद् यद् अत्र षोडशी क्रियते स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति

3.84

गोवित् पवस्व वसुविद् धिरण्यविद् इति सिमानां रूपम्। करिष्यद् धरिवत् त्रैष्टुभं रूपम्। तस्माद् एतास् त्रैष्टुभे ऽहन् क्रियन्ते। रेतोधा इन्दो भुवनेष्व् अर्पित इत्य् ऋषभम् एवैतद् रेतोधां प्रातस्सवने महानाम्नीष्व् अपिसृजन्ति प्रजननाय। त्वं सुवीरो असि सोम विश्वविद् इति सिमानां रूपम्। तं त्वा विप्रा उप गिरेम आसत इति ब्राह्मणा ह वै विप्रास्, त एवैनं तद् गिरोपासते। त्वं नृचक्षा असि सोम विश्वत इति विश्वत इति सिमानां रूपम्। पवमान वृषभ ता वि धावसीत्य् ऋषभम् एवैतत् प्रातस्सवने महानाम्नीष्व् अपिसृजन्ति प्रजननाय। स नः पवस्य वसुमद् धिरण्यवद् इति पशवो वै वसु सुवर्णम्। असुवर्णम् इति वा आहुर् अपशुम्। पशवश् शक्वर्यः। वयं स्याम भुवनेषु जीवस इत्य् आशिषम् एवैतेनाशास्ते। ईशान इमा भुवनानि वीयस इति वीति सिमानां रूपम्। युजान इन्दो हरितस् सुपर्ण्य इति शक्वर्यो वै हरितस् सुपर्ण्यः। ता एवैतत् प्रातस्सवने युज्यन्ते। ता युक्ता माध्यन्दिन सवने ऽभ्यारोहन्ति। तास् ते क्षरन्तु मधुमद् घृतं पय इति पशवो वै मधु क्षीरं दधि सर्पिर् एतत् क्षरन्ति पशवश् शक्वर्यः। तव व्रते सोम तिष्ठन्तु कृष्टय इति सोमस्य ह वा इदं व्रतं सर्वम् अनूपतिष्ठते

3.85

ता एता भवन्ति जगत्यस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। पवमानस्य विश्वविद् इत्य् अनुरूपो भवति। विश्वविद् इति सिमानां रूपम्। तद् आहुस् साम्न एव रूपं स्तोत्रियेणारभन्ते ऽनुरूपेणाह्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो, ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति। प्र ते सर्गा असृक्षत सूर्यस्येव न रश्मय इति सर्गश इव वै पशवस् सृज्यन्ते। पशवश् शक्वर्यः। केतुं कृण्वन् दिवस् परि विश्वा रूपाभ्य् अर्षसीत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। समुद्रस् सोम पिन्वस इति समुद्रवतीर् भवन्त्य् आपो ह्य् एतद् अहः। जज्ञानो वाचम् इष्यसीति जायते वै पूर्वेणाह्ना। जज्ञान एवैतेन तस्माज् जज्ञानो वाचम् इष्यसीति भवति।
पवमान विधर्मणि।
क्रन्दं देवो न सूर्यः॥
इति सौर्यं रूपं महानाम्नीनाम् उपगच्छन्ति। सौर्या हि महानाम्नयः

3.86

प्र सोमासो अधन्विषुः पवमानास इन्दवः।
श्रीणाना अप्सु वृञ्जते॥
अभि गावो अधन्विषुर् आपो न प्रवता यतीः।
पुनाना इन्द्रम् आशत॥
इत्य् आप आप इति भवत्य आपो ह्य् एतद् अहः।
प्र पवमान धन्वसि सोमेन्द्राय मादनः।
नृभिर् यतो वि नीयसे॥
इति सप्तर्चं भवति। सप्त वै प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। तद् आहुर् यत् सप्तर्चं सप्तमस्याह्नो रूपम् अथ कस्मात् पञ्चमे ऽहन् क्रियत इति। स ब्रूयात् सप्तपदा वै शक्वर्यास्, सप्त ग्राम्याः पशवस्, सप्त चतुरुत्तराणि छन्दांसि, सप्त मुख्याः प्राणास्, सप्तविंशतिर् दिव्यानि नक्षत्राणि, सप्तविंशम् एतद् अहर्, एतस्यैव सर्वस्यावरुद्ध्या एतस्योपाप्त्या इति। उत्तरं सप्तर्चं भवति। अभिपूर्वम् एवैतत् प्राणैस् समृध्यमाना यन्ति। चतुरृचं भवति - चतुष्पदा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। त्रिणव स्तोमो भवति। त्रिणवा इमे लोकाः। एष्व् एवैतल् लोकेषु प्रतितिष्ठन्तो यन्ति

3.87

भूर् इति व्याहृतिः। तद् अयं लोको ऽग्निर् देवता गायत्री छन्दस् त्रिवृत् स्तोमो रथन्तरं साम वसवो देवता वनस्पतयश् चौषधयश् च। भुव इति व्याहृतिः। तद् इदम् अन्तरिक्षं वायुर् देवता जगती छन्दस् सप्तदश स्तोमो वामदेव्यं साम रुद्रा देवतापश् च प्राणभृच् च। स्वर् इति व्याहृतिः। तद् असौ लोक आदित्यो देवता त्रिष्टुप् छन्दः पञ्चदश स्तोमो बृहत् सामादित्या देवता चन्द्रमाश् च नक्षत्राणि च। एतद् इमे लोकास् त्रिणवा भवन्ति। तद् आहुर् मिथुनानि चत्वार्य् अहान्य्, अमिथुनं पञ्चमम् अहः। आचतुरं वाव मिथुनं प्रजननम्। तद् यत् तव श्रियो वर्षस्येव विद्युत इत्य् आग्नेयम् आज्यं भवति। तेनैव मिथुनं पञ्चमम् अहः क्रियते। तवेति पुंसो रूपं, श्रिय इति स्त्रियै। वर्षस्येवेति पुंसो, विद्युत इति स्त्रियै। अग्न इति पुंस, उषसाम् इवेति स्त्रियै। यद् ओषधीर् इति स्त्रिया, अभिसृष्ट इति पुंसः। अभिपूर्वम् एवैतन् मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै

3.88

वातोपजूत इषितो वशं अनु तृषु यद् अन्ना वेविशद् वितिष्ठसे।
आ ते यतन्ते रथ्यो यथा पृथक् शर्धांस्य् अग्ने अजरस्य धक्षतः॥
इति। यदा वा अग्निं वात उपवाजयत्य् अथ स महद् दीप्यते। तद् एतद् दीप्तिर् एव ब्रह्मवर्चसस्य रूपम्।
मेधाकारं विदथस्य प्रसाधनम् अग्निं होतारं परिभूतमं मतिम्।
त्वाम् अर्भस्य हविषस् समानम् इत् त्वां महो वृणते नान्यं त्वत्॥
इति यच् च ह वा अर्भकं हविर् यच् च महस् तस्य सर्वस्याग्निम् एव होतृत्वाय वृणुते।
पुरूरुणा चिद् ध्य् अस्त्य् अवो नूनं वां वरुण।
मित्र वंसि वां सुमतिम्॥
इति मैत्रावरुणं भवति दुरिष्टस्यैवावेष्ट्यै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एतद् अवेष्ट्यै।
ता वां सम्यग् अद्रुह्वाणेषम् अश्याम धाम च।
वयं वां मित्रा स्याम॥
पातं नो मित्रा पायुभिर् उत त्रायेथां सुत्रात्रा।
साह्याम दस्यूंस् तनूभिः॥
इत्य् आशिषम् एवैतेनाशास्ते

3.89

उत्तिष्ठन्न् ओजसा सहेत्य् ऐन्द्रं भवति। त्रिणवो वै स्तोम ओजो वीर्यम्। तम् एवैतत् प्रत्यक्षम् अनुवदन्ति। अनु त्वा रोदसी उभे इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। स्पर्धमानम् अददाताम् इत्य् एते वा एनं तत् स्पर्धमानम् अन्वददाताम्। इन्द्र यद् दस्युहाभव इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति।
वाचम् अष्टापदीम् अहं नवस्रक्तिम् ऋतावृधम्।
इन्द्रात् परि तन्वं ममे॥
इति गायत्री वै वाग् अष्टापदी। तस्यै त्रिवृद् एव स्तोम स्रक्तयः। एतद् वै दैव्यं परमं मिथुनं प्रजननं यत् त्रिवृच् च स्तोमो गायत्री च छन्दः। दैव्यम् एव तत् परमं मिथुनं प्रजननं दधति यजमानस्य प्रजात्यै

3.90

ताम् आहुर् आरम्भणतस् तृचस्य कार्या। मुखतो वै रेतस् सिक्तं, तद् इतः प्रजायते। तद् वै रेतो यद् इतस् सिच्यते। अन्नाद् धि रेतस् सिच्यत इति। तदा आहुर् उपरिष्टाद् एव कार्या - इदं वै प्रजननम्, इतः प्रजाः प्रजायन्ते - यतः प्रजाः प्रजायन्ते ततः प्रजायामहा इति। तस्माद् उपरिष्टाद् एव कार्या। इन्द्राग्नी युवाम् इम इत्य् ऐन्द्राग्नं भवति। अभिस्तोमा अनूषतेति बहून् स्तोमान् अभिवदति। एकस्तोमान्य् अन्यान्य् अहानि भवन्ति। अथैतत् त्रिष्टोमम्। तस्माद् अभि स्तोमा अनूषतेति बहून् स्तोमान् अभिवदति।
पिबतं शंभुवा सुतम्॥
या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा।
इन्द्राग्नी ताभिर् आ गतम्॥
ताभिर् आ गच्छतं नरोपेदं सवनं सुतम्।
इन्द्राग्नी सोमपीतये॥
इत्य् एकदेवत्यान्य् अन्यानि स्तोत्राणि भवन्त्य्, अथैतद् द्विदेवत्यम्। यथोभयापदी प्रतितिष्ठेत् तादृक् तत्। त्रिणव स्तोमो भवति। त्रिणवा इमे लोकाः। एष्व् एवैतल् लोकेषु प्रतितिष्ठन्तो यन्ति

3.91

अर्षा सोम द्युमत्तम इति माध्यन्दिनस्य पवमानस्यार्षण्वतीर् गायत्र्यो भवन्ति। अर्षेति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। अभि द्रोणानि रोरुवद् इत्य् अभीति भवति रथन्तरस्यो एव रूपम्। अप्सा इन्द्राय वायव इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः। वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिस्यैवैतद् रूपान् न यन्ति। इषं तोकाय नो दधद् अस्मभ्यं सोम विश्वत इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। आ पवस्व सहस्रिणम् इति सहस्ररूपं महानाम्नीनाम् उपगच्छन्ति। पशवो हि महानाम्नयः। तासु गायत्रम् उक्तब्राह्मणम्। अथ यण्वसन्तनि। पञ्चमाद् वै देवा अह्नष् षष्ठम् अहर् निरमिमत। छिद्रम् इव वै पञ्चमम् अहः। यद् यण्वसन्तनिना माध्यन्दिनस्य पवमानमुखे स्तुवन्ति अह्न एव सन्तत्या अह्नो ऽछिद्रतायै। प्रतितिष्ठति य एवं वेद। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपक्रामन्। सो ऽकामयतात्मन् पशून् यच्छेयम् इति। स एतत् सामापश्यत्। तेनात्मन् पशून् अयच्छत्। यद् आत्मन् पशून् अयच्छ्त् तद् यण्वस्य यण्वत्वम्। प्रजापतिर् एष यद् उद्गाता। स यण्वेनैवात्मन् पशून् यच्छते। एतद् विषुवत्को वै द्वादशाहो यत् पञ्चमम् अहः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टात्। यण्वसन्तनिनैव पूर्वं त्र्यहं सन्तन्वन्ति, सन्तनिनोत्तरम्

3.92

इन्द्रो वै सिमा नासघ्नोत्। सो ऽकामयत सिमास् सघ्नुयाम् इति। स एतत् सामापश्यत् । तेनास्तुत। ततो वै स सिमा असघ्नोत्। तद् यद् एतत् साम भवति, सिमानाम् एव सग्ध्यै। तस्य त्रिः प्रस्तौति, सकृत् प्रतिहरति, त्रिर् निधनम् उपयन्ति। तत् सप्त संपद्यन्ते। सप्तपदा वै शक्वर्यः। शाक्वराः पशवः। पच्छो वावैनांस् तद् दाधार। पशवश् शक्वर्यः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टात्, पशूनाम् एव परिगृहीत्यै। स यथा वागरया वा रज्ज्वा व्रजं परितनुयाद् एवम् एवैतत् पशून् परिगृह्णीते ऽपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। आपो वै शक्वर्यः। यण्वसन्तनि पुरस्ताद् भवति, सन्तन्य् उपरिष्टाद्, अपाम् एव परिगृहीत्यै। तस्माद् आपः परिगृहीता स्यन्दन्ते। कूले ह खलु वा एते ऽपाम्। यद् ध वा एते न स्याताम् ओघ इदं सर्वं निर्मृज्य यथापां वार्त्रं दिह्यात् तादृग् एवैतद् अनिर्मार्गाय। तस्यैतस्य यण्वसन्तनिनो मध्य इळाम् उपेत्याध्यर्धाम् इळाम् उपरिष्टाद् उपयन्ति, प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धम्

3.93

अथ शाकलं। शकलो वै पञ्चमम् अहर् अपश्यद् राथन्तरं रूपेण। तस्माद् राथन्तरे ऽहन् क्रियते। शकलो वा अन्नाद्यकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद्यम् अवारुन्द्ध। तस्य वा एतस्यास्ति यथैव प्रयच्छेद् एवम्। तद् धिंकारवद् भवति। अन्नं वै हिंकारः। हुम् इति वा अन्नाद्यं प्रदीयते। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। अथो यद् एवैतस्मिन्न् अहन् प्राचीनं शक्वरीभ्यः क्रूरम् इव क्रियते, तद् एवैतेन हिंकारेण शमयन्ति। यद् उ शकलो ऽपश्यत् तस्माच् छाकलम् इत्य् आख्यायते

3.94

अथ वार्शम्। वृशो वै जानस् त्रियरुणस्य त्रैवृष्णस्यैक्ष्वाकस्य राज्ञः पुरोहित आस। अथ ह स्म ततः पुरा राजभ्यः पुरोहिता एव रथान् संगृह्णन्त्य् औपद्रष्ट्र्याय - नेद् अयं पापं करवद् इति। तौ हाधावयन्तौ ब्राह्मणकुमारं पथि क्रीडन्तं रथचक्रेण विचिच्छिदतुः। इतरो हाधावयन्न् अभिप्रयुयावापेतर आययाम। स हाधिगत्य न शशाकापायन्तुम् । तं ह तद् एव विचिच्छिदतुः। तस्मिन् होदाते - त्वं हन्तासि त्वं हन्तासीति। स ह वृशो ऽभीशून् प्रकीर्यावतिष्ठन्न् उवाच - त्वं हन्तासीति। नेति होवाच। यो वै रथं संगृह्णाति स रथस्येशे। त्वं हन्तासीति। नेति हेतर उवाचाप वा अहम् आयांसं, स त्वम् अभिप्रायौषीस्, त्वम् एव हन्तासीति

3.95

तौ वै - पृच्छावहा इति। तौ हेक्ष्वाकून् एव प्रश्नम् एयतुः। ते हेक्ष्वाकव ऊचुर् - यो वाव रथं संगृह्णाति स रथस्येशे। त्वम् एव हन्तासीति वृशम् एव पराब्रुवन्। सोऽकामयतोद् इत इयां, गातुं नाथं विन्देय । सम् अयं कुमारो जीवेद् इति। स एतत्सामापश्यत्। तेनैनं समैरयद् आ ते दक्षं मयोभुवम् इति। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्।
वह्निम् अद्या वृणीमहे।
पान्तम् आ पुरुस्पृहम्॥
आ मन्द्रम् आ वरेण्यम् आ विप्रम् आ मनीषिणम्।
पान्तम् आ पुरुस्पृहम्॥
आ रयिम् आ सुचेतनम् आ सुक्रतो तनुष्व् आ।
पान्तम् आ पुरुस्पृहम्॥
इति पान्तो वै पुरुषः। तद् एनं तत् समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस्साम। भेषजं वै तत् प्रायश्चितिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते

3.96

स क्रुद्धो जनम् अगच्छत्। अनृतं मा व्यवोचन्न् इति। तेषां हेक्ष्वाकूणाम् अग्नेर् हरो ऽपाक्रामत्। यं सायम् ओदनम् अध्यदधुः, प्रातस् सो ऽपच्यत। यं प्रातस् सायं सः। ते होचुर् ब्राह्मणं वा अनार्यम् अपापाम। तेषां नो ऽग्नेर् हरो ऽपाक्रमीत्। एतैनं अनुमन्त्रयामहा इति। तम् अन्वमन्त्रयन्त। स आगच्छद्यथा राज्ञा ब्राहमणो ऽनुमन्त्र्यमाण आगच्छेद् एवम्। स आगत्याकामयत पश्येयम् इदम् अग्नेर् हर इति। स एतत् सामापश्यत्। तद् अभ्यगायत। तद् अपश्यत् - पिशाची वा इयं त्रियरुणस्य जाया। सैनत् कशिपुना छादयित्वाध्यास्त इति। तद् अभिव्याहरत्।
कुमारं माता युवतिस् समुब्धं गुहा बिभर्ति न ददाति पित्रे।
अनीकम् अस्य नि न मिनज् जनासः पुरः पश्यन्ति निहितम् अरतौ॥
कम् एतं त्वं युवते कुमारं पेषी बिभर्षि महिषी जजान।
पूर्वीर् हि गर्भश् शरदो ववर्धापश्यं जातं यद् असूत माता॥
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा। प्रादेवीर् मायास् सहते दुरेवाश् शिशीते शृंगे रक्षसे विनिक्षे॥
उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ।
मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः॥
इत्य् एवैनाम् इदम् अग्नेर् हर ऊर्ध्वम् उद्द्रवत् सर्वां प्रादहत्। ततो वै ते यथायथम् अग्नेर् हरो व्यहरन्त। यथायथम् एभ्यो ऽग्निर् अपचत्। तद् एतद् दीप्तिर् ब्रह्मवर्चसं साम। एतेन वा अग्नेर् हरो ऽपक्रान्तम् अन्वविन्दन्। तेजस्वी ब्रह्मवर्चसी दीप्तिमान् भवति य एवं वेद। तद् अध्यर्धेळं भवति प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धम्। यद् उ वृशो ऽपश्यत् तस्माद् वार्शम् इत्य् आख्यायते

3.97

सोम उ ष्वाणस् सोतृभिर् इति सिमानां रूपम्। अधि ष्णुभिर् अवीनाम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। समुद्रं न (संवरणान्य् अग्मन् मन्दी मदाय) तोशत इति समुद्रवतीर् भवन्ति। आपो ह्य् एतद् अहः। ता न्यूनाक्षरा भवन्ति। सप्ताक्षराण्य् एकानि पदानि भवन्ति, नवाक्षराण्य् एकान्य्, एकादशाक्षराण्य् एकानि, द्वादशाक्षराण्य् एकानि। तद् एतद् अभिपूर्वम् एव शक्वरीणां रूपम् उपगच्छन्ति। तास्व् आनूपम् अनुतोदवत् सिमानां रूपम्। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। अनूपो वै धीतोनिर् अकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय, राजा सन्न् ऋषि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्द्ध, राजा सन्न् ऋषिर् अभवत्। उभयम् एव ब्रह्म च क्षत्रं चावरुन्द्धे, राजा सन्न् ऋषिर् भवति य एवं वेद। यद् व् अनूपो धीतोनिर् अपश्यत् तस्माद् आनूपम् इत्य् आख्यायते

3.98

अथ मानवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मनुर् वा अकामयत बहुः प्रजया पशुभिः प्रजायेय, मानवीः प्रजास् सृजेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। ता इमा मानवीः प्रजाः। बहुर् एव प्रजया पशुभिः प्रजायते य एवं वेद। अथो आहुस् ता एवास्य प्रजास् सृष्टा रक्षांस्य् अजिघांसन्न् इइति। सो ऽकामयताप रक्षांसि हनीयेति। स एतत् सामापश्यत्। तेनास्तुत।
नि त्वाम् अग्ने (मनुर् दधे ज्योतिर् जनाय शश्वते।
दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः॥
त्वेषासो अग्नेर् अमवन्तो अर्चयो भीमासो न प्रतीतये।
रक्षस्विनस् सदम् इद् यातुमावतो विश्वं सम्) अत्रिणं दह॥
एवासां रक्षांस्य् अपाहन्न् इति। तद् उ रक्षसाम् अपहतिः। अप रक्षः पाप्मानं हते य एवं वेद

3.99

ओघो वा इमान् लोकान् निरमार्ट्। सो ऽमन्यत मनुर् इदं वावेदम् अभूद् इति। सो ऽकामयतोद् इत इयां गातुं प्रतिष्ठां विन्देयेति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ते एनं हिरण्मय्यौ नावौ भूत्वोपाप्लवेताम्। तयोः प्रत्यतिष्ठत्। ते एनम् उदपारयेताम्। ततो वै स गातुं प्रतिष्ठां अविन्दत। विन्दते गातुं प्रतिष्ठां य एवं वेद। यद् उ मनुर् अपश्यत् तस्मान् मानवे इत्य् आख्यायेते। अथ वाम्रम् अभ्यारम्भो यज्ञस्य प्रत्यपसारः। अभ्य एव षष्ठम् अहर् आरभते प्रति चतुर्थम् अपधावति। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। वम्रो वैखानसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एतां मध्य इळाम् उपेत्याध्यर्धाम् इळाम् उपरिष्टाद् उपैत्। पशवो वा इळा। भूमो वा अध्यर्धेळा। ततो वै स भूमानम् अभिपूर्वं पशूनाम् अवारुन्द्ध। तद् एतत् पशव्यं साम। भूमानम् एवाभिपूर्वं पशूनाम् अवरुन्द्धे य एवं वेद। यद् उ वम्रो वैखानसो ऽपश्यत् तस्माद् वाम्रम् इत्य् आख्यायते

3.100

अथाग्नेयं त्रिणिधनं सवनानां क्लृप्त्यै। पवमानेन वै देवेभ्यो ऽन्नाद्यं प्रदीयते। तन् मध्येनिधनं भवति अन्नाद्यस्य विशेषाय। अग्निर् वा अकामयत अन्नाद एव श्रेष्ठः स्वानां स्याम इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद एव श्रेष्ठ स्वानाम् अभवत्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् व् अग्निर् अपश्यत् तस्माद् आग्नेयं त्रिणिधनम् इत्य् आख्यायते

3.101

तद् व् एवाचक्षते साकमश्वम् इति। कक्षीवान् प्रियमेधम् अपृच्छत् - इद्ध इन् न दिदीपा3 इत् प्रियमेधेति। तद् अस्य नामनुत। सो ऽब्रवीत् - प्रजायान् मे त्वा प्रतिब्रवद् इति। अथ ह कक्षीवतो नाकुलिभस्त्रास प्रियंगुतण्डुलानां वा सिकतानां वा पूर्णा। तासां ह स्म संवत्सरे संवत्सर एकैकां प्रास्यति। तावद् धास्मा आयुर् दत्तम् आस। स उ ह नवमस् साकमश्व आजज्ञे प्रियमेधात्। सो ऽकामयतोद् इत इयां, गातुं प्रतिवचनं विन्देयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। ततः प्रतिवचनम् अपश्यत्। स कक्षीवन्तम् अभ्याद्रवत्। तम् अब्रवीद् आद्रवन्तं दृष्ट्वा - इमां मे भस्त्राम् उदके प्रास्यत, इमम् अहं तं पश्यामि यो मां प्रत्युच्यातिप्रक्ष्यतीति। अथ हैनम् अभ्येव जगाम। स होवाच - य ऋचं करोति न साम, स इद्धो न दिदीपे। अथ य ऋचं च काम च करोति, स इद्धस् स दिदीपे। एतत् त्वाहं प्रतिब्रवीम्य् एतन् मे पितैतत् पितामह एतत् प्रपितामह इत्य् आ ह प्रियमेधाद् गमयांचकार। तद् एतत् तेजो ब्रह्मवर्चसं साम। एतेन वै स पूर्वेषां पितमहानां पाप्मानम् अपाहन्। तेजस्वी ब्रह्मवर्चसी भवत्य्, अप पूर्वेषां पितामहानां पाप्मानं हते य एवं वेद। यद् उ साकमश्वो ऽपश्यत् तस्मात् साकमश्वम् इत्य् आख्यायते। यत् सोम चित्रम् उक्थ्यम् इति चित्रवतीर् भवन्ति - चित्ररूपा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। तद् आहुर् यन्ति वा एते त्रिष्टुभः पवमानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। वृषण्वतीर् भवन्ति। वृषण्वद् वै त्रिष्टुभो रूपम्। तेन त्रिष्टुभः पवमानान्तान् न यन्ति

3.102

तासु शैशवम्। शान्तिर् वै शैशवम्। यच् छैशवेन स्तुवन्ति शान्त्या एव। अथो आहुश् शैशवेन वा इन्द्रो वृत्रं पर्याकारं शक्वरीभिर् अहन्न् इति। तद् व् एव शैशवस्य शैशवत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। प्रजापतेर् अक्ष्य् अश्वयत्। तत् परापतत्। सो ऽकामयत - पुनर् मा चक्षुर् आविशेद् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै तं चक्षुः पुनर् आविशत्। अश्व एव शुचिर् भूत्वैनं पुनर् आविशत्। तज्ज्योतिर् वै चक्षुः। ज्योतिर् वावैनं तद् आविशत्। तद् एतच् चक्षुष्यं साम। अजरसं हास्य चक्षुर् न व्येति य एवं वेद

3.103

अथ महानाम्नयः। महानाम्नीर् वा अनु प्रजाः प्रजायन्ते।नित्यवत्साः पशवः। ता एता महानाम्नयस् संभार्याः। तस्मान् मनुष्या गर्भिणः कनीयश् शोभन्ते। संभार्यो हि स तेषां गर्भो नित्यः। नित्यवत्साः पशवो ऽनुप्रजायन्ते। तस्मात् पशवो गर्भिणो भूयश् शोभन्ते। मात्यो हि स तेषां गर्भो नित्यः। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथ बार्हद्गिररायोवाजीये पांक्ते पांक्ते ऽहनि क्रियेते - पांक्ता वै पशवः। पशव एतद् अअहः - पशूनाम् एवावरुद्ध्यै। ते उ अथकारवच् चाध्यर्धेळं च भवतः प्रत्यक्षं शक्वरीणां रूपं शाक्वरे ऽहन्। तेन वै रूपसमृद्धे। तद् आहुस् स वाद्य गोभिः प्रस्नायाद्य आभ्यः पारे प्रतिष्ठां च तीर्थं च विन्देद् इति। गावो वै शक्वर्यः। तासाम् एषा पारे प्रतिष्ठा च तीर्थं च यद् अथकारश् चाध्यर्धा चेळा। निष्टाभिश् शक्वरीभिः पाप्मानं तरति, श्रियम् अश्नुते य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.104

देवासुरा अस्पर्धन्त। ते देवाः प्रजापतिम् उपाधावंस् - तन् नश् छन्दः प्रयच्छायातयाम येनासुरान् अभिभवामेति। स तपो ऽतप्यत। स तपस् तप्त्वात्मन् सिंसिमायद् अवापश्यत्। यद् आत्मन् सिंसिमायद् अवापश्यत् तत् सिमानां सिमात्वम्। ता अब्रवीत् - सृज्यध्वम् इति। केनेति। येन कामयध्व इति। तास् सिमानम् एवोर्ध्वा उदीर्यासृज्यन्त। तद् व् एवासां सिमात्वम्। ता अमिमीत। तासु त्रयं वेदम् अध्यादधात्। ता एवायच्छत्। तास्व् इमांस् त्रीन् लोकान् अभ्यादधात्। ता एवायच्छत्। सो ऽब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति। यद् अब्रवीन् महद् बतासाम् इदं मानम् अभूद् इति, तन् महामानीनां महामानित्वम्। महामानयो ह वै नामैताः। ता महानाम्नय इति परोक्षम् आख्यायन्ते। ता देवेभ्यः प्रायच्छत्। ताभिर् अद्य देवा अस्तुवत। श्वो ऽशक्नुवन्। तद्यद् अद्य स्तुत्वा श्वो ऽशक्नुवंस् तच् छक्वरीणां शक्वरीत्वम्। शक्नोति यच् छिक्षते य एवं वेद। ता देवा नोदयच्छन्। ताः प्रजापतय एव पुनः प्रायच्छन्। ताः प्रजापतौ संवत्सरम् उषित्वापाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति

3.105

ता अब्रुवन्न् ऐन्द्रान् ह नो घोषान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं घोषिणीर् असाम। घोषी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य एतान् ऐन्द्रान् घोषान् प्रायच्छत्। यो ऽग्नेर् घोषो यो रथस्य, तम् अस्यै प्रायच्छत्। यो वायोर् घोषो य वयसां, तम् एतस्यै प्रायच्छत्। यः पर्जन्यस्य घोषो यो दुन्दुभेस् तम् अमुष्यै प्रायच्छत्। एतं ह वा आसाम् ऐन्द्रा घोषाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् ऐन्द्रान् ह नो निक्रिळान् वेत्थ। तान् नः प्रयच्छ, यैर् वयं क्रीळाम। क्रीळात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतान् ऐन्द्रान् निक्रीळान् प्रायच्छद् - इन्द्रा इन्द्रा इन्द्रा इति। एत ह वा आसाम् ऐन्द्रा निक्रीळाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति

3.106

ता अब्रुवन् रूपाणि ह नो वेत्थ। तानि नः प्रयच्छ, यैर् वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो रूपाणि प्रायच्छत्। यत् प्रावृषि निहतरजस्कायै प्रथमं संजायमानाया अस्यै रूपं भवति, तद् अस्यै प्रायच्छत्। यद् व् एव प्रावृषि निहतरजस्कस्यान्तरिक्षस्य रूपं भवति, तद् एतस्यै प्रायच्छत्। अथ यद् आग्रहायणे ऽपेते मेघे ऽपेते नीहारे ऽमुष्यै रूपं भवति, तद् अमुष्यै प्रायच्छत्। एतानि ह वा आसां रूपाणि। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन् नामानि ह नो वेत्थ। तानि नः प्रयच्छ, यैर्वयं नामिनीर् असाम्। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो नामानि प्रायच्छत्। भूस् त्वम् असीतीमाम् अब्रवीद्, भुवस् त्वम् इत्य् एतां, स्वस् त्वम् इत्य् अमूम्। एतान ह वा आसां नामानि। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति

3.107

ता अब्रुवन् वत्सान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयं वत्सिनीर् असाम। वत्सी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वत्सान् प्रायच्छत्। अग्निम् एवास्यै प्रायच्छद्, वायुम् अन्तरिक्षायादित्यम् अमुष्यै। एते ह वा आसां वत्साः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् ऋषभान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् ऋषभिणीर् असाम। ऋषभी स ब्राह्मणो ऽसद् यो ऽस्मान् वेदेति। ताभ्य ऋषभान् प्रायच्छद् एतान् अथकारान्। एते ह वा आसाम् ऋषभाः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति

3.108

ता अब्रुवन्न् एकं ह नो रूपं वेत्थ। तन्नः प्रयच्छ, येन वयं रूपिणीर् असाम। रूपी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं रूपं प्रायच्छद् आप इति। एतद् ध वा आसाम् एकं रूपं यद् आपः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन्न् एकं ह नो नाम वेत्थ। तन् नः प्रयच्छ, येन वयं नामिनीर् असाम। नामी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्य एतद् एकं नाम प्रायच्छद् इन्द्रा इति। एतद् ध वा आसाम् एकं नाम यद् इन्द्राः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति

3.109

ता अब्रुवंस् तृप्तीर् ह नो वेत्थ। ता नः प्रयच्छ, याभिर् वयं तृप्याम। तृप्यात् स ब्राह्मणः प्रजया पशुभिर् यो ऽस्मा वेदेति। ताभ्य एतास् तृप्तीः प्रायच्छद् एतान् एकारान्। एते ह वा आसां तृप्तयः। तास् संवत्सरम् उषित्वापैवाक्रामन्। सो ऽब्रवीत् कथापाक्रमिष्टेति। ता अब्रुवन् आवपनान् ह नो वेत्थ, पल्यान् ह नो वेत्थ, गोष्ठान् ह नो वेत्थ। तान् नः प्रयच्छ, यैर् वयम् आवपनवतीः पल्यवतीर् गोष्ठिनीर् असाम। आवपनवान् पल्यवान् गोष्ठी स ब्राह्मणो ऽसद् यो ऽस्मा वेदेति। ताभ्यो वाचं प्रायच्छत्। वाचं वावेदं सर्वं नातिरिच्यते। एवा ह्य् एवा इत्य् एषां वाग्, एवा ह्य् अग्ना इति गव्याः पशव, एवा हीन्द्रा इत्य् अश्व्याः पशवः। एवा हि पूषन्न् इत्य् अजाविकम् एवैतत्। एवा हि देवा इति परिग्राह एवैषः

3.110

अथ महानाम्नयः। प्राणा वा अग्रे सप्त। तेभ्य एतां सप्तपदां शक्वरीं निरमिमीत। प्राणान् एव सर्वम् आयुर् एति य एवं वेद। सप्तपदायै षट्पदाम् ऋतून् संवत्सरम्। ऋतुभ्य आत्मानं परिदत्ते य एवं वेद। षट्पदायै पञ्चपदां पशून् पंक्तिम्। पशुमान् भवति य एवं वेद। पञ्चपदायै चतुष्पदां वाचम् अनुष्टुभं प्रतिष्ठितिम्। वाचा वदति य एवं वेद। चतुष्पदायै त्रिपदां तेजो ब्रह्मवर्चसं गायत्रीम्। तेजस्वी ब्रह्मवर्चसी भवति य एवं वेद। त्रिपदायै द्विपदां पुरुषम्। नैनं पौरुषो वधो हन्ति य एवं वेद। द्विपदाया एकपदां पुरुषम् एव। अन्वञ्चाव् इव वै पुरुषौ। तस्मात् पुरुषः पुरुषं परिवेवेष्टि, पुरुषः पुरुषस्यानुचरो भवति, विन्दते ऽनुचरितॄन्। बहवो ऽस्यानुचरा भवन्ति, नैनं पौरुष्येवावृत्तिर् विन्दति य एवं वेद

3.111

तानि सर्वाणि छन्दांसि संभृत्य तैर् इन्द्रो वृत्रम् अहन्। यन् महान्तम् अहंस् तस्मान् महानाम्नयः। यद् अशक्नोत् तस्माच् छक्वर्यः। यन्मट्वियम् अकरोत् तस्मान् मट्वीः। यत् सीमानम् अभिनत् तस्मात् सिमाः। अथो हैनास् सीमत एव ससृजे। सिम इति वै श्रेष्ठम् आचक्षते। सिम श्रेष्ठ स्वानां भवति य एवं वेद। ता ह वा एता इन्द्रा एव नाम। इन्द्रो वै यत्र महानाम्नीषु मिथुनत्वम् ऐच्छत, ता एनम् अब्रुवन् - स वै नः प्रयच्छेति। किम् इति। यत् त एतम् नामेति। ताभ्यस् तत् प्रायच्छत्। तस्माद् एता इन्द्रा नाम। एतद् ध वा आसां प्रियं गुह्यं नाम यद् इन्द्राः। स यो हासाम् एतद् विद्वान् परिहरत, आगामुकम् एनं प्रियं भवति पश्यते प्रियम्। तस्माद् एता महानाम्नय इति परोक्षम् आख्यायन्ते

3.112

असा उ आव महान्। तस्यैताः प्रतिनाम्नयः। तस्यो एवैतन् नाम परिहरन्ति। सा यैषा पुरस्ताद् द्विपदोपधीयते पुरुष एव सः। अथ यान्य् उत्तराणि त्रीणि पदानि पशवस् ते। भसत् प्रथमा सक्थ्यौ द्वे। पराञ्च पशवस् संभवन्ति। तस्माद् भसत् प्रथमाख्यायते। अथ यान्य् उत्तराणि त्रीणि पदानि वत्सः प्रथमो ऽथोधो ऽथ पुरुषः। अथ यान्य् उत्तराणि त्रीणि पदानीमौ द्वौ शिरोग्रीवम्, एकम् अथ यद् उत्तमं पदम् उपश एव सः। पश्चेव द्वितीय आगच्छत् तस्माद् उत्तमा द्व्युपशैव प्रियस्य कुर्यात्। एतद् ध वा आसां प्रत्तम् अधीतम् उपजीवनीयम्। यद् वत्सः प्रथमो भवत्य् अथोधो ऽथ पुरुषः, प्रत्तं हैवास्याधीतम् उपजीवनीयं भवति। अथ यं कामयेत धीतम् अस्याप्रत्तम् अनुपजीवनीयं स्याद् इति -

3.113

- ऊधः प्रथमं कुर्याद् अथ वत्सम् अथ पुरुषम्। धीतं हैवास्याप्रत्तम् अनुपजीवनीयं भवति। अथ यं कामयेतापशु स्याद् इति वत्सम् अस्यान्तरियात्। पशवो वै वत्सः। पशून् एवास्यान्तरेति। अथ यं कामयेत रुद्रो ऽस्य पशूञ् छमयेद् इत्य् अन्तरा वत्सं चोधश् च पुरुषम् अवदध्यात्। रुद्रो वै पुरुषः। रुद्रम् एवास्य तद् गोष्ठे ऽवदधाति। सैषा मीमांसा। अथ यथैवासाम् इदं प्रज्ञातं स्तोत्रं तथैव स्तोतव्यम्। इयं वै प्रथमा महानाम्नी, तस्या अग्निर् उपशः। इयं द्वितीया, तस्यै वायुर् उपशः। असौ तृतीया, तस्यै सूर्याचन्द्रमसाव् उपशौ। तासां यो हृदावकिनो वेद त्रिर् विला हास्य गृहा भवन्ति तृप्ता इवारूक्षा अन्तरतः। एकारा ह वा आसां हृदावकिनः। तस्माद् धृद एकारम् उपावसेधं पशूंस् तर्पयन्ति। अथ य आसाम् अलंकारान् वेदालंकुर्वन्तो ऽस्यासते गृहेष्व् अंशुं रुक्मं निष्कं हस्तिनम् अश्वतरीरथम् अश्वरथम्। स्तोभा ह वा आसाम् अलंकाराः। ता अलंकुर्वन्न् इव शोभयन्न् इव गायेत्। उप हैनम् एतानि रूपाण्य् अक्रीतानि तिष्ठन्ते य एवं वेद

3.114

आपो वै महानाम्नयः। तासाम् आदित्य एव वत्सः। तद् या ह वै प्राचीर् आपो धावन्त्य् एतम् एव ता उद्यन्तम् अभीप्सन्तीर् धावन्ति। अथ याः प्रतीचीर् धावन्त्य् एतम् एव ता अस्तं यन्तम् अभीप्सन्तीर् धावन्ति। तद् यत् पृच्छेयुर् या इमा आपो ऽहरहर् धावन्ति कम् एता अभीप्सन्तीर् धावन्तीति। एतम् इत्य् एव तत्र प्रतिवचनम्। अथो आहुर् वायुर् वै महानाम्नीनां वत्सः। एष हीमान् लोकान् इमा दिशः प्रतापयत इति। इम उ लोका महानाम्नयः। तस्मात् पुरोवाते वाति, वृष्ट्याम् आशासन्ते। यथा ह प्रत्ता न दुहीत तादृक् तद् यत् पुरोवाते वात्य् अथ न वर्षति। पशवो वै महानाम्नयः। गोष्ठ एव पुरीषम्। तद् आहुः पुरीषेणाग्रे स्तोतव्यम् अथ महानाम्नीभिः। आयतनं वा अग्रे ऽथ पशवः। आयतनं हि पशवो ऽभिसमायन्तीति। तद् उ वा आहुः पशूनां वै पुरीषं भवति। यद् वै पशवो न स्युर् न पुरीषं स्यात्। यदो वै पुरुषः पशून् विन्दते ऽथ स गोष्ठं पर्यस्यते गुप्त्यै। तस्मान् महानाम्नीभिर् एव पूर्वाभि स्तोतव्यम् इति

3.115

तद् आहुस् सकृद एव संस्तुतासूपरिष्टात् पुरीषेण स्तोतव्यम् उत वै बहुतयाः पशवो नानात्यास् समानम् एव गोष्ठम् अभिसमायन्तीति। यद् द्वयीर् उ ह तथा प्रजा भवन्ति। अनुपर्यायम् एव पुरीषेण स्तोतव्यम्। तथा ह सर्वा व्रजवतीर् भवन्ति। ऐळानि पुरीषाणि भवन्ति। पशवो वा इळा, आयतनं पुरीषम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयन्ति। अप उपनिधाय स्तुवन्ति साम्नस् सर्वत्वाय। एतद् वै महानाम्नीनां सर्वं रूपं यद् आपः। ता उदिंगयेयू रूपसमृद्धतायै। तद् आहुः क्वेमा निनयेद् इति। तासाम् एषा मीमांसा - वसतीवरीष्व अवनीय सोमम् अभिषुत्य भक्षयेयुर् इति। मथितम् इव ह त्व् एषां भवति यातयाम। यातयाम्नीर् अयातयाम्नीष्व अवनयन्ति। अथो आहुस् तृतीयसवनीयान् एवाभिः पुरोडाशान् उपसृजेयुर् इति। यजमानो वै पुरोडाशो, ऽन्नम् आपः। अन्नेनैव तद् यजमानं समनक्ति। ईश्वरो ह तु यजमानम् उत्तरवयसे श्वः पामा वेत्तोः। कण्डूयिता इव हि भवन्ति। अथो आहुश् चात्वाल एव निनयेद् इति। योनिर् वै यज्ञस्य चात्वालं, रेत आपो योन्याम् एवैतद् रेतः प्रतिष्ठापयति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद

3.116

तद् आहुर् विहृता अग्नयो भवन्ति, वास्तु परिशिष्यते, गर्भा अनुशोषुका स्युर्, यच् चात्वाले निनयेत्। आस्तावे निनयेद् इति। एष ह वा उद्गातुश् च यजमानस्य च धिष्ण्यो यद् आस्तावः। आयतनम् आस्तावः। आयतन एव तद् एतान् कामान् प्रतिष्ठापयन्ति। तासाम् अत्र यावत्कामं निनीय, अथान्तःपरिधि निनयते। तथा हैषां ता हुताश् चाहुताश् च भवन्ति। यथा ह वा इदं विदावन् प्राणाव् अनिरुक्ताव् एवम् एतौ धिष्ण्यौ सन्ताव् अनवगतौ। प्राणौ वा इमौ सन्ताव् अनपतृण्णौ धिष्ण्याव् एतौ सन्तौ न विह्रियेते

3.117

असुराणां ह वा अग्र इमे लोका आसुः। उपजीविन इव हि देवा आसुस् तप एव श्रद्धाम् अन्वायत्ताः। ते ऽर्चन्तस् ताम्यन्तस् तेजो बलम् इन्द्रियं वीर्यम् आत्मस्व् अदधत। तद् एषाम् असुरा आदित्सन्त। तद् आदित्स्यमानम् अप्सु प्रावेशयन्, नेद् इदम् असुरा विन्दान्ता इति। तस्माद् इदम् अप्य् एतर्ह्य् अमित्रेष्व् आयत्सु वित्तम् उपगून्ति, नेद् इदम् अमित्रा विन्दान्ता इति। तद् अपैव देवेभ्यो ऽक्रामन्, नासुरान् प्राप्नोत्। ते देवा एतं संवत्सरश्रमम् अपश्यन्। तेनैनद् अभ्याश्राम्यन्। तद् ऊर्ध्वम् उपश्रयत। (त)द् दिवि स्पृष्टम् अतिष्ठत्। यद् दिवि स्पृष्टम् अतिष्ठत्, तत् स्पृष्टानां स्पृष्टत्वम्। स्पृष्टानि ह वै नामैतानि। तानि पृष्ठानीति परोक्षम् आख्यायन्ते। सर्वान् कामान् स्पृशति य एवं वेद। स यत्काम स्यात् संवत्सरं श्राम्येद्, अव ऐवैनद् रुन्द्धे। संवत्सरपरिमितो ह्य् एवैष यच् छ्रमः

3.118

आपो वै देवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। तासां वायुः पृष्ठे व्यवर्तत। ता गर्भम् अदधत। ता देवा अब्रुवन् सृजध्वम् इति। ता रथन्तरं प्रथमे ऽहन्न् असृजन्त। तद् रथघोषो ऽन्वसृज्यत। तस्माद् रथन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति। ता अब्रुवन् - सृजध्वम् एवेति। ता बृहद् द्वितीये ऽहन्न् असृजन्त। तत् पर्जन्यस्य घोषो ऽन्वसृज्यत। तस्माद् बृहत स्तोत्रे दुन्दुभीन् उद्वादयन्ति। वर्षुकः पर्जन्यो भवति। ता अब्रुवन् सृजध्वम् एवेति। ता वैरूपं तृतीये ऽहन्न् असृजन्त। तद् ग्रामघोषो ऽन्वसृज्यत। तस्माद् वैरूपस्य स्तोत्रे ग्रामघोषं कुर्वन्ति। ता अब्रुवन् सृजध्वम् एवेति। ता वैराजं चतुर्थे ऽहन्न् असृजन्त। तद् अग्नेर् घोषो ऽन्वसृज्यत। तस्माद् वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति। ता अब्रुवन् सृजध्वम् एवेति। ताश् शाक्वरं पञ्चमे ऽहन्न् असृजन्त। तद् अपां घोषो ऽन्वसृज्यत। तस्माच् छाक्वरस्य स्तोत्रे ऽप उपनिधाय स्तुवन्ति। ता अब्रुवन् सृजध्वम् एवेति। ता रैवतं षष्ठे ऽहन्न् असृजन्त। तत् पशुघोषो ऽन्वसृज्यत। तस्माद् रैवतस्य स्तोत्रे पशुघोषं कुर्वन्ति, वत्सान् मातृभिस् संवाशयन्ति। ता अब्रुवन् सृजध्वम् एवेति। एतावद् वावेत्य् अब्रुवन्। तद् एते ह वा आसाम् ऐन्द्रा घोषा वदन्ति। अस्मिन्न् ऐन्द्रा घोषास् सर्वा अस्मिन् पुण्या वाचो वदन्ति य एवं वेद। ते देवा वामदेव्यम् एव योनिं परिगृह्योर्ध्वा उदागाहन्त। तद् एतस्य पृष्ठ्यस्य षडहस्य मध्ये ह मायं न्यदधुः। तद् यानि ह वै स्तुतानि सामानि पश्चात्वं तेषां वामदेव्यम्, अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। यो वै ग्रामस्य श्रेष्ठी बलिष्ठो भवति तेन पश्चात्वेन तेन पुरस्त्वेन यन्ति। अरिष्टेन यज्ञेन यजते य एवं वेद। एतस्माद् ध वा इदं युग्यौ न समवहनौ वहतो, ऽन्यतर एव वहीयान् भवति। तस्माद् वामदेव्यं पृष्ठम्। पृष्ठं हि प्रतिवहतीति। क्लृप्तिर् वा एषा शान्तिर् वा एषा प्रतिष्ठा वा एषैष वाव यज्ञो यद् वामदेव्यम्। तस्माद् येन येनाह्ना स्तुवन्ति तत् तद् अनुसर्पति कल्पयच् छमयत्

3.119

असाव्य् अंशुर् मदायेत्य् असावीति सिमानां रूपम्।
अप्सु दक्षो गिरिष्ठाः।
श्येनो न योनिम् आसदत्॥
शुभ्रम् अन्धो देववातम् अप्सु धौतं नृभिस् सुतम्।
इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः।
स्वदन्ति गावः पयोभिः॥
आदि ईम् अश्वं न हेतारम् अशूशुभन्न् अमृताय।
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। मधो रसं सधमाद इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ सन्तनि। वाग् वा एषा प्रतता यद् द्वादशाहः। तां सन्तनिनैव संतन्वन्ति। प्राणा ह खलु वै सन्तनयः। प्राणैर् वाक् सन्तता। तद् यत् सन्तनि भवति प्राणानाम् एव सन्तत्यै, वाचं प्राणैस् सन्तनवामेति। इमे वै लोकास् सन्तनय, इम उ लोका महानाम्नयः। तद् यत् सन्तनि भवत्य् एषाम् एव लोकानां सन्तत्यै। सम् अस्मा इमे लोकास् तायन्ते य एवं वेद। अभि द्युम्नं बृहद् यश इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। जिन्वन् गविष्टये धिय इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः

3.120

तासु च्यावनम्। च्यवनो वै भार्गवो वास्तुपस्य ब्राह्मणम् अवेत्। स पुत्रान् अब्रवीद् वास्तुपस्य वै ब्राह्मणं वेद। तं मा वास्तौ निधाय त्रिः पुनःप्रयाणं प्रयातेति। ते ऽब्रुवन् न शक्ष्याम, आक्रोशनवन्तो भविष्यामः। पितरम् अहासिषुर् इति नो वक्ष्यन्तीति। नेति होवाच, तेन वै यूयं वसीयांसो भविष्यथ, तेनो एव मम पुनर्युवताया आशा। हित्वैव मा प्रयातेति तान् अज्ञापयत्। तं सरस्वत्यै शैशवे निधाय त्रिः पुनःप्रयाणं प्रायन्। सो ऽकामयत वास्तौ हीनः - पुनर् युवा स्यां, कुमारीं जायां विन्देय, सह्स्रेण यजेयेति। स एतत् सामापश्यत्। तेनास्तुत

3.121

तं तुष्टुवानं शर्यातो मानवो ग्रामेणाध्यवास्यत्। तं कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैर् आसपांसुभिर् अदिहन्। सो ऽसंज्ञां शार्यात्येभ्यो ऽकरोत्। तन् न माता पुत्रम् अजानान्, न पुत्रो मातरम्। सो ऽब्रवीच् छर्यातो मानवः - किम् इहाभितः किं चिद् अद्राष्ट, यद् इदम् इत्थम् अभूद् इति। तस्मै होचुर् न नु ततो ऽन्यत् - स्थविर एवायं निष्ठावश् शेते। तम् अद्य कुमारा गोपाला अविपाला मृदा शकृत्पिण्डैर् आसपांसुभिर् अधिक्षन्। तत इदम् इत्थम् अभूद् इति

3.122

स होवाच - च्यवनो वै स भार्गवो ऽभूत्। स वास्तुपस्य ब्राह्मणं वेद। तं नूनं पुत्रा वास्तौ हित्वा प्रायासिषुर् इति। तम् आद्रुत्याब्रवीद् ऋषे, नमस् ते ऽस्तु। शार्यात्येभ्यो भगो मृळेति। अथ ह सुकन्या शार्यात्या कल्याण्य् आस। स होवाच - स वै मे सुकन्यां देहीति। नेति होवाच। अन्यद् धनं ब्रूष्वेति। नेति होवाच। वास्तुपस्य वै ब्राह्मणं वेद। तां म इहोपनिधायासायम् एवाद्य ग्रामेण याताद् इति। ते वै त्वा मन्त्रयित्वा प्रतिब्रवामेति। ते होचुर् मन्यत्रयित्वा - एकं वै द्वे त्रीणि परमम् अनया धनानि लभेमह्य् , एथैनयेह सर्वम् एव लप्स्यामहे। हन्तास्मा इमां ददामेति। तां हास्मै ददुः। तां होचुः - कुमारि, स्थविरो वा अयं निष्ठावो नालम् अनुसरणाय। यदैव वयं युनजामहा, अथान्वाधावताद् इति। सा हेयं युक्तं ग्रामम् अनुसरिष्यन्त्य् अनूत्तस्थौ। स होवाचाहे परिधाव सखायं जीवहायिनम् इति। सा यदीतीयाय यदीति -

3.123

- कृष्णसर्प उ हैवैनां प्रत्युत्तस्थौ। सा ह तद् एव निर्विद्योपविवेश। अथ हाश्विनौ दर्विहोमिणौ भिषज्यन्ताव् इदं चेरतुर् अनपिसोमौ। तौ हैनाम् एत्योचतुः - कुमारि, स्थविरो वा अयम् असर्वो नालं पतित्वनायावयोर् जायैधीति। नेति होवाच। यस्मा एव मा पितादात्, तस्य जाया भविष्यामीति। तद् धायम् आजुघोष। अथ हेमौ प्रेयतुः। स होवाच - कुमारि, को न्वे एष घोषो ऽभूद् इति। कुमारि, स्थविरो वा अयम् असर्वो नालं पतित्वनायावयोर् जायैधीति। सा त्वं किम् अवोच इति। नेत्य् अहम् अवोचं, यस्मा एव मा पितादात् तस्य जाया भविष्यामीति

3.124

तद् धास्य प्रियम् आस। स सहोचाश्विनौ वै तौ दर्विहोमिणौ भिषज्यन्ताव् इदं चरतो ऽनपिसोमौ। तौ त्वैतद् एवागत्य श्वो वक्तारौ। तौ त्वं ब्रूताद् - युवं वा असर्वौ स्थो, यौ देवौ सन्ताव् असोमपौ स्थः। सर्वो वै मम पतिर् यस् सोमप इति। तौ वै त्वा वक्तारौ - कस् तस्येशे यद् आवम् अपिसोमौ स्यावेति। अयं मम पतिर् इति ब्रूतात्। तेनो एव मे पुनर्युवताया आशति। तौ नैनां श्वो भूत एत्यैतद् एवोचतुः। सा होवाच - युवं वा असर्वौ स्थो, यौ देवौ सन्ताव् असोमपौ स्थः। सर्वो वै मम पतिर् यस् सोमप इति। तौ होचतुः कस् तस्येशे यद् आवम् अपिसोमौ स्यावेति। अयं मम पतिर् इति होवाच

3.125

तं होचतुर् - ऋषि ऽपिसोमौ नौ भगवः कुर्व् इति। तथेति होवाच। तौ वै नु मा युवं पुनर्युवानं कुरुतम् इति। तं ह सरस्वत्यै शैशवम् अभ्यवचकृषतुः। स होवाच - कुमारि, सर्वे वै सदृशा उदेष्यामो, ऽनेन मा लक्ष्मकेण जानीताद् इति। ते ह सर्व एव सदृशा उदेयुर् यत् कल्याणतमं रूपाणां तेन रूपेण। तं हेयं ज्ञात्वावबिभेदे - अयं मम पतिर् इति। तं होचतुर् ऋषि ऽकुर्वावं तव तं कामं यस् तव कामो ऽभूत्। पुनर्युवाभूः। आवं त्वं तथानुशाधि, यद् आवम् अपिसोमौ स्यावेति

3.126

स होवाच - देवा वा एते कुरुक्षेत्रे ऽपशीर्ष्णा यज्ञेन यजमाना आसते। ते तं कामं नाप्नुवन्ति यो यज्ञे कामः। तद् यज्ञस्य शिरो ऽछिद्यत। तद् यद् दध्यंङ् आथर्वणो ऽन्वपश्यत् तं तद् गच्छतम्। स वां तद् अनुवक्ष्यति। ततो ऽपिसोमौ भविष्यथ इति। तद् यत् तद् यज्ञस्य शिरो ऽछिद्यतेति, सो ऽसाव् आदित्यः। स उ एव प्रवर्ग्यः। तौ ह दध्यञ्चम् आथर्वणम् आजग्मतुः। तं होचतुर्, ऋष उप त्वायावेति। कस्मै कामायायेति। एतद् यज्ञस्य शिरो ऽनुवक्ष्यावहा इति। नेति होवाच। इन्द्रो वै तद् अप्य् अपश्यत्। स माब्रवीद् - यदि वा इदम् अन्यस्मै ब्रूयाश् शिरस् ते छिन्द्याम् इति। तस्माद् बिभेमीति। स वै नाव् अनेनाश्वस्य शीर्ष्णानुब्रूहीति। तथेति होवाच। स वै नु वां संवदमानौ पश्यानीति। तौ हेमौ स्वं शिरो निधायेदम् अश्वस्य शिरः प्रतिसंधाय तेन ह स्म संवदमानाव् आसाते साम गायमानाव् ऋचं यजुर् अभिव्याहरन्तौ। ताभ्यां ह श्रद्धाय तेनाश्वस्य शीर्ष्णानूवाच

3.127

तद् इन्द्रो ऽन्वबुध्यत - प्र हाभ्याम् अवोचद् इति। तस्याद्रुत्य शिरः प्राच्छिनद् इदम् अश्वशीर्षम्। अथ यद् अस्य स्वं शिर आसीत् तद् इमौ मनीषिणौ प्रतिसमधत्ताम्। तौ ह देवान् आजग्मतुर् अपशीर्ष्णा यज्ञेन यजमानान्। तान् होचतुर् अपशीर्ष्णा वै यज्ञेन यजमाना आध्वे। ते तं कामं नाप्नुथ यो यज्ञे काम इति। कस् तद् यज्ञस्य शिरो वेदेति। आवम् इति। तद् वै प्रतिसंधत्तम् इति। ताभ्यां वै नौ ग्रहं गृह्णीतेति। ताभ्याम् एतम् आश्विनं ग्रहम् अगृह्णन्। ताव् अब्रुवन् युवम् एवाध्वर्यू स्थस्, तौ तत् प्रजानन्ताव् एतद् यज्ञस्य शिरः प्रतिसन्धास्यथ इति। तथेति। ताव् अध्वर्यू आस्ताम्। तत् ताव् अपिसोमाव् अभवताम्

3.128

अथ ह च्यवनो भार्गवः पुनर्युवा भूत्वागच्छच् छर्यातं मानवम्। तं प्राच्यां स्थल्याम् अयाजयत्। तद् अस्मै सहस्रम् अददात्। तेनायजत। एतद् वै तच् च्यवनो भार्गव एतेन साम्ना स्तुत्वा पुनर्युवाभवत्, कुमारीं जायाम् अविन्दत, सहस्रेणायजत। एते वा एतस्मिन् सामन् कामा, एतान् एव कामान् अवरुन्द्धे। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। अथो ह स्मैतेनैव साम्ना च्यवनो भार्गवो यद् यद् अशनं चकमे तत् तद् ध स्म सरस्वत्यै शैशवाद् उदचति। तद् व् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ च्यवनो भार्गवो ऽपश्यत् तस्माच् च्यावनम् इत्य् आख्यायते। प्राणा शिशुर् महीनाम् इति पशुरूपम् एवैतद् उपागच्छन्ति। पशूनां वै शिशुर् भवति। तासु क्रोशं, भ्रातृव्यहा सेन्द्रं साम। हन्ति द्विषन्तं भ्रातृव्यम् आस्येन्द्रो हवं गच्छति य एवं वेद। तद् ऐळं भवति पशवो वा इळा। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै

3.129

पवस्व वाजसातय इति वाजवतीर् अनुष्टुभो भवन्त्य् - अन्नं वै वाजो - ऽन्नाद्यस्यैवावरुद्ध्यै।
पवित्रे धारया सुतः।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः॥
इति वैष्णव्यो भवन्ति - यज्ञो वै विष्णुर् - यज्ञस्यैवारम्भाय। तासु गौरिवीतम् उक्तब्राह्मणम्। अथाष्टेळः पद्स्तोभ इळानाम् अयातयामावरुध्यते। तेनो हास्मा एकशफाः पशवस् तिष्ठन्ते। प्रजापतिं प्रजास् ससृजानं शीर्षतः पाप्मागृह्णात्। सो ऽकामयताप पाप्मानं हनीयेति। स एतान् पदस्तोभान् अपश्यत्। तैर् अस्तुत। तैः पाप्मानम् अपाहत। तान् अपवेष्टयन्न् इव गायेत्। अपवेष्टयन्न् इव वै स तच् छीर्षतो ऽग्रे पाप्मानम् अपजघ्ने। अपवेष्टयन्न् इवैव शीर्षतो ऽग्रे पाप्मानम् अपहते य एवं वेद

3.130

ऋषीणां वा अग्रे मन्त्रश् चैव प्रजा चासीन् न पशवः। ते ऽकामयन्ताव पशून् रुन्धीमहीति। ते संवत्सरे पशून् पर्यपश्यन्। तान् एतेनाष्टेळेन पदस्तोभेनोदसृजन्त। ते ऽब्रुवन्न् अस्ति न्वा इति। तान् षडिळेनोदसृजन्त। ते ऽब्रुवन्न् अस्ति न्वा इति। तांश् चतुरिळेनोदसृजन्त। ते ऽब्रुवन्न् अस्ति न्वावेति। तान् द्वीळेनोदसृजन्त। ते वा एते पशव एव यत् पदस्तोभाः। पशव एतद् अहः। पशुमान् भवति य एवं वेद। त उ सर्वे जागता भवन्ति। पशवो वै जगती। तेनो हैवास्मिंस् तद् अप्य् एकशफाः पशवस् तिष्ठन्ते यत् सर्वे जागता भवन्ति। सर्वे हि जागताः पशवः

3.131

अथ पार्थं द्वियभ्यासं द्वितीयस्याह्नो रूपम्। द्वितीयं ह्य् एतद् अहर् आयतनेन। अथ ऋषभश् शाक्वरः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। स उ द्वाभ्यां द्वाभ्यां देवताभ्यां प्रतितिष्ठति। तस्माद् ऋषभ स्कन्दन् द्विपाद् भवति। ता एताश् चतुरक्षरा देवता भवन्ति। तस्माद् द्विपात् स्कन्दति। चतुष्पदः प्रजनयति। प्र प्रजया पशुभिर् जायते य एवं वेद। स उ पांक्तः। पांक्ते ऽहनि क्रियते रूपसमृद्धतायै। इन्दुर् वाजी पवते गोन्योघा इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। तासु दाशस्पत्यम् उक्तब्राह्मणम्। अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। आ ते अग्न इधीमहीत्य् आवतीर् भवन्ति। अपच्छिद्येव वा एतद् यज्ञकाण्डं यद् उक्थानि। तद् यद् आवतीर् भवन्ति यज्ञस्यैव सलोमतायै

3.132

तासु संजयम्। देवासुरा वा एषु लोकेष्व् अस्पर्धन्त। अस्मिन् भुवने ते देवा अकामयन्त सम् इमान् लोकान् जयेम जयेमासुरान् स्पर्धां भ्रातृव्यान् इति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् लोकान् समजयन्न्, अजयन् स्पर्धां भ्रातृव्यान् असुरान्। तद् यद् इमान् लोकान् समजयंस् तत् संजयस्य संजयत्वम्। सम् इमान् लोकाञ् जयति, जयति स्पर्धां द्विषन्तं भ्रातृव्यं, य एवं वेद। तद् उ पांक्तं, पांक्ते ऽहन् क्रियते - पांक्ता वै पशवः पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै। तद् व् एवाचक्षते द्विहिंकारं वामदेव्यम् इति। पशवो वै सिमाः, पशवो रेवतयः, पशवो द्विहिंकारं वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। अथो यद् एवैतस्मिन्न् अहन्न् ऊर्ध्वं शक्वरीभ्यः क्रूरम् इव क्रियते तद् एवैताभ्यां हिंकाराभ्यां शमयन्ति। अथ सौमित्रं भ्रातृव्यहा सेन्द्रं साम। हन्ति द्विषन्तं भ्रातृव्यम् आस्येन्द्रो हवं गच्छति य एवं वेद

3.133

त्रयो ब्रह्मापश्यन्, नोधास् तृतीयं, सुमित्रस् तृतीयं, बृहदुक्थस् तृतीयम्। तद् यत् प्रथमे त्रियहे नौधसं क्रियते, तेन प्रथमस् त्रियहो ब्रह्मण्वान् क्रियते। अथ यद् द्वितीये त्रियहे सौमित्रं क्रियते तेन द्वितीयस् त्रियहो ब्रह्मण्वान् क्रियते। अथ यत् तृतीये त्रियह बार्हदुक्थं क्रियते तेनैव तृतीयस् त्रियहो ब्रह्मण्वान् क्रियते। एतैर् ह वै सामभिर् एते त्रियहा ब्रह्मण्वन्तः क्रियन्ते। तत् पञ्चाक्षरणिधनं भवति पञ्चमस्याह्नो रूपं पञ्चरात्रस्य सन्तत्या अव्यवच्छेदाय। असावि सोम इन्द्र त इत्य् असावीति सिमानां रूपम्

3.134

तासु महावैश्वामित्रम्। एतेन वै विश्वामित्रो महीमानं भूमानम् अभिपूर्वं पशूनाम् अवारुन्द्ध। तद् एतत् पशव्यं साम। महिमानम् एव भूमानम् अभिपूर्वं पशूनाम् अवरुन्द्धे य एवं वेद। इन्द्रो वै वृत्रम् अजिघांसत्। स विश्वामित्रम् उपाधावद् - ऋष उप त्वा धावाम, इह नो ऽधिब्रूहीति। स एतद् विश्वामित्रस् सामापश्यत्। तेनास्तुत। ततो वा इन्द्रो वृत्रम् अहन्। सो ऽब्रवीन् महद् वा इदं विश्वामित्रस्याभूद् इति। तद् एव महावैश्वामित्रस्य महावैश्वामित्रत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तत् त्रीळं भवति - पशवो वा इळा। पशव एतद् अहर् - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। भेषजं ह खलु वै तिस्र इळाः। एतद् ध वै शिवं शान्तं वाचो यत् तिस्र इळाः। तद् यत् त्रीळं पञ्चमे ऽहनि भवति तेनैव त्रिणवं च स्तोमं शमयन्ति। सिमाश् चादित्याद् ऋतव उदक्रामन्। सो ऽकामयत न मद् ऋतव उत्क्रामेयुर् अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। हेहया ओ हा ओ हा इति हया ह वा अस्यैते यथाश्वा स्युर् एवम्। ततो वै तस्माद् ऋतवो नोदक्रामन्। तत एनम् उपावर्तन्त। तं प्राविशन्। तान् अभ्यारोहत्। स एष ऋतुषु च संवत्सरे चैतस्यां श्रियाम् अध्यूढस् तपति। यद् उ विश्वामित्रो ऽपश्यत् तस्मान् महावैश्वामित्रम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.135

ज्योतिर् यज्ञस्य पवते मधु प्रियम् इति सिमानां रूपम्। समानं वै सिमानां च रेवतीनां च रूपम्। सिमाभ्यो वा अधि रेवतयो निर्मिताः। ज्योतिर् इत्य् आह। ज्योतिर् एवैतत् प्रजासु दधाति। ज्योतिर् इति च ह खलु वै पवत इति च गायत्र्यै रूपम्। गायत्र्यो एतद् अहस् तायते। पिता देवानां जनिता विभूवसुर् इति प्रजापतिर् वै पिता देवानां, स जनिता, स विभूवसुः। प्राजापत्यम् एतद् अहः। दधाति रत्नं स्वधयोर् अपीच्यं मदिन्तमो मत्सर इन्द्रियो रस इति। रसो ह्य् एतद् अहः। यो वै पञ्चमाद् अह्नो रसो ऽत्यनेदत् तद् एतद् अहर् अभवत्। स एष रस एव। अभिक्रन्दन् कलशं वाज्य् अर्षतीत्य् ऋषभं एवैतत् प्रातस्सवने रेवतीष्व् अपिसृजन्ति प्रजननाय। पतिर् दिवश् शतधारो विचक्षण इति यद् वै शतवत् सहस्रवत् तज् जगत्यै रूपम्। जागतम् एतद् अहः। हरिर् मित्रस्य सदनेषु सीदति मर्मृजानो ऽविभिस् सिन्धुभिर् वृषेति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः।
अग्रे सिन्धूनां पवमानो अर्षस्य् अग्रे वाचो अग्रियो गोषु गच्छसि।
अग्रे वाजस्य भजसे महद् धनं स्वायुधस् सोतृभिस् सोम सूयसे॥
इत्य् अग्रम् अग्रम् इति भवति। अग्रं ह्य् एतद् अहर् यद् बार्हतम्। अग्रं त्रयस्त्रिंश स्तोमानाम्। तम् एवैतद् रेवतयो ऽनु

3.136

ता एता भवन्ति जगत्यो जगद्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। असृक्षत प्र वाजिन इत्य् अनुरूपो भवति भूतानुवादिनीः। षडहम् एवैतद् एतास् सृष्टम् अनुवदन्ति। तद् आहुर् अह्न एव रूपं स्तोत्रियेऩआरभन्ते ऽनुरूपेण साम्न इति। स्तोत्रियानुरूपौ भवतः। प्राणो वै स्तोत्रियो ऽपानो ऽनुरूपः। प्राणापानाभ्याम् एवैतत् समृध्य प्रयन्ति।
गव्या सोमासो अश्वया।
शुक्रासो वीरयाशवः॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः।
शुम्भमाना ऋतायुभिर् मृज्यमाना गभस्त्योः।
पवन्ते वारे अव्यये॥
इति रूति रेवतीनां रूपम्। ते विश्वा दाशुषे वस्व् इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः।
सोम दिव्यानि पार्थिवा।
पवन्ताम् आन्तरिक्ष्या॥
इतीमान् लोकान् समारभते। इमे वै लोकाः प्रजापतिः। प्राजापत्यम् एतद् अहः। षष्ठायतनो वै प्रजापतिर् देवतानाम्

3.137

पवस्व देववीर् अतीति दशर्चस्य प्रभृतिर् भवत्य् अति प्रादेति वा आहुर् उपस्थितम्। उपस्थितम् इवैतद् अहः।
पवित्रं सोम रंह्या।
इन्द्रम् इन्दो वृषा विश॥
इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। आ वच्यस्व महि प्सर इति आवतीर् भवन्त्य् अनतिपादायैव। अन्तम् इव ह्य् एतर्हि गच्छन्ति। षडहान् नेत् पराञ्चो ऽतिपद्यामहा इति। अधुक्षत प्रियं मध्व् इति यद् वै महानाम्नीनां दुग्धं पयस् ता रेवतयो ऽभवन्। महानाम्नीनां वा एतद् दुग्धं पयो यद् रेवतयः। महान्तं त्वा महीर् अन्व् इति त्रयस्त्रिंशो वै स्तोमो महान्। तम् एवैतद् रेवतयः।
आपो अर्षन्ति सिन्धवः।
यद् गोभिर् वासयिष्यसे॥
समुद्रो अप्सु मामृजे विष्टम्भो वरुणो दिवः।
सोमः पवित्रे अस्मयुः॥
इत्य् अप्सुमतीर् भवन्ति। आपो ह्य् एतद् अहः। अचिक्रदद् वृषा हरिर् इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् ह्य् एतद् अहः। महान् मित्रो न दर्शत इति महद् ध्य् एतद् अहर् यत् त्रयस्त्रिंशम्।
गिरस् त इन्द्र ओजसा मर्मृज्यन्ते अपस्युवः।
याभिर् मदाय शुम्भसे॥
तं त्वा मदाय घृष्वय उ लोककृत्नुम् ईमहे।
तव प्रशस्तये महे॥
गोपा इन्दो नृषा अस्य् अश्वसा वाजसा उत।
आत्मा यज्ञस्य पूर्व्यः॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः।
अस्मभ्यम् इन्दव् इन्द्रियं मधोः पवस्व धारया।
पर्जन्यो वृष्टिमं इव॥
इति दशर्चं भवति - दशाक्षरा विराड्, अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै

3.138

सना च सोम जेषि चेत्य् उत्तरं दशर्चं भवति। अभिपूर्वम् एवैतेन विराजम् अन्नाद्यम् अवरुन्धते। ऋषयो वा एतद् ऋद्धिकामा उपोत्थानं प्रियं वाचो ऽपश्यन्न् अथा नो वस्यसस् कृध्य्, अथा नो वस्यसस् कृधीति। तेनास्तुवत। ततो वै ते सर्व एवार्ध्नुवन्। सर्वे हैवर्ध्नुवन्ति य एवं विद्वांस एतेन दशर्चेन स्तुवते। उपरिष्टाद् उदकं दधति। रसो वै षष्ठम् अहः। तस्यानतिनेदाय। स यथापां वार्त्रं दिह्यात् तादृग् एवैतद् उपरिष्टाद् उदर्कं दधति रसस्यानतिनेदाय। चतुरृचो भवति चतुष्पदां पशूनाम् एवावरुद्ध्यै। परोक्षं द्विपदा भवन्ति, द्विपदां पशूनाम् अवरुद्ध्यै। वि नाराशंसम् इव भवत्य् उभयोः कामयोर् उपाप्त्यै। यच् च दिव्यो यच् च मानुष उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहः। तस्यानतिनेदाय

3.139

अथ ह वै तरन्तपुरुमीढौ वैतदश्वी ध्वस्रयोः पुरुषन्त्योर् बहु प्रतिगृह्य गरगिराव् इव मेनाते। तौ ह स्मांगुल्या सातं प्रतिममृशाते। ताव् अकामयेताम् असातं नाव् इदं सातं स्याद् आत्तम् इवैव न प्रतिगृहीतम् इति। ताव् एतच् चतुरृचम् अपश्यतां, तेन प्रत्यैताम्। ततो वै तयोर् असातं सातम् अभवद् आत्तम् इवैव न प्रतिगृहीतम्। स यः प्रतिगृह्य कामयेतासातम् म इदं सातं स्याद् आत्तम् इवैव न प्रतिगृहीतम् इति स हैतेन चतुरृचेन प्रतीयात्। असातं हैवास्य सातं भवत्य् आत्तम् एवैव न प्रतिगृहीतम्। एते सोमा असृक्षतेत्य् एता अन्त्या भवन्ति भूतानुवादिनीर् उ एव। षडहम् एवैतद् एतास् सृष्टम् अनुवदन्ति।
अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि।
सनद्वाजः परि स्रव॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
उत नो गोमतीर् इषो विश्वा अर्ष परिष्टुभः। गृणानो जमदग्निना॥
इति पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। त्रयस्त्रिंश स्तोमो भवति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति

3.140

तद् आहुर् - मिथुनानि पञ्चाहान्य्, अमिथुनं षष्ठम् अहः। तद् यद् इमं स्तोमम् अर्हते जातवेदस इत्य् आग्नेयम् आज्यं भवति, तेनैव मिथुनं षष्ठम् अहः क्रियते। रथम् इव सं महेमा मनीषयेत्य् एतेन मिथुनं क्रियते। होता वै पूर्वेष्व अहस्सु यजमानायाशिषम् आशास्त उद्गातैतस्मिन्। यो वै साम्नाशिषम् आशास्ते मीयत इव वै तस्य। तद् यद् अग्ने सख्ये मा रिषामा वयं तव, अग्ने सख्ये मा रिषामा वयं तवेति भवति, भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तथा हास्य न मीयते। उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस् तस्यानतिनेदाय। स यथापां वार्त्रं दिह्यात् तादृग् एवैतद् उपरिष्टाद् उदर्कं दधति रसस्यानतिनेदाय

3.141

प्रति वां सूर उदित इति मैत्रावरुणं भवति। प्रति ह्य् एतर्हि स्तोमाश् छन्दो ह्य् ऋतवो ग्रहा आवर्तन्ते। अथो यत् प्रति वाम् इति भवति तस्माद् उ हेदं यथर्त्वन्नाद्यं प्रतिधीयत उपरिष्टाद् उदर्काण्य् अन्यानि स्तोत्राणि भवन्ति। अथैतद् अनुपरिष्टाद् उदर्कम्। प्राणापानौ वै मैत्रावरुणौ। यद् उपरिष्टाद् उदर्कं दध्युः प्राणापानाव् अपिहन्युः। तद् यद् अनुपरिष्टाद् उदर्कं दधति प्राणापानाभ्याम् एवोत्सृष्ट्यै। भिन्धि विश्वा अप द्विष इत्य् ऐन्द्रं भवति। परि बाधो जही मृध इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति।
वसु स्पाहं तद् आआ भर॥
यस्य ते विश्वम् आनुषग् भूरेर् दत्तस्य वेदति।
वसु स्पार्हं तद् आ भर॥
यद् वीळाव् इन्द्र यत् स्थिरे यत् पर्शाने पराभृतम्।
वसु स्पार्हं तद् आ भर॥
इति। पशवो वै वसु स्पार्हम्। अन्नम् उ वै पशवः। एतान् तद् उद्गाता यजमानायाशिषम् आशास्त, उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस् तस्यानतिनेदाय

3.142

यज्ञस्य हि स्थ ऋत्विजा इत्य् ऐन्द्राग्नं भवति। अत्रेन्द्राग्नी आर्त्विज्याय वृणीते, ऽत्रेन्द्राग्निभ्यां यज्ञं संप्रदाय निर्मुच्यते। तस्य न मीयते यथा पुरम् एव भवतीन्द्राग्नी एवातः पराचीनम् आर्त्विज्यं कुरुतः।
इदं वां मदिरं मध्व् अधुक्षन्न् अद्रिभिर् नरः।
इन्द्राग्नी तस्य बोधतम्॥
इति शक्वरीणां च रेवतीनां च रूपम्।
तोशासा रथयावाना वृत्रहणापरिजिता।
इन्द्राग्नी तस्य बोधतम्॥
इति वार्त्रघ्नं भवत्य् अन्ततो विजित्यै। एतेन वै षडहेन देवा अग्रे व्यजयन्त। तद् यद् एतद् वार्त्रघ्नम् अन्तत आज्यं क्रियते, विजित्या एव भ्रातृव्यस्यैव वधाय। विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस्, तस्यानतिनेदाय। स यथापां वार्त्रं दिह्यात् तादृग् एवैतद् उपरिष्टाद् उदर्कं दधति रसस्यानतिनेदाय। त्रयस्त्रिंश स्तोमो भवति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व एवैतद् देवतासु प्रतितिष्ठन्तो यन्ति

3.143

इन्द्रायेन्दो मरुत्वत इति माध्यन्दिनस्य पवमानस्य गायत्र्यो भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। तं त्वा विप्रा वचोविदः परिष् कृण्वन्ति धर्णसिम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। रसं ते मित्रो अर्यमेति रसो ह्य् एतद् अहः। यो वै पञ्चमाद् अह्नो रसो ऽत्यनेदत् तद् एतद् अहर् अभवत्। स एष रस एव।
पिबन्तु वरुणः कवे।
पवमानस्य मरुतः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ रेवतयः। पशवो वै सिमाः। पशवो रेवतयः। पशव एतद् अहः। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। शक्वर्यो वा इदं तेजसा प्रातपन्। तेजसा नाभिमृश्या आसन्। तासां देवाः प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा इदम् इमाः प्रधक्ष्यन्ति। एतेदम् आसां शमयामेति। तासां द्वे एकस्यै पदे निरमिमतैकम् एकस्यै। यस्यै द्वे निरमिमत तद् एतां द्विपदां प्रत्युपादधुर्, यस्या एकं तद् एकपदाम्। सैवैषा त्रिपदा गायत्र्य् अभवत्। समानं वा एतच् छन्दः। तद् द्वेधा व्यौहन् भूम्ने च शान्त्यै च। बहुः प्रजया पशुभिर् जायते य एवं वेद

3.144

पञ्चमाद् वै देवा अह्नष् षष्ठम् अहर् निरमिमत। तस्मा आयतनम् ऐच्छन्। तस्मै रेवतीर् एवायतनम् अविन्दन्। आयतनवान् भवति य एवं वेद। पशवो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् पयः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। आत्मा मध्यन्दिनः। तद् यद् रेवतीर् मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् रेतः प्रतिष्ठापयन्ति। रेतो वै रेवतयः। रेत उ रैवतं साम। वज्रा ह खलु वा एते यद् रैवतस्य साम्नो निधनानि। तद् यद् रेवतीषु रैवतं पृष्ठं कुर्युर् वज्रेण रेतो वीयुस् ता यत् पुरस्तात् पवमाने कुर्वन्ति, वज्रेण नेद् रेतो व्ययामेति

3.145

पयो वै रेवतयः। पशवः पञ्चमम् अहः। ता यद् अन्तर्हिता अन्येन साम्ना स्युर् अन्तर्हितं पयः पशुभ्य स्यात्। ता यद् अनन्तर्हिता भवन्ति तेन पयः पशुभ्यो ऽनन्तर्हितं भवति। तद् आहुर् जामीव वा एतत् क्रियते यद् एता इळाभिर् इळा उपयन्ति। इषोवृधीयेनैवारभ्यम् अजामिताया इति। अन्तर्हितं ह तु तथा पयः पशुभ्य स्यात्। वज्रेण रेतो वीयू रेवतीभिर् एवारभ्यं वज्रेण नेद् रेतो व्ययामेति। अथो ह न तथा पयः पशुभ्यो ऽन्तर्हितं भवति। ऋग् वा अयं लोकस् सामासौ। देवक्षेत्रं वा असौ लोकः पवमानः। ता यद् द्वेधा व्यूहन्ति तेनैवाभ्याम् उभाभ्यां लोकाभ्यां न यन्ति। आपो वै रेवतयः। आप उ रैवतं साम। तद् यद् रेवतीषु रैवतं पृष्ठं कुर्युर् अगाधे मज्जेयुर् न प्रतितिष्ठेयुः। तद् यद् वारवन्तीयं पृष्ठं भवति प्रतिष्ठित्या एव। जीर्यन्तीव वा एतत् पृष्ठानि यदा षष्ठम् अहर् आगच्छन्ति। न वै जीर्णे रेतः परिशिष्यते। तद् यद् वारवन्तीयं पृष्ठं भवत्य् उत्तरेषाम् एव यज्ञक्रतूनां प्रजात्यै

3.146

वत्सैः पशून् संवाशयन्ति। यदा वै पशवो वत्सैस् संवाशन्ते, ऽथ कामान् दुह्रे। कामदुघा अस्मै रेवतयो भवन्ति। पवमाने संवाशयेद् यः कामयेतामुष्मिन् मे लोके कामदुघा स्युर् इति। अमुष्मिन् हैवास्य लोके कामदुघा भवन्ति। अभ्यावर्तिषु संवाशयेद् यः कामयेतास्मिन् मे लोके कामदुघा स्युर् इति। अस्मिन् हैवास्य लोके कामदुघा भवन्ति। उभयत्र संवाशयेद् यः कामयेतोभयोर् मे लोकयोः कामदुघा स्युर् इति। उभयोर् हैवास्य लोकयोः कामदुघा भवन्ति। तद् आहुर् इतो वत्सा स्युर्, इतो मातरः। उदीचीर् वा आप स्यन्दन्ते। आपो वा एते यत् पशव इति। तद् उ वा आहुर् - इत एव वत्सा स्युर्, इतो मातरः। यदा वै पिता पुत्रं निरवसाययत्य्, उत्तरतो वाव स तं निरवसाययति। तस्माद् उत्तरतो वत्सा स्युर्, दक्षिणतो मातरः। देवासुराः पशुष्व् अस्पर्धन्त। ते देवा वत्सैर् उत्तरतो ऽतिष्ठन्न्, अथासुरा मातृभिर् दक्षिणतः। ता मातरो निर्दीर्य वत्सान् अभिपलायन्त। अधारयन् देवा वत्सान्। तास् समाक्रम्यासुराणाम् अवृञ्जत। ताभिर् उदञ्चः प्राद्रवन्। वृंक्ते द्विषतो भ्रातृव्यस्य पशून् य एवं वेद। तस्माद् उत्तरत एव वत्सा स्युर्, दक्षिणतो मातर इति

3.147

अथ वाजदावर्यः। अन्नं वै वाजो, ऽन्नं दावर्यः। एता अन्नाद्यस्यैवावरुद्ध्यै। प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता प्रजापतिम् एवोपाधावन्। ताभ्य एतेनैव साम्नान्नाद्यं प्रायच्छत्। ता अब्रुवन् - वाजं वै नो ऽन्नाद्यं प्रादाद् इति। तद् एव वाजदावरीणां वाजदावरीत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। अथ सौपर्णं यज्ञस्यैवारम्भः। यज्ञो वै देवेभ्य उदक्रामत्। स सुपर्णो भूतः पर्यप्लवत। ते देवा अकामयन्ता यज्ञं रभेमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेन यज्ञम् आरभन्त। उत्क्रान्त इवैतर्हि यज्ञो भवति षष्ठे ऽहन्। तद् यद् अत्र सौपर्णं भवति यज्ञस्यैवारम्भाय। यद् व् एवैनम् एतेन सुपर्णं भूतं परिप्लवमानम् आरभन्ते, तस्मात् सौपर्णम् इत्य् आख्यायते। तद् व् एवाचक्षते क्रौञ्चम् इति। क्रुंङ् आङ्गिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहन् क्रियते। तद् ऐळं भवति - पशवो वा इळा। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै

3.148

अथेषोवृधीयं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। इषो वै षष्ठम् अहर्, वृधे सप्तमम्। षष्ठाद् वा अह्नस् सप्तमम् अहः प्रजातम्। तद् यद् इष इति षष्ठाद् एवैतद् अह्नस् सप्तमम् अहः प्रजनयन्ति। यद् वृध इत्य् अवर्धन्त इव ह्य् एतर्हि। प्रजापतिः प्रजा असृजत। ता अनशना - अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स प्रजापतिर् ऐक्षत - कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्। तेनैना इषोवृधीय इत्य् एवाभ्यमृशत्। ता अस्येषा समक्ता अवर्धन्त। तद् एवेषोवृधीयस्येषोवृधीयत्वम्। इषा हैवास्य समक्ता भार्या वर्धन्ते य एवं वेद। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशव एतद् अहः - पशूनाम् एवावरुद्ध्यै

3.149

मृज्यमानस् सुहस्त्या समुद्रे वाचम् इन्वसि। रयिम् इति (साम १०७९) रु इति रेवतीनां रूपम्
पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्य् अर्षसि॥
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद् वने।
इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। देवानां सोम पवमान निष्कृतं गोभिर् अञ्जानो अर्षसीति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। तासु सौषावम् अभ्यासवत् सिमानां रूपम्। अभ्यासो वै सिमानां रेवतयः। तद् व् एवाचक्षते वसिष्ठस्य पिप्पलीति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत - बहुः प्रजया पशुभिः प्रजायेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्राजायत। सो ऽब्रवीत् - पिप्पलि वा इदम् आस येन प्राजनिषीति। तत् पिप्पलीनां पिप्पलित्वम्। पिप्पलिनं ह वै नामैतत् पिप्पलीत्य् आख्यायते तत्। प्रजा वै पिप्पलं, पशवः पिप्पलं, स्वर्गो लोकः पिप्पलम्। तद् यत् पिप्पलि भवत्य् एतस्यैव सर्वस्यावरुद्ध्या। एतस्योपाप्त्यै। यद् ऊर्ध्वेळं भवति बृहतो रूपं, बार्हते ऽहन्। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य पिप्पलीत्य् आख्यायते

3.150

अथौक्ष्णोरन्ध्रम्। उक्ष्णो वै रन्ध्रः काव्यो ऽकामयताद्भिः प्रतीपं स्वर्गं लोकम् आरोहेयम् अप्सु मे वर्त्मानि पश्येयं नियानम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽद्भिः प्रतीपं स्वर्गं लोकम् आरोहद्, अप्सु स्ववर्त्मान्य् अपश्यन् नियानम्। स ह वाव रौमण्वतः। स एवोशना काव्यः। स ह स यमुनयैव प्रतीपं स्वर्गं लोकम् आरोहत् । तद् एतत् स्वर्ग्यं साम। अद्भिः प्रतीपं स्वर्गं लोकम् आरोहति य एवं वेद। यद् उक्ष्णो रन्ध्रः काव्यो ऽपश्यत् तस्माद् औक्ष्णोरन्ध्रम् इत्य् आख्यायते। अथो आपोनियानम् इति, यद् अस्याप्सु नियानम् अपश्यत्

3.151

अथ वाजजित्। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवति, अथ स वाजी भवति। देवासुरा अन्नाद्ये अस्पर्धन्त। ते देवा अकामयन्त वृञ्जीमह्य् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ते वाजिजिगीवेत्य् एवान्नाद्यम् असुराणाम् अवृञ्जत। तद् एव वाजिजितो वाजजित्त्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे, वृंक्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद। तत् पञ्चाक्षरणिधनं भवति। पांक्तो वै यज्ञः। अतीव वा एते यज्ञस्य मात्रां क्रामन्ति य एतद् अहर् आगच्छन्ति। तद् यत् पञ्चाक्षरणिधनं भवति - पांक्तो यज्ञो - यावती यज्ञस्य मात्रा तां नेद् अतिक्रामामेति

3.152

अथ वरुणसाम। वरुणो वै राजा सधमादम् अवान्याभिर् देवताभिर् आसीत्। सो ऽकामयत सर्वेषां देवानां राज्याय सूयेयेति। स प्रजापतौ शतं वर्षाणि ब्रह्मचर्यम् अवसत्। तस्मा एतत् सामाब्रवीद् - एतद् वै मे राज्यं रूपम्। गच्छ। राजानं त्वा देवाः करिष्यन्त इति। स देवान् अभ्यैत्। तम् आयन्तं दृष्ट्वा देवाः प्रत्यवारोहन्। तान् अब्रवीन् - मा मा प्रत्यवरुक्षत। भ्रातरो वै मम यूयं स्थ। यादृशा वै यूयं स्थ, तादृङ् अहम् अस्मीति। नेत्य् अब्रुवन्। यद् वै नः पितुः प्रजापते रूपं तद् इदं त्वयि पश्याम इति। तं प्रत्य् एवावारोहन्। तस्मा एतां राजासन्दीं त्यदधुः(न्यदधुः?)। तस्याम् एनम् अभ्यषिञ्चन्त - वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वेदेवास् साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तद् एतच् छ्रीसवस्साम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ वरुणो राजापश्यत्, तस्माद् वरुणसामेत्य् आख्यायते

3.153

अथ गोष्ठः शक्वरीणां च वा एष रेवतीनां च गोष्ठः। पशूनां धृत्यै गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशूमान् भवति य एवं वेद। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् प्रथमेनाह्नाविवारयिषत। तान् नावारयत। तान् द्वितीयेन नावारयत। तांस् तृतीयेन नावारयत। तांश् चतुर्थेन नावारयत। तान् पञ्चमेन नैवावारयत। तान् षष्ठे ऽहन्न् एतेनैव साम्नावारयत। सो ऽब्रवीद् गोष्ठो वाव म इदं पशूनां सामाभूद् इति। तद् एव गोष्ठस्य गोष्ठत्वम्। तद् एतत् पशव्यं साम गोष्ठः। ध्रियन्ते ऽस्मिन् पशवः। पशुमान् भवति य एवं वेद। तद् उ निषिद्धम् इव भवतीहा इळा इहा इळा इति। एतद् ध वा एनांस् तद् एतेन पुरस्ताद् वारयांचक्रे। एतम् उ त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् इति यद् वै सिन्धुमत् समुद्रवत् तद् एतस्याह्नो रूपम्। आपोभाजनम् एतद् अहः। तदा आहुर् यन्ति एते त्रिष्टुभः पवनानान्ताद् ये गायत्रीष्व् अन्त्यं कुर्वन्तीति। तास् सूर्यवतीर् भवन्ति। अथो ऐन्द्रीः। तेन त्रिष्टुभः पवमानान्तान् न यन्ति। तास्व् इहवद् वामदेव्यम्। पशवो वै सिमाः। पशवो रैवतम्। पशव इहवद् वामदेव्यम्। पशुमन्त इव भवन्त्य् एनेन तुष्टुवानाः। तद् उ निषिद्धम् इवैव भवत्य् - एतम् उ त्यं दश क्षिप इहा मृजन्ति सिन्धुमातरम् इहेति एतद् ध वा एनांस् तद् अप्य् एतेनैव पुरस्ताद् वारयांचक्रे

3.154

रेवतीर् नस् सधमाद इति रेवतयो भवन्ति। समाद् एवैतत् समम् उपयन्ति। गायत्र्यो मध्यन्दिनस्यान्त्या भवन्ति। गायत्र्य एताः। स यथा समात् समं संक्रामेत् तादृक् तत्। यातयामानि वा एतर्ह्य् अन्यानि छन्दांसि, गायत्र्य् एवायातयाम्नी। यातयामभि स्तोत्रैर् यातयामभिश् शस्त्रैर् वषट्कारो यातयाम। ऋतुमन्ति पञ्चाहान्य् अनृतु षष्ठम्। तद् यद् धोत्रा ऋतुयाजान् नाना वषट्कुर्वन्ति तेनैव षष्ठम् अहर् ऋतुमत् क्रियते। तासु वारवन्तीयम्। एतद् ध वै रेवद् रैवत्यं यद् रेवतीषु वारवन्तीयम्। रेवान् भवत्य् आस्य रेवान् रैवत्यो जायते य एवं विद्वान् रेवतीषु वारवन्तीयेन स्तुते। एतद् वै बृहद् रैवत्यम् यद् रेवतीषु वारयन्तीयम्। बार्हतं षष्ठम् अहः। तेनैव षष्ठम् अहर् बार्हतं क्रियते। अग्निर् वा एष वैश्वानरो यत् पृष्ठ्यष् षडहः। ऋतवो वै पृष्ठानि। संवत्सर ऋतवः। संवत्सरो ऽग्निर् वैश्वानरः। सो ऽशान्त ईश्वरः प्रदग्धोः। तद् यद् वारवन्तीयं पृष्ठं भवत्य् अग्नेर् एव वैश्वानरस्य शान्त्या अप्रदाहाय

3.155

प्रजापतिर् वा एतं यज्ञम् असृजत यत् पृष्ठ्यं षडहम्। स सृष्टः प्राद्रवत्। तं रथन्तरेणाविवारयिषत। तं नावारयत। तं बृहता नावारयत। तं वैरूपेण नावारयत। तं वैराजेन नावारयत। तं महानाम्नीभिर् नावारयत। तं रेवतीभिर् नैववारयत। तं वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयं पृष्ठं भवति यज्ञस्यैव वारणायै। प्रजापतिर् वा एतं यज्ञम् असृजत यत् पृष्ठ्यं षडहम्। तस्मै प्रतिष्ठाम् ऐच्छत्। तस्मा अप एवाविन्दत्। तासु रथन्तरेण प्रतिष्ठाम् ऐच्छत्। स नाविन्दत्। तासु बृहता नाविन्दत्। तासु वैरूपेण नाविन्दत्। तासु वैराजेन नाविन्दत्। तासु महानाम्नीभिर् नाविन्दत्। तासु रेवतीभिर् नैवाविन्दत्। तासु वारवन्तीयेनैवाविन्दत्। यद् अविन्दत् तद् व् एव वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयं पृष्ठं भवति यज्ञस्यैव प्रतिष्ठायै। इयं वै वारवन्तीयम्, इयं प्रतिष्ठा। अस्याम् एवैतद् यज्ञं प्रतिष्ठापयन्ति। अग्निर् वा एष वैश्वानरो यद् वारवन्तीयम्। आप उ रेवतयः। तद् यद् रेवतीषु वारवन्तीयं भवति, तस्माद् आपो ऽग्नियोनयः। जीर्यन्तीव वा एतत् पृष्ठानि यदा षष्ठम् अहर् आगच्छन्ति। न वै जीर्णे रेतः परिशिष्यते। तद् यद् वारवन्तीयं पृष्ठं भवत्य् उत्तरेषाम् एव यज्ञक्रतूनां प्रजात्यै

3.156

तद् उ होवाचाभिप्रतारणो जीर्णश् शयानः। पुत्रा हास्य दायं विभेजिरे। स ह घोष आस। को घोष इति। तस्मै होचुः - पुत्रास् ते भगवो दायं विभजन्त इति। स होवाच - सुश्रवा वा अहं तत् पृष्ठानां ब्राह्मणे जीवतो ऽस्य पुत्रा दायम् उपयन्तीति। सुश्रवा वा अहं तद् इति। तद् एतद् यथा जीवतो दायम् उपेयाद् एवं तद् यद् रैवते ऽहनि सति वारवन्तीयं पृष्ठं भवति। अथेतरत् पवमाने कुर्वन्ति। अथ ह गैरेय आषाढिर् अषाढं भाल्लवेयं पप्रच्छ यद् इमानि यद् बहूनि सामानि कथं षष्ठायाह्ने न प्राभवन्न् इति। स होवाच - त्वत्वादृशाष् षड् राजानः पञ्चालेषु वेद्या इति। स होवाचैवं न्यूनं त्वं वेत्थान्यथा वयम् अतो विद्मेति। स यद् एवैतद् अपृष्ठं पृष्ठं वारवन्तीयं क्रियते तेनैवैतद् अहर् अप्रभूतम्। अथ ह नैतत्नव आरुणिं पप्रच्छारुण आरुणे कस्माद् अरेतोधास् सत्यो महानाम्नयः प्रजनयन्ति। कस्माद् उ रेतोधास् सत्यो रेवतयो न प्रजनयन्तीति। यद्र इति रेत एव प्रथमेनाभिव्याहरतीति। तद् ध न प्रत्युवाच। तेन हैनं जिगाय। स यत् प्रत्यवक्ष्यद् - रेतो वै रेवतयो रेत उ रैवतं साम। न वै रेतसो रेतो ऽस्ति। पुत्र एवैतर्हि रेतो ऽन्तम् एतत् पृष्ठानि गच्छन्ति। यदा षष्ठम् अहर् आगच्छन्ति नातः पराञ्चि प्रजायन्ते। तस्माद् अरेतोधास् सत्यो महानाम्नयः प्रजनयन्ति। तस्माद् उ रेतोधास् सत्यो रेवतयो न प्रजनयन्तीति। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। सुरूपकृत्नुम् ऊतय इत्य् अभ्यारम्भेण षट्पदाष् षष्ठे ऽहन् भवन्ति। तेनैव षडहानि कल्पन्ते

3.157

तास्व् ऋषभो रैवतः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। तस्य पूर्वार्धं च जघनार्धं च भूयिष्ठं भाजयन्ति। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भुञ्जन्ति वहन्ति। पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवं वेद। उभे यद् इन्द्र रोदसी इति षट्पदाष् षष्ठे ऽहन् भवन्ति। तेनैव षडहानि कल्पन्ते। देवासुराः पशुष्व अस्पर्धन्त। ते ऽसुराः पशुभिस् सह समुद्रम् अभ्यवायन्। ते देवा अकामयन्त वृञ्जीमह्य् असुराणां पशून् इति। त एतान् अंकान् अपश्यन्न् एता ऋचो - देवी जनित्र्य् अजीजनद् भद्रा जनित्र्य् अजीजनद् इति। एतद् अङ्कं रूपम् । तैर् उदारुम्पंस् तान् पशून्। ता एता- पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः

3.158

तासु श्येनस् संपारणो ऽनपहानाय क्रियते। श्येनो ह वा एतद् अहस् संपारयितुम् अर्हति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनानाञ् छ्येन एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - श्येनो वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव श्येनस्य श्येनत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। इन्द्रो वा एतेन साम्ना श्येनो भूत्वा असुरान् अपावपत्। तद् व् एव श्येनस्य श्येनत्वम्। तद् उ भ्रातृव्यहा । हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.159

परि स्वानो गिरिष्ठा इत्य् आर्भवस्य पवमानस्य परिवतीर् गायत्र्यो भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
पवित्रे सोमो अक्षरत्।
मदेषु सर्वधा असि॥
इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य् ऐवैनद् एतेन प्याययन्ति। त्वं विप्रस् त्वं कविर् इति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
मधु प्र जातम् अन्धसा।
मदेषु सर्वधा असि॥
त्वे विश्वे सजोषसः
इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् अतद् अहः।
देवासः पीतिम् आशत।
मदेषु सर्वधा असि॥
इत्य् उपरिष्टाद् उदर्कं दधति। रसो वै षष्ठम् अहस्, तस्यानतिनेदाय। तासु गायत्रम् उक्तब्राह्मणम्। अथ त्रीणि वैदन्वतानि। शर्यातो वै मानवः प्राच्यां स्थल्याम् अयजत। तं हर्षयो याजयांचक्रुः। तद् उभये देवमनुष्यास् सोमं समपिबन्। तद् उभयैर् देवमनुष्यैर् उत्तमं सोमस् संपीतः। तस्मिंश् च्यवनो भार्गवो ऽश्विभ्यां ग्रहम् अगृह्णात्। तम् इन्द्रश् चमसम् अवागृह्णात् - को ऽयम् अज्ञातश् चमसः प्रचरतीति। तस्य विदन्वान् भार्गवः प्रत्यहन्, कस् तं चमसं मीमांसितुम् अर्हति यं वयं प्रयच्छेमेति

3.160

ते देवा अक्रुध्यन्न्, अक्रुध्यन्न् ऋषयः। ते नवनवतयो मरुत ऋष्टिहस्ता अतिष्ठन्न् - इदानीम् इदं पर्याकरिष्यामो ऽथेदं सर्वं मर्दिष्यत इति। अथ ह ऋषयो मदम् आसुरम् उदाह्वयन्। स उत्तृन्दन्न् एवान्तरिक्षं शीर्ष्णाभ्यधात्। सा महती समद् आसीत्। सो ऽग्निर् इन्द्रम् अब्रवीद् व्येतु ते क्रोध श्रेयांसो वा एते ऽस्मत्। यदि वा एतान् क्रोधयिष्यति नेह किं चन परिशेक्ष्यते। एतेभ्यो वै वयं जातास्म इति। तस्याग्निर् एव क्रोधं व्यनयत्। स इन्द्रो वीतक्रोधस् सह देवैः प्राद्रवत्। तेषाम् अपेन्द्रो ऽपदेवो यज्ञो ऽभवत्। ते ऽकामयन्त - सेन्द्रो नस् सदेवो यज्ञ स्याद् इति। स एतानि विदन्वान् भार्गवस् सामान्य् अपश्यत्। तैर् अस्तुत। तैर् इन्द्रम् आह्वयत्। तैर् अस्य क्रोधं व्यनयत्। ततो वै तेषाम् इन्द्रो यज्ञम् उपावर्तत। तत एभ्यो ऽनपक्रम्याभवत्। तत एषां सेन्द्रस् सदेवो यज्ञो ऽभवत्। तानि वा एतानि सेन्द्राणि सदेवानि सामानि। सेन्द्रो हास्य सदेवो यज्ञो भवत्य्, अभ्य् अस्येन्द्रो यज्ञम् आवर्तते, नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। पशवो ह खलु वै विदन्वन्त, एता ऋचो विदन्वतीः। तास्व् एतम् ऋषभं वैदन्वतम् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। यद् उ विदन्वान् भार्गवो ऽपश्यत् तस्माद् वैदन्वतानीत्य् आख्यायन्ते

3.161

अथ ह मद आसुरो बिभयांचकार। स होवाच मा मां मोघायोदाह्वयत वि मां निधत्तेति। ते ऽब्रुवन् पास्याम इति मन्यमानास् सुराम् आहराम वरुणस्यान्धसो ऽधि। तस्यां नैवासीत् कतमश् चनार्तस् सामर्त्यानीति। तत्र मद परेहीति। स एष मद आसुरस् सुरायां विनिहितः। स सुन्वे यो वसूनां यो रायाम् इति (साम १०९६) रूति रेवतीनां रूपम्

3.162

तासु दीर्घं बृहताम् एकम्। एतेन ह वा एतद् अहर् बार्हतं क्रियते। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् दीर्घम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - दीर्घं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव दीर्घस्य दीर्घत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तं वः सखायो मदायेति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति।
पुनानम् अभिगायत।
शिशुं न हव्यै स्वदयन्त गूर्तिभिः॥
इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। सं वत्स इव मातृभिर् इन्दुर् हिन्वानो अज्यत इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो ह्य् एतद् अहः। देवावीर् मदो मतिभिः परिष्कृतं इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः

3.163

तासु कार्णश्रवसम्। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स व्यस्मयत। तस्य कर्णौ समैषताम्। ताभ्यां नाशृणोत्। सो ऽकामयताबधिर् स्यां, शृणुयां कर्णाभ्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽबधिरो ऽभवद्, अशृणोत् कर्णाभ्याम्। सो ऽब्रवीद् अश्रौषं वै कर्णाभ्याम् इति। तद् एव कार्णश्रवसस्य कार्णश्रवसत्वम्। अबधिरो भवति, शृणोति कर्णाभ्यां य एवं वेद। तद् व् एवाचक्षते गौलोमम् इति। गोलोमा आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ गोलोमा आंगिरसो ऽपश्यत् तस्माद् गौलोमम् इत्य् आख्यायते।
सोमः पवन्त इन्दवो ऽस्मभ्यं गातुवित्तमाः।
मित्रा स्वाना अरेपस
इति रूति रेवतीनां रूपम्। तासु गौरिवीतम् उक्तब्राह्मणम्

3.164

अथ मधुश्च्युन्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते - अथ ऽन्तो वै रसानां मध्व्, अन्त स्वर्गो लोकानाम्, अन्त एतद् अहर् - अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। अथ क्रौञ्चे। क्रुंङ् आंगिरस ईष्यम् इवाहर् अविन्दत्। ईष्यम् इवैतद् अहर् यत् षष्ठम्। तस्मात् षष्ठे ऽहनि क्रियेते। ते उ एवाचक्षत उद्वच् च शाम्मदं चेति। उद्वता वै देवा ऊर्ध्वा स्वर्गं लोकम् उदक्रामन्। यद् ऊर्ध्वा स्वर्गं लोकम् उदक्रामंस् तद् उद्वत उद्वत्त्वम्। तद् एतद् स्वर्ग्यं साम। ऊर्ध्व एवैतेन स्वर्गं लोकम् उत्क्रामति य एवं वेद।
अथ शाम्मदम्। देवेभ्यो वै विजिग्यानेभ्य इमे लोका बिभ्यतो व्युदक्रामन्। ते ऽकामयन्ताभि न इमे लोका आवर्तेरन्। नास्मद् अपक्रामेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् इमे लोका अभ्यावर्तन्त। तत एभ्यो ऽनपक्रामिणो ऽभवन् । ते ऽब्रुवन् छं वै न इमे लोका अमादिषुर् इति। तद् एव शाम्मदस्य शाम्मदत्वम्। शम् अस्मा इमे लोका मदन्त्य् अभ्य् एनम् इमे लोका आवर्तन्ते। नास्माद् इमे लोका अपक्रामन्ति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्।
अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व।
ब्रध्नश् चिद् यस्य वातो न जूतिं पुरुमेधश् चित् तकवे नरं धात्॥
इति रूति रेवतीनां रूपम्

3.165

तासु श्नौष्टम्। एतेन वा अग्निर् वैश्वानरो दीदाय। दीदयामेति सत्रम् आसते। दीदयन्त्य् एवैनम् एतेन। अथ ह वा अग्निर् वैश्वानर इत्थम् एवास यथेमे ऽङ्गाराः। सो ऽकामयत श्नुष्टयो मे जायेरन्न् अचर्यं(अर्चय?) इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै तस्य श्नुष्टयो ऽर्चयो ऽजायन्त। एते ह वा अस्य श्नुष्टयो यद् अर्चयः। तेजो वा अस्य तद् ब्रह्मवर्चसम् अजायत। तेजस्वी ब्रह्मवर्चसी श्नुष्टिमान् भवति य एवं वेद। तद् उ निषिद्धम् इव भवत्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तद् यथा वा अदो ऽनयनं यन्तम् एहीह मात्रैर् इत्य् अनुह्वयेद् एवम् एवैतेन स्तोमा आप्ता अन्ततो ऽनुह्वयन्ति

3.166

अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। अथैता द्विपदो भवन्ति, छन्दसाम् अयातयामताया अवरुद्ध्यै। यातयामानि वा एतर्ह्य् अहानि छन्दांसि, द्विपद एवायातयाम्नीः। ता यद् अत्र क्रियन्ते तेनैवैतद् अहर् अयातयाम क्रियते। तद् ध स्म केशी दार्भ्य उपगायति -
सर्वदैव गिरौ भद्रम् अपि पर्णेन जीवति।
यदावसं न विन्दति तदाशा उपधावति॥
इति। यादृग् इव स्युर् एव ब्राह्मणास् तादृग् इदं यूयं कुरुथाप्तेषु छन्दस्सु द्विपद इति। पशवो वै पृष्ठ्यष् षडहः, पुरुष छन्दसां द्विपदः। ता यद् अत्र क्रियन्ते पुरुषम् एव तत् पशुष्व् अध्यूहन्ति। तस्मात् पुरुष उपरिष्टात् पशून् अधीव तिष्ठति। अथो स्वर्ग एष लोको यत् पृष्ठ्यष् षडहो, यजमान एव निदानेन यद् द्विपदः। ता यद् उपरिष्टात् पृष्ठ्यस्य षडहस्य पर्यूहन्ति यजमानम् एव तत् स्वर्गे लोके समुदूहन्ति

3.167

छन्दांसि यद अमुम् आदित्यम् उदयच्छंस् तानि नाशक्नुवन्न् उद्यन्तुम्। तानि द्विपदाश् छन्दांस्य् अब्रुवंस् त्वयि प्रतिष्ठायैतम् उद्यच्छामेति। तानि वै - मे ऽन्नं भवतेति। अन्नं ते भवाम इत्य् अब्रुवन्। तद् ब्राह्मणो ह वै छन्दो द्विपदस्, तान्य् अस्यैतान्य् अन्नम् इह चामुत्र च। तान्य् एतानि छन्दांसि द्विपदायां प्रतिष्ठायैतम् आदित्यम् उद्यच्छन्त्य् एतांश् च यज्ञक्रतून्। तद् यत् पृच्छेयुः कस्माद् द्विपदष् षष्ठे ऽहन् क्रियन्त इति, प्रतिष्ठित्या इत्य् एव ब्रूयात्। तस्माद् एता अत्र नान्तरित्याः। ता एता भवन्त्य् अग्ने त्वं नो अन्तम इति -

3.168

असमातिं राथप्रौष्ठं गौपायना अभ्यदासन्। ते खाण्डवे सत्रम् आसत। अथ हासमातौ राथप्रौष्ठे किलाताकुली ऊषतुर् असुरमायौ। तौ ह् स्मानग्नाव् अधिधायौदनं पचतो ऽनग्नौ मांसम्। वपन्तौ ह् स्म पुरस्ताद् इतो लुनन्तो ह स्म पश्चाद् अनुयन्ति तावन् मायाविनौ हासतुः। तद् वै तच् छश्वद् इक्ष्वाकवो ऽसुराशनं जग्ध्वा पराभूताः। तम् असमातिं राथप्रौष्ठं गौपायनानाम् आहुतयो ऽभ्यतपन्। सो ऽब्रवीद् इमौ किराताकुली इमा वै मा गौपायनानाम् आहुतयो ऽभितपन्तीति। ताव् अब्रूतां तस्य वा आवम् एव भिषजौ स्व, आवं प्रायश्चित्तिर्, आवं तथा करिष्यावो यथा त्वैता नाभितप्स्यन्तीति। तौ परेत्य सुबन्धोर् गौपायनस्य स्वपतः प्रमत्तस्यासुम् आहृत्यान्तःपरिधि न्यधत्ताम्। परिधिमन्तो ह् तर्ह्य् अग्नय आसुः। तत् सुबन्धाव् अप्रबुद्धे ऽन्वबुध्यन्ताहार्ष्टां वा अस्यासुम् असुरमायाव् इति। ते ऽब्रुवन्न् एत सुबन्धोर् असुम् अन्वयामेति। ते खाण्डवात् प्रायन् --
मा प्र गाम पथो वयं मा यज्ञाद् इन्द्र सोमिनः।
मान्त स्थुर् नो अरातयः॥
यच् चेदम् इमो यच् च सत्रम् आस्महे तस्माद् उभयस्मान् मा प्रगामेति ते सुबन्धुनावतन्तुमता सुबन्धुतीर्थेनैव ह्वृणिनीं प्राञ्चस् तीर्त्वागच्छन्न् असमातिं राथप्रौष्ठम्

3.169

तस्य ह पराख्यायैवाग्निम् अजानन्। वरूथ्यो वै नामास्याग्निर् इति। अथ ह ततः पुराग्निर् (वरूथ्यो) नाम प्रोचे - वरूथ्यो वै नामास्मि। स यस् त्वैतद् अभिराधयाद् यद् एव त्वा किं च स ब्रवत् तत् कुरुताद् इति। तम् उपायन्न् अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्य इति। तान् अब्रवीत् किंकामा आगातेति। सुबन्धोर् एवासुं पुनर् वनुम इत्य् अब्रुवन्। एषो ऽन्तःपरिधीत्य् अब्रवीत्। तम् आदद्ध्वम् इति। ते निराह्वयन्न्
अयं मातायं पितायं जीवातुर् आगमत्।
इदं तव प्रसर्पणं सुबन्धव् एहि निर् इहि॥
इति। तं सुबन्धुम् असुः पुनः प्राविशत्। स यथापुरम् अभवत्। तद् आभ्यां किराताकुलीभ्याम् आचक्षतेमे वा ऋषयो ऽसुं निराह्वयन्न् इति। ताव् अधारयमाणौ निराद्रवताम्। तयोर् इमान् एव पराख्याय सर्वा माया अपाक्रामन्। तयोर् ह यत् पापिष्ठतमं रूपाणां तद् रूपम् आस

3.170

अथ ह ततः पुरा मायया दर्शनीयाव् आसतुः। तयोर् अन्यतरो ऽग्निं प्रप्लवमाणो ऽब्रवीद् - इत्थं वै स करोति यस् सत्यम् अनृतेन जिघांसतीति। अथेत्थं गा न्यकृन्तन्। तद् अन्यतर उपपरेत्य ग्रीवा अपिकृन्तमाणो ऽब्रवीद् - इत्थम् उ वाव स करोति यस् सत्यम् अनृतेन जिघांसतीति। तौ तद् अवाम्रियेताम्। ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य् ऋचः। हन्ति द्विषन्तं भ्रातृव्यम् अप रक्षः पाप्मानं हत एताभिर् ऋग्भिस् तुष्टुवानः। तद् आहुर् यद् वालखिल्या विहरन्ति कथम् एतासु विहृतासु स्तुवत इति। स ब्रूयाद् यद् एवैतानि व्यूनाक्षराणि व्यतिषक्तानि पदानि भवन्ति, तेनेति

3.171

तासु गूर्दः। देवासुरा अन्नाद्ये ऽस्पर्धन्त। ते देवा अन्नाद्यम् असुराणाम् अवृञ्जत। तेषु हासुरेषु गूर्द एव नाम महद् अन्नाद्यं परिशिशिषे। ते देवा अकामयन्त वृञ्जीमहीमं गूर्दम् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। तेन गूर्दम् अन्नाद्यम् असुराणाम् अवृञ्जत। तस्मिन्न् अगूर्दन्। यद् अगूर्दंस् तद् गूर्दस्य गूर्दत्वम् । तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे वृंक्ते द्विषतो भ्रातृव्यस्यान्नाद्यं य एवं वेद। प्रजापतिर् अन्नाद्यम् असृजत। तस्य सर्वे देवा ममत्विन आसन् मम ममेति। सो ऽग्निर् अकामयताहम् इदम् अन्नाद्यम् उज्जयेयम् इति। स एतत् सामापश्यत्। तेनैनं पर्यगृह्णात्। तद् उदजयत्। तद् एतद् अग्नाव् एव सर्वम् अन्नाद्यम्। तस्माद् यस्यै यस्यै देवतायै जुह्वत्य्, अग्नाव् एव जुह्वति। तस्मिन्न् अगूर्दत्। यद् अगूर्दत्, तद् व् एव गूर्दस्य गूर्दत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस्साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। इमा नु कं भुवना सीषधेमेन्द्रश् च विश्वे च देवा इति वैश्वदेव्यो भवन्ति। वैश्वदेवो वै वृषाकपिः। वैश्वदेवम् एतद् अहः। यज्ञं च नस् तन्वं च प्रजां चादित्यैर् इन्द्रस् सह सीषधात्व् इति सिद्ध्या एव। आदित्यैर् इन्द्रस् सगणो मरुद्भिर् अस्मभ्यं भेषजा करद् इति भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते

3.172

तासु गोतमस्य भद्रम्। गोतमो वै श्रीकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स श्रियम् आश्नुत। तच् छ्रीर् वै भद्रम्। प्रजा वै भद्रम्। प्रजायै या प्रजा सा श्रेयः। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। यद् उ गोतमो ऽपश्यत् तस्माद् गोतमस्य भद्रम् इत्य् आख्यायते।
प्र व इन्द्राय वृत्रहन्तमायेति वार्त्रघ्न्यो भवन्त्य्, अन्ततो विजित्यै। देवा वै षडहेन विजित्याब्रुवन् - किं नु नो ऽस्यान्तत स्याद् यथा न इदं जितम् असुरान् अपजयेयुर् इति। ते पृष्ठानाम् एव रसान् संप्रावृहन्। तान् अभ्यस्वरन्। तद् ऊर्ध्वम् उदश्रयद् यथा वंश एवम्। तद् उद्वंशीयम् अभवत्। तद् उद्वंशीयस्योद्वंशीयत्वम्। तद् यज्ञम् अत्यरिच्यत। तस्माद् एतम् उद्वंशपुत्रं प्रावृहन्त्। रसाद् एव रसं तं पृष्ठ्यस्य षडहस्यान्ततो ऽकुर्वंश् छन्दोमानाम् उद्वंशीयम्। ताव् एतौ वज्राव् उद्यताव् अन्ततस् तिष्ठतः, पशूनां गुप्त्यै पशूनाम् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। सर्वेषां वा एतत् पृष्ठानां रूपं रसस् तेजस् संभृतम्। सर्वस्मिन्न् एवैतत् पृष्ठरूपे रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठन्ति। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। अतीता इवैतर्हि भवन्ति तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अनिपादायैव। तत् स्वारं भवति। अभि सप्तमम् अह स्वरति। स्वारम् एव तद् भवति। स्वरेण श्वो भूते प्रतिपद्यन्ते। स यथा समात् समं संक्रामेद्, यथा प्राणेन प्राणं संदध्यात्, तादृक् तत्

3.173

प्रजापतिर् वा एतं यज्ञम् असृजत यद् द्वादशाहम्। तं पृष्ठ्येनैव षडहेन सर्वम् आप्नोत्। स ऐक्षत कथं न्व् इमानि चत्वार्य् अहानि प्रतिसंदध्याम् इति। स गायत्र्या एव चतुर्विंशम् अहर् निरमिमीत, त्रिष्टुभश् चतुश्चत्वारिंशं, जगत्या अष्टाचत्वारिंशम्, अनुष्टुभ एव दशमम् अहर् निरमिमीत। सर्वेभ्यो वा अहोभ्यस् तद् यच् छन्दोभ्यो निरमिमत तच् छन्दोमानां छन्दोमत्वम्। तद् आहुर् आप्यन्ते वा एतत् स्तोमा, आप्यन्ते छन्दांस्य्, आप्यन्ते देवता, आप्यन्त ऋतवो ग्रहा, यद् एष पृष्ठ्यष् षडह आप्यत इति। तद् यत् सप्तमस्याह्नश् चतुर्विंशं बहिष्पवमानं भवति - चतुर्विंशत्यर्धमासस् संवत्सरः। संवत्सरो यज्ञो - यज्ञम् एवैतद् यज्ञमुख आरभन्ते। अथो चतुर्विंशत्यक्षरा वै गायत्री। गायत्र्यो वा आप्तं यज्ञक्रतुं पुनस् तन्वते। नो ह्य् अन्या गायत्र्या आप्तं यज्ञक्रतुम् उद्यन्तुम् अर्हति

3.174

एता भवन्ति - प्र काव्यम् उशनेव ब्रुवाण इति प्रवतीः प्रायणे ऽहन्। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। देवो देवानां जनिमा विवक्तीति सोमो वै देवो देवानां जनिमा। सोमम् एव तत् प्रजनयन्ति। महिव्रतश् शुचिबन्धुः पावक इत्य् अन्नं वै देवाश् शुचिव्रतम् इत्य् आचक्षते। अन्नम् उ देवानां सोमः। तम् एवैतत् प्रजनयन्ति। पदा वराहो अभ्य् एति रेभन्न् इति वराहो वै भूत्वा प्रजापतिष् षष्ठाद् अह्नस् सप्तमम् अहर् अभ्य् अत्यक्रामत्। अतिक्रान्तिर् एवैषा। प्र हंसासस् तृपला वग्नुम् अच्छेति ब्राह्मणा ह वै हंसासस् तृपलाः। अमाद् अस्तं वृषगणा अयासुर् इति षडहो वा अमाच् छन्दोमा अस्तम्। छन्दांसि वृषगणाः। छन्दांस्य् एवैतच् छन्दोमान् अभ्य् अतिनयन्त्य् उत्तरस्य त्र्यहस्य संपारणाय। अङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकम् इति बृहद्रथन्तरे एवैतत् प्रातस्सवने युज्येते। ते युक्ते माध्यन्दिने सवने ऽभ्यारोहन्ति। स योजत उरुगायस्य जूति वृथा क्रीळन्तं मिमते न गाव इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। परीणसं कृणुते तिग्मशृंग इति । परीणसम् इत्य् आह - अन्नं वै परीणसम् - अन्नाद्यस्यैवावरुद्ध्यै। दिवा हरिर् ददृशे नक्तम् ऋज्र इत्य् अतिरात्रो रूपेण क्रियते

3.175

ता एता भवन्ति त्रिष्टुभो गायत्रवर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समृद्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। तद् आहुर् यद् गायत्रं सप्तमम् अहस्, त्रैष्टुभम् अष्टमं, जागतं नवमम्, अथ कस्माद् एतद् गायत्रं सत् त्रिष्टुब्भिः प्रतिपद्यन्त इति। स ब्रूयात् - सर्वे ह्य् एवैतच् छन्दोमास् त्रिष्टुप्प्रतिपदो भवन्तीति। प्र स्वानासो रथा इवेति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपाञ् जनयन्त्य् - उत श्वेता कृष्णं जनयन्त्य्, उत कृष्णा श्वेतम्, उत रोहिणी कल्माषम्, उत कल्माषी रोहितम्।
अर्वन्तो न श्रवस्यवः।
सोमासो राये अक्रमुः॥
इति प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। हिन्वानासो रथा इवेति यद् वै रथवत् प्रायणीयरूपम् उ एव तत्।
दधन्विरे गभस्त्त्योः।
भरासः कारिणाम् इव॥
राजानो न प्रशस्तिभिस् सोमासो गोभिर् अञ्जते।
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। यज्ञो न सप्त धातृभिर् इति सप्तमस्याह्नो रूपम् उपगच्छन्ति

3.176

नवर्चं भवति। नव वै पुरुषे प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। अथो तेनैव त्रिवृत स्तोमान् न यन्ति। यद् धि किं च प्रायणं त्रिवृत्। प्रायणम् उ एवोत्तरं नवर्चं भवति। अभिपूर्वम् एवैतत् प्राणैः समृध्यमाना यन्ति। आ ते दक्षं मयोभुवम् इति पर्यासो भवति, प्रजानां धृत्यै पशूनाम् उपस्थित्यै। तद् आहुर् - यत् समं कस् तृणस्याग्रं सर्पति, क्व स ततो भवतीति। उत् पक्षिणः पतन्तीत्य् आहुः। कथम् अपक्षा भिन्दत इति। पक्षिणीर् इव वा एता यास् समानप्रायणास् समानोदयनाः। एताभिर् वा एतद् अहः पक्षि क्रियत, एताभिर् उत्पतत्य्, एताभिस् त्रयस्त्रिंशं स्तोमं प्रत्युद्यच्छति। पक्षी पाप्मानं तरति, पक्षी श्रियम् अश्नुते य एवं वेद। प्रेति पवमानस्य प्रथमेत्य् उत्तमैवम् इव ह्य् एतद् अहः। तस्माद् वयस् सम्यक् पक्षाभ्याम् एवैते। चतुर्विंश स्तोमो भवति। चतुर्विंशत्यर्धमासो वै संवत्सरः। अर्धमासश एवैतत् संवत्सरे प्रतितिष्ठन्तो यन्ति। अथो चतुर्विंशत्यक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्य् एवैतत् ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति

3.177

त्रयो वैश्वानरा अतिरात्रा द्वादशाहे कार्या इत्य् आहुः। प्राणः प्रथमो वैश्वानरो, ऽपानो द्वितीयो, व्यानस् तृतीयः। वाग् वा एषा प्रतता यद् द्वादशाहः। तां त्वयि विच्छिन्द्युः। तां हार्यलः काहोळिर् उपेयाय - त्रयनीका विजित्येति। तम् उ ह ब्राह्मण उवाचानुष्ठ्या प्राणान् उपागात्। वि वाचम् अछैत्सीद् इति। तस्य ह तत् कुलं व्य् एव चिच्छिदे। ज्योक् तु हैव जिजीव। तद् उ ह पश्चेवानुसंताययांचक्रे। मूर्धानं दिवो अरतिं पृथिव्या इत्य् एवंरूपेण वैश्वानरः कार्यः। तन् न वाचं विछिनत्ति, नाग्निं वैश्वानरम् अन्तरेतीति। प्र वश् शुक्राय भानवे भरध्वम् इति प्रवती कार्या। प्रणिनीषेण्यं वा एतद् अहः। प्रेति गायत्र्यै रूपम्। गायत्र्या एवैतद् रूपेण प्रयन्ति। भूयांसि रूपाण्य् अपराध्यन्त। इतराण्य् एव भूयांसि रूपाणि। यन् मूर्धानं दिवो अरतिं पृथिव्या इत्य् आह द्यावापृथिवीयो वातिरात्रो ऽतिरात्र एवैतेन रूपेण क्रियते। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्निर् एव वैश्वानरः प्रत्यक्षं भवति। कविं सम्राजम् अतिथिं जनानाम् इति माध्यन्दिनं सवनम्। आसन्ना पात्रं जनयन्त् देवा इति षष्ठस्याह्नस् तृतीयसवनम् प्रत्युपगच्छन्ति

3.178

तद् धि जघन्यं यज्ञे देवा अपश्यन्। अतीता इवैतर्हि भवन्ति। तद् एवैतत् प्रत्युपगच्छन्ति सन्तत्यै। ते देवा अब्रुवन् यद् इमाव् असत्रम् अतिरात्राव्, अथ केनेमाव् अग्नेर् वैश्वानरस्य तन्वं व्येष्याम इति। ते ऽब्रुवन् या एव न इमा अन्त्या अयातयाम्न्यः परमा गुह्यास् तन्वस् ताभिर् व्ययामेति। मूर्धानं दिवो अरतिं पृथिव्या इति द्यावापृथिव्योर् अन्त्यायातयाम्नी परमा गुह्या तनूः। वैश्वानरम् ऋत आ जातम् अग्निम् इत्य् अग्नेर् वैश्वानरस्यान्त्यायातयाम्नी परमा गुह्या तनूः। कविं सम्राजम् अतिथिं जनानाम् इतीन्द्रस्य सम्राड्वतीष्व अन्त्यायातयाम्नी परमा गुह्या तनूः। आसन्ना पात्रं जनयन्त देवा इति विश्वेषां देवानाम् अन्त्यायातयाम्नी परमा गुह्या तनूः

3.179

स यथा प्रीहितावीजं परिचते वासस् ता वासो निधनानिमं परिधत्त एवम् एव तत् देवा अन्त्याभिर् अयातयाम्नीभिस् तनूभिर् अग्नेर् वैश्वानरस्य तन्वं व्यायन्। तथो एवैतर्हि वियन्ति। सर्वाणि वा अग्निष्टोमे संस्थिते। षड् उक्थान्य् उत्क्रामन्ति। तान्य् एतस्मिन् षडहे संस्थित उत्क्रामन्ति। तान्य् एतस्मिन्न् एवाग्नेय आज्ये पुनर् युज्यन्ते। मूर्धाने दिवो अरतिं पृथिव्या इति द्यावापृथिवीयम् एवैतेन युज्यते। कविं सम्राजम् अतिथिं जनानाम् इति मरुत्वतीय - निष्केवल्ये एवैतेन युज्येते। आसन्ना पात्रं जनयन्त देवा इत्य् आज्यप्रौगे एवैतेन युज्येते। एवम् एतान्य् उक्थानि पुनर् युज्यन्ते। अर्वाङ् ह्य् एष त्रियहस् तायते। तस्मान् मूर्धानं दिवो अरतिं पृथिव्या इति भवति। असौ वै दिवो मूर्धेयम् अरतिः पृथिव्यै

3.180

प्र वो मित्राय गायतेति मैत्रावरुणं भवति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। सम्राजा या घृतयोनी मित्रश् चोभा वरुणश् चेत्य् उभयोर् एवैतद् बृहद्रथन्तरयो रूपम् उपगच्छन्ति। उभे ऽप्य् अत्र बृहद्रथन्तरे क्रियेते। इन्द्रा याहि चित्रभानो, इन्द्रा याहि धियेषित, इन्द्रा याहि तूतुजान इत्य् आ याह्य् आ याहीति भवति। आ याह्य् आ याह्य् आ याहीति युक्तानां पुरस्तात् प्रयन्ति। यथा युक्तानां पुरस्ताद् आ याह्य् आ याहीति प्रेयात् तादृक् तद् यत् तृतीयस्याह्न् ऐन्द्राग्नम्। तद् ऐन्द्राग्नं समैन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठ्यश् च षडहश् छन्दोमाश् च। स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समैन्य् आज्यानि भवन्ति। असमैनि हैके कुर्वन्ति। तस्मात् समैन्य् एव कार्याणि। चतुर्विंश स्तोमो भवति - चतुर्विंशत्यक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्य् एवैतद् ब्रह्मवर्चसे प्रतितिष्ठन्तो यन्ति

3.181

ये ह खलु वा अयुज स्तोमास् ते युग्मन्तो, ये युग्मन्तास् ते ऽयुजः। तद् ये ऽयुज स्तोमास् तान् ग्राम्याः पशवो ऽन्व्, अथ ये युग्मन्तस् तान् आरण्याः। तद् यद् अयुजां स्तोमानां साम युग्मोत्तमं भवति, तस्माद् ग्राम्याः पशवो युक्ता वहन्ति। अथ यद् युग्मतां स्तोमानां सामायुग् उत्तमं भवति तस्माद् आरण्याः पशवो युक्ताश् चरन्ति। अथ यस्माद् दशमे ऽहनि पञ्चदशत्रयस्त्रिंशौ स्तोमौ भवतस् तस्माद् उ यौ ज्येष्ठौ पशूनां तौ युक्तौ वहतो हस्ती चोष्ट्रश् च

3.182

वृषा पवस्व धारयेति माध्यन्दिनस्य पवमानस्य वृषण्वतीर् गायत्र्यो भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। मरुत्वते च मत्सर इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। तं त्वा धर्तारम् ओण्योर् इति विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् तं त्वा धर्तारम् इत्य् अह्न् एव धृत्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथ सन्तनि। यथा ह वै व्योकसौ विच्छिद्य व्युत्क्रामत एवं षष्ठं च सप्तमं चाहनी व्युच्छिद्य व्युत्क्रामतः। स यथाश्वं संयोजनेन संयुज्याद् एवम् अत्र सन्तति। तस्य सकृत् प्रस्तौति, त्रिः प्रतिहरति, त्रिर् निधनम् उपयन्ति। तत् सप्त संपद्यन्ते सप्तमस्याह्नो रूपं, सप्तरात्रस्य सन्तत्या अव्यवच्छेदाय। अथ सौपर्णम् उक्तब्राह्मणम्। अतिक्रान्तो वा एतर्हि यज्ञो भवति सप्तमे ऽहन्। तद् यद् अत्र सौपर्णं भवति यज्ञस्यैवारम्भाय। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै

3.183

अथ रोहितकूलीयम्। विश्वामित्रो वै भरतानाम् अनस्वत्या महावृषान् अयात्। तद् ध गंगायै वा यमुनायै वा बृहत् प्रतिकूलम् आस। ते होचुर् महावृषाः - कौ स्वित् ताव् एतर्ह्य् अनड्वाहौ, याव् इदम् इयद् बृहत् प्रतिकूलम् उद्वहेताम् इति। स होवाच विश्वामित्रस् - तौ त्वे मम रोहिताव् इति। रोहितौ हास्यानड्वाहाव् आसतुः। ते होचुर् महावृषास् - ते वा अंशम् अवहरावहै - यदि तवैतद् अनड्वाहाव् उद्वहातो, वस्न्य एव त्वम् अनांसि पूरयासै। यद्य् उ नोद्वहातो, वस्न्या उ वयं त्वां जयेमेति। तथेति। ते हांशम् अवजह्रिरे। तौ ह यवाचितस्य वा व्रीह्याचितस्य वा धुरि युयुजुः। सो ऽकामयत विश्वामित्र - उद् इमम् आजिं जयेयम् इति। स एते सामनी अपश्यत्। ताभ्याम् एनाव् अनुपरिक्रामम् अभ्यसेधत्। ताव् उदपारयेताम्। ताव् उदजयेताम्। ततो वै स तम् आजिम् उदजयत्। प्रतिकूलम् इवैते यन्ति ये षष्ठाद् अह्नश् छन्दोमान् अभ्युत्क्रामन्ति। तद् यद् अत्र रोहितकूलीयं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। यद् उ कूले रोहिताभ्याम् उदजयत्, तस्माद् रोहितकूलीये इत्य् आख्यायेते। पुनानस् सोम धारयेत्य् उभयरूपा बृहती भवति। एषा ह वा उभे सामनी उद्ययाम, तस्माद् एतां कुर्वन्त्य् एव बृहत्साम्नः कुर्वन्ति रथन्तरसाम्नः

3.184

तासु रौरवम्। देवा वा एता अयातयाम्नीस् तनूर् असुरयुद्धाय प्रावृहन्त। अग्निर् एव रौरवं प्रावृहत। तेनासुरान् अभ्यतपत्। ते ऽभितप्यमाना अरवन्त। यद् अभितप्यमानारवन्त तद् रौरवस्य रौरवत्वम्। अभितपति भ्रातृव्यं श्रेयान् भूत्वा य एवं वेद। तद् आग्नेयं सामाग्नेये ऽहन् क्रियते। आग्नेयम् एतद् अहर् यद्गायत्रम्। अग्निर् हि गायत्री। तद् यद् अत्र रौरवं क्रियते ऽहर् एव तद्रूपेण समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथ रथन्तरम्। जामि द्वादशाहस्यास्तीत्य् आहुः। बार्हतं षष्ठम् अहर् बार्हतं सप्तमम्। पवमाने रथन्तरं प्रोहन्त्य् अजामितायै। नान्यतो ऽपसक्तो विवधो ह्रियत इत्य् आहुः। तद् यद् उभे बृहद्रथन्तरे भवतस् स विवधताया एव। यो वै मूलाद् अग्रं संचिक्रमिषति न स शक्नोत्य्, अथ यो ऽग्राद् अग्रं संक्रामति स शक्नोति। अग्राद् वा एते ऽग्रं संक्रामन्ति ये बृहतो बृहद् उपयन्ति। तस्माद् बार्हतं षष्ठम् अहर् भवति, बार्हतं सप्तमम्

3.185

अथ गौङ्गवं यत् साम देवता प्रशंसति। सामैतद् देवता प्रशंसति तेन यजमानास् सत्याशिषो भवन्ति। देवासुराः पशुष्व् अस्पर्धन्त। ते ऽसुराः पशुभिस् सह समुद्रम् अभ्यवायन्। ते देवा अकामयन्त - वृञ्जीमह्य् असुराणां पशून् इति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुराणां पशून् अवृञ्जत। ते ऽब्रुवन् गां गां वावासुराणाम् अवृक्ष्महीति। तद् एव गौङ्गवस्य गौङ्गवत्वम्। तद् एतत् पशव्यं साम। गां - गाम् एव द्विषतो भ्रातृव्यस्य वृंक्ते ऽव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। गौङ्गवेन वै देवा असुरान् हत्वा घोषं गंगणिम् अकुर्वत। तद् व् एव गौङ्गवस्य गौङ्गवत्वम्। तद् उ भ्रातृव्यहा। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। तद् ऊर्ध्वम् इव च तिर्यग् इव च गीयते। यद् ऊर्ध्वम् इव गीयते तद् बृहतो रूपं, यत् तिर्यग् इव तद् रथन्तरस्य। एतद् वै समृद्धं छन्दोमानां यद् उभयं रूपम्

3.186

अथ समन्तम्। इन्द्राग्नी वा अकामयेतां - समन्तौ स्याव, समानीम् ऋद्धिम् ऋध्नुयावेति। ताव् एतत् सामापश्यताम्। अर्धम् अन्यो ऽपश्यद् अर्धम् अन्यः। तस्यान्तौ समाहृत्य समधत्ताम्। यत् समधत्तां तत् समन्तस्य समन्तत्वम्। तेनास्तुवाताम्। ततो वै तौ समन्ताव् अभवतां, समानीम् ऋद्धिम् आर्ध्नुताम्। तद् ब्रह्म वा अग्निः, क्षत्रम् इन्द्रः। उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। इदं वै रथन्तरम् अदो बृहत्। इदम् एवान्तरिक्षं समन्तम् अनयोर् एव लोकयोस् समन्तत्वाय। एतेन वा एते समन्ते। समन्तेन पशुकाम स्तुवीत। पशवो वा अन्तरिक्षं, पशवस् समन्तम्। पशुमान् एव भवति समन्तेन तुष्टुवानः। ब्राह्मणः पुरोधाकामस् समन्तेन स्तुवीत। आग्नेयो ब्राह्मण, ऐन्द्रो राजन्य, आग्नेयी पृथिव्य्, ऐन्द्री द्यौः। ते एते ऽन्तरिक्षम् अभि समन्ते। समन्ताव् एनौ करोति ब्राह्मणं च राजन्यं च समन्तेन तुष्टुवानो, गच्छति पुरोधां, पुर एनं दधते। प्रजापतिर् वा अकामयत - समन्तः प्रजया पशुभि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स समन्तः प्रजया पशुभिर् अभवत्। तद् व् एव समन्तस्य समन्तत्वम्। समन्त एव प्रजया पशुभिर् भवति य एवं वेद

3.187

अथायास्यं बार्हतराथन्तरम्। उभौ वर्णौ समृद्ध्यै। मध्येनिधनं प्रतिष्ठायै। आदित्याश् च वा अंगिरसश्च स्वर्गे लोके ऽस्पर्धन्त। त ऐक्षन्त यतरे नो यतरान् याजयिष्यन्ति ते हास्यन्त इति। ते ऽङ्गिरसः पूर्वे यज्ञं समभरन्, श्वस्सुत्यान्ते ऽग्निम् आङ्गिरसं दूतं प्राहिण्वन्न् - इमान् न श्वस्सुत्याम् आदित्येभ्यः प्रब्रूहीति। स एत्याब्रवीद् - आदित्या, अङ्गिरसो व श्वस्सुत्यां प्राहुर् इति। तं होचुर् अपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति। तस्माद् इदम् अप्य् एतर्हि दूतम् आहुर् - अपेहि मन्त्रयित्वा त्वा प्रतिवक्ष्याम इति। ते होचुर् उप तज् जानीत यथा अस्मान् एवांगिरसो याजयेयुर् न वयम् अङ्गिरसः। यदि याजयिष्यामो हास्यामहे, यद्य् उ न याजयिष्यामो यज्ञाद् यशसो ऽपक्रमिष्याम इति। तस्माद् उ ह वृतेन नापक्राम्ये, यज्ञाद यशसो नेद् अपक्रामाणीति

3.188

पदेन हापेयात्। स्वं वा यज्ञम् अभ्युपेयाद्। इदं च त्वया कृतम् इति वा। त एतम् आदित्यास् सद्यःक्रीयं यज्ञं समभरन्। ते ऽब्रुवन्न् अग्ने चिरं तद् यच् छ्व, इमाम् एव वयं तुभ्यम् अद्य सुत्यां प्रब्रूमः। तेषां नस् त्वं होतासि, गौर् आंगिरसो ऽध्वर्युर्, बृहस्पतिर् उद्गाता, अयास्यो ब्रह्मेति सर्वान् अवृणत। सो ऽब्रवीद् - दूतो वा अहं चरामीति। तम् अग्निं दूतं वृणीमह इत्य् एव दूतं चरन्तम् अवृणत। स एषां वृतोनापाक्रामत्। स पुनर् एत्याब्रवीद्, अङ्गिरस, आदित्या वो ऽद्यसुत्यां प्राहुर् इति। तेन होतुर् एव नो ऽवृथा इति। नेति होवाच। दूतो युष्माकम् अभूवं, वृत एवामीषाम् अस्म्य्, आद् अह नूनम् अमी युष्मन् मेधावितरा वा धीरतरा वाभूवन् य एतत् पूर्वे दृशन्न् इति। ते वृता नापाक्रामन्। त एत्यायाजयन्। तेभ्य एतम् आदित्या आदित्यम् एवाश्वं श्वेतं भूतम् अश्वाभिधान्य् अभिहितम् अयास्याय ब्रह्माश्वं नीत्वा स्वर्गं लोकम् अगच्छन्। अहीयन्ताङ्गिरसः। सो ऽयास्यस् सदृशाव् आत्मन श्रेयांसं वा प्रतिगृह्य व्यभ्रंशत। सो ऽकामयत सम् आत्मानं श्रीणीयेति। स एतत् सामापश्यत्। तेनात्मानं समश्रीणीत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यद् अत्रायास्यं भवति सम् एवैनद् एतेन श्रीणन्ति, भिषज्यन्त्य् एवैनम् एतेन । यद् व् अयास्यो ऽपश्यत् तस्माद् आयास्यम् इत्य् आख्यायते। प्रो अयासीद् इन्दुर् इन्द्रस्य निष्कृतम् इति प्रवद् ऋचा च साम्ना चैतद् अहः प्रणयन्ति। उभौ वर्णौ समृद्ध्यै। प्रेति भृगवः प्रेत्य् अङ्गिरसः प्रेत्य् आदित्या स्वर्गं लोकम् आरोहन्। प्रेत्य् एवैतेन स्वर्गं लोकम् आरोहन्ति

3.189

अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तद् गायत्रे ऽहन् भवति। पुंसो वा एतद् रूपं यद् बृहत्, स्त्रियै गायत्री। तद् यद् अत्र बृहत् पृष्ठं भवति तेनैवैतद् अहर् मिथुनं क्रियते। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। वयं घ त्वा सुतावन्त इति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय। तास्व् अभिनिधनं काण्वम्।तद् आहुर् - विरुद्धं वा एतद् ब्रह्मसाम्नो यद् अन्यतरद् रूपम् अभिवदतीति। तद् यद् अभीति भवति तेन रथन्तरस्य रूपान् न यन्ति। इन्द्रो वै वृत्रम् अजिघांसत्। स कण्वम् उपाधावद् - ऋष उप त्वा धावाम, इह नो ऽधिब्रूहीति। स एतत् कण्वस् सामापश्यत्। तेनास्तुत। ततो वा इन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् व् एवास्मा एतेन साम्ना कण्वो ऽभीति वज्रम् अभ्यनदत्, तस्माद् अभिनिधनं काण्वम् इत्य् आख्यायते। अथैता भवन्ति नकिष् टं कर्मणा नशद् इति। अति वा एतर्हि बृहती बृहतीं क्रामत्य्, अति ककुप् ककुभम्, अत्य् अनुष्टुब् अनुष्टुभम्। सैषा बृहती सती जगती संपद्यते। तेनातिक्रामति। सा अत्य् अष्टमम् अहर् जिहीते, नवमम् अहर् अभ्यारभते, प्रति षष्ठम् अपधावति

3.190

तासु वैखानसम्। वैखानसा वा एतानि सामान्य् अपश्यन्न् अभ्यारम्भं यज्ञस्य प्रत्यपसारम्। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। अथ ह वै वैखानसा इत्य् ऋषिका इन्द्रस्य प्रिया आसुः। तान् ह रहस्युर् मारिम्लवो मारयांचकार। तान् हेच्छन् रहस्युम् उपेयाय। तं होवाच - रहस्यो, नेह तान् वैखानसान् इत्य् ऋषिकान् अद्राक्षीर् इति। स होवाच - स्यो वै भगवस् तान् अमारयद् इति। तं होवाचां रहस्यो, यत्रो दुष्प्रतिज्ञाना भ्रूणहत्या। अथ कथं प्रत्यज्ञास्था इति। स होवाचानृतं च भ्रूणहत्यां चोदयांसम्। तद् अनृतम् एवायासीत्। स सत्यम् एवाभ्युपागाद् इति। तं होवाच वरं वृणीष्व यः प्रत्यज्ञास्था इति। स होवाच - ब्राह्मण एव मे प्रजायाम् आजायताम् इति। ते हैते तक्षवो राहस्यवा । अथो आहुर् इन्द्रम् एव तद् देवता अभ्यशंसन्न् इन्द्रं पर्यचक्षत - त्वयि सतस् तवो मारिम्लवो ऽमीमरद् इति। सो ऽकामयत सम् ऐनान् ईरयेयम् इति। स एतत् सामापश्यत्। तेनैनान् समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै सत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तद् इन्द्रो ह वै विखानाः। स यद् इन्द्र एतत् सामापश्यत्, तस्माद् वैखानसम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.191

यस् ते मदो वरेण्य इत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति। तेना पवस्वान्धसेत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। अग्निर् वृत्रम् अमित्रियम् इति बार्हतं रूपम्। यद् ऊर्ध्वं मध्यंदिनाद् तद् एतस्याह्नो बार्हतम्। संमिश्लो अरुषो भुवस् सूपस्थाभिर् न धेनुभिर् इति। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् यत् सूपस्थाभिर् इत्य् अह्न एवोपस्थित्यै। तासु गायत्रम् उक्तब्राह्मणम्। अथाग्नेरर्क आग्नेयं सामाग्नेये ऽहन् क्रियते। आग्नेयम् एतद् अहर् यद् गायत्रम्। अग्निर् हि गायत्री। तद् यद् अत्राग्नेरर्कः क्रियते ऽहर् एव तद्रूपेण समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति। अथो अन्नं वा अर्को, ऽन्नाद्यस्यैवावरुद्ध्यै। अथ सोमसाम। प्रजननं वै सोमः। प्रजननम् एतद् अहः। प्रजनन एवैतत् प्रजननं क्रियते। अथो क्षत्रं वै सोमः। क्षत्रिय उ वा अन्नाद्यस्य प्रदाता। स यो ऽन्नाद्यस्य प्रदाता स नो ऽन्नाद्यं प्रयच्छाद् इति। तद् अध्यर्धेळं भवति - पशवो वा इळा। पशवश् छन्दोमा - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै

3.192

अथ दक्षोणिधनम्। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् दक्षोणिधनेनैव संदक्षयन्ति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। सो ऽकामयत - प्राणवतीर् म इमाः प्रजा स्युर् इति। स एतत् सामापश्यत्। तेनैना दक्षाया इत्य् एवाभ्यमृशत्। प्राणा वै दक्षाः। प्राणान् एवासु तद् अदधात्। प्राणान् एवात्मंश् च यजमाने च दधाति य एवं वेद। तद् उ होवाच सुदक्षिणः क्षैमिर् मन्थं हास्य कुले विदुर् न विविदुर् दक्षोणिधनं स्वित् ते पवमानमुखे चक्रुर् इति। कथा हेति। मन्थं हि ते कुले न विन्दन्तीति। तस्माद् अग्नेर् एवार्कः प्रथमायां कार्यः। एष स्य धारया सुत इति सन्तनिनः प्रगाथस्, ससन्तनिकेन प्रगाथेनैतद् अहर् भिषज्यामेति। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तत् ससन्तनिकेनैव प्रगाथेन भिषज्यन्ति।
अव्या वारेभिः पवते मदिन्तमः।
क्रीळन्न् ऊर्मिर् अपाम् इव॥
इत्य् अति वा एतर्हि ककुप् ककुभं क्रामत्य्, अत्य् अनुष्टुब् अनुष्टुभम्। सैषा ककुप् सती त्रिष्टुप् संपद्यते। तेनातिक्रामति। साष्टमम् अहर् आरभते।
य उस्रिया अपिया अन्तर् अश्मनि निर् गा अकृन्तद् ओजसा।
अभि व्रजं तत्निषे गव्यम् अश्व्यं वर्मीव धृष्णव् आ रुजा॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः

3.193

तासु शार्करम्। इन्द्रं वै सर्वाणि भूतान्य् अस्तुवन्। तं शर्करस् शिंशुमार स्तोतुं नाकामयत। तम् अब्रवीत् स्तुहि मेति। सो ऽब्रवीन् - नाहं त्वां स्तोष्यामि। समुद्रे वा अहम् अप्स्व् अन्तश् चराम्य् उपनिमज्जन्न् , एतावतो ऽहं त्वां स्तुयाम् इति। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयद् धन्वाभि। अपो हैवास्मै दर्शयांचकार। तम् उत्तराद् वातेन पर्यशोषयत्। सो ऽवेत् परिशुष्कश् शयानो - यद् वा अहम् इदम् इत्थं न्यगाम्, अभ्यवप्लावयिष्यतीति। स एतं मन्त्रम् अपश्यत्। तेनैनम् अस्तौद् -
यो न इदमिदं पुरा प्र वस्य आनिनाय तम् उ व स्तुषे।
सखाय इन्द्रम् ऊतये॥
इति ( शार्करे द्वे )। तम् अब्रवीत् - किंकामो मा स्तौषीति। इमम् एव मा समुद्रं पुनर् अभ्यवप्लावेत्य् अब्रवीत्। तं पर्जन्यो वृष्ट्या समुद्रं पुनर् अभ्यवाप्लावयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते

3.194

स तेनैव मन्त्रेण स्वर्गं लोकम् उदक्रामत्। स एवैष शर्कर उदेति। तद् वा अस्य स्वर्ग्यम्। अश्नुते स्वर्गं लोकं य एवं वेद। समुद्रो वै छन्दोमाः। शिंशुमारो वै समुद्रम् अतिपारयितुम् अर्हति। तद् यद् अत्र शार्करं भवति समुद्रस्यैवातिपारणाय। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवाश् छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंश्, तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रस्स्यैवैषानुवित्तिः। तद् उ काकुभं स्वारं भवति। प्राणो वै स्वरः पुरुषश् छन्दसं ककुप्। ज्यैष्ठ्यं वै प्राणो ज्यैष्ठ्यं पुरुषः। ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधाति, ज्यैष्ठ्ये प्रतितिष्ठति। यद् उ शर्करस् शिंशुमारो ऽपश्यत् तस्माच् छार्करम् इत्य् आख्यायते। सखाय आ नि षीदत पुनानाय प्र गायतेति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। शिशुं न यज्ञैः परि भूषत् श्रिय इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति

3.195

तासु प्लवम्। यो वै समुद्रम् अप्लवः प्रस्नाति नैनं स व्यश्नुते, ऽथ यः प्लवी प्रस्नाति स व्यश्नुते। समुद्रो वै छन्दोमाः। तद् यत् प्लवं प्लविन एवैतेन। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् प्लवम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - प्लवं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव प्लवस्य प्लवत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तद् व् एवाचक्षते वसिष्ठस्य प्लवम् इति। वसिष्ठो वा अकामयत स्वस्तीमान् लोकान् सर्वान् संप्लवेयेति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स स्वस्तीमान् लोकान् सर्वान् समप्लवत। तद् व् एव प्लवस्य प्लवत्वम्। स्वस्तीमान् लोकान् सर्वान् संप्लवते य एवं वेद। वसिष्ठम् ऋषयो ऽमेधन् - वैश्यो ऽस्य् अब्राह्मण इति। सो ऽकामयत - तरेयं दुरितं पाप्मानम् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन ए आति विश्वानि दुरिता तरेमेत्य् एव दुरितं पाप्मानम् अतरत्। तरति दुरितं पाप्मानं य एवं वेद। तद् द्वादशाक्षरणिधनं भवति - द्वादशाक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य प्लवम् इत्य् आख्यायते। अथैता भवन्ति पुरोजिती वो अन्धस इति। पुरस्ताद् ध वा एताः पाप्मानं जयन्तीः, पुरस्तात् पाप्मानम् अपघ्नत्यो यन्ति। जितं ह वा एताभिर्, विजितम् अन्ववस्यन्ति। अथो यथान्यौ नवतरौ चक्राव् उपास्येद् एवम् एव एताम् अनुष्टुभं त्र्यहमुखेषु पर्याहरन्ति, स्वर्गस्य लोकस्य समष्ट्यै। तासु गौरिवीतम् उक्तब्राह्मणम्

3.196

अथ कार्तवेशम्। त्रेधा भरतेषु राष्ट्रम् आसीत् - वैतहव्येषु तृतीयं, मित्रवत्सु तृतीयं, कृतवेशे तृतीयम्। सो ऽकामयत कृतवेशो - ह त्व् इमे द्वे राष्ट्रे एकधा राष्ट्रं स्याद् इति। स एतद् द्विनिधनं सामापश्यत्। तेनास्तुत। तेनेमे द्वे राष्ट्रे ह त्वैकधा राष्ट्रम् अभवत्। तद् एतच् छ्रीर् भ्रातृव्यहा साम। अश्नुते श्रियं हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ कृतवेशो ऽपश्यत् तस्मात् कार्तवेशम् इत्य् आख्यायते। अथ श्यावाश्वं स्वर्ग्यं साम, स्वर्गस्य लोकस्य समष्ट्यै। यथान्धीगवम् इळावत्य् अनुष्टुब् असद् इति - अनिळानुष्टुप् स्याद् यद् एतद् अत्र कुर्युः। अथो पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथैता द्विपदो भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति - प्र वाज्य् अक्षार् इति प्रवतीर् भवन्ति। प्रायणीयरूपम् एवैतद् उपगच्छन्ति। प्रायणीयं ह्य् एतद् अहः। तासु सौहविषम्। देवा वा असुरान् हत्वा अपूता इवामेध्या अमन्यन्त। ते ऽकामयन्त पूता मेध्या स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते पूता मेध्या अभवन्। ते ऽब्रुवन् सुहविषो वा अभूमेति। तद् एव सौहविषस्य सौहविषत्वम्। पूतो मेध्यो भवति य एवं वेद। ये सोमासः परावतीति परावतम् इव ह्य् एतर्हि यज्ञो ऽगच्छत्

3.197

तासु जराबोधीयम्। शाक्त्यास् तरसपुरोडाशास् सत्रम् आसत। स गौरिवीतिश् शाक्त्यो मृगम् अहन्। तं तार्क्ष्यस् सुपर्ण उपरिष्टाद् अभ्यवापतत्। तस्या उपप्रत्यधत्त। तम् अब्रवीद् - ऋषे, मा मे ऽस्थः। यत्कामो ऽसि तं ते कामं समर्धयिष्याम इति। किंकामः खल्व् अहम् अस्मीत्य् अब्रवीत्। असितस्य धाम्न्यस्य दुहितरं कामयसे। तस्यै त्वा निवक्ष्यामीति। अथ हासितो धाम्न्य ईर्ष्युर् आस। तस्य हान्तरिक्षे प्रासाद आस। तद् धास्य दुहितरं जुगुपुः। तं ह स्म पत्रनाड्याम् उपगुह्यास्यै कुमार्यै निवहति। तं ह स्मैतेनैव साम्ना प्रातर् बोधयति - जार बुध्यस्वेति। तद् एव जराबोधीयस्य जराबोधीयत्वम्। सेयं कुमारी गर्भम् अधत्त। स कुमारो ऽजायत। तम् असुरा विच्छिद्य परास्यन्तो ऽब्रुवञ् - जामीगर्भो वा अयं, रक्षो वा इदम् अजनीति। तम् अकामयत - सम् एनम् ईरयेयम् इति। स एतत् सामापश्यत्। तेनैनं समैरयत्। स एव संकृतिर् गौरिवीतो ऽभवत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते, सम् अस्मै स काम ऋध्यते। तस्यो प्राचीम् इळाम् उपयन्ति। पशवो वा इळा। पशवश् छन्दोमाः। पशुष्व् एवैतद् रेतांसि दधति

3.198

अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्।
आ ते वत्सो मनो यमद् इत्य् आवतीर् भवन्ति। अपच्छिद् इव वा एतद् यज्ञकाण्डं यद् उक्थानि। तद् यद् आवतीर् भवन्ति यज्ञस्यैव सलोमतायै। तासु वात्सम्। वत्सः काण्वः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स ह वाव त्रिशोको यान् एवामूंस् त्रीन् छोकान् अपाहन् सास्य त्रिशोकता। स ह स सद्य एवालोम्नो कर्णकान् पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ वत्सः काण्वो ऽपश्यत् तस्माद् वात्सम् इत्य् आख्यायते।
त्वं न इन्द्रा भरेति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
ओजो नृम्णं शतक्रतो विचर्षणे।
आ वीरं पृतनासहम्॥
इति यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः

3.199

तासु सौश्रवसम्। कुत्सो ह वा औरव इन्द्रस्योरोर् अधि निर्मित आस। यादृश एवेन्द्रस् तादृश, यथात्मनो निर्मित स्याद् एवम्। तं ह संग्रहीतारं चक्रे। तं ह जाययाभिजग्राह शच्या पौलोम्या। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम् इति। स होवाच खलतिं वा एनं करिष्यामि, तथा विजानीताद् इति। तं ह खलतिं चकार। स होष्णीषं परिहृत्योपनिपेदे। स एवैष संग्रहीतुर् उष्णीषः। तं हाभ्य् एव जग्राह। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम्, उष्णीषेण वै मा परिहृत्योपन्यपादीति। स होवाचान्तरांसयोर् वा अस्य पांसून् अधिवप्स्यामि, तथा विजानीताद् इति। तस्य हान्तरांसयोः पांसून् अध्युवाप। त एवैते संग्रहीतुर् अन्तरांसयोः पांसवः। तान् ह प्रावृत्योपनिपेदे। तं हाभ्य् एव जग्राह। तां होवाच कथेत्थम् अकर् इति। सा होवाच - न वां व्यज्ञासम्। प्रावृत्य वै मोपन्यपादीति

3.200

तं ह बबाधे - मल्लो ऽसीति। स होवाच मघवन् मामुया भूम। तेभ्यो वै नस् त्वं तद् देहि, येन वयं जीवाम। त्वद् वै वयं जाता स्म इति। स वा एतान् अन्तरांसयोः पांसून् प्रध्वंसयस्वेति। तान् ह प्रध्वंसयांचक्रे। ते हैव रजसश् च रजीयांसश् च नाम महाञ् जनपद उत्तस्थौ। तेषां ह राजास। तस्य होपगुस् सौश्रवसः पुरोहित आस। स होवाच - मा कश्चन यष्ट। यो म ईशायां यजते, ज्येयस् सः। न वै देवा अहुतस्यादन्ति। न पर्णाहुतिश् च न होतव्येति। स हेन्द्र उपगुं सौश्रवसम् एत्योवाच - याजयानि त्वेति। स होवाच - न वा इह यजन्ते। यो वा इह यजेत, जिनीयुर् वै तम् इति। तं ह लोकं लोकं दर्शयांचकारेमम् इमं वै लोकम् इष्ट्वा जयतीति। स हेक्षांचक्रे - ऽपि त्यं जिनन्तु। हन्त यजा इति। तं होवाच याजय मेति। तं ह याजयांचकार। स्वयम् एव सदोहविर्धाने उत्तस्थतुः। उलूखले सोमम् अभिषुषाव। स होवाचाराद् एव कुत्साद् इहागहीति। स ह कुत्सम् एवोपेयाय। तं होवाच - कम् अयज इति। उपगुम् इति। एतम् उपगुं जिनीतेति

3.201

तं ह जिग्युः। तं ह द्वितीयं तं ह तृतीयम् एत्योवाच - याजयानि त्वेति। स होवाच - न वा इह यजन्ते। यो वा इह यजेत, जिनीयुर् वै तम्। द्विर् वै स्यो ऽयजत। तं त्यम् अजिनन्न् एवेति। तम् उ ह लोकं लोकम् एव दर्शयांचकारेमम् इमम् उ वाव लोकम् इष्ट्वा जयतीति। स हेक्षांचक्रे - ऽपि त्यं जिनन्तु, हन्त यजा एवेति। तं होवाच - याजय मेति। तं ह याजयांचकार। स्वयम् एव सदोहविर्धाने उत्तस्थतुर्, उलूखले सोमम् अभिषुषाव। स होवाच - यथैव त्वा कुत्सो न पश्येत्, तथेताद् इति। स ह कुत्सम् एवोपेयाय। तं होवाच - कम् अयज इति। उपगुम् इति। तम् उ ह स्वयम् एवोपोत्थाय संवृश्च्योदके प्रचकार

3.202

तद् उ ह सुश्रवा स्थौरायणः पितानुबुबुधे - कुत्सो ह वै म औरवः पुत्रं संवृश्च्योदके प्राकारीद् इति। तम् आद्रुत्याब्रवीत् - क्व मे पुत्रम् अकर् इति। एष उदके प्रकीर्णश् शेत इति। तं हान्वभ्यवेयाय। तस्य हेन्द्रो रोहितो भूत्वा मुखात् सोमं निष्पपौ। स हेक्षांचक्रे - ऽयं वावेन्द्रः। इमम् एव स्तवानि। अयम् एव म इमं समैरयिष्यतीति। स एतत् सामापश्यत्। तेनैनम् अस्तौद् -
अपाद् उ शिप्रिय् अन्धसस् सुदक्षस्य प्रहोषिणः।
इन्दोर् इन्द्रो यवाशिरः॥
इति। तम् अब्रवीत् किंकामो मा स्तौषीति। इमम् एव मे पुत्रं समैरयेत्य् अब्रवीत्। तम् ए मथाया इत्य् उदमथ्नात्। तं समैरयत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। विभ्रष्टम् इवैतद् अहर् यत् सप्तमम्। तद् एवैतेन भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ सुश्रवा स्थौरायणो ऽपश्यत् तस्मात् सौश्रवसम् इत्य् आख्यायते

3.203

ऋषयो वै सत्राद् उत्थायायन्त आयुञ्जानाः। ते होचुर् - एत किं चिद् एव यक्षं पश्यामेति। ते होचुर् - अकूपारो वा अयं कश्यपस् समुद्रे ऽन्तर् महद् यक्षम्। एत तं पश्यामेति। तं हान्वभ्यवेयुः। तेभ्यो ह नाविर् आस। ते होचुर् - एतेन्द्रम् एव स्तवाम स वावास्येशे। स एव न इमं दर्शयिष्यतीति। ते ऽत्रिम् अब्रुवन्न् - ऋषे, त्वं स्तुताद् इति। स एतम् अत्रिस् तृचम् अपश्यत्। तेनैनम् उपायन् -
यद् इन्द्र चित्र म इह नास्ति त्वादातम् अद्रिवः।
राधस् तन् नो विदद्वस उभयाहस्त्य् आ भर॥
इति स हेक्षांचक्रे - महद् बत म ऋषयो याचन्ति। उभयाहस्त्य् आ भरेति वा आहुर् इति।
यत् ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत्।
तेन दृढा चिद् अद्रिव आ वाजं दर्षि सातये॥
इति। स हेक्षांचक्रे - दृढं बत म ऋषयो याचन्ति। न हाजज्ञाव् - अकूपारं दिदृक्षन्त इति।
यन् मन्यसे वरेण्यम् इन्द्र द्युक्षं तद् आ भर।
विद्याम तस्य ते वयम् अकूपारस्य दावने॥
इति। स हाजज्ञाव् अकूपारं वै दिदृक्षन्त इति। तं ह पदोदस्यन्न् उवाचेदम् एव मेदम् ऋषयो महद् इवोभयाहस्त्य् आ भरेत्य् अवोचन्न् इति। तम् अपश्यन्। ता एताः कामसनय ऋचः। एतं वै ते कामम् अकामयन्त। स एभ्यः कामस् समार्ध्यत। यत्काम एवैताभिर् ऋग्भि स्तुते, सम् अस्मै स काम ऋध्यते

3.204

तासु वसिष्ठस्य वीङ्कम् अतिक्रान्तिः। अति वा एतर्ह्य् अनुष्टुब् अनुष्टुभं क्रामति। सैषानुष्टुप् सती त्रयस्त्रिंशदक्षरा संपद्यते। तेनातिक्रामति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत - वीमान् लोकान् अश्नुवीय, वि प्रजया पशुभिर् अश्नुवीयेति। स एतत् सामापश्यत्। तेनास्तुत। तेन वीवीत्य् एवेमान् लोकान् आश्नुत, वि प्रजया पशुभिर् अश्नुते, य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य वींकम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.205

शिशुं जज्ञानं हर्यतं मृजन्तीति हरिवतीर् भवन्ति। हरिवती वै परमा वाचस् तनूः। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। शुम्भन्ति विप्रं मरुतो गणेनेति मरुत्वतीर् भवन्ति। मरुत्वद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। अथो क्षत्रं वै त्रिष्टुब्, विशो मरुतः। तद् यत् त्रिष्टुभो मरुत्वतीर् भवन्ति, क्षत्रायैव तद् विशम् अनुवर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनुवर्त्मा कविर् गीर्भिः काव्येन कविस् सन् सोमः पवित्रम् अत्य् एति रेभन्न् इत्य् अतिंहायन्। ऋषिमना य ऋषिकृत् स्वर्षास् सहस्रनीथः पदवीः कवीनाम् इति सहस्ररूपं छन्दोमानाम् उपगच्छन्ति। पशवो वै छन्दोमाः। तृतीयं धाम महिषस् सिषासन्न् इति तृतीयो ह्य् एष त्रियहः क्रियते यच् छन्दोमाः। सोमो विराजम् अनु राजति ष्टुब् इति त्रैष्टुभं रूपम् उपगच्छन्ति। त्रैष्टुभं ह्य् एतद् अहः। अथो पूर्वो वैष सहो राज्यम्। तम् एवैतच् छन्दोमा अनु राजन्ति। चमूषच् छ्येनश् शकुनो विभृत्वा गोविन्दुर् द्रप्स आयुधानि बिभ्रद् इति गोमतीः पशुमतीर् भवन्ति पशूनाम एवावरुद्ध्यै। पशवो हि छन्दोमाः। अपाम् ऊर्मिं सचमानस् समुद्रम् इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः। तुरीयं धाम महिषो विवक्तीति तुरीयं ह्य् एतद् अहर् अह्नां क्रियते यच् छन्दोमाः

3.206

ता एता भवन्ति त्रिष्टुभस् त्रिष्टुब्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एते सोमा अभिप्रियम् इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। इन्द्रस्य कामम् अक्षरन्न् इति यद् ऐन्द्रं तत् त्रिष्टुभो रूपम्। क्षत्रं हि त्रिष्टुप्। वर्धन्तो अस्य वीर्यम् इति वृद्धं ह्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। सूक्तम् अनुरूपो भवति - पशवो वै सूक्तं पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवो, भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपं कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत रोहिणी कल्माषम्, उत कल्माषी रोहितम्। नवर्चं भवति। नव वै पुरुषे प्राणाः। प्राणैर् एवैतत् समृध्यमाना यन्ति, प्राणेषु प्रतितिष्ठन्तः। द्वितीयं नवर्चं भवति, तृतीयं नवर्चं भवति। अभिपूर्वम् एवैतत् प्राणैस् समृध्यमाना यन्ति। पञ्चर्चं भवति - पञ्चपदा वै पंक्तिः। पांक्ताः पशवः। पशवश्छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तद् आहु ऋतुमान् पृष्ठ्यष् षडहो, ऽनृतवश् छन्दोमाः। अनृताव् इव एते प्रतिष्ठिता यच् छन्दोमा इति। तद् यद् एतानि पञ्चर्च(ष्) षड् ऋचानि भवन्ति तेनैवर्तुमन्तश् छन्दोमाः क्रियन्ते। पर्यासो भवति प्रजानां धृत्यै पशूनाम् उपस्थित्यै। चतुश्चत्वारिंश स्तोमो भवति। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रिय एवैतद् वीर्ये प्रतितिष्ठन्तो यन्ति

3.207

अग्निं वो देवम् अग्निभिस् सजोषा इत्य् आग्नेयम् आज्यं भवति ऱआथन्तरम्। राथन्तरं ह्य् एतद् अहः।
यजिष्ठं दूतम् अध्वरे कृणुध्वम्।
यो मर्त्येषु निध्रुविर् ऋतावा तपुर्मूर्धा घृतान्नः पावकः॥
इति । एतद् वा अग्नेः प्रियं धाम यद् घृतम्। प्रियेणैवैनं तं धाम्ना समृद्धयन्ति। प्रोथद् अश्वो न यवसे ऽविष्यन्न् इत्य् अश्ववद् भवति भ्रातृव्यस्यैवावनुत्त्यै। यदा महस् संवरणाद् व्य् अस्थाद् इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। आद् अस्य वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृणम् अस्तीति। यदा वा अग्निं वात उपवाजयत्य् अथ स महद् दीप्यते। तद् एतद् दीप्तिर् एव ब्रह्मवर्चसस्य रूपम्। उद् यस्य ते नवजातस्य वृष्ण इति त्रैष्टुभं रूपम् उपगच्छन्ति। त्रैष्टुभं ह्य् एतद् अहः।
अग्ने चरन्त्य् अजरा इधानाः।
अच्छा द्याम् अरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान्॥
इति स्वर्गस्य लोकस्य समष्ट्यै

3.208

यद् अद्य सूर उदित इति मैत्रावरुणं भवति। यद् इति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः।
अनागा मित्रो अर्यमा।
सुवाति सविता भगः॥
सुप्रावीर् अस्तु स क्षयः प्र नु यामन् सुदानवः।
यो नो अंहो ऽतिपिप्रति॥
इत्य् अतिहायन्।
उत स्वराजो अदितिर् अदब्धस्य व्रतस्य ये।
महो राजान ईशते॥
इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। तम् इन्द्रं वाजयामसीत्य् ऐन्द्रं भवति। महे वृत्राय हन्तव इति घ्नद्वत्। एतद् वै यजमानस्य स्वं स्तोत्रं यद् ब्रह्मणः। स्व एव तद् आयतने यजमानस्य सर्वं पाप्मानं घ्नन्ति। स वृषा वृषभो भुवद् इति वृषण्वद् भवति। वृषण्वद् वै त्रिष्टुभो रूपम्। त्रैष्टुभम् एतद् अहः। इन्द्रस् स दामने कृत ओजिष्ठस् स बले हित इति। एतेन वै तृतीयेन त्र्यहेण देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवाह्वलत्। तस्मिन्न् इन्द्रस् स दामने कृत ओजिष्ठस् स बले हित इत्य् एव बलम् अदधुः। गिरा वज्रो न संभृत इत्य् एवैनं समभरन्। सबलो अनपच्युत इत्य् एवैनं सबलम् अकुर्वन्। तं संस्कृत्य तेन स्वर्गं लोकम् आयन्। तद् यद् एतद् आज्यं भवति स्वर्गस्यैव लोकस्य समष्ट्यै। यत् प्रथमस्याह्न ऐन्द्राग्नं तद् ऐन्द्राग्नं राथन्तरम्। राथन्तरं ह्य् एतद् अहः। समैन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठ्यस्य षडहश् छन्दोमाश् च। स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समैन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठ्यस्य षडहश् छन्दोमाश् च। स यथा नानाग्रामो मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समैन्य् आज्यानि भवन्ति। असमैनि हैक कुर्वन्ति। तस्मात् समैन्य् एव कार्याणि। चतुश्चत्वारिंश स्तोमो भवति। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रिय एवैतद् वीर्ये प्रतितिष्ठन्तो यन्ति

3.209

अध्वर्यो अद्रिभिस् सुतम् इति त्रिष्टुभो रूपेण प्रयन्ति। त्रैष्टुभम् एतद् अहः।
सोमं पवित्र आ नय।
पुनाहीन्द्राय पातवे॥
तव त्य इन्दो अन्धसा
इत्य् अन्धस्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै।
देवा मधोर् व्य् आशत।
पवमानस्य मरुतः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। दिवः पीयूषम् उत्तमम् इत्य् उत्तमो ह्य् एष त्र्यहः क्रियते यच् छन्दोमाः। तासु गायत्रम् उक्तब्राह्मणम्। अथाञ्जः पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वा अकामयन्ताञ्जसा स्वर्गं लोकम् आरोहेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽञ्जसा स्वर्गं लोकम् आरोहन्। तद् एवाञ्जसो ऽञ्जस्त्वम्। तद् एतत् स्वर्ग्यं साम। अञ्जसैवैतेन स्वर्गं लोकम् आरोहति य एवं वेद। तद् व् एवाचक्षते वैरूपम् इति। पशवो वै विरूपाः। पशवो वैरूपम्। पशुष्व् एवैतत् पशून् अनुसंदधाति। विरूप आंगिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ विरूप आङ्गिरसो ऽपश्यत् तस्माद् वैरूपम् इत्य् आख्यायते

3.210

अथ धुरां साम द्रवदिळं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। छन्दांसि वै धुरः। यातयामान इवैते यच् छन्दोमाः। तद् यद् अत्र धुरां साम क्रियते तेनैव छन्दोमा धूर्वन्तश् छन्दस्वन्तो ऽयातयामानः क्रियन्ते। अथो प्राणा वै धुरः। पशवो धुरः। प्राणेष्व् एव तत् पशुषु प्रतितिष्ठति। अथेळतं त्रिणिधनं सवनानां क्लृप्त्यै। एतद् ध वै समृद्धं यद् गायत्रं त्रिणिधनम्। इळन् काव्य स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स इमम् एव लोकं प्रथमेन निधनेनाभ्यारोहद्, अन्तरिक्षं द्वितीयेन, अमुं तृतीयेन। तान् इमांस् त्रीन् लोकान् अभ्यारोहत्। ततो वै स स्वर्गे लोके प्रत्यतिष्ठत्। तद् एतत् स्वर्ग्यं प्रतिष्ठा साम। गच्छति स्वर्गं लोकं, प्रति स्वर्गे लोके तिष्ठति य एवं वेद। यद् व् इळन् काव्यो ऽपश्त् तस्माद् ऐळतम् इत्य् आख्यायते। अथ सौमित्रं, भ्रातृव्यहा सेन्द्रं साम। हन्ति द्विषन्तं भ्रातृव्यम् आस्येन्द्रो हवं गच्छति य एवं वेद। अथ सौपर्णम् उक्तब्राह्मणम्। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः, पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै

3.211

अथाशु। देवा वा अकामयन्ताशु स्वर्गं लोकम् इयामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै त आशु स्वर्गं लोकम् आयन्। तद् एवाशोर् आशुत्वम्। तद् एतत् स्वर्ग्यं साम। आश्व् एवैतेन स्वर्गं लोकम् एति य एवं वेद। तद् व् एवाचक्षत आशु भार्गवम् इति। देवासुरा अस्पर्धन्त। ते देवा भृगुम् उपाधावन् - जयामासुरान् इति। स एतद् भृगुस् सामापश्यत्। तेनास्तुत। ततो वै देवा असुरान् अजयन्। ते ऽब्रुवन्न् आशु वावेदं भृगोर् अभूद् इति। तद् व् एवाशोर् आशुत्वम्। तद् उ भ्रातृव्यहा कामसनि। हन्ति द्विषन्तं भ्रातृव्यम्। यत्काम एनेन स्तुत, सम् अस्मै स काम ऋध्यते

3.212

अथ मार्गीयवं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। मृगयुर् वै देवो ऽकामयतोभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छेयं ये च ग्राम्या ये चारण्या इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यम् अगच्छद् ये च ग्राम्या ये चारण्याः। ततो ह स्म वै तस्मै मृगो मृगम् आनयति। तद् एतत् पशव्यं साम। उभयेषां पशूनाम् ऐश्वर्यम् आधिपत्यं गच्छति ये च ग्राम्या ये चारण्या य एवं वेद। एष ह वाव स देवो मृगयुः। न हास्यैष पशून् अभिमन्यते य एवं वेद। यद् उ मृगयुर् देवो ऽपश्यत् तस्मान् मार्गीयवम् इत्य् आख्यायते

3.213

अभि सोमास आयव इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः।
पवन्ते मद्यं मदम्।
समुद्रस्याधि विष्टपे मनीषिणो मत्सरासो मदच्युतः॥
इति समुद्रवतीर् भवन्ति, छन्दोमानां रूपम्। समुद्रो वै छन्दोमाः।
तरत् समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत्।
अर्षा मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत्॥
नृभिर् येमाणो हरियतो विचक्षणो राजा देवस् समुद्रियः॥
इति चतुरृचं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तासु द्विहिंकारं वामदेव्यम्। पशवो वै सिमाः। पशवो रेवतयः। पशवो द्विहिंकारं वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा असंजानाना अपाक्रामन्। सो ऽकामयताभि मा पशवस् संजानीरन्। न मद् अपक्रामेयरु इति । स एतत् सामापश्यत्। तेनास्तुत। ततो वै तं पशवो ऽभिसमजानत। ततो ऽस्माद् अनपक्रामिणो ऽभवन्। तद् द्विहिंकारं भवति। हुम् इति वै पशवस् संजानते, हुम् इति माता पुत्रम् अभ्येति, हुम् इति पुत्रो मातरम्। तद् एतत् संज्ञानं पशूनां साम। अभ्य् एनं पशवस् संजानते, नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् ऐळं भवति - पशवो वा इळा, पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै

3.214

अथ गायत्रपार्श्वम्। इमे वै लोका गायत्रपार्श्वम्। एष्व् एव तल् लोकेषु प्रतितिष्ठन्ति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् गायत्रम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा गायत्रं वाव नो ऽस्य साम्नः पक्षाव् अभूताम् इति। तद् एव गायत्रपक्षस्य गायत्रपक्षत्वम्। गायत्रपक्षं ह वै नामैतत्। तद् गायत्रपार्श्वम् इत्य् आख्यायते। तद् धिंकारवद् भवत्य् अन्नाद्यस्य प्रत्त्यै। हिंकारवद्भिर् वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यं प्रायच्छत्। प्रास्मा अन्नाद्यं दीयते य एवं वेद

3.215

अथ पौरुहन्मनम् अभ्यारम्भो यज्ञस्य प्रत्यपसारः। अभ्य् एव नवमम् अहर् आरभते प्रति सप्तमम् अपधावति। अभ्यारम्भैर् वै देवा असुरान् यज्ञाद् अन्तरायन्। पुरुहन्मा वैखानसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुरुहन्मा वैखानसो ऽपश्यत् तस्मात् पौरुहन्मनम् इत्य् आख्यायते। देवासुरा अस्पर्धन्त। ते देवा अकामयन्त पूर्व एवासुरान् हन्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुरान् पूर्वे ऽघ्नन्। तद् यत् पूर्वे ऽघ्नन् तद् व् एव पौरुहन्मनस्य पौरुहन्मनत्वम्। पूर्व एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद

3.216

अथ द्वैगतं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वै सर्वं यज्ञं संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। ते मनुष्या यज्ञं न प्रजानन्। तद् व्यच्छिद्यत। ते देवमनुष्या अशनायन्न्, इतःप्रदानाद् धि देवा जीवन्त्त्य्, अमुतःप्रदानान् मनुष्याः। नेत ऊर्ध्वा आहुतयो ऽगच्छन्, नामुतो ऽर्वाची वृष्टिः प्रादीयत। ते देवा अयास्यम् अब्रुवन् - मनुष्या वै यज्ञं न प्रजानन्ति। तद् व्यच्छेदि। तेभ्यः परेहि यज्ञं विधेहीति। सो ऽयास्य एत्यैतेनैव साम्ना मनुष्येभ्यो यज्ञं व्यदधात्। सो ऽयं मनुष्येषु यज्ञो विहितः। स मनुष्येषूषित्वा स्वर्गं लोक पुनर् न प्राजानात्। सो ऽकामयत प्र स्वर्गं लोकं जानीयाम् इति। स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकं पुनः प्राजानात्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोक य एवं वेद। अथो हास्यैतेनेव साम्ना यज्ञो विहितो भवति। स यद् अयास्यो ऽमुष्माल् लोकाद् इमं लोकम् आगच्छद्, अस्माल् लोकाद् अमुं लोकम् अगच्छत्, स इमौ लोकौ द्विर् अनुसमचरत्, तद् द्वैगतस्य द्वैगतत्वम्। अयास्यो ह वाव द्विगत्

3.217

अथ हारायणम्। देवासुरा अस्पर्धन्त। ते देवा अकामयन्त - हरो ऽसुराणां हरेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनासुराणां हरो ऽहरन्। तद् यद् धरो ऽहरंस् तद् धारायणस्य हारायणत्वम्। हरति हरो द्विषतो भ्रातृव्यस्य य एवं वेद। हारायण आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत।
शग्ध्य् ऊ षु शचीपत इन्द्र् विश्वाभिर् ऊतिभिः।
भगं न हि त्वा यशसं वसुविदम् अनु शूर चरामसि॥
पौरो अश्वस्य पुरुकृद् गवाम् अस्य् उत्सो देव हिरण्ययः।
इत्य् एव गव्यांश् चाश्व्यांश् च पशून् अवारुन्द्ध। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छत्। तद् एतत् पशव्यं स्वर्ग्यं साम। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद। यद् उ हारायण आङ्गिरसो ऽपश्यत् तस्माद् धारायणम् इत्य् आख्यायते

3.218

अथाछिद्रं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। प्रजापतिर् वा अकामयताछिद्रः प्रजया पशुभि स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽछिद्रः प्रजया पशुभिर् अभवत्। तद् एवाछिद्रस्याछिद्रत्वम्। अछिद्र एव प्रजया पशुभिर् भवति य एवं वेद। देवा वा आप्तां वाचम् अछिद्रेणैवैभ्यो लोकेभ्यस् समदलुम्पन्। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् अछिद्रेणैव संलुम्पन्ति। यो वै छिद्रेण संचिनोति न तद् उत्पूर्यते। अथ यो ऽछिद्रेण संचिनोति तद् उत्पूर्यते। ज्यायो ऽभ्यारम्भं भवत्य्, अति नवमम् अहर् जिहीते, दशमम् अहर् अभ्यारभते, प्रति सप्तमम् अपधावति। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर्, अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनैनान् पर्यास्यत्। तान् श्रैष्ठ्येनोपागृह्णात्। ते ऽस्मिन्न् अरमन्त। रमन्ते ऽस्मिन् पशवः पशुमान् भवति य एवं वेद

3.219

अथ बार्हदुक्थम्। बृहदुक्थ आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ बृहदुक्थ आङ्गिरसी ऽपश्यत् तस्माद् बार्हदुक्थम् इत्य् आख्यायते। धर्ता दिवः पवते कृत्वियो रस इत्य् अह्नो धृत्यै । दक्षो देवानाम् अनुमाद्या नृभिर् इति छन्दांस्य् एवैतद् दक्षयन्त्य् अह्नो वीर्यवत्त्वाय। तासूदवत् त्रिप्ररोहम्। तृतीयो ह्य् एष प्ररोहः क्रियते, यद् एष तृतीयस् त्रियह, स्वर्गस्य लोकस्य समष्ट्यै। तद् ध् एवाचक्षते विशालम् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् विशालम् एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा - विशालं वाव नो भूत्वेदं साम स्वर्गं लोकम् अवाक्षीद् इति। तद् एव विशालस्य विशालत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। तद् यथा ह वै ब्रध्नस्य विष्टपान्य् एवम् एतानि विशालस्य विष्टपानि स्वर्गस्यैव लोकस्य समष्ट्यै। प्र स्वर्गं लोकम् आप्नोति य एवं वेद। अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तत् त्रैष्टुभे ऽहन् भवति। पुंसो वा एतद् रूपं यत् त्रिष्टुप्, स्त्रियै रथन्तरम्। तद् यद् अत्र रथन्तरं पृष्ठं भवति, तेनैवैतद् अहर् मिथुनं क्रियते। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। यद् इन्द्र प्राग् अपाग् उदग् इतीन्द्रम् एवैतत् सर्वाभ्यो दिग्भ्यो ह्वयन्ति। आप्तेष्व् अहस्सु यद्य् अस्यां दिश्य् असि यद्य् अस्यां यद्य् अस्याम् इति

3.220

तासु वाशं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। ते देवा अकामयन्त वशम् असुराणां वृञ्जीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ते वाश इत्य् एव वशम् असुराणाम् अवृञ्जत। तद् एव वाशस्य वाशत्वम्। वृंक्ते द्विषतो भ्रातृव्यस्य वश य एवं वेद। क ईं वेद सुते सचेति सतोबृहतीर् आक्रमन्ते ऽनपभ्रंशाय। तासु नैपातिथम्। काण्वायनानां सत्रम् आसीनानां पशव उपादस्यन्। ते ऽकामयन्ताव पशून् रुन्धीमहीति। स एतन् नेपातिथिः काण्वस् सामापश्यत्। तेनास्तुत। ततो वै ते पशून् अवारुन्धत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ नेपातिथिः काण्वो ऽपश्यत् तस्मान् नैपातिथम् इत्य् आख्यायते। उभयं शृणवच् च न इत्य् उभे एवैतेन रूपे समारभते यच् च पृष्ठ्यस्य षडहस्य यद् उ च छन्दोमानाम्। तस्माद् उ हैतस्यां द्वयोस् संयजमानयोर् ब्रह्मसाम कुर्यात्

3.221

तासु वैयश्वम्। व्यश्वं वै साकमश्वं गर्भे सन्तं गयः पितृव्यः पर्यपश्यद् - ऋषिर् जनिष्यत इति। तं जातं परास्ताव् ऽब्रवीज् - जातक्षेणो ऽजनीति। तं छाया नाजहात्। स्वाव् अस्मा अङ्गुष्ठो प्रास्नुताम्। तद् अस्मा आचक्षत यं वै कुमारं परास्ताव् ऽब्रवीर्, अयं वै स जीवतीति। तं मुसलम् आदायाभ्यैद् धनिष्यन्। सो ऽकामयतोद् इत इयां, गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। तद् अस्य मुसलं प्रत्यक् पतित्वा शिरो ऽछिनत्। तद् एतद् भ्रातृव्यहा गातुविन् नाथवित् साम। हन्ति द्विषन्तं भ्रातृव्यं , विन्दते गातुं नाथं य एवं वेद। यद् उ व्यश्वो ऽपश्यत्, तस्माद् वैयश्वम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति

3.222

पवस्व देव आयुषम् इति त्रिष्टुभो रूपेण प्रयन्ति। त्रैष्टुभम् एतद् अहः।
इन्द्रं गच्छतु ते मदः।
वायुम् आ रोह धर्मणा॥
इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति।
पवमान नि तोशसे रयिं सोम श्रवाय्यम्।
इन्द्रो समुद्रम् आ विश॥
इति समुद्वतीर् भवन्ति छन्दोमानां रूपम्। समुदो वै छन्दोमाः। अपघ्नन् पवसे मृध इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु गायत्रम् उक्तब्राह्मणम्। अथ मादिलं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। देवा वा अकामयन्त मद्वान् नस् सोम स्यात् सोममदस्य माद्येमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तेषां मद्वान् सोमो ऽभवत् सोममदस्यामाद्यन्। तद् एव मादिलस्य मादिलत्वम्। तद् रसो वै मदः। रसेन ह वाव ते तन् मेदुः। मद्वान् अस्य सोमो रसवान् भवति य एवं वेद। अथो हैषाम् अवारुद्धा इव छन्दोमा स्युर् यद् एतद् अत्र कुर्युः। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यद् अत्र मादिलं भवति रसम् एवैतच् छन्दोमेषु दध्त्य् ऐवैनान् एतेन प्याययन्ति

3.223

अथ सुरूपं रूपस्यैव समृद्ध्यै। आङ्गिरसो वै तपस् तेपानास् ते रूपेण वर्चसा व्यार्ध्यन्त। ते ऽकामयन्त सं रूपेण वर्चसर्ध्येमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते सं रूपेण वर्चसार्ध्यन्त। ते ऽब्रुवन् सुरूपा वा अभूमेति। तद् एव सुरूपस्य सुरूपत्वम्। सं रूपेण वर्चसर्ध्यते य एवं वेद। सुरूप आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ सुरूप आङ्गिरसो ऽपश्यत् तस्मात् सुरूपम् इत्य् आख्यायते। प्रजापतिः पशून् असृजत। तेषां सृष्टानां रूपाणि न प्राज्ञायन्त। स एतानि सुरूपाणि सामान्य् अपश्यत्। तैर् एषां रूपाण्य् अदधात्। तत् सुरूपाणां सुरूपत्वम्। रूपण्वतः पशून् अवरुन्द्धे य एवं वेद। अर्कसामानो वै छन्दोमास् सुरूपरूपाः। सामन्वद्भी रूपण्वद्भिश् छन्दोमै स्तुते य एवं वेद। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवा छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंस्, तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रसस्यैवैषानुवित्तिः

3.224

अथ काक्षीवतम्। कक्षीवान् वा अकामयत - बहुः प्रजया पशुभिः प्रजायेय, श्रियं राज्यं गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स बहुः प्रजया पशुभिः प्रजायत श्रियं राज्यम् अगच्छत्। ते ह वै सहस्रं काक्षीवता आसुः। तैर् ह वै स पुत्रै श्रियं राज्यं जगाम। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद् वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ कक्षीवान् अपश्यत् तस्मात् काक्षीवतम् इत्य् आख्यायते

3.225

अथ प्रमंहिष्ठीयम्। ऋषीणां वै सत्रम् आसीनानां पशव उपादस्यन्। ते ऽकामयन्ताव पशून् रुन्धीमहीति। ते होचुर् - एताग्निम् एव पशून् याचाम। स वाव पशूनाम् ईशे। स एव नः पशून् प्रदास्यतीति। त एतत् सामापश्यन्। तेनैनम् अस्तुवन् -
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे।
उपस्तुतासो अग्नये॥
इति। तान् अब्रवीत् - किंकामा स्थेति। पशुकामा इत्य् अब्रुवन्। तेभ्य एतेनैव साम्ना पशून् प्रायच्छत्। ते ऽब्रुवन् - प्रमंहिष्ठो वै नो ऽभूद् इति। तद् एव प्रमंहिष्ठीयस्य प्रमंहिष्ठीयत्वम्। तद् एतत् पशव्यं साम। प्रमंहिष्ठो हास्मा एष भवत्य्, अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। तत् पुनर्नितुन्नं छन्दो भवति। यत्र यत्र वै देवा छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वंस् तत् पुनर् अभ्याघ्नन्। धीता इवैते यच् छन्दोमास् तृतीयसवनायतनाः। धीतम् इव वै तृतीयसवनम्। तद् यत् पुनर्नितुन्नं छन्दो भवति रसम् एवैतच् छन्दोमेषु दधति। रसस्यैवैषाम् अनुवित्तिः

3.226

अथ स्वाशिराम् अर्को - ऽन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्ध्यै। स्वाशिरो वै नामाप्सरस इमा एवौषधयः। ता अकामयन्त - बह्वी स्याम, प्रजायेमहि, वीमं लोकम् आप्नुयामेति। ता एतत् सामापश्यन्। तेनास्तुवत। ततो वै ता बह्वीय आसन्, प्राजायन्त, वीमं लोकम् आप्नुवन्। सो ऽयं सर्वो लोक ओषधीभिस् संछन्नो ऽपि गिरयः। तद् एतत् प्रजननं साम। बहुः प्रजया पशुभिः प्रजायते, वीमं लोकम् आप्नोति य एवं वेद। यद् उ स्वाशिरो ऽप्सरसो ऽपश्यंस् तस्मात् स्वाशिराम् अर्क इत्य आख्यायते। अभि द्युम्नं बृहद् यश इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। जिन्वन् गविष्टये धिय इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः

3.227

तास्व् ऐषिरं वायोर् आर्ष्यम्। वायुर् वा इषिरः। यद् वै सत्रिणां सत्रे विनश्यते तद् एभ्यो वायुर् अपिरोहयति। प्राणो वै वायुः। प्राण एवैभ्यस् तत् भिषज्यति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वत। प्राणा शिशुर् महीनाम् इति पशुरूपम् एवैतद् उपगच्छन्ति। पशूनां वै शिशुर् भवति। तासु त्रैतम् उक्तब्राहमणम्। अभी नो वाजसातमम् इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः।
रयिम् अर्ष शतस्पृहम्।
इन्द्रो सहस्रभर्णसं तुविद्युम्नं विभासहम्॥
इति। यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः। परि स्य स्वानो अक्षरद् इन्दुर् अव्ये मदच्युत इति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति।
वयं ते अस्य राधसो वसोर् वसो पुरुस्पृहः।
नि नेदिष्ठतमा इष स्याम सुम्ने ते अध्रिगो॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। तासु गौरिवीतम् उक्तब्राह्मणम्

3.228

अथ शुद्धाशुद्धीयम्। इन्द्रो वा असुरान् हत्वापूत इवामेध्यो ऽमन्यत। सो ऽकामयत शुद्धम् एव मासन्तं शुद्धेन साम्ना स्तुयुर् इति। स ऋषीन् अब्रवीत् - स्तुत मेति। त एतद् ऋषयस् सामापश्यन्। तेनैनम् अस्तुवन्।
एतो न्व् इन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना।
शुद्धैर् उक्थैर् वावृध्वांसं शुद्धर्(?) आशीर्वान् ममत्तु॥
इति। ततो वा इन्द्रश् शुद्धः पूतो मेध्यो ऽभवत्। तद् एतत् पवित्रं साम। शुद्धः पूतो मेध्यो भवति य एवं वेद। अथौदलम्। उदलो वै दैवरातो ऽकामयताग्रो मुख्यो ब्रह्मवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्रिया मुख्या ब्रह्मवर्चसिनो ऽसामेति सत्रम् आसते। अग्रिया एव मुख्या ब्रह्मवर्चसिनो भवन्ति। तत् स्वारम् अनुष्टुभि क्रियते, रूपसमृद्धतायै। गायत्रयोनि सद् अनुष्टुभि क्रियते। द्वन्द्वं वै भूत्वा पशवो वीर्याण्य् उद्यच्छन्ति। पशवश् छन्दोमाः। तस्माच् छन्दोमेषु क्रियते। यद् उदलो दैवरातो ऽपश्यत् तस्माद् औदलम् इत्य् आख्यायते

3.229

अथ पाञ्चवाजम्। एतेन वै पञ्चवाजाः कौत्स उभे अन्धसी व्यपिपीत यच् च दैव्यं यच् च मानुषम्। ते एवैतेन विपिपीते। पञ्चवाजा वै कौत्सो ऽकामयतोभे अन्धसी विपिपीय यच् च दैव्यं यच् च मानुषम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै ते स उभे अन्धसी व्यपिपीत यच् च दैव्यं यच् च मानुषम्। ततो ह स्म वै स सुरादृतिम् उपाधाय सोमार्थं धारयति। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। उभे अन्धसी विविपीते यच् च दैव्यं यच् च मानुषं य एवं वेद। यद् उ पञ्चवाजाः कौत्सो ऽपश्यत् तस्मात् पाञ्चवाजम् इत्य् आख्यायते। अथ क्रौञ्चम्। क्रुंङ् आङ्गिरस ईष्यम् इवाहर् अविन्दत्। ईष्या इवैते यच् छन्दोमाः। तस्माच् छन्दोमेषु क्रियते। तन् मध्ये स्वारं भवति। प्राणो वै स्वरः। अभिषज्या इवैते यच् छन्दोमाः। द्वे द्वे अहनी समस्ताः। तद् यन् मध्ये स्वारं भवति प्राणम् एवैतच् छन्दोमेषु दधति भिषज्यन्त्य् एवैनान् एतेन

3.230

अथ रयिष्ठं मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामयुर्, अभि मा वर्तेरन्न् इति। स एत् सामापश्यत्। तेनास्तुत। ततो वै तं पशवो ऽभ्यावर्तन्त। ततो ऽस्माद् अनपक्रमिणो ऽभवन्। सो ऽब्रवीद् अस्थाद् वा इयं मयि रयिर् इति। तद् एव रयिष्ठस्य रयिष्ठत्वम्। तद् एतत् पशव्य साम। तिष्ठत्य् अस्मिन् रयिर्, अभ्य् एनं पशव आवर्तन्ते, नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् अध्यर्धेळं भवति - पशवो वा इळा। पशवश् छन्दोमा - अभिपूर्वाणाम् एव पशूनाम् अवरुद्ध्यै। अथैता द्विपदा भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति - पवस्व सोम महान् समुद्र इति। महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। पिता देवानां विश्वाभि धामेत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः

3.231

तासु धर्म। धर्मणा वै देवा धर्मम् आदायासुराणां विधर्मणैनान् विधर्मणः कृत्वा पराभावयन्। धर्मणैव धर्मम् आदाय द्विषतो भ्रातृव्यस्य विधर्मणैनं विधर्माणं कृत्वा पराभावयति य एवं वेद। तच् छ्रीर् वै धर्मो, राज्यं वै धर्मो, धर्मेण वै राजा धर्मो, धर्म स्वानां भवत्य्, ऐनं स्वा यन्ति, धर्मणो धारयति। तद् आहुर् नवमे ऽहनि कार्यम्। अदो वै क्षत्रं यद् बार्हतम्। अथेदं विड् राथन्तरम् इति। तद् उ वा आहुर् विधर्माणो वै राजानो न वै ते ऽन्यैर् मनुष्यै स्वधर्माणः। इदम् उ वाव क्षत्रं यच् चतुश्चत्वारिंशं त्रैष्टुभम्। तस्मान् नवम एवाहन् विधर्म स्याद् इहैतद् इति।
हिन्वन्ति सूरम् उस्रय स्वसारो जामयस् पतिम्।
महाम् इन्दुं महीयुवः॥
इति महद् ध्य् एतद् अहर् यच् चतुश्चत्वारिंशम्। तासु विशोविशीयम् उक्तब्राह्मणम्। तद् ऐळं भवति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै

3.232

अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्।
अथौशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत। स एतत् सामापश्यत् । तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुतैतं रोमण्वन्तम्। ते हैते काव्याः। रोमण्वत्य् अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एतेन तुष्टुवानः। अग्निर् वै देवेष्व् अवसत्। तं देवा नाप्रीणन्। सो ऽप्रीयमाण उशनसं काव्यम् आगच्छत्। तम् अब्रवीद् ऋषे प्रीणीहि मा, ऽप्रीतो वा अस्मीति। तम् अकामयत - प्रीणीयाम् एनम् इति। स एतत् सामापश्यत्। तेनैनम् अप्रीणात्।
प्रेष्ठं वो अतिथिं स्तुषे मित्रम् इव प्रियम्।
अग्ने रथं न वेद्यम्॥
इत्य् एवैनं प्रियतमम् अतिथिम् अकुरुत। अप्रीत इव ह वा एष एतर्हि भवति यज्ञम् ऊहिवान्। तम् एतद् अत्र प्रीणन्ति। स प्रीतो यद् अत्र यज्ञस्य परिशिष्टम् भवति तद् वहति। यद् ऊशना काव्यो ऽपश्यत् तस्माद् औशनम् इत्य् आख्यायते।
एन्द्र नो गधि प्रिय सत्राजिद् अगोह्य।
गिरिर् न विश्वतः पृथुः पतिर् दिवः॥
अभि हि सत्य सोमपा
इत्य् अभीति भवति रथन्तरस्य रूपम्। राथन्तरम् एतद् अहः। उभे बभूथ रोदसी इतीमे ह वाव रोदसी। एते एवैतद् अभिवदति। इन्द्रासि सुन्वतो वृधस् पतिर् दिव इति वृद्धं ह्य् एतद् अहर् यच् चतुश्चत्वारिंशम्

3.233

तासु सांवर्तं पदनिधनं राथन्तरम्। तस्माद् राथन्तरे ऽहन् क्रियते। संवर्त आङ्गिरस स्वर्गकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स पतिर् दिवः पतिर् दिव इत्य् एव स्वर्गं लोकम् आरोहत्। यथाह पतेद् एवम् एतद् यत् पतिर् दिव इति। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ संवर्त आङ्गिरसो ऽपश्यत् तस्मात् सांवर्तम् इत्य् आख्यायते। देवासुरा अस्पर्धन्त। ते ऽसुरा महद् अभिव्यासत। स इन्द्रो ऽकामयत सार्धम् एवासुरान् संवृत्य हन्याम् इति। स एतत् सामापश्यत्। तेनास्तुत।
त्वं हि शश्वतीनाम् इन्द्र धर्ता पुराम् असि।
हन्ता दस्योर् मनोर् वृधः पतिर् दिवः॥
इत्य् एवैनान् सार्धं संवृत्याहन्। तद् व् एव सांवर्तस्य सांवर्तत्वम्। सार्धम् एव संवृत्य द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद

3.234

अथ मैधातिथम्। मेधातिथिगृहपतयो वै विभिन्दुकीयास् सत्रम् आसत। तेषां दृढच्युद् आगस्तिर् उद्गातासीद् गौरीवितिः प्रस्तोताच्युतच्युत् प्रतिहर्ता वसुक्षयो होता सनक-नवकौ काव्याव् अध्वर्यू। पशुकामो मेधातिथिर् जनिकामौ सनक- नवकौ, यत्कामा इतरे तत्कामाः। नानाकामा ह स्म वै पुरा सत्रम् आसते। ते ह स्म नानैव कामान् ऋद्ध्वाप्त्वोत्तिष्ठन्ति। तेषां ह स्मेन्द्रो मेधातिथेर् मेषस्य रूपं कृत्वा सोमं व्रतयति। तं ह स्म बाधन्ते मेधातिथेर् नो मेषस् सोमं व्रतयतीति। स उ ह स्मैषां स्वम् एव रूपं कृत्वा सोमं व्रतयति। ततो ह वा इदम् अर्वाचीनं मेधातिथेर् मेष इत्य् आह्वयन्ति। स एतन् मेधातिथिः पशुकामस् सामापश्यत्। तेनास्तु। पुरां भिन्दुर् युवा कविर् इत्य् एव वलम् अभिनत्। त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम् इत्य् एतया बिलम् अपावृणोत्

3.235

ततः पशवो ऽसृज्यन्त। ये प्रथमे ऽसृज्यन्त, त इम एतर्हितनाः पशवः। तद् उ हैव हिरण्यशृङ्गीर् द्व्यूध्नीर् अनूदेयुः। तद् उ हैव हिरण्यचण्डातकौ वसाने ऽप्सरसाव् अनूदेयतुः। ते गृहपतिर् अभिदध्यौ। स होवाच मम वा इमे, ये ऽहं मम गार्हपत्य ऽवारुत्सि। गृहपतेर् वाव सर्वर्द्धिर् इति। नेति होचतुस् सनक - नवकौ, पशुकामस् त्वम् आसिष्ठाः। ते तवैते पशवः। जनिकामाव् आवम्। तयोर् आवयोर् इमे जाये इति। तद् धैव संवदमानेष्व् अन्यतराम् अभिपेदे। सा ह प्रतिजघ्ने। सैषा यस्या एतत् कबलिकम् इव। अथ हान्यतरा विसिष्मिये। सैषा हरिणिका। तस्माद् एते पशून् सेवते पश्वाजानेहि। अथ हेमा हिरण्यशृङ्गीर् द्व्यूध्नीर् यत एवोदेयुस् तत् पुनर् अभ्यवदुद्रुवुर् - अनृतं गृहपतिर् अकृत्। न वै वयं तस्य स्मो यो ऽनृतं करोतीति। ता हैता अप्य् अद्य क्रूरर्षभा विभिन्दुके शारीर् भूता वेदयन्ते। काण्वायनौ ब्रह्मण्य् अस्पर्धेतां मेधातिथिश् च त्रिशोकश् च। ताव् अब्रूताम् - एह्य, अग्निं समिद्धम् अत्ययावेति। ताव् अग्निं समिद्धम् अत्यैताम्। उपर्य उपर्य् एव त्रिशोको ऽत्यैद्, अथेतरस्य पक्ष्माण्य् उदौषत्। तम् अब्रवीद् - अजैषं त्वेति। नेत्य् अब्रवीद्, असुरीपुत्र एव त्वम् असि। देवता एव त्वया संस्पृष्टं नाचीकमन्तेति। तौ वा - एह्य् अपो ऽत्ययावति। तौ ह रथस्यां विष्यण्णाम् अत्यैताम्। उपर्य् उपर्य् एव त्रिशोको ऽत्यैद्, अथेतरस्य पवी अत्रायेताम्। तद् एवार्द्रपवि रथस्पायै। तम् अब्रवीद् - अजैषं त्वेति। नेत्य् अब्रवीद्, असुरीपुत्र एव त्वम् असि। देवता एव त्वया संस्पृष्टं नाचीकमन्तति। तौ वा - एहि पशून् उत्सृजावहा इति

3.236

स त्रिशोकस् सद्य एवालोम्नो कर्णकान् पशून् उदसृजत। ते ऽत्राभ्यातप्ता न्यमृच्य न्यमहन्। सैषो प्राभवत्। तस्माद् आहुर् - गावो प्रेति। तस्माद् व् अमांसाशी प्रायु नाश्नीयात्। अथ हैके ऽभितप्यमानानाः प्रत्यञ्चः प्राद्रवन्। ते सिन्धुं प्राविशन्। तल् लवणम् अभवत्। तस्माद् आहुर् - गावो लवणम् इति। तस्माद् उ यो लवणेन पणञ् चरति, गाव एव भवन्ति। अथ मेधातिथिस् संवत्सरम् उपप्रास्तृणीत पशुकामः। स एतस्माद् एव वलाद् अश्माभिधानात् पशून् उदसृजत - त्वं वलस्य गोमत इति। तद् एतत् पशूनाम् उत्सृष्टिस् साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य पवं वेद। यद् उ मेधातिथिर् अपश्यत्, तस्मान् मैधातिथम् इत्य् आख्यायते

3.237

तद् व् एवाचक्षते ऽङ्गिरस्यानां सामेति। अङ्गिरस्या ह वै नामर्षीणां पुत्रा आसुः। ते ऽकामयन्त स्वर्गं लोकम् अश्नुवीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् अङ्गिरस्या अपश्यंस् तस्माद् अङ्गिरस्यानां सामेत्य् आख्यायते। तद् व् एवाचक्षते मारुतम् इति। मरुतो वा अकामयन्तौजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानां स्याम, जयेम स्वर्गं लोकम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै त ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा देवानाम् आसन्न्, अजयन् स्वर्गं लोकम्। ओजिष्ठो बलिष्ठो भूयिष्ठो वीर्यवत्तम स्वानां भवति जयति स्वर्गं लोकं य एवं वेद। यद् उ मरुतो ऽपश्यन् तस्मान् मारुतम् इत्य् आख्यायते

3.238

तद् व् एवाचक्षते वैश्वामित्रम् इति। भरता ह वै सिन्धोर् अपरतार आसुर् इक्ष्वाकुभिर् उद्बाढाः। तेषु ह विश्वामित्रजमदग्नी उषतुः। स हेन्द्रो भयदम् आसमात्यं हरी ययाच। तौ हास्मै न ददौ। तयोर् हादत्तयोर् जुहावेन्द्रक्रोश इति। अम्मकस् तस्मिंस् तिष्ठन् - विश्वामित्रजमदग्नी, इमा इक्ष्वाकूणां गा विन्दध्वम् इति। तद् धेमाव् अपरतारे सन्तो शुश्रुवतुः। तौ होचतुर् भरतान् - इन्द्रो वै नाव् अयं ह्वयतीमा इक्ष्वाकूणां गा विन्दध्वम् इति। एत्, गा विन्दामहा इति। तौ वै न इमं गाधं कुरुतम् इति। ते वै युङ्ध्वम् इति। ते ह युयुजिरे। ते हाभ्यवेयुः। तौ होचतुर् - या वः पल्पूलन्यस् ता अपास्यतेति। ता हापासुः। अथ ह राजन्यबन्धुर् यस्मै पल्पूलन्य् आस, तां हाधो ऽक्षं बबन्ध। ताव् अकामयेतां - गाधो नाव् अयं स्याद् इति। स एतद् विश्वामित्रस् सामापश्यत्। तेनास्तुत।
पुरां भिन्दुर् युवा कविर् अमितौजा अजायत।
इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः॥
त्वं वलस्य गोमतो ऽपावर् अद्रिवो बिलम्।
त्वां देवा अबिभ्युषस् तुज्यमानास आविषुः॥
तवाहं शूर रातिभिः प्रत्य् आयं सिन्धुम् आवदन्।
इत्य् एता आवदन्तौ प्रत्यैताम्। उपातिष्ठन्त गिर्वणो विदुष् टे तस्य कारव इति हैवाप उपतस्थिरे। ताभ्यां ह गाध आस। ते ह गाधेनातिययुः। तद् यस्मिन्न् इयं पल्पूलन्य् आस, तद् धैवापो ऽवचिच्छिदुः। अनशद् वा इयम् इति त एव नंशवः। योगो नोद्यत इति त एवायोगव इति। इदम् एवाद्य वसामेति त एव नंशवः। योगो नोद्यत इति त एवायोगव इति। इदम् एवाद्य वसामेति त एव वसातयः

3.239

तद् उ हैव कुमारिकाः क्रीळन्तीर् जहुः। स एव यौषितो गिरिर् अभवत्। अथ हवा इमानि वनानीमाश् च नद्यौ ऽपरतार आस पुरा सिन्धोर् आसुः। तौ ह पश्चात् परीत्य प्राचीः प्ररुरुधतुः। ततो यान्य् उक्षशर्धतान्य् आसंस्, तानीमानि लवणानि। अथ ये तस्थुस्, त एते क्षुद्रा वनस्पतयो ऽभवन्। अथ ह वा इमानि पीरुस्तच्छमैतद्, अथ या नदीस् तारयांचक्रुस्, ता इमा नद्यो विवसतिहोत्तमास् तारयांचक्रुः। तासु ह तार्यमाणासु सिन्धोर् अप्रियम् आस। स होवाच -
ननु ब्रह्मेति शुश्रुम गाथिनं पितरं तव।
कुतस् त्वा सहस्रम् आगमद् विश्वामित्र बलं तव॥
इति। स होवाच
उत पुत्रो ममतायै गर्भे दीर्घतमा वदन्।
विपश्चित् तद् अभ्यजायत यज्ञस्यांगानि कल्पयन्॥
कथोदन्वः पणायसि
इति। ततो वै ते तान् पशून् अविन्दन्त। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ विश्वामित्रो ऽपश्यत् तस्माद् वैश्वामित्रम् इत्य् आख्यायते। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रति - तिष्ठन्ति

3.240

अक्रान् समुद्रः परमे विधर्मन्न् इति परमो वा अश्वः पशूनां, परमस् समुद्रः, परमं नवमम् अहस्, तस्माद् एता नवमे ऽहन् क्रियन्ते। जनयन् प्रजा भुवनस्य गोपा इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। वृषा पवित्रे अधि सानो अव्ये बृहत् सोमो वावृधे स्वानो अद्रिर् इति वृषण्वतीर् बृहद्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः। महत् तत् सोमो महिषश् चकारेति महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्॥
अपां यद् गर्भो ऽवृणीत देवान्।
अदधाद् इन्द्रे पवमान ओजो ऽजनयत् सूर्ये ज्योतिर् इन्दुः॥
इति जनद्वतीर् भवन्ति। प्रातस्सवनाद् एवैतन् नवमम् अहः प्रजनयन्ति।
मत्सि वायुम् इष्टये राधसे च मत्सि मित्रावरुणा पूयमानः।
मत्सि शर्धो मारुतं मत्सि देवान् मत्सि द्यावापृथिवी देव सोम॥
इति सर्वदेवत्यं भवति। वैश्वदेवं ह्य् एतद् अहर् जागतम्

3.241

ता एता भवन्ति त्रिष्टुभो जगद्वर्णा अह्नो रूपेण समृद्धाः। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद। एष देवो अमर्त्य इति सूक्तम् अनुरूपो भवति - पशवो वै सूक्तम्। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथो भूमा वै पशवः। भूमा सूक्तम्। पशूनाम् एवैतत् पशून् अनुरूपान् कुर्वन्ति। नात्र प्रत्यक्षानुरूपान् कुर्वन्ति। तस्मात् पशवो नानारूपान् जनयन्त्य् - उत श्वेता। कृष्णं जनयत्य्, उत कृष्णा श्वेतम्, उत रोहिणी कन्माषम्, उत कन्माषी रोहितम्। तास् समानप्रभृतयो भवन्ति नानोदर्काः - एष देवो अमर्त्य, एष देवो विपा कृत, एष देवो विपन्युभिर् इति। इदं वै प्रथमं पदम्, इदं द्वितीयं, अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनः। अन्तम् इव हि गच्छन्ति तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्काः। अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नाना - प्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उ ताभिर् लोके प्रतितिष्ठन्ति

3.242

दशर्चं भवति - दशाक्षरा विराट्। अन्नं विराड् - विराज एवान्नाद्यस्यावरुद्धयै। अष्टर्चं भवति। अष्टाचत्वारिंशम् एवैवैतेन स्तोमम् अभिवदति। अथो अष्टाक्षरा वै गायत्र्य् - अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। इन्द्रो वै वृत्रम् अहन्। तं वृत्रं जघ्निवांसम् एभ्यो लोकेभ्यस् सर्वाणि भूतान्य् अन्ववदन्न् - एष वीर, एष वृत्रहति। वीर्यम् एवास्मिंस् तद् अभिपूर्वम् अदधुः। वीर्यम् इव वा एष चक्रिवान् भवति वृत्रम् इव जघ्निवान् य एतद् अहर् आगच्छति। तद् यद् एष इति भवति वीर्यम् एवास्मिंस् तद् अभिपूर्वं दधति। तद् आहुर् ऋतुमान् पृष्ठयष् षडहो ऽनृतवश् छन्दोमाः। अनृताव् इव वा एते प्रतिष्ठिता यच् छन्दोमा इति। तद् यद् एतानि पञ्चर्च षडृचानि भवन्ति तेनैवर्तुमन्तश् छन्दोमाः क्रियन्ते। स वानुत्तमष् षडृचो भवति। यदा वै प्रत्यक्षं भवत्य् अथैष इत्य् आचक्षते, यदा परोक्षम् अथ स इति। परोक्षम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तस्मात् स वानुत्तमष् षडृचो भवति येन प्रयन्ति। तेनोद्यन्ति। अष्टाचत्वारिंश स्तोमो भवति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः। पशुष्व् एवैतज् जगत्यां प्रतितिष्ठन्तो यन्ति

3.243

अगन्म महा नमसा यविष्ठम् इति गद्वन्त्य् आज्यानि भवन्ति। गच्छन्तीव वा एते य एतद् अहर् आगच्छन्ति। यो दीदाय समिद्ध स्वे दुरोण इति दीद्यन्त्य् एवैनम् एतेन। चित्रभानुं रोदसी अन्तर् ऊर्वी इतीमे ह वाव रोदसी इदम् एवान्तरिक्षं मरुतः। स्वाहुतं विश्वतः प्रत्यञ्चम् इति प्रत्यङ् ह्य् एष त्रियहस् तायते। स मह्ना विश्वा दुरितानि साह्वान् इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः।
अग्नि ष्टवे दम आ जातवेदाः।
स नो रक्षिषद् दुरिताद् अवद्याद् अस्मान् गृणत उत नो मघोनः॥
इत्य् आशिषम् एवैतेनाशास्ते। त्वं वरुण उत मित्रो अग्न इत्य् आग्नावारुणी भवति, दुरिष्टस्यैवावेष्टयै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तस्य ह वा एषा वेष्टयै। त्वां वर्धन्ति मतिभिर् वसिष्ठा इति वृद्धं ह्य् एतद् अहः। त्वे वसु सुषणनानि सन्तु यूयं पात स्वस्तिभिस् सदा न इत्य् आशिषम् एवैतेनाशास्ते

3.244

प्र मित्रयोर् वरुणयोर् इति मैत्रावरुणं भवति।
स्तोमो न एतु शूष्यः।
नमस्वान् तुविजातयोः॥
इति जनद्वत्। नवमम् एवैतेनाहः प्रजनयन्ति। या धारयन्त देवा इति धृत्यै। अन्तम् इव ह्य् एतर्हि गच्छन्ति, छान्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति।
सुदक्षा दक्षपितरा।
असुर्याय प्रमहसा॥
ता नः स्तिपा तनूपा वरुणा जरितॄणाम्।
मित्र साधयतं धियः॥
इति सिद्ध्या एव। महं इन्द्रो य ओजसेत्य् ऐन्द्रं भवति। महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्।
पर्जन्यो वृष्टिमं इव।
स्तोमैर् वत्सस्य वावृधे॥
इति वृद्धं ह्य् एतद् अहः। कण्वा इन्द्रं यद् अक्रत स्तोमैर् यज्ञस्य साधनम् इति सिद्ध्या एव। प्रजाम् ऋतस्य पिप्रत इति जनद्वत्। नवमाद् एवैतद् अह्नो दशमम् अहः प्रजनयन्ति। नवमाद् वा एतद् अह्नः प्रजातं यद् दशमम् अहः। यद् द्वितीयस्याह्न ऐन्द्राग्नं तद् ऐन्द्राग्नं बार्हतम्। बार्हतं ह्य् एतद् अहः। समयीन्य् आज्यानि भवन्ति। नानाग्रामाव् इव ह वा एतौ यत् पृष्ठयश् च षडहश् छन्दोमाश् च। स यथा नानाग्रामौ मित्राणि व्यतिषज्याभय आसीयातां तादृक् तद् यत् समयीन्य् आज्यानि भवन्ति। असमयीनि हैके कुर्वन्ति। तस्मात् समयीन्य् एव कार्याणि। अष्टाचत्वारिंश स्तोमो भवति। अष्टाचत्वारिंशदक्षरा वै जगती। पशवो जगती। पशवश् छन्दोमाः। पशुष्व् एवैतज् जगत्यां प्रतितिष्ठन्तो यन्ति

3.245

पवमानस्य जिघ्नत इति बृहतो रूपं, हरेश् चन्द्रा इति जगत्यै।
पवमानो रथीतमश् शुभ्रेभिश् शुभ्रशस्तमः।
हरिश्चन्द्रो मरुद्गणः॥
इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। पवमान व्य् अश्नुहीति वैश्वदेवं रूपम् उपगच्छन्ति। वैश्वदेवं ह्य् एतद् अहः। ता घ्नद्वतीर् भवन्ति। अन्तो नवमम् अहः। अन्तम् एवैतद् आगत्यैताभिस् सर्वं पाप्मानम् अपघ्नते। तासु गायत्रम् उक्तब्राह्मणम्। अथ गातुविन्निधनम्। गातुं विन्दामहा इति सत्रम् आसते। गातुम् एव विन्दन्ते। तद् उपरिष्टोभवद् भवति बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। तद् व् एवाचक्षते भरद्वाजस्यादारसृद् इति। क्षत्रं वै प्रातर्दनं दाशराज्ञे दशराजानः पर्ययतन्त मानुषे। तस्य ह भरद्वाजः पुरोहित आस। तम् उपाधावद् - ऋष, उप त्वा धावाम। इह नः प्रजानीहीति। सो ऽकामयत भरद्वाजो - जयेम संग्रामम् इति। स एतत् सामापश्यत्। तेनास्तुत। सो ऽब्रवीत स्तुत्वा - आ वै न इन्द्रो हवं गमिष्यति। जेष्यामो वा इमं संग्रामम् इति

3.246

अथ होपमा सावेदसी कल्याण्य् आस क्षत्रस्य प्रातर्दनस्य जाया। तस्यै ह भ्रातरं जघ्नुः। तद् ध धुवनम् आस। तां ह परिधावन्तीम् इन्द्रो ऽभिदध्यौ। स ह शुष्काजिनं परिधायाभ्यवेयाय। तस्य ह विवधे अपूपमूत इतरार्धे ऽपासक्त आसामिक्षा सर्पिषा संयतेतरार्धे। स हास्या अन्तिकं नर्तितुं दध्रे। तां ह स्म नयत् सर्पिषा प्रलिम्पति। तं ह स्म यद् अपसेधत्य्, अथा ह स्मास्या अन्तिकम् एव नृत्यति। सायम् आस, व्यपेयुः। तां ह पतिः पप्रच्छ - किम् अत्र किञ्चिद् दिवादो ऽद्राक्षीर् इति। सा होवाच - न नु ततो ऽन्यत्, स्थविर एव मे ऽद्यान्तिकम् अनर्तीत्। तस्य विवधे ऽपूपमूत इतरार्धे ऽपासक्तो ऽभूद् आमिक्षा सर्पिषा संयतेतरार्धे। तं यद् अपासीत् स मथमेद्यान्तिकम् एवानर्तीद् इति। स होवाचा वै न इन्द्रो हवम् अगमत्। जेष्यामो वा इमं संग्रामम्

3.247

इन्द्रो वै सो ऽभूत्, तं मोद्धिंसिष्ठास्, तं सखीकृत्य ब्रूताज् - जयाम संग्रामम् इति। श्वो ह भूते परिसस्रुः। स हायं तादृशेनैव विवधेन परस्तराम् इव नर्तितुं दध्रे। तं ह स्म यत् प्रेप्स्यत्य्, अथ ह स्मेतरः परस्तराम् एव। सा हेक्षाञ्चके - हन्तैनम् अभिवदानीति। तं हाभ्युवाद -
किं ते मजाक मूत
इति।
य कल्पितोपनराहि
इतीन्द्रः।
वि ते मजाक शीयतां महतो जोषवाजिन
इत्य् उपमा सावेदसी।
वि चेत् पुत्रक शीयातै सम् इत् तच् चिनवत् पिता
इतीन्द्रः
विषं मजाक ते भूयात् प्रावभ्राव् एव सर्पत
इत्य् उपमा सावेदसी।
विषं चित् पुत्रका सती मृगं तेन हनत् पिता
इतीन्द्रः।
परो मजाक धावानुकूलं पथैव यन्
इत्य् उपमा सावेदसी।
परश् चित् पुत्रका सत्य् उपकूलं पितायति
इतीन्द्रः।
प्रियो मे महिरो दृशे हस्तेनाभिमृशात् तत
इत्य् उपमा सावेदसी।
हिमिति स्म कुरुथा पेवस्म हस्तम् अस्यथ
किमोभूत् कथोभूत्
कथार्मे महिरः प्रियो हस्तेनाभिमृशात् तत
इतीन्द्रः।
एवो ऽभूत् ततो ऽभूत्
यथा ते महिरः प्रियो हस्तेनाभिमृशात् तत
इत्य् उपमा सावेदसी

3.248

तं हानुसंद्रुत्योवाच - जयाम संग्रामम् इति। से हाजिनम् उपाघ्नान उवाच -
यथेमाम् अमूर् व्युपापतति भास्विति।
एवं क्षत्रस्य मानुषाद् व्युपापतत शत्रवः॥
इति हैवैणेयलोमानि शातयाञ्चक्रे। ते हैवाश्वरथा उत्तस्थुः। तैर् वै स तं संग्रामम् अजयत्। सो ऽब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति। यद् अब्रवीद् भरद्वाजो - न वै दारे ऽसृन्मेति, तद् एवादारसृतो ऽदारसृत्वम्। तद् एतद् विजितिर् भ्रातृव्यहा साम। विजयते हन्ति द्विषन्तं भ्रातृव्यं, दारे द्विषन्तं भ्रातृव्यं सारयति, नात्मना दारे धावयति। अथो सेन्द्रम् एव। इन्द्रो वा एषाम् एतेन हवम् अगच्छद्, आस्येन्द्रो हवं गच्छति य एवं वेद। तद् व् अष्टाक्षरणिधनं भवत्य् - अष्टाक्षरा वै गायत्री। अष्टाशफाः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ भरद्वाजो ऽपश्यत् तस्माद् भरद्वाजस्यादारसृद् इत्य् आख्यायते

3.249

अथ सैन्धुक्षितम्। सिन्धुक्षिद् वा अन्तं वाचो ऽपश्यत्। वाचं छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति छन्दोमेषु। ताम् एवैतत् संविन्दन्ति। अथो अन्त्येन साम्नान्त्यं स्वर्गं लोकम् अश्नवामहा इति। तद् ऐळं भवति। पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। अथ हरिश्रीनिधनम्। प्रजापतौ ह वा अग्रे श्रीर् आस। स इन्द्रो ऽकामयत येयं प्रजापतौ श्रीर् मय्य् एषा स्याद् इति। स एतत् सामापश्यत्। तेनास्तुत। तेन हरिश्रीर् इति प्रजापते श्रियम् अहरत्। तद् धरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीस्सवस् साम। अश्नुते श्रियं य एवं वेद। देवासुरा अस्पर्धन्त। तेषु होभयेष्व् एव श्रीर् आस। स इन्द्रो ऽकामयत वृञ्जीयासुराणां श्रियम् इति। स एतत् सामापश्यत्। तेन हरिश्रीर् इत्य् एवासुराणां श्रियम् अवृंक्त। तद् व् एव हरिश्रीनिधनस्य हरिश्रीनिधनत्वम्। तद् एतच् छ्रीर् एव साम। अश्नुते श्रियं, वृंक्त द्विषतो भ्रातृव्यस्य श्रियं य एवं वेद। तत् त्र्यक्षरणिधनं भवति - त्रयो वा इमे लोका - एषां लोकानां विधृत्यै

3.250

अथाङ्गिरसां निवेष्टः। अङ्गिरसो वा अकामयन्ताव पशून् रुन्धीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त। तद् यद् एनान् सर्वाभ्यो दिग्भ्यः पशवो ऽभिन्यवेष्टन्त तन् निवेष्टस्य निवेष्टत्वम्। ते ऽब्रुवन् सं वै न इमा इळा अक्षारिषुर् इति। पशवो वा इळा। तस्माद् व् इळानां संक्षारः। अथ बाभ्रवं ग्वाभिर्निधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। बभ्रुर् वै कुम्भ्यो ऽकामयत पशुभिस् सूयेयेति। स एतत् सामापश्यत्। तेनास्तुत। स ग्वाभिर् इत्य् एव निधनम् उपैत्। ततो वै स पशुभिर् असूयत। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। यद् उ बभ्रुः कुम्भ्यो ऽपश्यत् तस्माद् बाभ्रवम् इत्य् आख्यायते। अथ ऋषभः पवमानः। पशवो वै सिमाः, पशवो रेवतयः, पशव ऋषभः। ऋषभम् एवैतत् पशुष्व् अपिसृजन्ति मिथुनत्वाय प्रजननाय। प्र मिथुनेन जायते य एवं वेद। अथो हैषाम् एतेनैव सर्वे छन्दोमा ऋषभवन्तः क्रियन्ते

3.251

अथ गौषूक्तं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। गौषूक्तिश् च वा आश्वसूक्तिश् चैषौ। तौ ह बहु प्रतिगृह्य गरगिराव् इव मेनाते। ताव् अकामयेताम् - अपेमं गरं गीर्णं हनीवहीति। ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवाताम्। तयोर् अन्यतरो ऽग्निर् आहुत इत्य् एवेमं लोकम् अभिनिराजुहोत्। अग्निं ह वा अस्मिन् लोके न किञ्चनातिरिच्यते। शुक्र आहुत इत्य् एवान्यतरो ऽमुं लोकम् अभिनिराजुहोत्। आदित्यम् उ ह वा अमुष्मिन् लोके न किञ्चनातिरिच्यते। ततो वै तौ तं गरं गीर्णम् अपाघ्नाताम्। तत एनयोर् यथा द्विदतः कुमारस्य सातं स्याद्, एवं सातम् आस। यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्यानाश्यान्नस्यान्नम् अशित्वा, स एताभ्यां स्तुवीत। अप हैव तं गरं गीर्णं हते। यद् एनेन किं च पापं कृतं भवति, तद् अपहते। ते उ पञ्चाक्षरणिधने भवतः - पञ्चपदा वै पंक्तिः पांक्ताः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ गौषूक्तिश् चाश्वसूक्तिश् चैषाव् अपश्यतां तस्माद् गौषूक्ताश्वसूक्ते इत्य् आख्यायते

3.252

परीतो षिंचता सुतम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्त्यो ह्य् एतद् अहः। सोमो य उत्तमं हविर् इत्य् उत्तमं ह्य् एतद् धविः क्रियते यच् छन्दोमाः।
दधन्वां यो नर्यो अप्स्व् अन्तर् आ सुषाव सोमम् अद्रिभिः॥
नूनं पुनानो ऽविभिः परि स्रवादब्धस् सुरभिन्तरः।
सुते चित् त्वाप्सु मदामो अन्धसा।
इत्य् अन्ध्स्वतीर् भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्ध्यै। श्रीणन्तो गोभिर् उत्तरम् इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। पशवो हि छन्दोमाः। परि स्वानश् चक्षसे देवमादनः क्रतुर् इन्दुर् विचक्षण इति चतुरृचं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। तासु पृष्ठम्। पृष्ठेन वै देवाः पृष्ठं अभवन्। पृष्ठम् असामेति सत्रम् आसते। पृष्ठम् एव भवन्ति। देवा वा अकामयन्त पृष्ठं स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते पृष्ठम् अभवन्। तत् पृष्ठम् वा अयम् अग्निर् अस्य लोकस्य, पृष्ठम् अयं वायुर् अन्तरिक्षस्य, पृष्ठम् असाव् आदित्यो दिवः। तत् पृष्ठम् इति वै प्रशंसन्त्य् अत्र प्रतिष्ठापयन्ति। तच् छ्रीर् वै पृष्ठं, वर्ष्म वै पृष्ठम्। अश्नुते श्रियं, वर्ष्म भवति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूप समृद्धम्

3.253

अथ संकृति। त्रिरात्रेण वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवावृह्यत। तं गायत्रपार्श्वेणैवोदत्तभ्नुवन्, सन्तनिना समतन्वन्, संकृतिना समकुर्वंस्, त्रिषन्धिना समदधुः, श्रायन्तीयेन समश्रीणन्न्, अरिष्टेनारिष्टताम् अगमयन्। त्रिरात्रेण यद् देवा स्वर्गं लोकम् आयन्न् एतेन वै तद् आयन्। स एषां संव्यवृह्यत। तस्मिन्न् एतानि भूयिष्ठानि सामानि क्रियन्ते। एतम् एवैतत् त्रिरात्रं भिषज्यन्ति। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। संकृतिना वै देवाः प्रजाः पशूञ् छ्रियम् अन्नाद्यं समकुर्वत। तत् संकृतिनस् संकृतित्वम्। प्रजाः पशूञ् छ्रियम् अन्नाद्यं संस्कुरुते य एवं वेद। तस्यो एते वृकणावा भवन्त्य्, उभय्या एव वाच उपाप्त्यै या च ग्राम्या या चारण्या। तच् चतुर्निधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै

3.254

अथ कौन्मलबर्हिषम्। एतेन वै कुन्मलबर्हिर् उभयान् पशून् अस्पृणोत् गव्यांश् चाश्व्यांश् च। तान् एवैतेन स्पृणोति। कुन्मलबर्हिर् वा अकामयतोभयान् पशून् अवरुन्धीय गव्यांश चाश्व्यांश् चेति। स एतत् सामापश्यत्। तेनास्तुत।
त्वं ह्य् एहि चेरवे विदा भगं वसुत्तये।
उद् वावृषस्व मघवन् गविष्टय उद् इन्द्रो अश्वमिष्टये॥
इत्य् एव गव्यांश् चाश्व्यांश् च पशून् अवारुन्द्ध। तैर् उ पशुभिर् इष्टवा स्वर्गम् एव लोकम् अगच्छत्। तद् एतत् पशव्यं स्वर्ग्यं साम। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद। यद् उ कुन्मलबर्हिर् अपश्यत् तस्मात् कौन्मलबर्हिषम् इत्य् आख्यायते

3.255

अथ देवस्थानम्। एतेन वै तृतीयेन त्र्यहेण देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। स एषाम् असंगृहीतो वीवास्रंसत। त एतत् सामापश्यन्। तेनैनम् ए ऽस्थाद् इदं ए ऽस्थाद् इदम् इत्य् एवास्थापयन्। तम् एतेनैवादृंहन्। तद् यद् एतेनास्थापयंस् तद् देवस्थानस्य देवस्थानत्वम्। तद् यद् अत्र देवस्थानं भवत्य् एतम् एवैतत् त्रिरात्रं प्रतिष्ठापयन्त्य्, एतं दृंहन्ति। तं संस्कृत्य तेन स्वर्गं लोकम् आयन्। तस्मिन् यत् स्वर्गे लोके समतिष्ठन्त तद् व् एव देवस्थानस्य देवस्थानत्वम्। ते यत्र स्वर्गं लोकम् आयंस् तद् धीदं सर्वं संगोपाञ्चक्रे यथास्यैतन्निधनम्। तेन हैतेन साम्ना महद् एवानपजय्यं जयति। तस्यैष श्लोको -
वैरूपं देवा अभिसंवसानास् तदातस्थुस् तद् उ हैषां व्यारते।
हिंकृत्य पुनर् आरुह्य सर्वं एवाधून्वत जरसं तनूनाम्॥
इति। त एतम् एव छन्दोम्यं त्र्यहं संस्कृत्य देवस्थानम् एव साम समारुह्य स्वर्गं लोकम् अगच्छन्। तस्यो एवैष श्लाको -
यद् वैरूप उपहते व्यद्ध्वे हिंकृण्वन्तस् समतिष्ठन्त यामम्।
तद् देवस्थानम् असृजन्त साम तेन देवासो अमृतत्वम् आयन्॥
इत्य् एवामृतत्वम् अगच्छन्

3.256

प्रजापतिर् अन्नाद्यम् असृजत। तत् क्षयाद् बिभ्यद् दिशो व्युदक्रामत्। सो ऽकामयतावान्नाद्यं रुन्धीयेति। स एतत् सामापश्यत्। तेनैनद् ए ऽस्थाद् इदम् ए ऽस्थाद् इदम् इत्य् एव सर्वाभ्यो दिग्भ्यो ऽन्नाद्यम् अवारुन्द्ध। स यो ऽन्नाद्यकाम स्याच् चतुर् ब्रूयात्। तचस्रो दिशः। दिग्भ्य एवान्नाद्यम् अवरुन्द्धे। अथ य स्वर्गकाम स्यात् त्रिर् ब्रूयात् - त्रयो वा इमे लोका - एषां लोकानां समष्टयै। अथार्कपुष्पम् - अन्नं वा अर्कः। तस्यैतत् पुष्पं यद् आरण्यम्। तद् ध्य् अरण्ये जायत् - आरण्यस्यैवान्नाद्यस्यावरुद्ध्यै। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एते सामनी अपश्यन्। ताभ्याम् अस्तुवत। ततो वै ते स्वर्गं लोकम् आश्नुवत। ते एते स्वर्ग्ये सामनी। अश्नुते स्वर्गं लोकं य एवं वेद। तद् यथा वा अदो वृष्टे नियाने ऽनुददृशाते एवम् एवैताभ्यां स्वर्गो लोको ऽनुददृशे। ते उ स्वर्ग्ये। अश्नुते स्वर्गं लोकं य एवं वेद

3.257

अथ दैर्घश्रवसम् - अन्नं वै दैर्घश्रवसम् - अन्नाद्यस्यैवावरुद्ध्यै। दीर्घतमा वै मामतेयस् सनिं प्रयन्न् अब्रवीद् दीर्घश्रवसं कनीयांसं भ्रातरम् - एतेषां नो भार्याणाम् अध्यक्ष स्या इति। सो ऽकामयत दीर्घश्रवा - अवान्नाद्यं रुन्धीय, नेमे भार्या अशनायेयुर् इति। स एतत् सामापश्यत्। तेनाग्निम् अस्तौद् -
यो विश्वा दयते वसु होता मन्द्रो जनानाम्।
मधोर् न पात्रा प्रथम न्य् अस्मै प्र स्तोमा यन्त्व् अग्नये॥
इति। सो ऽस्मा अग्नि स्तुतस् सर्वम् एवेदं मधुमयम् अन्नाद्यम् अकरोत्। ते हास्य भार्या आसुर् यथा मध्व् अश्नन्त एवम्। स हैष महान् एव रसो, महद् एवैतद् अन्नाद्यम्। तेन हैतेन साम्ना महद् एवान्नाद्यम् अवरुन्द्धे। यद् उ दीर्घश्रवा अपश्यत् तस्माद् दैर्घश्रवसम् इत्य् आख्यायते

3.258

अथ यशः। यशसा वै देवा यशो ऽभवन्। यशो ऽसामेति सत्रम् आसते। यश एव भवन्ति। तच् छ्रीर् वै यशः। अश्नुते श्रियं य एवं वेद। तद् उ सप्तत्रिंशदक्षरणिधनं भवति। षट्त्रिंशदक्षरा वै बृहती। बृहती स्वर्गो लोकः। असाव् आदित्यस् सप्तत्रिंशः। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति। तस्यो एतां कल्याणीम् आशिषम् अन्तत आशासत आयुर् विश्वायुर् विश्वं विश्वम् आयुर् अशीमहीति। तयैवैतत् समृध्योदृचम् अश्नुवते। अथ शुल्कः। शुल्केन वै देवाश् शुल्को ऽभवन्। शुल्को ऽसामेति सत्रम् आसते। शुल्क एव भवन्ति। तच् छ्रीर् वै शुल्कः। अश्नुते श्रियं य एवं वेद। तद् व् एवाचक्षत आश्वम् इति। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते स्वर्गं लोकम् आश्नुवत। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। अथ भर्गः। भर्गेण वै देवा भर्गो ऽभवन्। भर्गो ऽसामेति सत्रम् आसते। भर्ग एव भवन्ति। तच् छ्रीर् वै भर्गः। अश्नुते श्रियं य एवं वेद। अथाभिशवम् उभयाभीशुतायै। यथा हैकाभीशुना यायाद् एवं तद् यद् अन्यतरद्, अथ यथोभयाभीशुना यायाद् एवं तद् यद् उभे। एताभ्यां वै द्वादशरात्रो ऽरिष्टस् संगृहीत एति। अरिष्टेन संगृहीतेन द्वादशरात्रेण पाप्मानं तरति श्रियम् अश्नुते य एवं वेद

3.259

अथ दीर्घतमसो ऽर्को - ऽन्नं वा अर्को - ऽन्नाद्यस्यैवावरुद्धयै। दीर्घतमा वै मामतेयो ऽन्नाद्यकामस् ततो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽन्नाद्यम् अवारुन्द्ध। तद् एतद् अन्नाद्यस्यैवावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद। यद् उ दीर्घतमा मामतेयो ऽपश्यत् तस्माद् दीर्घतमसो ऽर्क इत्य् आख्यायते। असावि सोमो अरुषो वृषा हरिर् इति वृषण्वतीर् भवन्ति बृहतो रूपम्। बार्हतम् एतद् अहः।
राजेव दस्मो अभि गा अचिक्रदत्।
पुनानो वारम् अत्य् एष्य् अव्ययं श्येनो न योनिं घृतवन्तम् आसदत्॥
पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे।
स्वसार आपो अभि गा उद् आसरन् सं ग्रावभिर् वसते वीते अध्वरे॥
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्धयै। पशवो हि छन्दोमाः।
कविर् वेधस्या पर्य् एषि माहिनम् अत्यो न निक्तो अभि वाजम् अर्षसि।
अपसेधं दुरिता सोम नो मृड घृता वसानः परि यासि निर्णिजम्॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः

3.260

तासु सामराजम्। श्रीर् वै राज्यम्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। तद् व् एवाचक्षते संवद् इति। प्रवता वै देवा स्वर्गं लोकम् आयन्न् उद्वतोदपतन्। संवता समाश्नुवत। तद् यद् एतानि सामानि भवन्ति प्रवतैव स्वर्गं लोकं प्रयन्त्य्, उद्वतोत्पतन्ति। संवता समश्नुवते। तान्य् उ वाङ्निधनानि भवन्ति। वाचश् छन्दोमैस् समिच्छन्ति। आप्तेव वा एतर्हि वाग् भवति। छन्दोमेषु तद् यद् एतानि वाङ्गनिधनानि भवन्ति, ताम् एवैतद् वाचं प्रत्यक्षम् उपयन्ति

3.261

अथ बृहत्। वर्ष्म वै बृहत्। वर्ष्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तज् जागते ऽहन् भवति। पुंसो वा एतद् रूपं यद् बृहत् स्त्रियै जगती। तद् यद् अत्र बृहत् पृष्ठं भवति, तेनैवैतद् अहर् मिथुनं क्रियते। अथ वामदेव्यम्। पशवो वै वामदेव्यम्। पशुमन्त एव भवन्त्य् एनेन तुष्टुवानाः। श्रायन्त इव सूर्यं विश्वेद् इन्द्रस्य भक्षतेति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। वसूनि जातो जनिमान्य् ओजसेति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः।
प्रति भागं न दीधिमः॥
अलर्षिरातिं वसुदाम् उप स्तुहि भद्रा इन्द्रस्य रातयः।
यो अस्य कामं विधतो न रोषति मनो दानाय चोदयन्॥
इत्य् आशिषम् एवैतेनाशास्ते

3.262

तासु श्रायन्तीयम्। देवा वै सत्रम् उपयन्तो ऽब्रुवन् - यन् नः क्रूरम् आत्मनस् तन् निर्मिमामहै। मा सक्रूरा उपगामेति। तद् यद् एषां क्रूरम् आत्मन् आसीत्, तन् निर्माय शरावयोस् संमार्जं न्यदधुः। अथ सत्रम् उपायन्। तत एषो ऽखलो देवो ऽजायत। तद् यच् छरावाभ्याम् अजायत, तद् अस्यैतन् नाम। एष ह वाव सो ऽग्निर् जज्ञे। न हैनम् एष हिनस्ति य एवं वेद। स देवान् अब्रवीत् - कस्मै माम् अजीजनतेति। औपद्रष्ट्र्यायेत्य् अब्रुवन् - यो ऽतिपादयात् तं हनासा इति। प्रजापतिर् होषसं स्वां दुहितरम् अभ्यध्यायत्। सास्मै रोहिद् भूत्वातिष्ठत्। तां पृषतो भूत्वास्कन्दत्। स ऐषतास्मै वै मां देवा अजीजनन्न् औपद्रष्ट्र्याय। अति वा अयं पादयति, हन्तैनं विध्यानीति। तम् अविध्यत्। स विद्ध एतद् रूपं प्रत्यस्योर्ध्व उदक्रामत्

3.263

स एष इषुस् त्रिकाण्डः। तस्मात् पृषतो ऽस्वादुतमः। तस्माद् उ शोचतीव। तस्य विद्धस्य रेतः परापतत्। तद् धिमवति प्रत्यतिष्ठत्। तन् मानुषम् अभवत। तद् देवाश् चर्षयश् चोपसमेत्याब्रुवन् - मेदं दुषद इति। यद् अब्रुवन् - मेदं दुषद् इति, तन् मादुषस्य मादुषत्वम्। मादुषं ह वै नामैतत्। तन् मानुषम् इत्य् आख्यायते। तद् अग्निना पर्यैन्धत। मरुतो ऽधमन्। श्रायन्तीयेनैनद् अश्रीणन्। तच् छ्रायन्तीयस्य श्रायन्तीयत्वम्। ततः पशवो ऽसृज्यन्त। ये प्रथमे ऽसृज्यन्त ते रोहिताः। ये ऽभितप्यमानाद् असृज्यन्त ते ऽरुणाः। ये ऽभितप्ताद् असृज्यन्त ते बभ्रवः। ये दह्यमानाद् असृज्यन्त ते श्वेताश् च कृष्णाश् च। तस्माद् व् अयम् एवाग्निर् दहति श्वेतं चैव कृष्णं च। विष्फुलिंगाभ्य एवाजाश् चैणेयाश् चासृज्यन्त, अङ्गारेभ्यो ऽङ्गिरसः

3.265

अङ्गारमिश्राद् भस्मनस् तिस्रो वशा असृज्यन्त - मैत्रावरुणी बार्हस्पत्या वैश्वदेवी। भस्मन एव गर्दभो ऽसृज्यत। तस्मात् स भस्मनः प्रतिरूपः। तस्मात् स बभ्रियमाणो जीवति। तद् एतद् वीरजननं पशव्यं साम। वीरा वै तद् अजायन्त यद् अङ्गिरसः। एत उ पशवो ऽसृज्यन्त। अस्य वीरो जायते, ऽव पशून् रुन्द्धे, बहुपशुर् भवति य एवं वेद। स यो यज्ञविभ्रष्ट स्याच् छ्रायन्तीयम् अस्य पृष्ठेषु ब्रह्मसाम कुर्युः। पृष्ठानि च वा एतं स्तोत्राणि चावधून्वते यो यज्ञस्य विभ्रष्टः। पृष्ठेषु चैवैनं तत् स्तोत्रेषु च प्रतिष्ठापयन्ति।
यत इन्द्र भयामहे ततो नो अभयं कृधि।
मघवन् शग्धि तव तन् न ऊतये वि द्विषो वि मृधो जहि॥
इति मृध एवैतेन पाप्मानम् अपघ्नते। तासु समन्तम् उक्तब्राह्मणम्। तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठन्ति॥3.264।
त्वं सोमासि धारयुर् इति धृत्यै। अन्तम् इव ह्य् एतर्हि गच्छन्ति छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति। त्वं सुतो मदिन्तम इति मद्वतीर् भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्मिन्न् एतद् दधति। ऐवैनद् एतेन प्याययन्ति। त्वं सुष्वाणो अद्रिभिर् इति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः।
अभ्य् अर्ष कनिक्रदत्।
द्युमन्तं शुष्मम् उत्तमम्॥
इत्य् उत्तमो ह्य् एष त्र्यहः क्रियते यश् छन्दोमाः। तास् समानप्रभृतयो भवन्ति नानोदर्काः। इदं वै प्रथमं पदम् इदं द्वितीयम् अदस् तृतीयम्। तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये द्वादशाहयाजिनो ऽन्तम् इव हि गच्छन्ति। तद् यद् एतास् समानप्रभृतयो भवन्ति नानोदर्का, अस्मिन्न् एवैतल् लोके प्रतितिष्ठन्ति। नानाप्रभृतयस् समानोदर्काष् षष्ठे ऽहन् भवन्ति। अमुष्मिन्न् उताभिर् लोके प्रतितिष्ठन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथैदावसुनिधनं बहिर्निधनं बार्हतम्। तस्माद् बार्हते ऽहन् क्रियते। असुर् ह वै नामर्षिर् अपशुर् आस। सो ऽकामयताव पशून् रुन्धीयेति। स एतत् सामापश्यत्। तेनास्तुत। स इदं वस्व् इत्य् एव निधनम् उपैत्। तद् एवैदावसुनिधनस्यैदावसुनिधनत्वम्। तत् पशवो वै वसु। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै

3.266

अथ काशीतम्। कशीतिं वै सौभरं सत्रे यक्ष्माविन्दत्। सो ऽकामयताप यक्ष्म हनीयेति। स एतत् सामापश्यत्। तेनास्तुत।
वात आ वातु भेषजं शंभु मयोभु नो हृदे।
प्र न आयूंषि तारिषत्॥
यद् अदो वात ते गृहे ऽमृतस्य निधिर् हितः।
ततो नो देहि जीवसे॥
उत वात पितासि न उत भ्रातोत नस् सखा।
स नो जीवातवे कृधि॥
इति वात एवास्मै भेषजम् अकरोत्। तद् एतद् भेषजं प्रायश्चित्तिस् साम। भेषजं वै स तत् प्रायश्चित्तिम् अकुरुत। भेषजम् एवैतेन प्रायश्चित्तिं कुर्वते। तद् उ कामसनि। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। तस्यो प्रतीचीम् इळाम् उपयन्ति, छन्दोमेभ्यो नेत् पराञ्चो ऽतिपद्यामहा इति - पशवो वा इळा। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। यद् उ कशीतिस् सौभरो ऽपश्यत् तस्मात् काशीतम् इत्य् आख्यायते। अथाश्वसूक्तम् उक्तब्राह्मणम्। तत् पञ्चाक्षरणिधनं भवति - पञ्चपदा वै पंक्तिः। पांक्ताः पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। अथ शाम्मदम् उक्तब्राह्मणम्। अथ हाविष्कृतम् उक्तब्राह्मणं निरुक्तिर् हविषः। तच् चतुरक्षरणिधनं भवति - चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्धयै। त्वं ह्य् अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। तासु सौपर्णम् उक्तब्राह्मणम्। पवस्व देववीतय इति सर्वदेवत्यं भवति। वैश्वदेवं ह्य् एतद् अहर् जागतम्। तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुर् इति वृद्धं ह्य् एतद् अहः। आ नस् सुतास इन्दव इत्य् आवतीर् भवन्त्य् अनतिपादायैव

3.267

तासु वैश्वमनसम्। विश्वमनसं वै समिद्धारं परेतम् अरण्य ऋक्षो ऽविन्दत्। सो ऽकामयतापर्क्षं हनीयेति। स एतत् सामापश्यत्। तद् अभ्यगायत। तम् इन्द्रो ऽपश्यद् - विश्वमनसम् ऋक्षो ऽविदद् इति। तम् अभ्याद्रवत्। तस्याद्रवत श्वसथात् प्राव्लीयत। तम् अपृच्छद् - विश्वमनः कस् त्वैष परेणेति। सूर्मी मघवन्न् इति ब्रूहीत्य् अब्रवीत्। सूर्मी मघवन्न् इत्य् अब्रवीत्। अङ्गैनां दण्डेनाभिजहीति सो ऽब्रवीत्। तृणकम् आछिद्य शनैर् अध्यस्येति। तं तृणकम् आछिद्य शनैर् अध्यास्यत्। तद् एवेन्द्रो वज्रम् असिञ्चत्। तस्यो तद् एव प्राघ्नन्। तद् उ भ्रातृव्यहा रक्षोहा साम। हन्ति द्विषन्तं भ्रातृव्यं, अप रक्षः पाप्मानं हते, य एवं वेद। यद उ विश्वमना अपश्यत् तस्माद् वैश्वमनसम् इत्य् आख्यायते

3.268

परि त्यं हर्यतं हरिम् इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः।
बभ्रुं पुनन्ति वारेण।
यो देवान् विश्वं इत् परि
इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। मदेन सह गच्छतीति मद्वतीर् भवन्ति। अभिपूर्वम् एवैतत् तृतीयसवने रसं मदं दधति।
द्विर् यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम्।
प्रियम् इन्द्रस्य काम्यं प्रस्नापयन्त ऊर्मयः॥
इत्य् आशिषम् एवैतेनाशास्ते। इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यस इति वर्त्रघ्न्यो भवन्त्य् अन्ततो विजित्यै। तासु गौरिवीतम् उक्तब्राह्मणम्। अथ निहवः। इन्द्रो वै तृतीयसवनाद् बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तम एतेन विश्वे देवास् साम्नान्वह्वयन्तायिही आयिही इति। ततो वा इन्द्रस् तृतीयसवनम् उपावर्तत। ततो ऽस्माद् अनपक्रम्य् अभवत्। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवति। अभ्य् अस्येन्द्रो यज्ञम् आवर्तते। नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद। तद् व् एवाचक्षते वसिष्ठस्य निहव इति। वसिष्ठो वै जीतो हतपुत्रो ऽकामयत प्रजां पशून् निह्वयेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेनायिही आयिही इत्य् एव प्रजां पशून् न्यह्वयत। तद् व् एव निहवस्य निहवत्वम्। प्रजां पशून् निह्वयते य एवं वेद। तद् उ स्तोभानुतुन्नं भवति। अनुतुन्नाद वै प्रजाः पशवः प्रजायन्ते। पशवश् छन्दोमाः। तेन वै रूपसमृद्धम्। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वासिष्ठस्य निहव इत्य् आख्यायते

3.269

अथ यद्वाहिष्ठीयम्। अग्निर् वै देवेभ्यो हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अतिवोढुं नाकामयत। ते देवा अकामयन्ताति न इदम् अग्निर् हव्यं वहेद् इति। त एतत् सामापश्यन्। तेनैनम् अस्तुवन् -
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो।
महिवीव त्वद् रयिस् त्वद् वाजा उद् ईरते॥
तव द्युमन्तो अर्चयो ग्रावेवोच्यते बृहत्।
उतो ते तन्यतुर् यथा स्वानो अर्त त्मना दिवः॥
एवो अग्निं वसूयवस् सहसानं ववन्दिम॥
स नो विश्वा अति द्विषः पर्षन् नावेव सुक्रतुः॥
इति। यथा नावातिपारयेद् एवम् एवैभ्य एतद् अग्निर् हव्यं नवमाद् अह्नो दशमम् अहर् अभ्य् अत्यपारयत्। एष ह वा एतद् अतिपारयितुम् अर्हति। तद् यद् अत्र यद्वाहिष्ठीयं भवति यज्ञस्यैव संतत्यै। सम् अस्मै यज्ञस् तायते तस्याग्निर् हव्यं पारयति य एवं वेद। तद् ऊर्ध्वेळं भवति बृहतो रूपं बार्हते ऽहन्। तेन वै रूपसमृद्धम्

3.270

अथासितम्। ऋषयो वा अब्रुवन्न् - एतेमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम, यद् अस्मिन्न् एते ऽथर्वाण इति। प्रेणी सौमाहितो मधुच्छन्दा वैश्वामित्रो ऽसितो दैवलो य उ चान्ये तस्य हान्तिकम् दिदीक्षते, तेषां ह ज्योग् एव यजमानानां नोपशुश्रुवुर् बहू य् एव वर्षाणि। तेषाम् उ होपशुश्रुवुर् - आश्रावयति वै, वषट्करोति वा इति। स होद्वन्तो नामाथर्वणाम् एकश् चमसहस्त उपावरुरोह। तान् होवाच - किंकामा आध्व इति। इमम् उपरिश्येनं स्वर्गं लोकं जिगीषाम्, यस्मिन्न् एते ऽथर्वाण इति। तान् होवाचेथ ग्रामं जघनेना इति। इमो हीति। कस्मै कामायेति। पथ इति। ओम् इति होवाच, न नु वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीय मांसा3म् इति। अश्नीमो हीति। कस्मै कामायेति। चक्षुषश् च प्राणानां चेति। ओम् इति होवाच्, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् अवेक्षांचक्रे। स होवाचाश्नीथ मांसा3म् इति। उपेमो हीति। कस्मै कामायेति। प्रजायै संतत्या अव्यवच्छेदायेति। ओम् इति होवाच, नो वाव वस् तत् स्वर्ग्यम् इति। अथ ह चमसम् एवावेक्षांचक्रे। स होवाच-वदथानृता3म् इति। वदामो हीति। कस्मै कामायेति। स्त्रीकाम्या वा नर्मकाम्या वा सखीकाम्या वेति। ओम् इति होवाच

3.271

उत्तिष्ठत, कामान् ब्रूध्वं, नो वाव वस् तस्याशास्ति यद् अमुं लोकं जयेतेति। अथ ह प्रेणी सौमाहितः पापक आस। स होवाच - सप्तानाम् एव स्यो बस्तानां दुर्वृषतां वृणीते। यां याम् व् अच्छाब्रूवीय, सा सा त्यं कामयताद् इति। अथ ह मधुच्छन्दा वैश्वामित्र उवाच - ब्राह्मणमुखम् एवाहं वृणा इति। अथ हासितो दैवल उवाचैतम् एवाहं चमसम् अवेक्षा इति। स होवाचैष एवैषाम् एको व्रतयति। तं हैवावेक्ष्यैतत् साम ददर्श। तेनास्तुत।
राये अग्ने महे त्वा दानाय सम् इधीमहि।
ईळिष्वा हि महे वृषं द्यावा होत्राय पृथिवी॥
इति। द्यावापृथिवी सर्व इमे लोकाः। ततो वै स सर्वान् इमान् लोकान् अनुसमचरत्। स ह पूर्वाह्ण एव देवानां समित्याम् आस, मध्यन्दिने मनुष्याणां द्रुपदस्य वार्द्ध्रविष्णस्य, अपराह्णे पितृणाम्। तद् एतत् स्वर्ग्यं साम। सर्वान् इमान् लोकान् अनुसंचरत्य्, अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् असितो दैवलो ऽपश्यत्, तस्माद् आसितम् इत्य् आख्यायते

3.272

अथ साध्रं सिद्ध्या एव। तन् मध्येनिधनं भवति प्रतिष्ठायै। समुद्रं वा एतेनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। देवा वा अकामयन्त कृतंकृतं नस् सिध्येद् इति। त एतत् सामापश्यन्। तेनास्तुवत्। ततो वै तेषां कृतंकृतम् असिध्यत्। कृतंकृतं नस् सिध्येद् इति सत्रम् आसते। कृतंकृतं हैवैभ्यस् सिध्यति। यद् व् एवैषाम् एतेन साम्ना कृतंकृतम् असिध्यत् तस्मात् साध्रम् इत्य् आख्यायते। सध्रिर् वैरूपः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ सध्रिर् वैरूपो ऽपश्यत् तस्मात् साध्रम् इत्य् आख्यायते

3.273

अथाकूपारम्। अकूपारो वै कश्यपः। कलिभिस् सह समुद्रम् अभ्यवैषत्। तस्मिन् प्रतिष्ठाम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स समुद्रे प्रतिष्ठाम् अविन्दतेमाम् एव पृथिवीम्। ततो ह स्म वै तस्य कलयः पृष्ठ आसते। तद् एतत् प्रतिष्ठासाम। प्रतितिष्ठति य एवं वेद। समुद्रो वै छन्दोमाः। कश्यपो वै समुद्रम् अतिपारयितुम् अर्हति। तद् यद् अत्राकूपारं भवति समुद्रस्यैवातिपारणाय। यद् व् अकूपारः कश्यपो ऽपश्यत्, तस्माद् आकूपारम् इत्य् आख्यायते। अथैता द्विपदो भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति पवस्व सोम महे दक्षायेति। महद् ध्य् एतद् अहर् यद् अष्टाचत्वारिंशम्। तासु विधर्मोक्तब्राह्मणम्। तच् चतुरक्षरणिधनं भवति-चतुष्पदा वै पशवः। पशवश् छन्दोमाः - पशूनाम् एवावरुद्ध्यै। उपो षु जातम् अप्तुरम् इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः।
गोभिर् भंगं परिष्कृतम्।
इन्दुं देवा अयासिषुः॥
अर्षा नस् सोम शं गवे धुक्षस्व पिप्युषीम् इषम्।
वर्धा समुद्रम् उक्थ्यम्॥
इति गोमतीः पशुमतीर् भवन्ति, पशूनाम् एवावरुद्धयै। पशवो हि छन्दोमाः। तम् इद् वर्धन्तु नो गिर इति वृद्धं ह्य् एतद् अहर् यद् अष्टाचत्वारिंशम्

3.274

तासु श्रुधीयम्। प्रजापतिर् यज्ञम् असृजत। तं देवेभ्यः प्रायच्छत्। स क्षयाद् बिभ्यत् प्राद्रवत्। ते देवा अकामयन्त - शृणुयान् न इति। त एतत् सामापश्यन्। तेनैनं श्रोधियेत्य् अन्वह्वयन्। सो ऽशृणोत्। तम् अब्रुवन्न् - अभि न आवर्तस्वेति। क्षयाद् वै बिभेमीति। नैत्य् अब्रुवन्। तस्मै वै मे श्रद्धां कुरुतेति। तस्मै श्रोधियेन्य् एव श्रद्धाम् अकुर्वन्। तम् एह्य् आ इत्य् एव न्यह्वयन्त। ततो वै तेभ्यो यज्ञो नोदक्रामत्। तत एनान् उपावर्तत। उत्क्रान्त इवैतर्हि यज्ञो भवति नवमे ऽहन्। तद् यद् अत्र श्रुधीयं भवति, सम् एवैनम् एतेन यज्ञं निह्वयन्ते। तस्माच् छ्रोधियेत्य् एव प्रथमायां कुर्याच् छ्रोधेमेत्य् उत्तरयोः। अथो यस्मै जीवातुं कामयेत, तम् एतनैव निह्वयेत

3.275

अथ यज्ञायज्ञीयम् उक्तब्राह्मणम्। अथ दैवानीकम्। देवासुरा अस्पर्धन्त। ते देवा अकामयन्ताग्निनैवानीकेनासुराञ् जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। भद्रो नो अग्निर् आहुत इत्य् अग्निम् एवानीकम् अकुरुत।
भद्रा रातिस् सुभग भद्रो अध्वरः।
भद्रा उत प्रशस्तयः॥
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः।
इति समत्स्व् एवैनान् असहन्त। अव स्थिरा तनुहि भूरि शर्धताम् इति यद् एवैषां वीर्यं यद् बलम् आसीत् तद् एतेनावाघ्नन्। वनेमा ते अभिष्टय इत्य् एवैनान् अभ्यतिष्ठन्। ततो वै ते ऽग्निनैवानीकेनासुरान् अजयन्। तद् एव दैवानीकस्य दैवानीकत्वम्। तद् एतद् विजिति भ्रातृव्यहा साम। विजयते हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद

3.276

अथेध्मवाहम्। ऋषयो वै स्वर्गं लोकं यन्त इध्मवाहं समिद्धारं परेतम् अरण्य एकम् अजहुः। सो ऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्रिभिस् संगच्छेयेति। स ऐक्षत - हन्त प्रति सत्रिण एव स्तवानि। त एव मा स्तुतास् तथा करिष्यन्ति यथैषाम् उपश्रोष्यामीति। स एतं तृचम् अपश्यत्। तेनैनान् अस्तौद् -
आ घा ये अग्निम् इन्धते स्तृणन्ति बर्हिर् आनुषक्।
येषाम् इन्द्रो युवा सखा॥
बृहन्न् इद् इध्म एषां भूरि शस्तं पृथु स्वरुः।
येषाम् इन्द्रो युवा सखा॥
अयुद्ध इद् युधा वृतं शूर आजति सत्वभिः।
येषाम् इन्द्रो युवा सखा॥
इति। ते ऽस्मै स्तुतास् तथाकुर्वन् यथैषाम् उपाश्रोषत्। तेषां ह कशानां वदन्तीनाम् उपशुश्राव। स एतत् सामापश्यत्। तेनास्तुत

3.277

इहैवा शृण्व एषां कशा हस्तेषु याद् वादान्।
नि यामैश् चित्राम् ऋञ्जताइ॥
नि यामैश् चित्रम् आर्ञ्जातायि एहि या औहो तम् एहि यौ हो एहि यौ हो वा एहीत्य् एव स्वर्गे लोके उपाह्वयन्त। ततो वै स प्रतिसत्रिभिस् समगच्छत। स एतेनैव साम्ना स्तुत्वा स्वर्गं लोकम् आरोहत्।
आ घा ये अग्निम् इन्धातायि स्तृणन्ति बर्हिर् आनुषक्।
येषाम् इन्द्रो युवा इहा मवावुवो वा साखो हा॥
इत्य् एव स्वर्गं लोकम् अन्वारोहत्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् व् इध्मवाहो ऽपश्यत् तस्माद् ऐध्मवाहम् इत्य् आख्यायते।
अथ त्रैककुभम् उक्तब्राह्मणं त्रीन्द्रियं साम। ऐन्द्री ऋच ऐन्द्रं सामेन्द्रं इति निधनं भवति। त्रीणि पुरुष इन्द्रियाण्य् - आत्मा प्रजा पशवः। तान्य् एवैतेनात्मन् परिगृह्णीते।
गायन्ति त्वा गायत्रिणो अर्चन्त्य् अर्कम् अर्किणः।
ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे॥
इति यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः

3.278

तासूद्वंशीयम् उक्तब्राह्मणम्। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। अतीता इवैतर्हि भवन्ति। तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अनतिपादायैव। तत् स्वारं भवति। अभि दशमम् अह स्वरति। स्वारम् एतद् भवति। स्वरेण श्वो भूते प्रतिपद्यन्ते। स यथा समात् समं संक्रामेद्, यथा प्राणेन प्राणं संदध्यात्, तादृक् तत्

3.279

पूर्वैर् अहोभिर् वाचं विप्रयुञ्जते। तां यद् असंपाद्योत्तिष्ठेयुर् व्यृद्धेनोत्तिष्ठेयुः। ताम् एवैतत् संपादयन्ति। अन्वहं वा एते वरुणस्य पाशे बध्यन्ते ये यजन्ते ये सत्रम् आसते। यद् यत् प्रत्यपक्रामन्तो यन्ति वरुणस्य पाशान् एवैनद् विष्यमाणा यन्ति, स्तोत्रियैर् वा इतो रेतो दधतो यन्त्य्, अनुरूपैर् अत्र प्रतिपद्यन्ते, प्र तज् जनयन्ति। प्र प्रजया पशुभिर् जायते य एवं वेद। प्रायणीयेनैवाह्ना द्वादशाहो युज्यते दशमेनाह्ना विमुच्यते। येन वै योक्त्रेणाश्वम् अश्वतरं युञ्जन्ति तेनैवैनं पुनर् विमुञ्चन्ति। तद् या अमूः पुरस्तान् नव स्तोत्रीयास् ता एवैतद् उपरिष्टात्। शम्या उदस्यन्ति। तस्मात् पशुर् यथैव युज्यते तथा विमुच्यते। तस्माद् उ योगक्षेमः कल्पते। यान् प्रायणीयस्याह्नस् तृचान् विच्छिन्दन्ति

3.280

क्व ते संतायन्त इत्य् आहुः। दशमे ऽहन्न् इति ब्रूयात्। तृचैर् एकर्चान् उभयतस् संतन्वन्ति, प्राणानाम् एव संतत्या अव्यवच्छेदाय। अभि वा एता अन्यान्यस्यै लोकं ध्यायन्ति - ब्रह्म क्षत्रस्याभिध्यायति, क्षत्रं विशो, विड् ब्रह्मणः। ता अन्यान्यस्यै लोकम् अभिध्यायन्तीः। कामं गमयन्ति। यत्काम एना आहरते सम् अस्मै स काम ऋध्यते प्रसृतछन्दा वै प्रथमस् त्रियहः। तेन सो ऽयातयामा क्रियते। वि द्वितीयस्य छन्दांसि पर्यूहन्ति। तेन द्वितीयस् त्रियहो ऽयातयामा क्रियते। वि तृतीयस्य छन्दांसि पर्यूहन्ति। तेनैव तृतीयस्य त्रियहो ऽयातयामा क्रियते

3.281

गायत्रमुखो वै प्रथमस् त्रियहः। तस्माद् अयम् अग्निर् ऊर्ध्वो दीदाय। गायत्रमध्यो द्वितीयस् त्रियहः। तस्माद् अयं वायुस् तिर्यङ् पवते। गायत्रोत्तमस् तृतीयस् त्रियहः। तस्माद् असाव् अर्वाङ् आदित्यस् तपति। देवासुरा अस्पर्धन्त। ते ऽब्रुवन् यो नस् त्रिर् अनवानं गायत्रं गायति स न इमांश् च लोकान् संजयति प्राणापानव्यानांश् चेति। सो ऽयास्य आङ्गिरसस् त्रिर् अनवानं गायत्रम् अगायत्। तेनेमांश् च लोकान् समजयत् प्राणापानव्यानांश् च। सम् इमांश् च लोकाञ् जयति प्राणापानव्यानांश् च य एवं विद्वांस् त्रिर् अनवानं गायत्रं गायति। यो वा अग्निष्टोमेन दशाहं कल्पमानं वेद कल्पते ऽस्मै प्रातस्सवनेनैव प्रथमस् त्र्यहः, कल्पते माध्यन्दिनेन द्वितीयस्, तृतीयसवनेन तृतीयो, ऽग्निष्टोमसाम्नैव दशमम् अहः कल्पते। कल्पते ऽस्मै य एवं वेद

3.282

अथैतान्य् आप्रीर् आज्यानि भवन्ति। प्रजापतिः प्रजा असृजत। स सृष्ट्वा रिरिचानो ऽमन्यत। स एतान्य् आप्रीर् आज्यान्य् अपश्यत्। तैर् आत्मानम् आप्रीणीतायातयामतायै। रिच्यन्ते इव वा एते य एतद् अहर् आगच्छन्ति। तद् यद् एतान्य् आप्रीर् आज्यानि भवन्त्य् आत्मानम् एवैतैर् यजमाना आप्रीणते ऽयातयामतायै। अनिरुक्तान्य् आज्यानि भवन्ति छन्दसाम् अनभिधर्षाय, पापवस्यसस्य विवक्त्यै। वि पाप्मना विच्यते य एवं वेद। ऐन्द्राग्नम् उत्तमं पदं निराह छन्दसाम् अप्रणाशाय यज्ञस्यानुख्यात्यै। अनुख्यातेनैव यज्ञेन स्वर्गं लोकं समश्नुवते। तद् आहुर् यत् सर्वेभ्यो ऽहोभ्यो दशमम् अहस् संभरन्त्य्, अथ केनैषां छन्दोमा अनन्तरिता भवन्तीति। स्तोमेनेति ब्रूयात्। चतुर्विंशं सप्तमम् अहर् भवति, चतुर्विंशं दशमम् अहः। अथो यद् एवैतत् समय्य् एकम् आज्यं भवति तेनो एवेति

3.283

उच्चा ते जातम् अन्धसेत्य् उद्वतीर् उत्थानीये ऽहन् भवन्त्य् अथो स्वर्गस्यैव लोकस्याभ्युत्क्रान्त्यै। स्वर्गो ह्य् एष लोको यद् दशमम् अहः। स न इन्द्राय यज्यवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति।
एना विश्वान्य् अर्य आ द्युम्नानि मानुषाणाम्।
सिषासन्तो वनामहे॥
इति सिषासद्वतीर् भवन्ति। सिषासन्तो ह्य् एवैतेनाह्ना स्वर्गं लोकं गच्छन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथामहीयवम् । प्रजापतेर् वा आमहीयवम्। प्राजापत्यम् एतद् अहः। तद् यद् अत्रामहीयवं प्राजापत्ये ऽहन् क्रियते ऽहर् एव तद् रूपेण समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति। अथाजीकम् उज्जित्यै। देवासुरा यज्ञ आजिम् आयन्। ते देवा अकामयन्तोद् इमम् आजिं जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते तम् आजिम् उदजयन्। आजिम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्राजीकं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद। तद् वा आजीकम् इति कवत् प्राजापत्यं सामाह्नो रूपेण समृद्धम्। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यत। सम् अस्मा ऋध्यते य एवं वेद

3.284

अथाभीकम्। देवा वा अकामयन्ताभीकं नश् शिवम् आप उपस्पृशेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् अभीकं शिवम् आप उपास्पृशन्। तद् आभीकस्याभीकत्वम्। अभीकं ह वा एनं शिवम् आप उपस्पृशन्ति य एवं वेद। ऋषयो वै तपस् तेपाना अशोचन्। ते ऽकामयन्ताभीकं नश् शिवम् आप उपस्पृशेयुर् इति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै तान् अभीके ऽभ्यवर्षत्। तद् व् एवाभीकस्याभीकत्वम्। तद् आपो वै शान्तिः। शुशुचाना इवैते तेपाना इव भवन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्राभीकं भवति शुच एवापहत्यै। तद् वा आभीकम् इति कवत् प्राजापत्यं सामाह्नो रूपेण समृद्धम्। यत्र वा अहारूपेण समर्धयन्ति सं तत्रर्ध्यते। सम् अस्मा ऋध्यते य एवं वेद

3.285

अथैताः प्रत्नं पीयूषं पूर्व्यं यद् उक्थ्यम् इति सतोबृहतयो भवन्ति। अनुष्टुब् वै यज्ञम् असृजत। वाग् वा अनुष्टुप्। प्रजापतिर् वा अनुष्टुप् छन्दः। सो ऽब्रवीद् यज्ञं सृष्ट्वा - छन्दांसि पुत्रका विन्दध्वम् इति। तान्य् एतयाविन्दन्त। यद् त्रिपदा तेन गायत्री। उष्णिक्ककुभौ तयाविन्दन्त। यद् द्वादशाक्षराणि पदानि तेन जगती। तेनो एवानुष्टुप्। अक्षरैर् एव बृहत्य् अविन्दत। यद् दोहवती तेन पंक्तिः। आयतनेन त्रिष्टुप्। यद् विश्ववती तेन सर्वाणि छन्दांसि। तान्य् एतयैवाविन्दन्त। विन्दते य एवं वेद। सर्वेषां वा एषा छन्दसां रसस् तेजस् संभृतम्। सर्वेषाम् एवैतच् छन्दसां रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठन्ति

3.286

ताः प्रत्नवतीर् भवन्ति। प्रजापतिर् वै प्रत्नः। प्रजापताव् एव तत् प्रतितिष्ठन्ति। अथो स्वर्गो वै लोकः प्रत्नः। स्वर्ग एव तल् लोके प्रतितिष्ठन्ति। तासां सर्वासां समावदक्षराणि पदानि भवन्ति। तद् यत् समावदक्षराणि पदानि भवन्ति तत् सतोबृहतीनां सतोबृहतीत्वम्। सर्वतो ह वै बृहद् भवति य एवं वेद। तद् उ होवाच यामनो भ्रातलायनो - यदा वा एतद् अहर् आगच्छन्त्य् अथ मुह्यन्ति। अतो ऽन्या बृहतीः कुर्वते। पुनानस् सोम धारयेत्य् एव बृहती कार्या। एषा वै ज्ञाता बृहती। यद् ध वै बहवो यन्तो ज्ञातमुखं कृत्वा यन्ति सर्वे वाव ते ज्ञाता भवन्ति। तद् यत् पुनानस् सोम धारयेति बृहती भवति तेनैवैतद् अहर् ज्ञातं क्रियते। भूयांसि तु रूपाण्य् अपराध्यन्ते। इतराण्य् एव भूयांसि रूपाणि

3.287

तद् आहुर् न बुभूषन् भूतबृहतीभि स्तुवीत। भूत एवैताभि स्तुवीत न बुभूषन्न् इति। भूता इव वा एता यासां द्वादशाक्षराणि पदानि। अथेमा भविष्यद्बृहतयः पुनर् आदायेन बृहत्यो भवन्ति। तस्माद् भूत एव भूतबृहतीभि स्तुवीत न बुभूषन्न् इति। तद् उ वा आहुर् - यावद् वै कृत्वो यजते तावद् बुभूषति तावत् कामयते - श्रेयान् स्यां श्रेयान् स्याम् इति। तस्माद् उभयीर् एव कार्या एतयोर् उभयोः कामयोर् उपाप्त्या इति

3.288

उत्सेधनिषेधाव् एव सतोबृहतीषु स्यातां, यज्ञायज्ञीयं भविष्यद्बृहत्याम्। तथा हाभ्यावर्ता भवन्त्य् अपराचीः। तद् आहुर् न चतुर्थाय छन्दसे माध्यन्दिनः पवमानः। तत्स्थानश् चतुर्थम् इव वा एतच् छन्दः क्रियत इति। तद् यत् बृहतीतरा भवति बृहतीतरा तेन समानच्छन्दः। तासूत्सेधनिषेधौ। उत्सेधेन वा अङ्गिरसः पशून् उत्सिध्य निषेधेन निषिध्योदतिष्ठन्। उत्सेधेनैवैतत् पशून् उत्सिध्य निषेधेन निषिध्य उत्तिष्ठन्ति

3.289

ताव् अन्तरा यज्ञायज्ञीयं भवति। पशवो वै यज्ञायज्ञीयम्। एतांस् तान् पशून् उत्सिध्य च निषिध्य चोत्तिष्ठन्ति। प्रजापतेर् वा एतौ प्राणापानौ। यद् उत्सेधनिषेधौ भवतः प्राणापानाभ्याम् एव तत् समृध्यन्ते। पापवस्यसस्य ह खलु वा एते विदारणं सामनी। राजसभम् एतद् यद् दशम् अह्नाम्। उच् च वै पापीयांसं सभायाम् अतिवदन्तं सेधन्ति नि च सेधन्ति। तद् यद् उत्सेधनिषेधौ भवतः पापवस्यसस्यैवोत्सिद्ध्यै च निषिद्ध्यै च। वाग् वै यज्ञायज्ञीयम्। तद् अन्तरोत्सेधनिषेधौ भवति। आत्मा वै वाक्। प्राणापानाव् उत्सेधनिषेधौ। तद् यद् यज्ञायज्ञीयम् अन्तरोत्सेधनिषेधौ भवति, प्राणापानाभ्याम् एवैतद् उभयत आत्मानं परिगृह्यते। तस्मात् प्राणापानाभ्यां वाक् परिगृहीता

3.290

तेजो वै यज्ञायज्ञीयम्, आत्मा मध्यन्दिनः। तद् यद् यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् तेजः प्रतिष्ठापयन्ति। यज्ञायज्ञीयेन वै पूर्वेष्व् अहस्सु गर्भान् दधतो यन्ति। तद् दशमे ऽहन् योनेश् च्यावयन्ति। तस्माद् दशमास्या गर्भा योनेश् च्यवन्ते प्रजात्यै। तं मध्यन्दिनम् अभि प्रत्याहरन्ति। आत्मा वै मध्यन्दिनः प्रजैषा। तद् यद् यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्त्य्, आत्मन्न् एवैतत् प्रजां प्रतिष्ठापयन्ति। मध्यन्दिनाद् वै देवा यज्ञायज्ञीयेनोर्द्ध्वा स्वर्गं लोकम् उदक्रामन्। तद् यद् उष्णिक्ककुभाव् उत्तर भवतो, बृहती पूर्वा - पुरुष छन्दसं ककुप्, स्वर्गो लोको बृहती - स्वर्ग एव तल् लोके प्रतिष्ठाय स्वर्गं लोकम् आरोहन्। देवासुरा यज्ञ आजिम् आयन् दशमस्याह्नः। ते यज्ञायज्ञीयम् एव काष्ठाम् अकुर्वत। ते देवा अकामयन्त वयम् इमम् आजिम् उज्जयेमेति। ते यज्ञायज्ञीयम् मध्यन्दिनम् अभि प्रत्याहरन्न्, अतो ऽन्तिकाद् उज्जेष्याम इति। एतद् उ ह वै देवानां देवक्षेत्रं यत् पवमानः। ततो वै ते तम् आजिम् उदजयन्। आजिम् इवैते यन्ति य एतद् अहर् आगच्छन्ति। तद् यद् अत्र यज्ञायज्ञीयं भवत्य् उज्जित्या एव। उज्जयति य एवं वेद

3.291

पशवो वै यज्ञायज्ञीयम्। आत्मा मध्यन्दिनः। पशुमान् ह्य् एव यज्ञंयज्ञम् आहरते। तद् यद् यज्ञायज्ञीयम् मध्यन्दिनम् अभि प्रत्याहरन्ति आत्मन्न् एवैतत् पशून् प्रतिष्ठापयन्ति। अथैता भवन्त्य् आ जागृविर् विप्र ऋतं मतीनाम् इत्य् आवतीर् उत्थानीये ऽहन्। यत् प्रवतीः कुर्युः पराञ्चो ऽतिपद्येरन्। तद् यद् आवतीर् भवन्त्य् अनतिपादायैव। तद् आहुर् अपेव वा एते भ्रंशन्ते य आवतीर् उत्थानीये ऽहन् कुर्वन्तीति। तद् यत् सोमो मीढ्वम् अभि नो ज्योतिषावीद् इति भवत्य् अभिक्रान्त्या एवानपभ्रंशाय। तासु गौरिवीतम्। प्रजा वै पशवो गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतत् प्रजां पशून् प्रतिष्ठापयन्ति। श्वस्तनं वै गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभि प्रत्याहरन्त्य् आत्मन्न् एवैतच् छ्वस्तनं प्रतिष्ठापयन्ति। रसो वै गौरिवीतम्, आत्मा मध्यन्दिनः। तद् यद् गौरिवीतं मध्यन्दिनम् अभिप्रत्याहरन्त्य्, आत्मन्न् एवैतद् रसं प्रतिष्ठापयन्ति

3.292

अथ रथन्तरम्। ब्रह्म वै रथन्तरम्। ब्रह्मण्य् एवैतत् प्रतितिष्ठन्तो यन्ति। तद् गायत्रीषु भवति। रेतो वै गायत्र्यै रथन्तरं, योनिर् वै रथन्तरस्य गायत्री। तद् यद् गायत्रीषु रथन्तरं भवति, योन्याम् एवैतद् रेतः प्रतिष्ठापयन्ति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। गायत्रं ह खलु वै रथन्तरं गायत्री छन्दः। तद् यद् गायत्रीषु रथन्तरं पृष्ठं भवति, स्वेनैवैनं तद् आयतनेन समर्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् ऋद्धुकं भवति। त्रीणि वा एतानि सम्यञ्चि संधीयन्ते - गायत्री छन्दश्, चतुर्विंश स्तोमो, रथन्तरं साम। तद् यद् एतानि सम्यञ्चि संधीयन्ते समृद्ध्या एव। सम् अस्मा ऋध्यते य एवं वेद

3.293

एते ह खलु वा अर्क्योदामनीये एते रथन्तरस्याक्षरे व्यतिषक्ते। एताभ्याम् एवैतद् द्विषन्तं भ्रातृव्यम् उपोभ्योत्तिष्ठन्ति। तद् आहुर् व्यूढम् एतद् अहा3स् समूढा3म् इति। उभयम् इति ब्रूयाद्, व्यूढं च समूढं चेति। सामभिर् व्यूढं छन्दोभिस् समूढम् इति। एता भवन्ति मा चिद् अन्यद् वि शंसतेति मासान् एवैतद् अर्धमासान् अभिवदति। अथो तेषाम् एव प्रजापतिम् अनु प्रजायत।
इन्द्रम् इत् स्तोता वृषणं सचा सुते मुहुर् उक्था च शंसत॥
अवक्रक्षिणं वृषभं यथाजुवं गां न चर्षणीसहम्।
इति गोमतीः पशुमतीर् भवन्ति पशूनाम् एवावरुद्ध्यै। तासु मैधातिथम् उक्तब्राह्मणम्। उद् उ त्ये मधुमत्तमा इत्य् उद्वतीर् उत्थानीये ऽहन् भवन्त्य्, अथो स्वर्गस्यैव लोकस्याभ्युत्क्रान्त्यै। स्वर्गो ह्य् एष लोको यद् दशमम् अहः

3.294

तास्व् अभीवर्तः। देवासुरा अस्पर्धन्त। ते देवा अकामयन्ताभीमान् असुरान् भवेमेति। त एतम् अभीवर्तम् अपश्यन्। तेनासुरान् अभ्यवर्तन्त। यद् अभ्यवर्तन्त तद् अभीवर्तस्याभीवर्तत्वम्। तद् यद् अत्राभीवर्तो भवति - वज्रो वा अभीवर्तो - वज्रेणैव तद् द्विषन्तं भ्रातृव्यम् अभिवृत्योत्तिष्ठन्ति। तस्यैकाक्षरं निधनं भवति। एकाक्षरा वै वाक्। प्रतिकूल इव वा इत स्वर्गो लोकः। स्वर्गो ह्य् एष लोको यद् दशमम् अहः। तद् यद् एकाक्षरं निधनं भवति यथा दृढां मेथीं निहन्यात् तादृग् एवैतद् अनपभ्रंशाय। अथ कालेयम्। अग्निर् वै रथन्तरम्। विश्वेदेवाः कालेयम्। अथैष स्वर्ग एष लोको विश्व एव देवाः। स्वर्ग एव तल् लोके विश्वेषु देवेषु प्रतितिष्ठन्ति

3.295

स्वादिष्ठया मदिष्ठयेत्य् आर्भवस्य पवमानस्य मद्वतीर् गायत्र्यो भवन्ति। रसो वै मदः। धीतम् इवैतद् यत् तृतीयसवनम्। तद् यद् एता मद्वतीर् भवन्ति, रसम् एवास्मिन्न् एतद् दधत्य्, ऐवैनद् एतेन प्याययन्ति। तासु गायत्रम् उक्तब्राह्मणम्। अथ संहितं द्वयक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै। तस्यर्चा निधनम् उपयन्ति। पशवो वा ऋक्, पशवो रथन्तरं, पशूनाम् एवावरुद्ध्यै। अथोष्णिक्ककुभौ। वज्रेणैव तद् द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणुते य एवं वेद। ककुभि पराक्रमतोष्णिहा प्राहरत्। तस्मात् ककुभ मध्यमान्य् अक्षराणि भूयिष्ठानि। पराक्रममाणो ह्य् अस्या अक्षराणि समौहत्। तस्माद् उष्णिह उत्तमान्य् अक्षराणि भूयिष्ठानि। परो गुरुर् इव हि वज्र, आरम्भणतो ऽणीयान्। सा ककुब् अब्रवीद् विलिष्ठा वा अहम् अस्मीति। पराक्रममाणो वै मे ऽक्षराणि समौहीत, पूर्वां मां प्रयुञ्जताम् इति। अथोष्णिग् अब्रवीद् - अथ वै मां पूर्वाम् आचक्षन्ता इति। तथेति। तस्मिन् समपादयेताम्। पूर्वप्रयोगम् अन्यावृणीत, पूर्वाख्यानम् अस्या। तस्माद् एने एवं प्रयुञ्जते। तस्माद् उष्णिक्ककुभाव् इत्य् आख्यायते

3.296

ता एता भवन्ति पवस्व मधुमत्तम, इन्द्रम् अच्छ सुता इम इति। ऋजीषं वा एतद् दुग्धं धीतं यातयाम यत् तृतीयसवनम्। तस्माद् इन्द्रो बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तस्मै वै देवाः पवस्वेत्य् एवापवयन्। मधुमत्तम इति मधुमद् अकुर्वन्।
इन्द्राय सोम क्रतुवित्तमो मदः।
महि द्युक्षतमो मदः॥
इत्य अभिपूर्वम् एवास्मै मद्वद् अकुर्वन्। इन्द्रम् अच्छ सुता इम इति यथाभिवत्यानयेद् एवं वा एतत् पदम्। पावमान्यस् सत्य ऐन्द्रियो भवन्ति वीर्यवतीः। तस्माद् एता एवोष्णिक्ककुभः कार्याः। तासु सभम् उक्तब्राह्मणम्। अथ पौष्कलम् उक्तब्राह्मणम्। अथैता भवन्ति - पर्य् ऊ षु प्र धन्व वाजसातय इति पिपीलिकामध्यानुष्टुभः परिवतीर् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः

3.297

इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तद् अनुष्टुब् वै परा। परावत् स ताम् एव प्राविशत्। तस्यै द्वादशाक्षराणि प्राञ्च्य् उदौहद् द्वादशोर्ध्वानि। अथ याष्टाक्षरा मध्ये गायत्री तां प्राविशत्। स ताम् एव प्राविशत्। तत् तस्यै द्वादशाक्षराणि। ब्रह्मा गायत्री। ब्रह्मैव तन् मध्यतः प्राविशत्। स एतम् एव संवत्सरम् उभयतः पर्यौहत। इन्द्रग्रहो वा एता ऋचः। इन्द्रग्रहम् एवैतत् प्रपद्योत्तिष्ठन्ति। तस्माद् उ हैना अभिचरन् वा भ्रातृव्यवान् वा कुर्वीत। इन्द्रग्रहो वा एता ऋचः। इन्द्रग्रहम् एवैतत् प्रपद्य द्विषन्तं भ्रातृव्यम् अभिभवति

3.298

अभये ह खलु वा एष दीक्षते, ऽभये यजते, ऽभय उत्तिष्ठति य एवं विद्वान् एताभि ऋग्भि स्तुते। ताम् एतां परोक्षम् अनुष्टुभं कुर्वन्ति। यत् प्रत्यक्षम् अनुष्टुभं कुर्युः परां परावतं यजमाना गच्छेयुर्, न प्रतितिष्ठेयुः। तद् यत् परोक्षम् अनुष्टुभं कुर्वन्ति प्रतिष्ठित्यै। तासु श्यावाश्वम् उक्तब्राह्मणम्। अथान्धीगवम् उक्तब्राह्मणम्। अथैता द्विपदो भवन्त्य् उक्तब्राह्मणाः। ता एता भवन्ति परि प्र धन्वेन्द्राय सोमेति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः। तासु सौहविषम् उक्तब्राह्मणम्। तद् वाङ्निधनं भवति। तद् आहुर् - यन्ति वा एते तृतीयसवनाद् ये यज्ञायज्ञीयं मध्यन्दिनम् अभि प्रत्याहरन्तीति। तद् यद् वाङ्निधनं भवति, तेनैव यज्ञायज्ञीयस्य रूपान् न यन्ति, तेन तृतीयसवनान् न यन्ति। तस्माद् उ हैतत् सामैतस्माद् अह्नो नान्तरित्यम्। सूर्यस्येव रश्मयो द्रावयित्नव इति सूर्यवतीर् भवन्ति रक्षसाम् एवापहत्यै।
मत्सरासः प्रसुपस् साकम् ईरते।
तन्तुं ततं परि सर्गास आशवो नेन्द्राद् ऋते पवते धाम किं चन॥
इति न हीन्द्राद् ऋते पवते धाम किं चन। उपो मतिः पृच्यते सिच्यते मध्व् इत्य् उप वा अयम् अद्य लोक उपश्व इमम् एवैतेन लोकम् अनु प्रजायन्ते ऽस्मिन्न् एवैतल् लोके पशून् प्रतिष्ठापयन्ति।
उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीर् उप यन्ति निष्कृतम्। अत्य अक्रमीद् अर्जुनं वारम् अव्ययम् अत्कं न निक्तं परि सोमो अव्यत॥
इति परिवतीर् भवन्त्य् अन्तस्य रूपम्। अन्तो ह्य् एतद् अहः

3.299

तासु वाजजित्। अन्नं वै वाजः। यदा वै गौर् अश्वः पुरुषो ऽन्नस्य सुहितो भवत्य् अथ स वाजी भवति। देवासुरा अन्नाद्ये ऽस्पर्धन्त। ते देवा अकामयन्त वृञ्जीमह्य् अन्नाद्यम् असुराणाम् इति। त एतत् सामापश्यन्। तेनास्तुवत। ते वांजजिगीवा (वाजिजिगीवा - पा.) विश्व धनानीत्य् एवासुराणां यद् धनं य पशवो यद् अन्नाद्यम् आसीत् तद् अवृञ्जत। तद् एव वाजजितो वाजजित्त्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे वृंक्ते द्विषतो भ्रातृव्यस्य यद् धनं ये पशवो यद् अन्नाद्यं य एवं वेद। तद् दशाक्षरणिधनं भवति। एकाक्षरणिधनेन वै प्रथमम् अहः कल्पते, दशाक्षरणिधनेन दशमम्। तद् यद् दशाक्षरणिधनं दशमे ऽहनि भवति, तेनैव दशाहानि कल्पन्ते। अथो एतां दशाक्षराम् एव विराजम् अन्नाद्यम् अवरुद्ध्यान्तत उत्तिष्ठन्ति

3.300

द्वादशाहेन वै देवा ऊर्ध्वा स्वर्गं लोकम् आयन्। तान् असुरा रक्षांस्य् अन्वसचन्त। ते छन्दांसि पश्चात् तान्य् अकुर्वत। तान्य् अभिविच्छिदान्य् अयुक्ष्व् अयुक्ष्व् अक्षरेष्व अश्रयन्त। तत एतानि नाच्यावयन्। तस्माद् अयुज स्तोमा वीर्यावत्तराः। तेषाम् एषा त्रिष्टुप् निष्कुर्याद् अपराजयेताम्। पराजितं वा एतच् छन्दः। पराजित एवैतच् छन्दसि यस्यान्ततः प्रतितिष्ठति। तास् त्रयस्त्रिंशदक्षरा भवन्ति। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति। स ता विराजो लोमशा भवन्त्य् - अन्नं वै विराड् - विराज एवान्नाद्यस्यावरुद्ध्यै। ता आग्नेय्यो भवन्ति। मुखं वा अग्निर् देवतानाम्। मुखं विराट् छन्दसाम्। तद् यद् आग्नेयीषु विराट्सु स्तुवन्ति मुख्यम् एवैतद् उद्गातात्मानं च यजमानं च करोति। मुख्यो हाग्र्यो ऽन्नाद श्रेष्ठ स्वानां भवति य एवं वेद

3.301

तासु वामदेव्यम्। स्तुतशस्त्रयोर् ह खलु वा एषा शान्तिर् यद् वामदेव्यम्। यद् ध वै किं च यज्ञस्य मिथ्योल्बणं क्रियते तद् एतेनैव शमयित्वोत्तिष्ठन्ति। मत्यं वा एतद् यज्ञस्य यद् वामदेव्यम्। स यथा स्थूललोष्टम् मत्येन शमयेद् एवम् एवैतद् वामदेव्येन सर्वाणि स्तुतशस्त्राणि शमयन्ति। प्रजापतिर् ह खलु वा एतत् स्तोत्राणां यद् वामदेव्यम्। यथा ह वा इदं प्रजापतौ सर्वा जातविद्याः प्रतितिष्ठन्त्य् एवं ह वै वामदेव्ये सर्वाणि स्तोत्राणि प्रतितिष्ठन्ति। योनिर् वै वामदेव्यम्। तद् दशमे ऽहन् योनेश् च्यावयन्ति। तस्माद् दशमास्या गर्भा योनेश् च्यवन्ते प्रजात्यै। प्राणा वै वामदेव्यम्। तद् आहुर् वीव वा एते प्राणैर् ऋध्यन्ते ये यज्ञीयस्य कर्मणो ऽतिपादयन्ति, यदि वा नातिपादयन्ति। को हि तद् वेद यदि ते ऽति वा पादयन्ति न वा। तद् यद् अत्र वामदेव्यं भवति प्राणैर् एव तत् समृध्यन्ते। सद् ध खलु वै वामदेव्यं स्तोत्राणां, सद् अग्निर् देवतानां, सद् विराट् छन्दसां, सत् त्रयस्त्रिंश स्तोमानाम्। सत्य् एवैतत् सन्निधायोत्तिष्ठन्ति। सद् एव भवन्ति। एतां ह खलु वा एतद् द्वादशाहयाजी चतुष्पदीं देवासन्दीम् अविव्याधिनीम् अन्ततो ऽभ्यारोहति वामदेव्यं सामाग्निं देवतां विराजं छन्दस् त्रयस्त्रिंशं स्तोमम्। अभि हैताम् आरोहति य एवं वेद

3.302

गौरीवितिर् वा एतं शाक्त्यस् त्रयस्त्रिंशं स्तोमम् अपश्यद् उभयेषां पशूनाम् अवरुद्ध्यै ये च ग्राम्या ये चारण्याः। ततो वै स उभयान् पशून् अवारुन्द्ध। तद् यत् त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति तस्मात् त्रयस्त्रिंश स्तोमो ऽन्ततः क्रियत, उभयेषाम् एव पशूनाम् अवरुद्ध्यै। पुरुषो ह वा एष परस्ताद् धितस् तिष्ठति। दश वै पुरुषस्य हस्त्या अंगुलयो, दश पद्या, दश प्राणा, द्वे प्रतिष्ठे, आत्मा त्रयस्त्रिंशः। पराञ्च आरण्याः पशवः प्रेरते। तस्माद् अभ्यासृणतो मृगं श्रयन्ते। अभ्यासृणतो ह्य् एष एतत् क्रियते। प्रजापतेर् वा एत एकवीराः पुत्रा, यद् द्वादशाहस्य स्तोमाः। तद् आहुश् चतुर्विंशम् एतद् अहः। तत् सर्वम् एव चतुर्विंशं कार्यम्, एतेषां प्रजापतेः पुत्राणाम् एकवीराणाम् अविलोमायेति। यद् व एवैतास् त्रयस्त्रिंशदक्षरा भवन्ति तेन त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति। भूयांसि तु रूपाण्य् अपराध्यन्ते। इतराण्य् एव भूयांसि रूपाणि। त्रयस्त्रिंश एव कार्यः। त्रयस्त्रिंशद् वै सर्वा देवताः। सर्वास्व् एवैतद् देवतासु यज्ञस्यान्ततः प्रतितिष्ठन्ति। अथो एष वाव दृढः प्रतिष्ठितस् सर्वदेवत्य स्तोमो यत्र त्रयस्त्रिंशः। तस्मात् त्रयस्त्रिंश एव स्तोमो ऽन्ततः कार्य इति

3.303

सम्पदं ह तु लोभयन्ति। ब्रह्मसाम्न एव नव स्तोत्र्या उपादायात्रोपदध्यात्। न सम्पदो यन्त्य्, उभयेषु स्तोमेषु प्रतितिष्ठन्ति य चायुजो ये च युग्मन्तः। तद् यथान्तरीषे तिष्ठन् विमुु़ञ्चेद् एवम् एवैतद् वामदेव्येन सर्वाणि स्तुशस्त्राण्य् अन्ततो विमुच्यन्ते। तद् आहुर् व्युच्या3 न व्युच्या3म् इति। न व्युच्यम् इत्य् आहुः। आजिं वा एते यन्ति य एतद् अहर् आगच्छन्ति। तेषाम् एष हीयते य उपहन्यते। स यथा हीनम् उपादधीत तादृक् तत्। यो वै हीनम् उपाधत्त उभौ वाव तौ हीयेते। अथो प्रजापतिं वैवैतेनाह्ना परिवेविषन्ति। तद् यन् न व्याहुः को हि श्रेयसः परिवेषणम् अववदितुम् अर्हति। यो वै श्रेयसः परिवेषणम् अववदति यया वै स तम् आर्त्या कामयते तयैनं निनयति। तद् आहुः ब्रह्मैव विब्रूयाद् इति। ब्रह्म वै ब्रह्मा। ब्रह्मैव तद् यज्ञं व्याह। अथो आहुर् उद्गातैव विब्रूयाद् इति। प्रजापतिर् वा उद्गाता। प्रजापतिर् एव तद् यज्ञं व्याह। अथो आहुर् यजमान एव विब्रूयाद् इति। यज्ञो वै यजमानः। यज्ञ एव तद् यज्ञं व्याह। अथो यथाकामं वै स्वं परिवेषणं प्रशास्तीति। अथो आहुः प्राङ् एवोत्क्रम्य् क्रोशेद् - इत्य् अमी अकुर्वतेत्य् अमी अकुर्वतेति। तद् एव व्युक्तं चाव्युक्तं चेति। तद् उ वा आहुर् व्युच्यम् एव। यद् अव्युच्यमाने तूष्णीम् आसीरन् विच्छिद्येरन् वै यज्ञाद् यज्ञीयस्यैवानार्तिर् उपेत्याव्युच्यम् एवेति। तद् यावता व्याह तद् धोत्रे प्राह। तद् धोतानुष्टुभम् अभि संपादयति - सम् इदं दशमम् अहर् अपादीति। संव्याहरन्ति यद् एवात्रोनाक्षरासु स्तुवन्ति यद् अतिरेचयन्ति। तद् एवैतत्प्रजापतिम् अभि संपादयन्ति संपरिवेषणं प्रशास्ति

3.304

अपशव्या इव वै युग्मन्त स्तोमा श्लक्ष्णा इव हि समा इव। तद् यत् त्रिवृतं स्तोमम् अन्ववस्यन्ति मिथुनत्वायैव प्रजात्यै। ऊनातिरिक्ताद् वै मिथुनात् प्रजाः पशवः प्रजायन्ते। प्र प्रजया पशुभिर् जायते य एवं वेद। इयं वै पृथिव्यरिक्षेवा लोकम् आसीत्। साकामयत पृश्निं वर्णं पुष्येयम् इति। सैतम् मन्त्रम् अपश्यत् आयं गौः पृश्निर् अक्रमीद् इति। ततो वा इयं पृथिवी पृश्निं वर्णम् अपुष्यत्। पृश्निं ह वै वर्णं प्रजया पशुभिः पुष्यति य एवं वेद। तद् आहुर् ऊर्ध्वा वा एते स्वर्गलोकं रोहन्ति ये यजन्ते। त ईश्वराः पराञ्चो ऽतिपत्तोर् इति। तद् यत् सर्पराज्ञीषु स्तुवन्ति - इयं वै सर्पराज्ञी - अस्याम् एवैतत् प्रतितिष्ठन्ति। इयं वै सर्पतां राज्ञी। न ह वा एनं सरीसृपं हिनस्ति य एवं वेद

3.305

गायत्रीषु स्तुवन्ति - गायत्री वै छन्दसाम् अयातयाम्न्य् - अयातयामताया एव। तिसृषु स्तुवन्ति - त्रयो वा इमे लोका - एषां लोकानां समष्ट्यै। अथो त्रयो वै प्राणापानव्यानाः। तान् एवैतत् संतत्य तेषु प्रतिष्ठायोदृचम् अश्नुवते। गायत्रं साम भवत्य् - अयातयाम वै गायत्रम् - अयातयामताया एव। अथो मनो वै गायत्रम्। मनसैवैनत् तत् समृद्धयन्ति, मनसोपावर्तयन्ति, मनसा हिंकुर्वन्ति, मनसा प्रस्तौति, मनसादिम् आदत्ते, मनसोद्गायति, मनसा प्रतिहरति, मनसोपद्रवति, मनसा निधनम् उपयन्त्य् असमाप्तस्य समाप्त्यै। यद् वै देवा यज्ञस्य वाचा न समाप्नुवंस् तद् अस्य मनसा समाप्नुवन्। तद् यन् मनसा स्तुवन्त्य् असमाप्तस्यैव समाप्त्यै। रसो वा एतस्याह्नो ऽत्यनेदत्। तम् मनसैव पर्यगृह्णन्। एष वै स रसः तद् यन् मनसा स्तुवन्ति रसस्यानतिनेदाय

3.306

महाव्रतभाजनं वा एता ऋचः। स यावन् महाव्रतेनावरुन्द्धे तावद् अवरुन्द्ध एताभि ऋग्भिस् तुष्टुवानः। मनसो वा अन्यद् अहर् आसीद् वाचो ऽन्यत्। तद् यन् मनसो ऽहर् आसीत् तद् देवा संगृह्योर्ध्वा स्वर्गं लोकम् उदक्रामन्। अथ यद् वाचो ऽहर् आसीत् तद् एतद् अहर् अभवत्। तेनास्मिन् लोके प्रजया च पशुभिश् च प्रत्यतिष्ठन्। तद् यन् मनसा स्तुवन्ति तस्यैवाह्नो ऽनुख्यात्यै। चतुर्होतॄन् होतानुव्याचष्टे - ब्रह्म वै चतुर्होतारः। ब्रह्म वा अस्यै स्तोत्रशस्त्राणाम् आप्तुम् अर्हति। एतान्य् उ ह वै देवानां गुह्यानि नामानि यच् चतुर्होतारः। तान्य् एव तत् प्रकाशं गमयति। तान्य् एतं प्रकाशं गतानि प्रकाशतां गमयन्ति। गच्छति प्रकाशतां य एवं वेद। तद् यं ब्राह्मणम् अलं यशसे सन्तम् अथ यशो नार्च्छेत् सो ऽरण्यं परेत्य ग्रन्थीन् उद्ग्रथ्य, तेभ्यश् चतुर्होतॄन् व्याचक्षीत, ब्राह्मणं वोपद्रष्टारं कृत्वा। एतान्य् उ ह वै देवानां गुह्यानि नामानि यच् चतुर्होतारः। तान्य् एव तत् प्रकाशं गमयति। तान्य् एनं प्रकाशं गतानि प्रकाशतां गमयन्ति। गच्छति प्रकाशतां य एवं वेद

3.307

तूष्णीं स्तुतं वाचानुशंसति। तस्माद् यन् मनसाधिगच्छति तद् वाचा वदति। तस्माद् ओषधयो मूलतो जायन्ते ऽग्रतः पच्यन्ते। तद् आहुस् समिष्टेषु पत्नीसंयाजेषु स्तोतव्या3म् असमिष्टेषू3 इति। असमिष्टेष्व् इत्य् आहुः। प्रतीचीष्व् एवासु तद् गर्भान् दधति। स्त्री बलं च ह तु भवति पापवस्यसं च। समिष्टेष्व् एव स्तोतव्यं पापवस्यसस्य व्यावृत्त्यै। अथो ह न तथा स्त्री बलं भवति। अथो हासु तत् पराचीष्व् एव गर्भान् दधति। प्रत्यञ्चश् च वै पराञ्चश् च मनुष्यास् संभवन्ति। तस्मात् समिष्टेष्व एव स्तोतव्यम् इति। औदुम्बरीं समारभन्त् - ऊर्ग् वा अन्नम् उदुम्बर - ऊर्जं एवान्नाद्यस्यावरुद्ध्यै। वाचं यच्छन्ति। वाग् वै ब्रह्म। वाचम् एव तद् ब्रह्म यज्ञम् आत्मसु यच्छन्ति। इह धृतिर् इह स्व धृतिर् मैरमो मैरमतिर् इति। यच् चित्तं या धृतिर् यन् मनो या वाक् तान्य् एवैतद् आत्मसु यच्छन्ति। यद् अस्तम् इते विसृजेरन्न् अहर् भ्रातृव्यलोकम् उच्छिंष्युः। यद् अनस्तम् इते विसृजेरन् रात्रिं भ्रातृव्यलोकम् उच्छिंष्युः। अर्धास्तम् इत आहवनीयं परेत्य विसृजन्ते। उभाभ्याम् एव तद् अहोरात्राभ्यां द्विषन्तं भ्रातृव्यम् अन्तर्यन्ति। उभाभ्याम् एवाहोरात्राभ्यां द्विषन्तं भ्रातृव्यम् अन्तरेति य एवं वेद। तद् उ वा आहुर् अस्तम् इत एव विसृज्यम्। अहोरात्रे वै परिवर्तमाने संवत्सरम् आप्नुतः। संवत्सरो यज्ञः। यज्ञम् एवैतद् आप्त्वा विसृजन्त - उपसृजन् धरुणं मात्रे मातरं धरुणो धयन् रायस् पोषम् इषम् ऊर्जम् अस्मासु दीधरत् स्वाहेति। स यथा न्योकसं गां संयुज्य प्रार्जयेद् एवम् एवैतद् वाचं च यजमानं च संयुज्य प्रार्जयन्ति। यथा हैनया वदति, तथैभ्यो ऽनपक्रमणी भवति। ते यं कामं कामयेरंस् तं ध्यायेयुः। स हैवैभ्यः कामस् समृध्यते। सुब्रह्मण्यया वाचं विसृजन्ते। ब्रह्म वै सुब्रह्मण्या। ब्रह्म वाक्। ब्रह्मणैव तद् वाचं विसृजन्ते

3.308

अग्निर् एव प्रथमम् अहर्, इन्द्रो द्वितीयं, प्रजापतिस् तृतीयं, बृहस्पतिश् चतुर्थं, मरुतः पञ्चमं, विश्वे देवाष् षष्ठं, वसवस् सप्तमं, रुद्रा अष्टमम्, आदित्या नवमं, प्रजापतिर् एव दशमम् अहः। इयम् एव दिक् प्रायणम्, इयम् उदयनम्। तस्माद् असाव् आदित्य इतो ऽस्तम् एतीत उदेति। एतद् एव प्रायणं चोदयनं चानुसंचरति। आशुस् त्रिवृद्, भान्तः पञ्चदशो, व्योम सप्तदशो, धरुण एकविंश, ओजस् त्रिणवः, प्रतिष्ठा त्रयस्त्रिंशो, ब्रह्म चतुर्विंशः, क्षत्रं चतुश्चत्वारिंशो, विवर्तो विशां स्तोमो ऽष्टाचत्वारिंशः, प्रजापतिर् एव दशमम् अहः

3.309

तद् यद् आशुस् त्रिवृद् इति, यथा क्षिप्रः पक्ष्य् एवम् एष यत् त्रिवृत् स्तोमः। अथ यद् भान्तः पञ्चदश इति क्षत्रं हि तत्। क्षत्रम् उ वै भाति। अथ यद् व्योम सप्तदश इति, प्रजापतिर् हि सः। प्रजापतिर् वै व्योम। अथ यद् धरुण एकविंश इत्य् असौ हि स आदित्यः। एतस्मिन् वा इदं सर्वं धृतम्। अथ यद् ओजस् त्रिणव इति, मरुतो हि सः। ओजो वै वीर्यं मरुतः। ओजो वीर्यं त्रिणवः। अथ यत् प्रतिष्ठा त्रयस्त्रिंश इत्य्, अन्तो हि सः। अथ यद् ब्रह्म चतुर्विंश इति। गायत्री हि सा। ब्रह्म वै गायत्री। अथ यत् क्षत्रं चतुश्चत्वारिंश इति त्रिष्टुब् भि सः। क्षत्रम् उ वै त्रिष्टुप्। अथ यद् विवर्तो विशां स्तोमो ऽष्टाचत्वारिंश इति, जगती हि सा। विड् वै जगती। विश उ वा इदं सर्वं विवर्तम्। अथ यत् प्रजापतिर् एव दशमम् अहर् इत्य् अनुष्टुब् भि सा। प्रजापतिर् वा अनुष्टुप्। इदम् एव प्रायणम्, इदम् उदयनम्। तस्माद् इत एव प्रयन्त्य् अत उद्यन्ति। अग्निर् एव प्रायणम्, आदित्य उदयनम्। अनुष्ठ्यैतं लोकं प्रजानन्न् एति य एवं वेद

3.310

गायत्रमुखो वै प्रथमस् त्र्यहः। तस्माद् अयम् अग्निर् अस्मिन् लोक ऊर्ध्वो दीदाय। गायत्रमध्यो द्वितीयस् त्र्यहः। तस्माद् अयं वायुर् अस्मिन्न् अन्तरिक्षे तिर्यङ् पवते। गायत्रोत्तमस् तृतीयस् त्र्यहः। तस्माद् असाव् अर्वाङ् आदित्यो दिवस् तपति। एता वै देवेषवः प्रणिहिता अनिशिता अनिलयन्तीर् एषु लोकेषु सर्वं पाप्मानम् अपसेधन्तीस् तिष्ठन्त्य् - अग्निः पृथिव्यां, वायुर् अन्तरिक्ष, आदित्यो दिवि। एता अस्य सर्वं पाप्मानम् अपघ्नत्यो यन्ति य एवं वेद। एताभिर् वै विजितिभिर् विविक्तिभिर् विजिता विविक्ता इमे लोका यथायथम्। यस्माद् एते समाने यज्ञक्रतौ सन्तो ऽथ नाना भवन्ति तस्माद् ध वै देवाः पितरो मनुष्यास् समाने लोके सन्तो ऽनुसंददर्शिरे। एताभिर् ह विजितिभिर् विविक्तिभिर् विजिता विविक्ता यथायथम्

3.311

प्रजापतिं प्रजास् ससृजानं मुखतः पाप्मासिनोत्। सो ऽकामयताप पाप्मानं हनीयेति। स एतं गायत्रमुखं प्रथमं त्रियहम् अपश्यत्। तेन मुखतः पाप्मानम् अपाहत। तं मध्यतो ऽसिनोत्। स एतं गायत्रमध्यं द्वितीयं त्रियहम् अपश्यत्। तेन मध्यतः पाप्मानम् अपाहत। तं पदोर् असिनोत्। स एतं गायत्रोत्तमं तृतीयं त्र्यहम् अपश्यत्। तेन पत्तः पाप्मानम् अपाहत। अप पाप्मानं हते य एवं वेद। स्वरान्तेन वै त्र्यहेण प्रजापतिर् मृत्योर् आत्मान् अत्रायत, निधनान्तेन प्रजाम्, इळान्तेन पशून्। एतावद् वावास्ति यद् आत्मा प्रजा पशवः। तद् यत् सद् अत्रायत तत् सत्रस्य सत्रत्वम् । त्रायत एनं सर्वस्मात् पाप्मनो य एवं वेद। स्वरान्तेन वै त्रियहेण प्राजपतिर् देवान् असृजत, निधनान्तेन पितॄन्, इळान्तेन मनुष्यान्। तद् यत् स्वरान्तेन देवान् असृजत तस्मात् ते ऽमृताः। अमृतेन हि तान् प्राणेनासृजत। अथ यन् निधनान्तेन पितॄन् असृजत तस्माद् उ ते निधनसंस्थाः। अथ यद् इळान्तेन मनुष्यान् असृजत - पशवो वा इळा - तस्माद् य एव पशुमान् भवति तं मनुष्या उपसमायन्ति

3.312

अथ ह कबन्ध आथर्वणे केशी दार्भ्य उवास। अथ ह तर्हि समूढान्य् एव छन्दांस्य् आसुर् न व्यूढानि। तस्मै ह कबन्ध आथर्वणः केशिने दार्भ्यायैतं व्यूढछन्दसं द्वादशाहं प्रोवाच - त्रिर् एव गायत्रीं तर्पयतात् त्रिस् त्रिष्टुभं त्रिर् जगतीम्। तवैव प्रजाया अन्ये जीवितम् अभिध्यातारो, न तव प्रजा इति। तेन हेजे। ततो ह वा इदम् अर्वाचीनं व्यूढानि छन्दांसि। तस्माद् अनाढ्यानाम् अपि सतां पञ्चालानाम् अभ्य् एवान्ये जीवितं ध्यायन्ति। तस्यैतौ श्लोकौ -
कस्माद् ऊर्ध्वा भूमेर् यन्ति सर्गाः कस्मात् तिर्यञ्चो ऽन्व् अन्तरिक्षम्।
कस्माद् अर्वाञ्चो दिव उत्तरस्यै सूर्यस्य रश्मीन् अनु यन्ति सृष्टाः॥
गायत्री त्रिवृत वसाना सा त्रिष्टुभं नुनुदे ऽन्तरिक्षात्।
सा जगतीम् आयतनाद् दिवो ऽधि तस्माद् अर्वाञ्चः प्रवहन्ति सर्गाः

3.313

वाग् वै यज्ञं ससृजाना साशनायत् सापिपासत्। तां देवा अर्वाग् यज्ञाहुत्यातितर्पयिषन्। तां नातर्पयन्। ताम् अर्वाक् सोमाहुतिहविर्यज्ञैर् अतितर्पयिषन्। तां नैवातर्पयन्। त एतं व्यूढच्छन्दसं द्वादशाहं यज्ञम् अपश्यन्। तम् आहरन्। तेनायजन्त। तत एनां छन्दांसि भूतां प्रार्जन्। ता अन्यान्यस्मै भागाय धेनुपरिसारम् अतृप्यन्। तस्मात् पशवो ऽन्योन्यस्य भागाय धेनुपरिसारं तृप्यन्ति। सातृप्यत्। स य एवम् एतां वाचश् च छन्दसां च तृप्तिं वेद तृप्यत्य आत्मना तृप्यत्य् अस्य प्रजा। देवा वै देवाश्वान् देवरथेषु युक्त्वेमान् लोकान् अभ्यारोहन्। छन्दांसि वाव देवाश्वा, स्तोमा देवरथाः

3.314

ते गायत्रीम् एव दक्षिणां युग्याम् अकुर्वत, त्रिष्टुभं सव्यां युग्यां, जगतीं सव्यां प्रष्टिम्। तेनेमं लोकम् अभ्यारोहन्। ते ऽब्रुवञ् ज्यायान् वा अध्वा विपर्यूहामेति। ते जगतीम् एव दक्षिणां युग्याम् अकुर्वत, गायत्रीं सव्यां युग्यां, त्रिष्टुभं सव्यां प्रष्टिम्। तेनेमम् अन्तरिक्षं लोकम् अभ्यारोहन्। ते ऽब्रुवञ् ज्यायान् वेवाध्वा व्य् एव पर्यूहामेति। ते त्रिष्टुभम् एव दक्षिणां युग्याम् अकुर्वत, जगतीं सव्यां युग्यां, गायत्रीं सव्यां प्रष्टिम्। तेनामुं लोकम् अभ्यारोहन्। एवं वै देवा देवाश्वान् देवरथेषु युक्त्वेमान् लोकान् अभ्यारोहन्। अभीमान् लोकान् आरोहति य एवं वेद

3.315

या ह खलु वै सपदा छन्दस् सा प्रथमम् अहर् उद्यच्छति, विपदा द्वितीयं, नाना पदा तृतीयम्, अनुपदा चतुर्थम्, अतिपदा पञ्चमम्, अभिपदा षष्ठम्। गायत्री वै सपदा। त्रिपदा वै गायत्री। त्रये इमे लोकाः। त्रिष्टुब् विपदा, एकादशाक्षराणि हि तस्यै पदानि। जगती नानापदा, द्वादशाक्षराणि हि तस्यै पदानि। अनुष्टुब् अनुपदा। अनुपदा हि सा गायत्र्या अक्षरैः। अष्टाक्षराणि वै गायत्र्यै पदान्य् अष्टाक्षराण्य् अनुष्टुभः। पंक्तिर् अतिपदा, पञ्चपदा हि सा। अतिछन्दा अभिपदाः। न हि एतावन्ति कस्यै चनाक्षराणि

3.316

प्रजापतिर् यद् बृहद्रथन्तरे ऽसृजत, स मन एवाग्रे बृहद् अअपश्यद्, वाचं रथन्तरम् अभि व्याहरत्। तद् यद् वाचं रथन्तरम् अभि व्याहरत् तस्माद् रथन्तरं पूर्वं योगम् आनशे। अथ यन् मनो ऽग्रे बृहद् अपश्यत् तस्माद् उ बृहद्रथन्तरे इत्य् आख्यायते। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद्, वाग् रथन्तरम्। ब्रह्म वै रथन्तरं, क्षत्रं बृहत्। तद् इदं मनो वाचम् अत्यमन्यत, क्षत्रं ब्रह्म। तद् इदं रथन्तरम् अवेद् अति वै मा मन्यतेति। तद् वैरूपम् असृजत। तेन पुरस्तात् पर्यवैत्। ते द्वे भूत्वात्यमन्येताम्। तद् इदं बृहद् अवेद् अति वै मा मन्यतेति। तद् वैराजम् असृजत। तेन पुरस्तात् पर्यवैत्। ते द्वे भूत्वात्यमन्येतां तद् इदं रथन्तरम् अवेद् अति वै मा मन्यतेति। तच् छाक्वरम् असृजत। तेन पुरस्तात् पर्यवैत्। तानि त्रीणि भूत्वात्यमन्यन्त। तद् इदं बृहद् अवेद् अति वै मा मन्यतेति। तद् रैवतम् असृजत। तेन पुरस्तात् पर्यवैत्। तानि त्रीणि भूत्वात्यमन्यन्त। ते ऽन्तम् अगच्छताम्। ते ऽवित्तां समे वै स्वो नान्यद् अन्यद् अतीति। तानि षट् पृष्ठान्य् आसंस्, त्रीणि छन्दांसि। तानीमानि त्रीणि छन्दांसि षट् पृष्ठानि नानुव्यभवन्

3.317

सा गायत्र्य् अनुष्टुभम् असृजत सा चतुर्थम् अहर् उदयच्छत्। तया चतुर्थम् अहर् अकल्पत। त्रिष्टुप् पंक्तिम् असृजत। सा पञ्चमम् अहर् उदयच्छत्। तया पञ्चमम् अहर् अल्पत। तानि षट् पृष्ठान्य् आसन्, षट् छन्दांसि। तानि द्वन्द्वम् अकल्पन्त। द्वन्द्वम् अस्मै प्रजाः पशवः कल्पन्ते य एवं वेद। गायत्र्या वै प्रथमम् अहस् तायते, त्रिष्टुभा द्वितीयं, जगत्या तृतीयम्, अनुष्टुभा चतुर्थं, पंक्त्या पञ्चमम्, अतिछन्दसा षष्ठम्। तस्माद् अतिछन्दसष् षष्ठे ऽहनि शस्यन्ते। तद् यथा वर्षिष्ठेन गम्भिष्ठे गाधम् इच्छेतैवम् एव तद् देवा अतिछन्दोभिष् षष्ठे ऽहनि गाधम् ऐच्छन्त्। अथो वै तर्हीच्छन्ते ऽथो षष्ठस्यैवाह्नो व्याप्त्या, उत्तरस्यो एव त्र्यहस्य सन्तत्या अव्यवच्छेदाय

3.318

आपो वा इदम् अग्रे महत् सलिलम् आसीत्। तस्मिन् प्रजापतिः प्रतिष्ठाम् ऐच्छत्। स एत वैश्वानरं प्रायणीयम् अतिरात्रम् अपश्यत्। तम् उपादधात्। इमम् एव लोकम् अस्मिन् सलिले ऽधि तम् अप्रथयत्। यद् अप्रथयत् तस्मात् पृथिवी। तस्मिन्न् अधि प्रत्यतिष्ठत्। तद् वै तम इवासीत्। रात्री ह्य् अह्न् उत्तरा। स एतत् त्रिवृतम् अग्निष्टोमम् अपश्यत्। तम् उपादधाद् इमम् एवाग्निम् अस्यां पृथिव्याम् अधि। तेन ज्योतिषेमान् लोकान् प्रापश्यत्। स एतान् अष्टाव् उक्थ्यान् अष्टातयान् पशून् दिशो ऽनुव्यतनोद् वामदेव्यम् अन्तरिक्षम्, आदित्यम् एव दशमम् अहर्, अमुम् एव लोकम् उत्तरम् अतिरात्रम्। स एतां व्याप्तिं व्याप्नोत्। इदं सर्वम् अभवत्। एताम् एव व्याप्तिं व्याप्नोतीदं सर्वं भवति य एवं वेद। ऋतवो वै पृष्ठ्यष् षडहो, अर्धमासा मासा अहोरात्राणि छन्दोमा, इमाव् एव लोकाव् अतिरात्रौ। अथ याव् एताव् अन्तराव् अग्निष्टोमाव् इन्द्राग्नी एव तौ। तद् यन् नेदीयस् सत् कनीयस्तोमं पूर्वम् अहस् तस्माद् अयम् अग्निर् नेदीयस् सन् म्रदीयस्(?) तपति। अथ यस्माद् दवीयस् सन् ज्यायस्तोमम् उत्तमम् अहस् तस्माद् असाव् आदित्यो दवीयस् सन्न् ओजीयस् तपति। यो वै सर्वं द्वादशाहम् आत्मानम् अभि संपद्यमानं वेद सर्व एनं कामा अभि संपद्यन्ते

3.319

पदोर् एव प्रतिमा पूर्वो ऽतिरात्रः नव पुरुषे प्राणाः। स त्रिवृत्। त्रिवृत् प्रायणीयम् अहः। तेन तत् संपन्नम्। दश हस्त्या अंगुलयश् चत्वार्य् उरोर् बाह्वाणि। यद् ऊर्ध्वं नाभेस् तत् पञ्चदश। पञ्चदशं द्वितीयम् अहः । तेन तत् संपन्नम्। दश हस्त्या अङ्गुलयस्, सप्त शीर्षन् प्राणाः। तत् सप्तदश। सप्तदशं तृतीयम् अहस् तेन संपन्नम्। दश हस्त्या अंगुलयो दश पद्या आत्मैकविंशः। एकविंशं चतुर्थम् अहः। तेन तत् संपन्नम्। दश हस्त्या अङ्गुलयो, दश पद्या, सप्त शीर्षन् प्राणाः। तत् सप्तविंशतिः। सप्तविंशं पञ्चमम् अहः। तेन तत् संपन्नम्। दश हस्त्या अङ्गुलयो, दश पद्या, दश प्राणा, मनो वाग् घृदयं, तत् त्रयस्त्रिंशत्। त्रयस्त्रिंशं षष्ठम् अहः । तेन तत् संपन्नम्। प्राणा एव सप्तमम् अहर् गायत्रम्। चक्षुर् एवाष्टमम् अहस् त्रैष्टुभम्। श्रोत्रम् एव नवमम् अहर् जागतम्। वाग् एव दशमम् अहर् आनुष्टुभम्। अथ यद् ऊर्ध्वं श्रोत्राभ्यां तद् उत्तरो ऽतिरात्रः। प्राण एव पूर्वो ऽतिरात्र, उदान उत्तरः। तौ प्रायणीयोदयनीयाव् इति परोक्षम् आचक्षते। प्रति प्राणापानयोस् तिष्ठति, न प्राणापानाभ्यां व्यथते, सर्वम् आयुर् एत्य् , एवं वै सर्वो द्वादशाह आत्मानम् अभिसंपद्यते, सर्व एनं कामा अभिसंपद्यन्ते, य एवं वेद

3.320

विषुवत्कं वा एतत् सत्रं यद् द्वादशाहः। स य एतस्य सत्रस्य विषुवन्तं वेद - श्रीर् वै विषुवान् - विषुवान् श्रेष्ठ स्वानां भवति। पुरुषो ह वा एतस्य सत्रस्य विषुवान्। पुरुषो ह्य् एषां लोकानां विषुवान्। इमे वै लोका एष द्वादशाहो, ऽहम् अस्य सत्रस्य विषुवान् अस्मीत्य् एव मन्यमान एतेन द्वादशाहेन यजेत। तस्य हैतस्मिन्न् एव सत्रे विषुवान् उपेतो भवति। स वा एषो ऽहन्न् एव प्रतिष्ठितः। प्रायणीयम् अहर् द्वितीयम् अहस् तृतीयम् अहर् इत्य् अहर् अहर् इति भवति। असौ वा आदित्यो ऽहः। एतम् एवैतेनर्ध्नुवन्त्य् एतस्य सलोकतां गच्छन्ति

3.321

प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां प्रजायेय भूमानं गच्छेयम् इति। सो ऽष्टादशैवाक्षराणि प्रजायत। तानि द्वेधा व्यौहन् नवान्यानि नवान्यानि। स एव त्रिवृच् च स्तोमो ऽभवत् गायत्री च छन्दः। सो ऽयं संपूर्णस् त्रिवृत् स्तोम आसीद्, अथ गायत्री प्रणवनवमासीत्। प्रणवस् तस्यै नवम् आसीत्। ताम् अयं त्रिवृत् स्तोमो ऽब्रवीद् गायत्रीम् एहि संभवावेति। तौ समौ सन्तौ नाशक्नुतां संभवितुम्। ताम् अब्रवीन् न वैतर्हि शक्ष्यावस् समौ सन्तौ संभवितुम् । यत् त एतन् नवमम् अक्षरं तद् उदूहस्वेति। तत् किं भविष्यति। यद् एवास्ति तद् भविष्यतीति। तथेति। तद् उदौहत। स एव प्रणवो ऽभवत्

3.322

स प्रतिगरस् स उद्गीथस् तद् आश्रावणम्। तस्माद् ओम् इति प्रणौत्य् ओम् इति प्रत्यागृणात्य् ओम् इत्य् उद्गायत्य् ओम् इत्य् आश्रावयति। एतद् वा अस्ति यद् अभवत्। ताम् अब्रवीद् एतर्हि वै तस्मा अलं स्वो यत् प्रजनयेवेहि प्रजनयावेति। ताम् अब्रवीत् संभव छन्दांसि त्वं प्रजनयतात् स्तोमान् अहं प्रजनयिष्यामीति। सो ऽयं त्रिवृत् स्तोमश् चतुर्विंशतिं स्तोत्र्याः प्राजनयत्। अथ गायत्री चतुर्विंशतिम् अक्षराणि प्रजायत। ताम् अब्रवीद् विभव यावत्य् असि तावत्य् एधीति। साष्टाक्षरा सत्य् अक्षराणि त्र्यक्षराण्य् अकुरुत। तानि चतुर्विंशतिर् अभवन्। चतुर्विंशतिः पूर्वाणि। तद् अस्या अष्टाचत्वारिंशत् प्रजातम् आसीत्। सेयं गायत्री चत्वार्य् अक्षराण्य् आदत्त। सोष्णिग् अभवत्। षड् इतर आदत्त -

3.323

- स पञ्चदश स्तोमो ऽभवत्। चत्वारीयम् आदत्त। सानुष्टुब् अभवत्। षड् इतर आदत्त। स एकविंश स्तोमो ऽभवत्। चत्वारीयम् आदत्त। सा बृहत्य् अभवत्। षड् इतर आदत्त। स त्रिणव स्तोमो ऽभवत्। चत्वारीयम् आदत्त। सा पंक्तिर् अभवत्। षड् इतर आदत्त। स त्रयस्त्रिंश स्तोमो ऽभवत्। तद् एषो ऽन्तम् अगच्छत्। चत्वारीयम् आदत्त। सा त्रिष्टुब् अभवत्। अपराणि चत्वार्य् आदत्त। सा जगत्य् अभवत्। ताव् अन्तम् अगच्छताम्। ताम् अब्रवीन् न वा अतः पराञ्चौ प्रजनयिष्याव, एहि, यावदक्षरैवाग्रे ऽभूस् तावदक्षरा भूत्वेति। साष्टाक्षरैव भूत्वै(त्)। तस्माद् एतत् पतिर् यथाकामं जायां नेनीयते

3.324

तौ पञ्चदशं चैकविंशं च व्यूह्य मध्ये समभवताम्। स एवैष प्रजापतिस् सप्तदशो ऽन्नाद स्तोमो ऽभवत्। तस्मै त्रिवृत्पञ्चदशाव् इत स्तोमौ बलिं कुरुत, एकविंशस् त्रिणवस् त्रयस्त्रिंशः परस्तात्। ताम् अब्रवीत् संभवं छन्दांसि त्वं प्रजनयतात्, स्तोमान् अहं प्रजनयिष्यामीति। सो ऽयं त्रिवृत् स्तोमश् चतुष्टोमं चतुर्दशं षोडशम् अष्टादशं नवदशं पञ्चविंशं षट्त्रिंशम् इत्य् एतान् मृगस्तोमान् प्राजनयत्। अथ गायत्री एकपदां द्विपदाम् अक्षरपंक्तिं विष्टारपंक्तिं विराजम् अतिच्छन्दसम् अमितं छन्द इत्य् एतानि मृगच्छन्दसानि प्राजायत। सैषा स्तोमानां च छन्दसां च प्रजापतिः। तद् ध शौनकं कापेयं चैकितानेयः पप्रच्छ - यत् षडुत्तरेण वै स्तोमाः प्रजनयन्ति, चतुरुत्तरेण छन्दांस्य्, अथ को ऽयम् अषडुत्तरी स्तोमस् सप्तदश आक्षिस् सन् मध्ये व्यवहित इति। स होवाच - स्तोमाश् च छन्दांसि च यन् न प्रजायन्त स एवैष प्रजापतिस् सप्तदशो मध्ये व्यवक्रम्य प्रजनयन्न् अतिष्ठत्। स यो वा एतम् आक्षितं वेदाक्षिद् वै स सर्वत्रैव भवति। अनाक्षिद् वा एष यत् प्रजापतिः। सर्वं हीदं प्राजापत्यम् इति। ते हैत आक्षित इव चैकितानेयाः। तानीमानि छन्दांसि स्तोमैर् अकल्पन्त

3.325

त्रिवृता गायत्र्य् अकल्पत, पञ्चदशेन त्रिष्टुप, सप्तदशेन जगत्य्, एकविंशेनानुष्टुप्, त्रिणवेन पंक्तिस्, त्रयस्त्रिंशेन विराट्, पञ्चविंशेन बृहत्य्, अष्टादशनवदशाभ्याम् उष्णिक्ककुभौ। ता या नव गायत्र्यश् चतुर्विंशतिस् ते त्रिवृतः। अथ या पञ्चदश त्रिष्टुभश् चतुश्चत्वारिंशत् ते पञ्चदशाः। अथ यास् सप्तदश जगत्यो ऽष्टाचत्वारिंशत् ते सप्तदशाः। अथ या एकविंशतिर् अनुष्टुभो द्वात्रिंशत् त एकविंशाः। अथ यास् सप्तविंशतिः पंक्त्यश् चत्वारिंशत् ते त्रिणवाः। अथ यास् त्रयस्त्रिंशद् विराजस् त्रिंशत् ते त्रयस्त्रिंशाः। अथ याः पञ्चविंशतिर् बृहत्यष् षट्त्रिंशत् ते पञ्चविंशाः। अथ या अष्टादशनवदशोष्णिक्ककुभो ऽष्टाविंशतिस् ते ऽष्टादशनवदशाः

3.326

एकं वावेदम् अग्रे ऽक्षरम् आसीद् वाग् एव। साकामयत - बह्वय् असानि, प्रजायेय, भूमानं गच्छानि, यज्ञं तनवा इति। सा स्वाहा स्वाहा स्वाहेत्य् एव द्वादशकृत्वो ऽजुहोत्। सा त्रिंशतम् एवासिनोत्। त्रिंशदक्षरो एवात्मनाभवत्। तस्यै पश्चेवाक्षरे उपोदसर्पताम्। सैवैषानुष्टुब् अभवत्। तस्माद् एतद् योषितः पश्चेव स्तनाव् उपोत्सर्पतः। सैषा विराड् एव स्तनिनी। सा यत् तद् द्वादशकृत्वो ऽजुहोद् एतान् एव तद् द्वादश मासो ऽसृजत। तान्य् एवैतानि द्वादशाहस्य द्वादशाहान्य् अभवंस्, त एव चतुर्विंशतिर् अर्धमासा अभवंस् तान्य् एव सप्त च शतानि विंशतिं चाहोरात्राण्य् अभवन्। सैतं संवत्सरं यज्ञम् असृजत। एष ह वाव यज्ञो यस् संवत्सरः। सा नावेद् - यज्ञं वा असृक्षीति। किम् उ चिद् असृक्षीत्व् एवामन्यत। तां मोदः प्रत्यागच्छत्। ततो ऽवेद् - यज्ञं वा असृक्षीति। सैक्षत - यम् इमं यज्ञम् असृक्षि हन्तैनम् आत्मन एवाधि तनवा इति

3.327

साष्टाभिर् एवाक्षरैः प्रथमम् अहर् अतनुत, एकादशभिर् द्वितीयं, द्वादशभिस् तृतीयम्। अक्षरम् एव त्र्यक्षरं पर्यशिष्यत। तद् एवोत्तरं त्र्यहम् अनुव्यदधात्। सैतं पृष्ठ्यं षडहम् अतनुत। सैतं पृष्ठ्यं षडहं तत्वैक्षत केन न्व् इमं तृतीयं त्र्यहं तन्वियेति। स्वात्मानम् एवापश्यत्, यो न्वाव मे ऽसाव् आत्मा सो ऽयम्। हन्तैनम् आत्मन् एवाधि तनवा इति। साष्टाभिर् एवाक्षरैस् सप्तमम् अहर् अतनुतैकादशभिर् अष्टमं, द्वादशभिर् नवमम्। अथ यद् अक्षरं पर्यशिष्यत तद् एवैतद् द्वादशाहस्य दशमम् अहर् अभवत्। सैषा श्रान्ता विकृष्टाशये वाग् यज्ञम् ऊहिषी कालिलिमत्ता यथा सिंही वा विजाता स्याद् व्याघ्री वा शिंशुमारी वैवम्। तां यद् एतर्हि प्रत्यक्षम् आलभेरन् व्याप्तम् अस्या आपद्येरन्। यद्य् उ वा सा इयुर् एतस्मात् सर्वस्माद् इयुः। ताम् एतां परोक्षम् अनुष्टुभं कुर्वन्ति

3.328

न होता चनानुष्टुभश् शंसति, विराज एव स शंसति। ते देवा अब्रुवन्न् इयम् इयं यज्ञम् असृष्टैतानन यजामहा इति। ते बृहद्रथन्तराभ्याम् अस्तुवत। ते बृहद्रथन्तरे एते एव प्रथमे अहनी ऊढ्वा नाकामयेतां वोढुम्। ते बृहतीम् अब्रुवन्न् इदं नस् त्वं तृतीयम् अहर् वह। अभिजितं वै नस् सत् तद् अव्याप्तम् इति। सद् ध वै बृहती भवति यत् सा पृष्ठं भवति। सैतद् बृहती तृतीयम् अहर् ऊढ्वा नाकामयत वोढुम्। त इमम् एव लोकं रथन्तरेणाजयन्न् अन्तरिक्षं बृहत्यामुं बृहता। त एतेन त्र्यहेण व्यजयन्त। तद् यथा विजितेन यन्ति सैन्धवान् अजन्ति हस्तिनं वहन्ति धूर्गृहीतं रथं याति हुलुभ्यां याति विच्छिद्वहाभ्याम् एवं गर्दभरथेन । एवम् एतं द्वितीयं त्र्यहं देवा अत्यायन्

3.329

ते बृहद्रथन्तरे एतानि रूपाणि प्रत्यौहतां वैरूपं वैराजं महानाम्नी रेवतीर् इति। अथ बृहती प्रत्यौहद् विराजं शक्वरीं रेवतीम् इति। तानीमान्य् अत्यायन्। तानि देवा अन्वपश्यन् यथा मत्स्यम् ऊर्म्या यन्तम् अनुपश्येद् एवम्। तानि सप्तमे ऽहन् समुदमज्जन् यथा मत्स्यास् समुन्मज्जयुर् एवम्। तान्य् एतानि छन्दोमेषु सर्वाणि रूपाणि संसृज्यन्ते। एतद् बृहत्यां बृहद् भवति, बृहत्यां रथन्तरम्। स यथोग्रगाधे संरभ्यातीयाद् एवम् एवैतं तृतीयं त्रियहं देवा अत्यायन्। त एतं स्वर्गं लोकम् आगच्छन्न् एतद् दशमम् अहः। एष वाव स्वर्गो लोको यद् दशमम् अहः। तच् चतुर्विंशं भवति। ततो या विंशतिर् विराट् सा। अथ याश् चतस्रस् तद् एव ब्रध्नस्य विष्टपम्। तस्मिन्न् एतद् देवास् सर्वान् कामान् दुह्रे। उपसृजन् धरुणं मात्रे मातरं धरुणो धयन् रायस् पोषम् इषम् ऊर्जम् अस्मासु दीधरत् स्वाहेति जुहोति। स यं कामं कामयेत तं ध्यायेत्। एतस्यां हुतायां स हैवास्मै कामस् समृध्यत एवंविदे। किम् उ नैवंविदे समृध्येतेति ह स्माह शाट्यायनिः

3.330

एति प्रेत्य् आशुमद् वीतीमद् रुक्मवत् तेजस्वद् युञ्जानं प्रथमस्याह्नो रूपं, त्रिवृत स्तोमस्य, गायत्र्यै छन्दसो, रथन्तरस्य साम्नः। वृषवद् वृत्रहवद् रयिमद् विश्ववद् उपस्थितं द्वितीयस्याह्नो रूपं, पञ्चदशस्य स्तोमस्य, त्रिष्टुभश् छन्दसो, बृहतस् साम्नः। उद्वत् त्रिवद् दिग्वद् गतवत् पुराणवत् तृतीयस्याह्नो रूपं, सप्तदशस्य स्तोमस्य, जगत्यै छन्दसो, वैरूपस्य साम्नः। राजन्वज् जनद्वद् विराट्सूर्यवच् चतुर्थस्याह्नो रूपम्, एकविंशस्य स्तोमस्य, अनुष्टुभश् छन्दसो, वैराजस्य साम्नः। चित्रवच् छिशुमत् पंक्त्यश् शक्वर्यो व्यूनाक्षरा गोमद् वृषभवद् वज्र्यभिमत् पञ्चमस्याह्नो रूपं, त्रिणवस्य स्तोमस्य, पंक्तेश् छन्दसश्, शाक्वरस्य साम्नः। परिवत् प्रतिवत् सप्तपदा द्विपदा विनाराशंसं गोमद् वृषभवद् वज्र्यभिमत् षष्ठस्याह्नो रूपं, त्रयस्त्रिंशस्य स्तोमस्यातिच्छन्दसश् छन्दसो, रैवतस्य साम्नः

3.331

यस्माद् एषा समाना सती षडहविभक्तिर् अथ नाना भवति, तस्मान् नानारूपस् संवत्सरो नानारूपम् एनम् अनु प्रजायते। अग्न इति प्रथमस्याह्नो विभक्तिर्, अग्निम् इति द्वितीयस्याग्निनेति तृतीयस्याग्निर् इति चतुर्थस्याग्नेर् इति पञ्चमस्याग्न इत्य् एव पुनष् षष्ठस्य। ताव् एताव् अन्तौ संधत्त। एतद् अन्व् अनन्तस् संवत्सरः। तस्यैताव् अन्तौ यद् धेमन्तश् च वसन्तश् च। एतद् अनु ग्रामस्यान्तौ समेत, एतद् अनु निष्कस्यान्तौ समेत, एतद् अन्व् अहिर् भोगान् पर्याहृत्य शये। तद् एतद् अन्नम्। तं देवचक्रम् अक्षितं पुनर्नवम् आ च परा च परिवर्तते। स य एतद् एवं वेदैताम् एवानन्तताम् एताम् अक्षितिम् एतां पुनर्नवताम् जयति। अग्न आ याहि वीतय इति ह्वयन्त्य् एवैनम् एतेन, अग्निं दूतं वृणीमह इति वृणत एवैनम् एतेन। अग्निनाग्निस् सम् इध्यत इति सम् एवैनम् एतद् इन्धते। अग्निर् वृत्राणि जंघनद् इति व्य् एवैनेनैतज् जयन्ते। तव श्रियो वर्ष्यस्येव विद्युत इति श्रियम् एवास्मिन्न् एतद् दधति। यो वै षष्ठस्याह्नो विभक्तिं वेद सर्वम् आयुर् एति। जातवेदस इति वै षष्ठस्याह्नो विभक्तिर् अग्न इति च। सर्वम् आयुर् एति य एवं वेद

3.332

देवा वै पृष्ठ्ये षडहे श्रियम् ऐच्छन्। ताम् अग्न इति प्रथमे ऽहन् नान्वविन्दन्। ताम् अग्निम् इति द्वितीय ऽहन् नान्विन्दन्। ताम् अग्निनेति तृतीये ऽहन् नान्वविन्दन्। ताम् अग्निर् इत्य् एव चतुर्थे ऽहन्न् अन्विन्दन्। भूतम् एवोत्तरे ऽन्ववदताम्। यस्माद् एषा समाना सत्य् अग्निविभक्तिर् अथ नाना भवति, तस्मात् समानस् सन् संवत्सरो नाना सस्यानि पचति। एतैर् ह वा एतद् अग्निभिः पचति य एते प्रविष्टाः। अथो हास्यैतैर् एवाग्निभिस् सर्व ऋतवो ऽग्निमन्तो भवन्ति। प्रसृतेळा प्रथमस्याह्न, ऊर्ध्वेळं द्वितीयं, परिष्टुब्धेळं तृतीयम्, इळाभिर् इळं चतुर्थम्, अध्यर्धेळं पञ्चमम्, इहकारेणाभ्यस्तेळं षष्ठं च। अथो ह वास्यस्को नैमिशीयान् पप्रच्छ - किं प्रथमेनाह्ना कुरुध्वम् इति। प्रैमेति। किं द्वितीयेनेति। अवसं कुर्महा इति। किं तृतीयेनेति। परि वा प्लवामहा इति। किं चतुर्थेनेति। सता सद् अप्यदध्मेति। किं पञ्चमेनेति। पशून् विच्छिन्दन्त ऐमेति। किं षष्ठेनेति। आगच्छामेति होचुः। अथो तेभ्य एवैतत् पशुभ्यो भिषज्यामेति। तद् यत् प्रैमेति प्रव वा एतत् सार्यते यत् प्रैति। प्रसृतेळा प्रथमस्याह्नः

3.333

अथ यद् अवसं कुर्म इत्य् उपरत्येव वा उपविमुच्येवावसं कुर्वते। उपरत्येव हि द्वितीयस्याह्न इळा निधनं गच्छति। अथ यत् परि वा प्लवामहा इति परिप्लुत्येव हि तृतीयस्याह्न इळानिधनं गच्छति। अथ यत् सता सद् अप्यदध्मेतीळाभिर् इळाः पशुभिः पशूंस् तत्। तद् एतत् सता सद् अपिहितम्। अथ यत् पशून् विच्छिन्दन्त ऐमेति विच्छिन्नेव वा एषा यद् अध्यर्धेळान्नकृता। पशवो वा इळा। तस्मात् पशून् विच्छेदं विकारं भुञ्जते। अथ यद् आगच्छामेतीहेत्यस्याम् एवैतत् प्रत्यतिष्ठन्। अथो तेभ्य एवैतत् पशुभ्यो भिषजितम्। यस्माद् एषा समाना सतीळाविभक्तिर् अथ नाना भवति, तस्मान् नानारूपाः पशवः। नानारूपम् एनान् अनु प्रजायते। यद् ऋचारभते तत् प्रथमस्याह्नो रूपम्। परिष्टुब्धं द्वितीयस्योभयतःपरिष्टुब्धं तृतीयस्यानुतुन्नं चतुर्थस्याभ्यस्तं पञ्चमस्येहकारेणाभ्यस्तं षष्ठस्य। यस्माद् एषा समाना सती स्वरविभक्तिर् अथ नाना भवति तस्माद् अयं वायुर् यथर्तु पवत - शीतो हेमन्तम्, उष्णो ग्रीष्मम्। इन्द्रेति प्रथमस्याह्नो विभक्तिर् इन्द्रम् इति द्वितीयस्येन्द्रेणेति तृतीयस्येन्द्र इति चतुर्थस्येन्द्राद् इति पञ्चमस्येन्द्र इत्य् एव पुनष् षष्ठस्य। यस्माद् एषा समाना सतीन्द्रविभक्तिर् अथ नाना भवति तस्माद् असाव् आदित्यो यथर्तु तपति - शीतो हेमन्तम्, उष्णो ग्रीष्मम्

3.334

इति हैवेदम् अग्र आस। तद् अकामयत (बहु) स्यां प्रजायेय भूमानं गच्छेयम् इति। तन् मनो अमनुत। तस्य द्वितीयं वित्वावितराह्वयम् ऐत। तस्माद् द्वितीयं वित्वावितराह्वयम् एति। तद् अनेन मनसा सहातप्यत। मनो ह वाव तपः। तत् तप्यमानं वाचम् असृजत। ताभ्याम् अस्तुत स्तो मे स्तो म इति। यत् स्तो म इत्य् अब्रवीत् तत् स्तोमस्य स्तोमत्वम्। स्तुवत एनेन स्वा अयं न श्रेष्ठ इति य एवं वेद। ताव् एवैतौ स्तोमाव् अभवतां पराङ् च पूर्वाङ् च। तौ प्राणापानौ, ते ऽहोरात्रे, तौ पूर्वपक्षापरपक्षौ, ताव् इमौ लोकौ, ताव् इन्द्राग्नी, तौ मित्रावरुणौ, ताव् अश्विनौ, तद् दैव्यं मिथुनं, यद् इदं किं च द्वन्द्वं तद् अभवताम्। तौ ह स्म प्रजापताव् एवान्तस् संभवतः। तद् इदं मनो वाचम् अस्कन्दत्। स हिरण्मयो गर्भो ऽधीयतामृतः। एष वै मृत्युर् यद् अग्निः। तस्मिन् यद् धिरण्यं प्रास्यन्ति कल्याणतरं भवति। सो ऽयं गर्भो ऽजायत। तं जातम् अमृजन् यथा वत्सं जातं माता लिह्याद् एवम्

3.335

तस्य यत् प्रथमम् उल्बम् अपालुम्पंस् तत् कृष्णायस् समभवत्। यद् द्वितीयम् उल्बम् अपालुम्पंस् तद् रजतम् अभवत्। यत् तृतीयम् उल्बम् अपालुम्पंस् तद् धरितम् अभवत्। तस्मात् तत् त्विषिमत्तमम्। तत् तद् ध्य् अस्याध्यात्मम् आसीद् अथ यज् जरायु नाड्याम् आसीत्। तल् लोहम् अभवत्। अथ यत् कुमारो जायमानो वा जातो वा सीसवं करोति तद् एव सीसम् अभवत्। तस्मात् तद् दुर्गन्धितमम्। तानि सप्तदशैवाक्षराण्य् अजायन्त। तानि द्वेधा व्यौहन् नवान्यान्य् अष्टाव् अन्यानि। स एव त्रिवृच् च स्तोमो ऽभवत् गायत्री च छन्दः। स ऐक्षतायं स्तोम इदं छन्द इमौ वाव तस्मा अलं यत् प्रजनयेताम्। हन्तेमाव् एव प्रजनयतम् इति ब्रवाणीति। स त्रिवृता स्तुत्वाब्रवीद् गायत्रीं - विभव, यावत्य असि तावत्य् एधीति। साष्टाक्षरा सत्य् अक्षराणि त्र्यक्षराण्य् अकुरुत। तानि चतुर्विंशतिर् अभवन्। सो ऽस्यै गायत्र्यै चतुर्विंशत्यक्षरायै षड् अक्षराण्य् आदत्त

3.336

स पञ्चदश स्तोमो ऽभवत्। अपरे द्वे आदत्त। स सप्तदश स्तोमो ऽभवत्। अपराणि चत्वार्य् आदत्त। स एकविंश स्तोमो ऽभवत्। तद् अर्धेन गायत्री विषुवन्तम् अगच्छत्। अपराणि षड् आदत्त। स त्रिणव स्तोमो ऽभवत्। अपराणि षड् आदत्त स त्रयस्त्रिंश स्तोमो ऽभवत्। सो ऽतः पराचीनं न प्राविन्दत्। स ऐक्षतेमान्य् एव वीर्याणि संस्तुतानि प्रत्यपधावानि द्वे द्वे ऽहनी समस्यानीति

3.337

स त्रिवृच् च पञ्चदशं च समास्यत्। तद् एव चतुर्विंशं सप्तमम् अहर् अभवत् गायत्री छन्दसाम्। तस्माद् अत्रोभे बृहद्रथन्तरे क्रियेते। उभो ह्य् एतौ बार्हतराथन्तरौ स्तोमौ। रथन्तरं वै मात्रायाम् अत्र स्याद्, अथ बृहत् पृष्ठं क्रियते। सप्तदशं च त्रिणवं च समास्यत्। तद् एव चतुश्चत्वारिंशम् अष्टमम् अहर् अभवत् त्रिष्टुप् छन्दसाम्। तस्माद् अत्र रथन्तरं पृष्ठं क्रियते। उभौ ह्य् एतौ राथन्तरौ स्तोमौ। बृहद् वै मात्रायाम् अत्र स्याद्, अथ रथन्तरं पृष्ठं क्रियते। एकविंशं च त्रयस्त्रिंशं च समास्यत्। ततष् षड् अक्षराण्य् अत्यरिच्यन्त। अथ यान्य् अष्टाचत्वारिंशत् पर्यशिष्यन्त तद् एवाष्टाचत्वारिंशं नवमम् अहर् अभवत्, जगती छन्दसाम्। तस्माद् अत्र बृहत् पृष्ठं क्रिय ते। उभौ ह्य् एतौ बार्हतौ स्तोमौ, रथन्तरं वै मात्रायाम् अत्र स्याद्, अथ बृहत् पृष्ठं क्रियते

3.338

तानीमानि षडक्षराण्य् अभिहिङ्करोत्। ततष् षण् णिरमिमीत। तानि द्वादशाभवन्। तानि पुनर् एवाभिहिंङ्करोत्। ततष् षण् णिरमिमीत। तान्य् अष्टादशाभवन्। तानि पुनर् एवाभिहिंङ्करोत्। ततष् षण् णिरमिमीत। तानि चतुर्विंशतिर् अभवन्। तद् एव चतुर्विंशं दशमम् अहर् अभवद् अनुष्टुप् छन्दसाम्। तस्माद् उ त्रिहिंकृतं साम। तद् आहुर् अति त्रिवृतं स्तोमा यन्ति, न गायत्रीं छन्दांसीति। नाहैव त्रिवृतं स्तोमा अतियन्तीति ब्रूयान् नो गायत्रीं छन्दांसीति। त्रिप्रायणा हि स्तोमास् त्रिमध्यास् त्र्युदयाः। एतद् उ गायत्रीं सर्वाणि छन्दांसि नातियन्ति। तद् एतद् त्रिवृतश् चैव स्तोमस्य पुष्टं गायत्र्यै छन्दसो यद् एष द्वादशाहः। तद् ब्रह्म वै गायत्री। क्षत्रं त्रिवृत्। यत् स वज्रस् तेन क्षत्रम्। तद् एतत् ब्रह्म च क्षत्रं चैष द्वादशाहः। तद् उ वा आहुर् ब्रह्म वै त्रिवृद्, ब्रह्म गायत्री, ब्रह्मैष द्वादशाहो, ब्रह्मैवैष सर्वो द्वादशाह इत्य् एव वेदितव्यम्। तस्यैतौ श्लोकौ -
चत्वारो ऽग्रे प्र वहन्ति युक्तास् ते षड् भवन्ति परमे व्योमन्।
ते द्वौ द्वौ भूत्वा प्र पतन्ति पक्षैस् ते ऽस्मिन् कस्मिन् प्रतितिष्ठन्ति गत्वा॥
द्वौ स्तोमौ गायत्रीं वसाते द्वौ त्रिइष्टुभं जगतीं द्वौ वसाते।
तेभ्यो महत् प्र रिरिचेति षड्भ्यस् तस्मिन् सर्वे प्रतितिष्ठन्ति गत्वा

3.339

प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत बहु स्यां प्रजायेय भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स एतं व्यूढछन्दसं द्वादशाहं यज्ञम् अपश्यत् । तम् आहरत्। तेनायजत। तं व्यौहत्। यद् व्यौहद् अङ्गान्य् एव तद् व्यौहत्। तस्य यानि शरीराण्य् आसंस् ता एवेमा मर्त्यः प्रजा अभवन्। अथात्मा मनोमयस् समभवत्। तस्य मनश् शरीरं प्राणा अभि समविशन्। स व्यूढ इवासीत्। स देवान् अब्रवीत् शरीरं म इच्छतेति। कथं त इच्छाम इति। समूढछन्दसा द्वादशाहेन याजयतेति। तथेति। तं समूढछन्दसा द्वादशाहे(ह?)नायाजयन्। तद् यत् समौहन्न् अंगान्य् एवास्य तत् समौहन्

3.340

स मनोमयः प्राणमयश् चक्षुर्मय श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतः प्रजापतिस् समभवत्। एषैव विद्युत्। स एष एव त्रयो वेदः। योर्ध्वा विद्युत् तानि सामानि, या तिरश्ची ता ऋचो, यद् अभीक्ष्णं मन्मलायति तद् यजुः। स य एतद् एवं वेदैषैव देवता भवति। एषा ह वै देवता संस्तुतो यज्ञो भवति। तद् यत् पृच्छेयुः का देवता संस्तुतो यज्ञो भवतीति, विद्युद् इति ह ब्रूयात्। एषा ह वै देवता संस्तुतो यज्ञो भवति। तस्माद् यदि व्यूढछन्दसा द्वादशाहेन यजेत। यजेतो एव समूढछन्दसा। उभाभ्यां ह त्वावेष्टं भवत्य् एवंविदः

3.341

एका ह वाव देवता स्वयंभूः प्रजापतिर् एव। सो ऽकामयत बहु स्यां प्रजायेयेति। सो ऽस्मिन् लोके त्रिवृता स्तोमेन देवान् असृजत वसून्। तम् अभि समपतन्। स्वादु स्वादुर् इति तम् आदन्। तम् अधयन् यथा वत्सो जातो मातरं धयेद् एवम्। स ऐक्षत यदि वा इह भविष्यामि क्षेष्यन्ति मा, हन्तोर्ध्व उत्क्रामाणीति। स उ वा ऐक्षत हन्तो नु संसृजेय यं मां मन्यमाना यं पश्यन्तीर् इमा इहोपरमेरन्न् इति। सो ऽग्निम् असृजत

3.342

तम् अस्मिन् लोके प्रतिनिधाय पञ्चदशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष वायुः। तत् तद् व् असृजतो एव रुद्रान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। स वायुम् एवैतस्मिन् लोके प्रतिनिधाय सप्दशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष चन्द्रमाः। तत् तद् व् असृजतो एवादित्यान्। अन्व् इमे समगच्छन्न् अभ्य् अभी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति

3.343

स चन्द्रमसम् एवैतस्मिन् लोके प्रतिनिधाय एकविंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष आदित्यः। तत् तद् व् असृजतो एव विश्वान् देवान्। तद् अन्तम् असृजतान्व् इमे समगच्छन्न् अभ्य अमी समपतन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। स आदित्यम् एवैतस्मिन् लोके प्रतिनिधाय त्रिणवेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष वरुणः। तेत् तन् नासृजत। तम् अन्व एवागच्छन्। तम् अत्तुम् एवाध्रियन्त। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति

3.344

स वरुणम् एवैतस्मिन् लोके प्रतिनिधाय त्रयस्त्रिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष मृत्युः। तत् तन् मृत्युर् अभवत्। तद् अङ्गानि मुखम् अकुरुत। तं मृत्युं सर्वतोमुखं भूतम् अन्वागत्योपेक्षमाणा एवासत, अनभिधृष्णुवतीः। नैनं तत्रादन्। स ऐक्षत पाप्मा वा अस्मि यो मृत्युर् ऽस्मि। हन्तोर्ध्व एवोत्क्रामाणीति। स मृत्युम् एवैतस्मिन् लोके प्रतिनिधाय चतुर्विंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष रोचनो नाम लोकः। तत् तद् अशनयाभवत्। तम् अशनायां भूतं बिभ्यतीर् नान्वायन्। अन्वीक्षमाणा एवातिष्ठन्न् असौ रोचते ऽसौ रोचतेति। सास्य रोचनता। स ऐक्षत पाप्मा वा अस्मि यो ऽशनया अस्मि। हन्तोर्ध्व एवोत्क्रामाणीति। सो ऽहोरात्रे प्रतिन्यदधात्। ते एव पिपासा चाशनाया चाभवताम्। अहर् ह पिपासा, रात्रिर् अशनाया। तद् यथा द्वारफलके प्रतिनिहिते स्याताम् एवम् एवैते ऽहोरात्रे प्रतिनिहिते अनत्ययनाय। ते उ ह त्व् एवंविदम् एवात्यर्जयतः

3.345

सो ऽहोरात्रे एवैतस्मिन् लोके प्रतिनिधाय चतुश्चत्वारिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष कामो नाम लोकः। तत् तच्छन्दन्नाद्या अन्तरेण नदीर् असृजतैतस्य पाप्मनो ऽन्वागमाय। ता उ एव कामदुघा अकुरुत। स ऐक्षत हन्तोर्ध्व एवोत्क्रामाणीति। सो ऽष्टाचत्वारिंशेनोर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष सुवर् नाम लोकः। तत् तस्मिन् ज्योग् अरमत बह्व् अस्य स्वं भवतीति। सास्य सुवता। स ऐक्षत हन्तेभ्यो लोकेभ्य एकं लोकं संभराणीति। स एभ्यो लोकेभ्य एकं लोकं समभरत्। तद् एवैतद् द्वादशाहस्य दशमम् अहर् अभवत्। सो ऽब्रवीन् न वै म इदम् अकम् अभूद् इति। यद् अब्रवीन् न वै म इदम् अकम् अभूद् इति तन् नाकस्य नाकत्वम्। स एष वाव नाको यद् दशमम् अहर्, एष स्वर्गो लोक, एतद् ब्रध्नस्य विष्टपम्

3.346

तद् यथा वृक्षं वा गिरिं वाधिरुह्य व्यवेक्षेतैवम् एवैतस्माल् लोकाद् अन्यान् लोकान् व्यवेक्षते। स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत। ता द्वाभ्यां रूपाभ्यां प्रत्याद्रवन् नीलेन च सुवर्णेन च। तद् यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलम्। अथ यद् अप्स्व् अन्तर् विद्योतते तत् सुवर्णम्। ताभ्यो ऽवर्षत्। तत ओदनो ऽजायत। तम् अशित्वोदानन्। स उदनो ऽभवत्। तद् उदनस्योदनत्वम्। उदनो ह वै नामैष। तम् ओदन इति परोक्षम् आचक्षते। द्वितीयं ज्यायो ऽन्नाद्यम् अजायत। तद् अभिसंपद्य व्यमथ्नत। स मन्थो ऽभवत्। तन् मन्थस्य मन्थत्वम्। तद् एतद् द्वयम् एवान्नाद्यस्य रूपं यच् चैवाश्नाति यच् च पिबति। यद् अश्नात्य् ओदनस्य तद् रूपं, यत् पिबति मन्थस्य तत्। उभयं हास्यैतद् गृहे ऽधिगम्यते य एवं वेद। तौ हैतौ प्रजापतेर् एव स्तनौ यद् व्रीहिश् च यवश् च । ताभ्याम् इमाः प्रजा बिभर्ति

3.347

स उपोदको नाम लोको यस्मिन्न् अयम् अग्निः। अथर्तधामा यस्मिन् वायुः। अथ शिवो यस्मिंश् चन्द्रमाः। अथापराजितो यस्मिन्न् आदित्यः। अथाधिद्युर् यस्मिन् वरुणः। अथ प्रद्युर् यस्मिन् मृत्युः। अथ रोचनो यस्मिन्न् अशनाया। अतो ह पराचीनम् अहोरात्रे नान्वितस् सकृद् विष्टा हैवातः पराचीनं यथा विद्युतोवरूपं स्याद् दार्वाचितानां वा समिद्धानाम् एवम्। अथ हैते प्रजापतिलोका एवात ऊर्ध्वाः। कामो ऽष्टमस्, सुवर् नवमो, नाक एव दशमम् अहः। इदम् एव प्रायणम् अद उदयनम्। ते हैते लोका एवैतानि द्वादशाहस्याहानि। स य एतद् एवं वेदैते हैवास्य लोका भवन्ति

3.348

उपोदको नाम लोको ऽन्ने विष्टो, मनुष्या गोप्तारो, अग्निर् अधिपतिर्, यद् अर्चिषो रूपं तद् रूपम्, अप्सु प्रतिष्ठितः। ऋतधामा नाम लोको वयोभिर् विष्टो, गन्धर्वाप्सरसो गोप्तारो, वायुर् अधिपति, श्वेतं रूपं प्राणे प्रतिष्ठितः। अपराजितो नाम लोको नक्षत्रैर् विष्टश्, चन्द्रमा गोप्ता, आदित्यो ऽधिपतिर्, यद् उद्यतश् च सूर्यस्य रूपम् अस्तं च यतस् तद् रूपं, मनसि प्रतिष्ठितः। अधिद्युर् नाम लोके यज्ञे विष्ट, आदित्या गोप्तारो, वरुणो ऽधिपतिर्, नीलं रूपं यत् पर्जन्यस्य वर्षिष्यतः कृष्णं तन् नीलं, यद् वा कार्तस्वरस्य मणेर्, अनृते प्रतिष्ठितः। प्रद्युर् नामक लोको ऽमृते विष्टो, रुद्रा गोप्तारो, मृत्युर् अधिपतिर्, लोहितं रूपं यद् गौरवछदायै यद् वा माहारोहणस्य वासस, ऋते प्रतिष्ठितो यन् नार्च्छति तस्मिन्। रोचनो नाम लोकस् तपसि विष्टो, वसवो गोप्तारस् - ते हि प्रथमे देवानाम् इयुस् तस्मात् ते परार्ध्या -- , यज्ञो ऽधिपतिर्, यत् सुवर्णस्य हिरण्यस्य रूपं तद् रूपं, सत्ये प्रतिष्ठितः। एते वै लोका, एते गोप्तार, एते ऽधिपतयः। एते हैवास्य लोका, एते गोप्तार, एते ऽधिपतयो भवन्ति य एवं वेद

3.349

प्रजापतिर् देवान् असृजत। सह श्रिया वाचा च वा एनांस् तत् सहासृजतान्नेन च सहाद्भिः। ते देवा अन्नं श्रियं वाविदानाना वाचा यत् सधमादम् इवैवासन्न् - अन्नं हि श्रीस् - सो ऽशोचत्। स ऐक्षत कथं न्व् अहम् एषाम् इमा श्रियस् संवृञ्जीयेति। तान् मनो भूत्वानुप्राविशत्। तेषां सर्वां श्रियं निरचिनोद् यथा बदराणि निश्चिनुयाद् एवम्। तेषां मनसा वाचम् अगृह्णात्। सैषा मनसा वाग् गृहीताप्य् अद्य। यद् ध्य् एव मनसा कामयते तद् वाचा वदति। स ऐक्षत केन न्व् एषां रूपेण वाचम् आददीयेति। स पुरुषरूपम् अकुरुत। तेषां पुरुषरूपेण वाचम् आदत्त। तस्मात् पुरुषस् सर्वा वाचो वदति। स इमा अपस् संगृह्योर्ध्व उदक्रामत्। सो ऽगच्छद् यत्रैष ऋषभो नामान्नलोकः। तद् अन्नं वा ऋषभः। यदा वा अश्नात्य् अथर्षभ्यति। स ऐक्षत किं नु तद् रूपं कुर्वीय यन् मे ऽन्यो नाभ्यारोहेद् इति। सो ऽजः पृश्निर् अभवत्। तस्माद् अजं पृश्निं नाधिगच्छाम। तद् यास् ता अपो ऽहरद् या एता उपर्य् आप, एता एव ताः। अथ यां तां वाचम् अहरद्, य एष उपरि स्तनयित्नुर्, एषैव सा वाग् अथ यो ऽप्स्व् अन्तर् विद्योतते। स इमाः प्रजा अशनायन्तीः प्रत्यवैक्षत --

3.350

-- अन्धे तमसि जल्पन्तीः। सो ऽस्यै वाच एकम् अक्षरम् अवच्छिद्य वाग् इति व्यसृजत। तम् पतित्वैषां लोकानां मध्ये व्यरमत। तद् एतन् मण्डलम् अभवत्। तद् अन्वानैत्। स प्राणो ऽभवत्। ताभ्यो व्यौच्छत्। अशनायंस् त्व् एव स आसाम् अपाम् एकं स्तोकं प्राश्च्योतयत् कियत् स्विद् आभ्यो ऽलं भविष्तीति। स दशधाभवच् छतधा सहस्रधा यावतीयं पृथिवी तावान् अभवत्। तद् अभिसंपद्य व्यमथ्नत। स मन्थो ऽभवत्। तन् मन्थस्य मन्थत्वम्। तम् अशित्वोदानन्। स उदनो ऽभवत्। तद् उदनस्योदनत्वम्। तद् एतद् द्वयम् एवान्नस्य रूपं यच् चैव पिबति यच् चाश्नाति। यत् पिबति मन्थस्य तद् रूपं यद् अश्नात्य् ओदनस्य तत्। उभयं हास्यैतद् गृहे ऽधिगम्यते यच् चैव पिबति यच् चाश्नाति य एवं वेद। तद् आहुस् - त्रय स्तोका आगच्छन्तीत्य् उदस्तोको घृतस्तोको मधुस्तोकः। ततो य उदस्तोक इमां स प्रविशत्य्, ओषधीर् घृतस्तोको, वनस्पतीन् मधुस्तोकः। तद् धैतं मीमांसांचक्रुर् आमलक अकूवयेयो ऽहीना आश्वत्थिः केशी दार्भ्यः - किं स्तोकं त्वम् आगच्छन्तं मन्यसे, किं स्तोकं त्वं, किं स्तोकं त्वम् इति। स होवाच केशी - घृतस्तोकम् अहं मन्य इति। अथ होवाचाहीना - मधुस्तोकम् अहं मन्य इति। अथ होवाचामलक - उदस्तोकम् अहं मन्य इति। तस्मिन्न् उ हैव संपादयांचक्रुः। उदकाध्य् एवेदं सर्वं जायते। तद् यां तां वाचं व्यसृजत सो ऽग्निः। अथ यं तं प्राणम् अन्वानैत् स इन्द्रः। अथ यस् स प्रजानां जनयित ऋषभे ऽन्न्लोके ऽप्स्व् अन्तः -

3.351

- चन्द्रमा हैव सः। स उ हेव प्रजापतिः। तद् एतत् परस्ताद् अर्वाक् तेजो निर्मितं दीप्यमानं तिष्ठत्य् अग्निश् चेन्द्रश् च। तद् इदम् अध्यात्मम्। या सा वाग् इयं सा वाक्। ताम् अयं प्राण उपरिष्टाद् अध्यास्ते। अथ यस् स प्रजानां जनयित ऋषभे ऽन्नलोके ऽप्स्व् अन्तर् अयं स पुरुषः। ता एता समानीर् देवता इह चामुत्र च। ता एह गच्छन्ति, गच्छन्त्य् अमुत्र। या इमास् ता अमूर्। या अमूस् ता इमाः। ता ह यो ऽध्यात्मम् उपास्ते स हानिदेवो भवति। तेषां हैतेषां देवानां प्रजापताव् आत्मानस् संनिहिताः। अथ हैषां प्राणानाम् अस्मिन् पुरुष आत्मानस् संनिहिताः। तम् एतं पुरुषं परिगृह्य् गोपायन्ति। तस्यैष श्लोक -
ऋषभो लोको महद् एव यक्षं नैवास्मात् पूर्वं न परं बभूव।
यं देवं देवाः प्राणाः पुरुषं परिगृह्य जाग्रति स वेद लोकं पुरुषं महान्तम्॥
इति। इमं ह वाव तं देवं देवाः प्राणाः पुरुषं परिगृह्य जाग्रति। सो ऽयम् अक्षन्न् अन्त स हैष वामनः। स यो हैतं वामन इत्य् उपास्ते वामं वामं हैवैनम् एषा देवताभिनेनीयते। एतस्माद् ध वा इदं राजन्यबन्धवो वामनं केन चिद् अवकांक्षन्ति। एतस्यै ह देवतायै नाम्नो ऽन्तिकम् एनं विदुः। स हैष न जीर्यति। समावान् हेवैष यूनश् च जरसश् च। स हैष प्राणान् संगृह्यावधूय शरीरं प्राणैस् सहोर्ध्व उत्क्रामति। एतेन ह वै प्रत्यूढानि मृत्युश् शरीराणि हरति। तस्यै हैतस्यै देवतायै यथा मृत्पिण्ड इषीके ऽधिहते स्याताम् एवम् एव हृदये पादाव् अधिहतौ। तौ यद् आच्छिनत्य् अथ म्रियते। तद् इदम् अप्य् अविद्वांस आहुर् आच्छेद् ध्य् अस्येति। स य एतद् एवं वेदाजरसं हास्माद् एषा देवता नोत्क्रामति, सर्वम् आयुर् एति

3.352

देवा वै श्रमेण तपसा व्रतचर्येणासुरान् रक्षांस्य् अभ्यभवन्। ते ऽसुरा विदित्वैतत् परा वै ते भवन्तीति, स्त्रीरूपाण्य अकुर्वत प्रथमोत्तनकाश् चण्डातकवासिनीर् यत् कल्याणतमं रूपाणां तत्। ता देवान् प्रत्याक्रमन्त। ता देवा उपन्यपादयन्त। न हि कस्य चन स्त्रियो ऽप्रियाः। तेषु यद् एषां तेज इन्द्रियं वीर्यं श्रमाभिजितम् आसीत् तद् असिंचन्। ते ऽसुरा विदित्वैतद् इयद् वा एषां तेज इन्द्रियं वीर्यम् अभूत् इत्य् आदाय प्राद्रवन्। तेषां ह देवानाम् अप्रियम् आसीत्। रिरिचाना इवामन्यन्त। ते ऽब्रुवन् कथं न्व् इदं तेज इन्द्रियं वीर्यं पुनर् आददीमहीति। त एता व्याहृतीर् अपश्यन्

3.353

तम् एत्य् एकाक्षरेण रथन्तरम् आददत। तस्मात् तत् प्रथमे ऽहन् क्रियते। प्रमेति द्व्यक्षरेण बृहद् आददत। तस्मात् तद् द्वितीये ऽहन् क्रियते। प्रतिमेति त्र्यक्षरेण वैरूपम् आददत। तस्मात् तत् तृतीये ऽहन् क्रियते। (अ)स्रीवग् इति चतुरक्षरेण वैराजम् आददत। तस्मात् तच् चतुर्थे ऽहन् क्रियते। सिरकमसीति पञ्चाक्षरेण शाक्वरम् आददत। तस्मात् तत् पञ्चमे ऽहन् क्रियते। छर्दिरिन्द्रियावद् इति षडक्षरेण रैवतम् आददत। तस्मात् तत् षष्ठे ऽहन् क्रियते। आ गयं वीर्यं योनिम् आ दद्ध्वं विद्वज् जनस्य छायेति वामदेव्यम् आददत। तस्मात् तन् मध्यतो यज्ञस्य क्रियते। यत् परो योनिम् अतिश्च्युतितम् अभूत् तद् आ दद्ध्वं वस्व् इति यज्ञायज्ञीय् आददत। तस्मात् तत् परार्धे यज्ञस्य क्रियते

3.354

अथो आहुर् - अपहतपाप्मानो वै देवाः। ते न स्वपन्ति। त उ श्रमस्य भूम्ना सममीलयन्। तेषाम् उ स्वपतां प्रमत्तानाम् असुरास् तेज इन्द्रियं वीर्यम् आदायाप्स्व् अन्वभ्यवानयन्। तद् विष्णुर् अन्वपश्यत्। तेषां ह देवानां प्रबुबुधानानाम् अप्रियम् आसीत्। तान् विष्णुर् अब्रवीन् - मा वो ऽप्रियं भूत्। अहं वै तद् अन्वख्यम् इति। तान् अप्स्व् अन्व् अभ्यवानयत्। तद् अप्स्व् अन्तः पर्यपश्यन् यथा पृष्ठात् (क)कुद् उदीषिता स्याद् एवम्। तद् एताभिर् एताभिर् एव व्याहृतिभिर् आदाय विष्णवे प्रायच्छन्। तद् इदं विष्णुस् तेज इन्द्रियं वीर्यं धारयन् समैषत्। तस्माद् ध्रस्वो विष्णुः। तस्माद् उ ह्रस्वं वैष्णवं गाम् आलभन्ते। स यत्र धारयन् पराक्रमत तद् एव विष्णुपदम् अभवत्। तस्माद् यो विष्णुपदीयः कैकेयस् स यज्ञ आत्ततरः। एतं ह्य् अस्मिन् यज्ञम् अन्विन्दन्। स य एतद् एवं वेदा द्विषतो भ्रातृव्यस्य तेज इन्द्रियं वीर्यं दत्ते

3.355

प्रजापतिर वा इमान् लोकान् इमा दिशो ऽसृजत। तान् सृष्टोभयान् देवान् असुरान् असृजत। तान् समद् अविन्दत्। ते प्रजापतौ ब्रह्म संन्यदधत। तत् प्रजातिर् नोदयच्छत्। तद् अप्सु प्रावेशयत्। ते देवा असुरान् अजयन्। ते जित्वा पुनर् एत्याब्रुवन् प्रजापते यन् नस् त्वयि ब्रह्म तन् नः प्रयच्छति। सो ऽब्रवीन् न वा अहं तद् उदयच्छम्। तद् अप्सु प्रावेशयम् इति। तान् अप्स्व् अन्व् अभ्यवानयत्। तद् अप्स्व् अन्तः पर्यपश्यन् यथा पृष्ठात् ककुद् उदीषिता स्याद् एवम् । ते ऽब्रुवन् सृजामहा इत इति। त ओम् इत्य् एतेनाक्षरेणास्यै -

3.356

- प्राच्यै दिशो रथन्तरं भा असृजन्त। तद् अग्नेर् घोषो ऽन्वसृज्यत। तस्माद् रथन्तरस्य स्तोत्रा अग्नीन् मन्थन्ति। त ओम् इत्य् एतेनैवाक्षरेणास्यै दक्षिणायै दिशो बृहद् भा असृजन्त। तत् पर्जन्यस्य घोषो ऽन्वसृज्यत। तस्माद् बृहत स्तोत्रे दुन्दुभीन् उद्वादयन्ति। वर्षुकः पर्जन्यो भवति। त ओम् इत्य् एतेनैवाक्षरेणास्यै प्रतीच्यै दिशो वैरूपं भा असृजन्त। तद् वायोर् घोषो ऽन्वसृज्यत। तस्माद् वैरूपस्य स्तोत्र आधवैर् आधून्वन्ति। अधोवात आगामुकः। त ओम् इत्य् एतेनैवाक्षरेणास्या उदीच्यै दिशो वैराजं भा असृजन्त। तद् वयसां घोषो ऽन्वसृज्यत। तस्माद् यथा वयांसि पुनर् आदायं वाचं वदन्त्य् एवं वैराजेन पुनर् आदायम् इव स्तुवते। त ओम् इत्य् एतेनैवाक्षरेणास्या ऊर्ध्वायै दिशश् शाक्वरं भा असृजन्त। तद् अपां घोषो ऽन्वसृज्यत। तस्माच् छाक्वरस्य स्तोत्रे ऽप उपनिधाय स्तुवन्ति। त ओम् इत्य् एतेनैवाक्षरेणास्यै दिशो रैवतं भा असृजन्त। तत् पशुघोषो ऽन्वसृज्यत। तस्माद् रैवतस्य स्तोत्र पशुघोषं कुर्वन्ति, वत्सान् मातृभिस् संवाशयन्ति।
ते ऽब्रुवंस् तद् वेदाम यत इमे ऽसृक्ष्महीति। ते ऽप्स्व् एव वामदेव्यं पर्यपश्यन्। तद् आददत। तत् सर्वा वाचो ऽन्वसृज्यन्तैकैकेतराणि पृष्ठानि। तानीमानि पृष्ठानि सृष्टानि दिग्भ्य आतपन्। एतानि ह तर्ह्य् आतेपुः। आतपति स्वेभ्य, आतपतीत्य् एनम् आहुर् य एवं वेद। (ता)नीयं देवताभ्यध्यायत्। येयं पुरस्ताद् उच्चरति पुरुषाकृतिर् ह्य् एषा तर्ह्य् आस। सा त्रिवृता स्तोमेन गायत्र्या छन्दसा रथन्तरस्य भा आदत्त। तद् इतो ऽधत्त। पञ्चदशेन स्तोमेन त्रिष्टुभा छन्दसा बृहतो भा आदत्त। तद् इतो ऽधत्त। सप्दशेन स्तोमेन जगत्या छन्दसा वैरूपस्य भा आदत्त। तद् इतो ऽधत्त। एकविंशेन स्तोमेनानुष्टुभा छन्दसा वैराजस्य भा आदत्त। तद् इतो ऽधत्त। त्रिणवेन स्तोमेन पंक्त्या छन्दसा शाक्वरस्य भा आदत्त। तद् इतो ऽधत्त। त्रयस्त्रिंशेन स्तोमेनातिच्छन्दसा रैवतस्य भा आदत्त। तद् इतो ऽधत्त। तस्मात् सर्वाणि भूतान्य् अप्स्व् अन्ततः प्रतिष्ठितानि। तम् आदद नम् आदितादितेति वाचो ऽवदन्। तद् आदित्यस्यादित्यत्वम्। मानिन्दितुस् तेज इन्द्रियं वीर्यं तत् ते शमलम् अस्य निन्दिता प्रतिमुञ्चते य एवं वेद

3.357

तं सर्वाणि भूतानि सो ऽर्यस् सो ऽर्य इत्य् आयन्। तत् सोर्यस्य सोर्यत्वम्। सोर्यो ह वै नामैष। तं सूर्य इति परोक्षम् आचक्षते। अर्यो नो ऽसि भर्ता नो ऽसीति हैनं स्वाश् चारणाश् चोपासते य एवं वेद। स यत् प्रत्यङ् आदाय स्वरयन् वै(त्) तत् सोर्यस्य सोर्यत्वम्। तद् वाव स्वरस्य स्वरत्वं यत् स्वरयन् वैत्। ते देवा अब्रुवन् न हार्षीद् वा अयम् इति। तद् अहर् अभवत्। रातं वा अस्मा अभूद् इति सो एव रात्रिर् अभवत्। एतद् ध वा अहोरात्रयोर् जन्म। स य ए(व)म् एतद् अहोरात्रयोर् जन्म वेदाप्नोत्य् अहोरात्रे, नैनम् एते अतीतः। सर्वं ह वा इदम् अन्यत् पर्यन्तवत्। एते ह वा अपर्यन्ते यद् अहोरात्रे। ये ते वा इदं परिवर्तमाने सर्वम् आप्नुतः। तद् यथा रथोपस्थे तिष्ठन् पक्षसि प्रत्यवेक्षेतैवम् एवैते ऽहोरात्रे आदित्यलोके तिष्ठन् प्रत्यवेक्षते। स पितरं प्रजापतिम् अब्रवीत् - तत यत् त इदं तेज इन्द्रियं वीर्यं मह्यम् इदं प्रयच्छेति। तथेति। तद् अस्मै प्रायच्छत्। तस्माद् उत पिता पुत्राय जीवन्न् एवेशां संप्रयच्छति

3.358

स वशम् एव दिव आदत्त, क्षत्रं नक्षत्राणाम्, आत्मानम् अन्तरिक्षस्य, रूपं वायोर्, आज्ञां मनुष्याणां, चक्षुः पशूनाम्, ऊर्जम् अपां, रसम् ओषधीनां, चरथं वनस्पतीनां, शिश्नं वयसाम्, अर्चिम् अग्नेर्, हृदयं पृथिव्यै, गन्धं हिरण्यस्य, स्तनयित्नुं वाचस्, संगमं पितॄणां, भां चन्द्रमसः। तद् यद् एतेषां भूतानाम् आदत्त तद् आदित्यस्यादित्यत्वम्। आदत्ते तेजो द्विषतो भ्रातृव्यस्य य एवं वेद। सा हैषा देवता दीक्षिता केशवाधि कृष्णाजिना। तस्यै ये ऽर्वाञ्चो रश्मयस् तानि श्मश्रूणि, य ऊर्ध्वास् ते केशाः। अहोरात्रे एव कृष्णाजिने। तद् यद् दिविक्षयम् अकुरुत तस्माद् दीक्षिता। दिवि ह वा एष क्षयं कुरुत यो यजते। यां दीक्षया जितिं जयति याम् ऋद्धिम् ऋध्नोति, जयति तां जितिम् ऋध्नोति ताम् ऋद्धिं य एवं वेद

3.359

तस्योषस्येव पत्नी चन्द्रमास् सोमपीथः। तस्मात् सपत्नीको दीक्षेत। सा हैषा देवता दीक्षमाणस्य तेज इन्द्रियं वीर्यं यश आदत्ते। स दीक्षिष्यमाण आदित्यम् उपतिष्ठेत - त्वं देवता दीक्षितासि। सा दक्षिमाणस्य तेज इन्द्रियं वीर्यं यश आदत्से। मा मे तेज इन्द्रियं वीर्यं यश आदिथाः। तव दीक्षाम् अनु दक्षि इति। तस्यैषा देवता दीक्षमाणस्य तेज इन्द्रियं वीर्यं यशो नादत्ते। तद् एतद् उक्थस्यैव स्तम्भः। ते ये ऽर्वाा़ञ्चो रश्मयस् तैर् अस्येमे लोका स्तब्धा य एतस्माद् अर्वाञ्चो, ऽथ यत् किं च प्राणभृत् सशरीरम्। अथ य ऊर्ध्वास् तैर् उ अस्य ते लोका स्तब्धा य एतस्मात् पराञ्चो, ऽथ यत् किं चाभृतम् अशरीरम्। तद् यद् एषा देवतोभयान् देवासुरान् अन्तरा स्तब्ध्वा तिष्ठति तस्मात् एतत् स्तम्भः। स ह वै स्तब्धस् सस्तभेत। अथो य एनं स्तभस्योपमीमांसेत तं ब्रूयाद् या स्तब्धा देवता तस्यै त्वा वृश्च्यामीमाम् आर्तिं न्येष्यसीति। तां हैवार्तिं न्येति। ते ये ऽर्वाा़ञ्चो रश्मय एते हावशा मृत्योर् अन्नवन्तः। अथ य ऊर्ध्वास् त उ हामृतलोकाः। ते ये ऽर्वाञ्चो रश्मय एते होरयो नाम यथा नळो वासुशिर स्यद्वि(स्याद्वे?) अर्वा। अथ य ऊर्ध्वास् त उपरीयांसो नाम। स यथा हस्ती हस्तेनादाय पृष्ठ्ये ऽध्यस्येतैवम् एवैषा देवतैतद् विद्वांसम् उरुभी रश्मिभिर् आदायावरीयस्व् अध्यस्यते। तमस्य् एष लोको य एतस्मात् पराचीनः

3.360

नासद् आसीन् नो सद् आसीत् तदानीं नासीद् रजो नो व्योमा परो यत्।
किम् आवरीवः कुह कस्य शर्मन्न् अम्भः किम् आसीद् गहनं गभीरम्॥
इति। तस्मिन्न् असति सति न कस्मिंश् चन सत्य् ऋतं ज्योतिष्मद् उदप्लवत, सत्यं ज्योतिष्मद् उदप्लवत, तपो ज्योतिष्मद् उदप्लवत। तद् यद् ऋतम् इति वाक् सा, यत् सत्यम् इति प्राणस् सो, यत् तप इति मनस् तत्। तेषाम् अन्नम् एव ज्योतिर् आसीत्। तान्य् एकम् अभवन्। तद् एकं भूतेवैतेनान्नेन ज्योतिषाप्यायत। तद् अभवद् यथा मध्वष्ठी लावास्व् आसिक्ता स्याद् ऋतिर् वैवम्। तद् ऐक्षत - हन्ताधस्तात् प्राणं करवा इति। तद् अधस्तात् प्राणम् अकुरुत, यथैष स्त्रिया अधस्ताद् आकाश एवम्। तस्माद् आपो ऽसृज्यन्त बलबलबलित्य् एतया वाचा। तद् इदम् आपो महत् सलिलम् आसीत्। यद् ध वा इदम् आहुर् - आपो वा इदम् अग्रे महत् सलिलम् आसीद् इत्य् एतास् ता आपः त ऊर्मयस् समास्यन्त फा3ल्फा3लिति। तद् धिरण्मयम् आण्डं समैषत्

3.361

तस्य हरितम् अधरं कपालम् आसीद् रजतम् उत्तरम्। तच् छतं देवसंवत्सराञ् छयित्वा निर्भिद्यम् अभवत् सहस्रं वा द्युम्नान्। द्युम्ना ह नाम तर्ह्य् अप्य् आसुः। यावान् एष संवत्सरस् तावन्तस् संवत्सरस्य प्रतिमाः। द्युम्नैर् ह स्म संवत्सरं विजानन्ति। अथ ह ततः पुराहोरात्रे संश्लिष्टे एवासतुर् अव्याकृते। ते उ अग्निहोत्रेणैव व्याकृते। तद् एतया वाचा निरभिद्यत स्रुवस्थे सरणे सन्यौ कपाले विजिहाथाम्। कं लोकम् अभि जाया इति। फळ् इत्य् एवेदम् आण्डं निरभिद्यत। तस्य यद् अधरं कपालम् आसीत्, सेयं पृथिव्य् अभवत्। अथ यद् उत्तरम् आसीत्, सासौ द्यौर् अभवत्। अथ यद् अन्तर् आसीत्, तद् इदम् अन्तरिक्षम् अभवत्। स यां जायमानो वाचम् अवदत्, स एव त्रयो वेदो ऽभवत्। यद् धैवैषाग्रे किं च देवता जायमानोवाद तद् उ ह ब्रह्मैव बभूव। स ऐक्षत - महतीं वा इमां प्रतिष्ठाम् असृक्षीमान् लोकान्। यद् वा अतस् स्रक्ष्ये वेत्स्यते वै तत् प्रतिष्ठाम्। हन्त सृजा इति। स मनसात्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां वासन्तिकौ मासौ

3.362

ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतया वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ रथन्तरं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां ग्रैष्मौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ बृहद् भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत् तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां वार्षिकौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रतितिष्ठताम्। तौ वैरूपं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै (?)ति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां शारदौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ वैराजं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस् तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम् । राष्ट्र ह वै भवति य एवं वेद। स मनसैव पुनर् आत्मानम् अध्यैत्। तस्मिन् द्वौ द्रप्सौ समभवतां हैमन्तिकौ मासौ। ताव् अब्रवीत् सृज्येथाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ शाक्वरं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद। ताव् अब्रवीत् सृज्येथाम् इति। कां दिशं ततेति। इमाम् इति। ताव् ओम् इत्य् एतयैव वाचासृज्यत। ताव् एतस्यां दिशि पतित्वा प्रत्यतिष्ठताम्। तौ रैवतं भा अन्वसृज्यत। तयोस् तद् एवान्नम् आसीत्, तज् ज्योतिस्, तद् आभ्याम् आतपत्। ततस् तौ राष्ट्रम् अभवताम्। राष्ट्रं ह वै भवति य एवं वेद

3.363

अथ ज्यृग्भ्याम् आर्च्छत्। तस्मात् पशवः शैशिर ऋतौ ज्यृग्भ्याम् ऋच्छन्ति। स ऐक्षत यम् इमं त्रयं वेदम् असृक्षि हन्तास्मात् सृजा इति। स त्रिवृता स्तोमेन गायत्रीम् अध्यैत्। ततो वसून् असृजत। त इमां दिशम् अन्वायन्। पञ्चदशेन स्तोमेन त्रिष्टुभम् अध्यैत्। ततो रुद्रान् असृजत। त इमां दिशम् अन्वायन्। स सप्तदशेन स्तोमेन जगतीम् अध्यैत्। तत आदित्यान् असृजत। त इमां दिशम् अन्वायन्। एकविंशेन स्तोमेनानुष्टुभम् अध्यैत्। ततो विश्वान् देवान् असृजत। त इमां दिशम् अन्वायन्। त्रिणवेन स्तोमेन पंक्तिम् अध्यैत्। ततो मरुतो ऽसृजत। त इमां दिशम् अन्वायन्। त्रयस्त्रिंशेन स्तोमेनातिच्छन्दसम् अध्यैत्। ततस् साध्यांश् चाप्त्यांश् चासृजत। त इमां दिशम् अन्वायन्

3.364

ता एता देवता सृष्टा स्तोमा छन्दांस्य् ऋतवो ग्रहाः। पृथग् एवैषाम् इमा श्रियो दीप्यमाना अतिष्ठन्, नान्योन्यस्य श्रेष्ठताया अतिष्ठन्त। ते ऽब्रुवन् न वा अन्यो ऽन्यस्य श्रेष्ठतायै तिष्ठामहै। एत तम् इच्छामहै यो न ईशाता इति। ते प्रजापतिम् एव जनयितारम् एत्याब्रुवन् न वा अन्यो ऽन्यस्य श्रेष्ठतायै तिष्ठामहै। तन् नस् सृजस्व यो न ईशाता इति। स प्रजापतिर् अब्रवीद् एतावद् वाव त्यस्मिंस् तेज इन्द्रियं वीर्यम् अभूद् यद् युष्मान् असृक्षि। ते वै संवत्सर तप्यध्वम्। ते मा संवत्सरं तप्त्वोपसमेत यद् एको ऽधिगच्छति यद् एको यद् एक इति। ते संवत्सरम् अतप्यन्त। तं संवत्सरं तप्त्वोपसमायन्। यद् एको ऽध्यगच्छद् यद् एको यद् एकस् तद् अस्य मन्यौ योनाव् असिञ्चन्। तत इन्द्रस् संभवत्। तद् एषाभ्यनूच्यते -
अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम्।
मन्योर् इयाय हर्म्येषु तस्थौ यः प्रजज्ञ इन्द्रो अस्य वेद॥
इति। मन्योर् इयायेति यद् अस्य मन्यौ योनाव् असिञ्चन्। हर्म्येषु तस्थाव् इति हृदयान्य् उ वै हर्म्याणि। हृदयो ह वै क्रुध्यति। ओजसो जातम् उत मन्य एनम् इति

3.365

गौर्वीतं ह पप्रच्छुस् - त्वं ह वै ददर्शिथेन्द्रं जायमानम् इति। स हैतद् उवाच -
अश्वाद् इयायेति यद् वदन्त्य् ओजसो जातम् उत मन्य एनम्। (ऋ. १०.७३.१०)
मन्योर् इयाय हर्म्येषु तस्थौ यतः प्रजज्ञ इन्द्रो अस्य वेद॥
इत्य् ओजसो ऽन्वाहं जातं मन्य इति होवाच। इन्द्रस् त्वेव तद् वेद यतस् स जात इति। स शिरो निर्हृत्य व्यैक्षत। स इदम् एषां सर्वं स्पृतम् अपश्यत्। सो ऽब्रवीद् यद् इदम् एषां सर्वं स्पृतं, कं लोकम् अभि जायै स वै नु मे प्रयच्छ। इमौ नु मे -

3.366

- वासन्तिकौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इति पतित्वास्यै प्राच्यै दिशौ रथन्तरं भा आदत्त। तद् इतो ऽधत्त। एको द्वयोर् वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे ग्रैष्मौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्यै दक्षिणायै दिशो बृहद् भा आदत्त। तद् इतो ऽधत्त। ऐकश् चतुर्णां वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे वार्षिकौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्यै प्रतीच्यै दिशो वैरूपं भा आदत्त। तद् इतो अधत्त। ऐकष् षण्णां वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे शारदौ मासौ प्रयच्छति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्या उदीच्यै दिशो वैराजं भा आदत्त। तद् इतो ऽधत्त। ऐको ऽष्टानां वीर्यं दत्ते य एवं वेद। तम् पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे हैमन्तिकौ मासौ प्रयच्छति। एतौ ते प्रयच्छानीत्य अन्नम् अन्नम् इत्य् एव पतित्वास्या ऊर्ध्वायै दिशश् शाक्वरं भा आदत्त। तद् इतो ऽधत्त। ऐको दशानां वीर्यं दत्ते य एवं वेद। तं पुनर् एव प्राविशत्। तम् अब्रवीज् जायस्वैवेति। सो ऽब्रवीत् स वै नु मे प्रयच्छेमौ नु मे शैशिरौ मासौ प्रयच्छेति। एतौ ते प्रयच्छानीत्य् अन्नम् अन्नम् इत्य् एव पतित्वास्यै दिशो रैवतं भा आदत्त। तद् इतो ऽधत्त। ऐको द्वादशानां वीर्यं दत्ते य एवं वेद। स ऐक्षत कथं न्व् इमान् ऋतून् गृह्णीयाम् इति

3.367

ता उत्तानशय्याम् अपश्यत्। स शीर्ष्णैवमौ प्राञ्चाव् अगृह्णाद्, बाहुभ्या इमान् नाना, पद्भ्यां प्रत्यञ्चाव्, उरसोर्ध्वौ, प्रष्टिभिर् अवाञ्चौ। तान् एवं गृहीत्वाधस्तात् पर्यौहत। स एष ऋतुषु च संवत्सरे चैतस्या श्रियाम् अध्यूढस् तपति। तं पुनर् अनेन सह सर्वेण प्राविशत्। तम् अब्रवीद् एकं वाव त्वाग्रे नाशकम् उद्यन्तुम्। न वै त्वानेन सह सर्वेण शक्ष्याम्य् उद्यन्तुं , जायस्वैवेति। तस्मिन्न् आपस् सिंसिमायत् पर्यपश्यत्। सो ऽब्रवीत् स वै नु मे प्रयच्छेमा नु म अपः प्रयच्छाथ जनिष्य इति। तस्मै षट् सहस्राण्य् अपां प्रायच्छत्। तस्यैष श्लोको -
न ता अन्यः प्र तरति नैनाव् इष्णातुम् अर्हति।
वहन्त्य् अस्मिन् सर्वतो मधु क्षीरं घृतं दधि षट् सहस्राण्य् अम्बयाः॥
इति। इमा ह वै ता अम्बया नामैता एव दिशः। एता एवास्मै सहस्रं सहस्रं क्षरन्त्य्, एता एवैनं तर्पयन्ति। सो ऽजायत। तं जातम् उपामद्त - तेजो ऽजनीन्द्रियम् अजनि वीर्यम् अजनि ब्रह्माजनि क्षत्रम् अजनि सप्तानां पशूनां यन्ताजनि सप्तानी दिशां धर्ताजनि जातो ऽजनि जनिताजनि जानित्रिर् अजनीति। अपि हात्मानम् अपामादयज् जानित्रिर् इत्य् उवाच। उपमाद्यो ह भवति य एवं वेद। तस्मै जातायैतां राजासन्दीं न्यदधुः। तस्याम् एनम् अभ्यषिञ्चन्त

3.368

वसवो राज्याय रुद्रा वैराज्यायादित्या स्वाराज्याय विश्वे देवा साम्राज्याय मरुतस् सार्ववश्याय साध्याश् चाप्त्याश् च पारमेष्ठ्याय। तम् एवं सन्तं पिता प्रजापतिर् अभ्येवाशयत्। स वसून् अब्रवीद् इमं मे प्रयच्छतेति। ते ऽब्रुवन् न शक्ष्यामः पितरं प्रजापतिं हिंसितुम् इति। रुद्रान् अब्रवीन् , नाकामयन्त। आदित्यान् अब्रवीन्, नाकामयन्त। विश्वान् देवान् अब्रवीन्, नाकामयन्त। साध्यांश् चाप्त्यांश् चाब्रवीन्, नावैकामयन्त। अथ मरुतो ऽब्रवीत् किम् अस्माकम् तत स्याद् इति। यन् म इदं निष्केवल्यं माध्यन्दिनं सवनं तन् मे युष्माभिस् साधारणं भविष्यतीति। तथेति। तम् अस्मा अभिप्रद्य प्रायच्छन्। तस्यैतच् चन्द्रं मे चन्द्रं म इत्य् एव वदत एतत् तेज आदत्त येनैष एतत् तपति। स यच् चन्द्रं म इत्य् अब्रवीत् तस्माच् चन्द्रमाः। तस्य ह स्म यत् स पुनः पुनर् आदत्ते स ह स्म तादृश एव परिशिष्यते। तस्माद् एतस्याप्य् अद्यास्त्य् एवाभा। यथैष एतद् दिवा तपत्य् एवम् एष रात्रिं भाति। तम् अवैद् अक्षय्यो वा अयम् इति। तम् उदार्जत। तम् अब्रवीन् - मा मा त्वं ततः प्रत्यातप्सीर् इति। नेत्य् अब्रवीत् प्रत्य् एव त्वातप्स्यानीति। तस्माद् एतम् उभयोर् अहोरात्रयोः पश्यन्ति। प्रति हैनं तद् आतपन्ति। तौ हैतौ पितापुत्राव् एव यच् चन्द्रमाश् चादित्यश् च। पिता चन्द्रमा, आदित्यः पुत्रः। परश् चन्द्रमा, अपर आदित्यः। तौ हैतौ सर्वासां देवतानां श्रेष्ठतां गतौ। तद् यथैतौ सर्वासां देवतानां श्रेष्ठतां गताव् एवम् एव स्वानां श्रेष्टतां गच्छति य एवं वेद। इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव चन्द्रमा, अयम् आदित्यः। तद् व् एवम् अध्यात्मम् उपासितव्यम्। तद् व् एव भृगुचक्षुषम्। स यं द्विष्यात् तं ब्रूयाद् भृगुचक्षुषेण त्वेक्ष इति। न हैव भोग्य इव भवति

3.369

छन्दांसि यद् अयजन्त तेषां बृहत्य् एवोदगायत्। अथ याव् एता उत्तरौ प्रगाथौ तौ प्रस्तोतृप्रतिहर्ताराव् आस्ताम् । अमितच्छन्दो गृहपतिर्, विराड् ब्रह्म, गायत्री मैत्रावरुणा, जगती होता, पंक्तिर् अध्वर्युः। तस्य यत् पञ्चमं पदं स प्रतिप्रस्थाता त्रिष्टुब् ब्राह्मणाच्छंस्य्, उष्णिक्ककुभौ छन्दसी नेष्टापोताराव्, अनुष्टुब् अच्छावाको, द्विपदोन्नेता, अक्षरपंक्तिर् ग्रावस्तुद्, एकपदा सुब्रह्मण्यो, ऽतिच्छन्दा आग्नीध्रः। गायत्रेयस् स एष सर्वछन्दा यज्ञो यद् द्वादशाहः। एतैर् ह सर्वैश् छन्दोभिर् द्वादशाहस् तायते। एतान्य् एव सर्वाणि छन्दांसि द्वादशाहे क्रियन्ते। तस्माद् यद् एतेषु छन्दस्सूपहवम् इच्छेत, अथर्त्विक्षूपहवम् इच्छेत। यदो यजत एतान्य् एव छन्दांसि भूतो यजते। यदो याजयत्य् एतान्य् एव छन्दांसि भूतो याजयति। तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्च्छति

3.370

तद् आहुः कस्मिन् स्तोमे कस्मिंश् छन्दसि कस्यां देवतायां द्वादशाहो ऽन्ततः प्रतिष्ठित इति। स ब्रूयात् त्रिवृति स्तोमे, गायत्र्यां छन्दस्य्, अग्नौ देवतायां, द्वादशाहो ऽन्ततः प्रतिष्ठित इति। त्रिवृता ह्य् एव स्तोमेन प्रयन्ति गायत्र्या छन्दसाग्निना देवतया। तैर् उ एवोद्यन्ति। तद् आहुः क स्तोम एकः, किं छन्द एकं का देवतैका द्वादशाहं वहतीति। स ब्रूयात् त्रिवृत् स्तोम एको, गायत्री छन्द एकं, वाग् देवतैका द्वादशाहं वहतीति। त्रिवृतो ह्य् एव सर्वे स्तोमाः प्रजाता, गायत्र्यास् सर्वाणि छन्दांसि। वाग् देवतैका द्वादशाहं वहति। तद् आहुः क स्तोमः किं छन्दः, का देवता द्वादशाह इति। स ब्रूयाद् एकविंश स्तोमो विराट् छन्द आदित्यो देवता द्वादशाह इति। आदित्यो ह्य एवैकविंश, आदित्यो विराड्, आदित्यो देवता द्वादशाहः। तद् आहुर् यत्साम द्वादशाहस् स साम इदं सर्वम्। कस् साम्न स्तोभः किं पदं किम् अक्षरम् इति। स ब्रूयाद् आदित्य एव साम्न स्तोभो, ऽन्तरिक्षं पदं, वाग् अक्षरम् इति। तद् आहुः क स्तोभस्य स्तोभः, किं पदस्य पदं, किम् अक्षरस्याक्षरम् इति। स ब्रूयाच् चक्षुर् एव स्तोभस्य स्तोभो, मन एव पदस्य पदं, प्राण एवाक्षरस्याक्षरम् इति

3.371

तद् आहुः कथं स्तोमा एक स्तोमो भवति, कथं छन्दांस्य् एकश् छन्दो भवति, कथम् अहान्य् एकम् अहर् भवति, कथं रूपाण्य् एकं रूपं भवति, कथं पृष्ठान्य् एकं पृष्ठं भवति, कथं देवता एका देवता भवति, कथम् ऋच एकर्ग् भवति, कथं यजूंष्य् एकं यजुर् भवति, कथं सामान्य् एकं साम भवति, कथं वेदा एको वेदो भवति, कथम् इदं सर्वम् एकं भूत्वा कस्मिन् प्रतिष्ठितम् इति। स ब्रूयात् स्तोम इति स्तोमा एकं भवन्ति, छन्द इति छन्दांस्य् एकं भवन्त्य्, अहर् इत्य् अहान्य् एकं भवन्ति, रूपम् इति रूपाण्य् एकं भवन्ति, पृष्ठम् इति पृष्ठान्य् एकं भवन्ति, देवतेति देवता एकं भवन्त्य्, ऋग् इत्य ऋच एकं भवन्ति, यजुर् इति यजूंष्य् एकं भवन्ति, सामेति सामान्य् एकं भवन्ति, वेद इति वेदा एकं भवन्ति, मन इदं सर्वम् एकं भूत्वा प्राणे प्रतिष्ठितम् इति। तद् आहुर् यन् मन इदं सर्वम् एकं भूत्वा प्राणे प्रतिष्ठितं कस्मिन् उ प्राणः प्रतिष्ठित इति

3.372

पुरुष इति ब्रूयात्। पुरुषे ह वै प्राणः प्रतिष्ठितः। स यो ह स पुरुषे य एवं वेदैवंविदि ह वै प्राणः प्रतिष्ठितः। तस्माद् उ हैव विद्वान् गुरु स्यान् न हीदं सर्वं लघयेद्। अथो ह विद्याद् अहम् एवेदं सर्वम् अस्मि मयीदं सर्वं प्रतिष्ठितम् इति। तस्य ह न लोको व्यृध्यते। तद् आहुस् स वाद्य द्वादशाहं विद्यात् स वा वेदेति मन्येत, य एनं सर्वासु दिक्षु प्रतिष्ठितं विद्याद् इति। दश वै दिशः। दशो द्वादशाहस्याहानि। तस्येमाव् एव लोकौ प्रायणीयोदयनीयाव् - अयम् एव लोकः प्रायणीयो, ऽसाव् उदयनीयः। तस्येयम् एव प्राची दिक् प्रथमम् अहर्, इयं द्वितीयम्, इयं तृतीयम्, इयं चतुर्थम्, इयं पञ्चमम्, इयं षष्ठम्, इयम् एवान्तरदिक् सप्तमम् अहर्, इयम् अष्टमम्, इयं नवमम् इयं दशमम्। स एष द्वादशाहस् सर्वासु दिक्षु प्रतिष्ठितः। स य एवम् एतं द्वादशाहं सर्वासु दिक्षु प्रतिष्ठितं वेद, सर्वासु दिक्षु प्रतितिष्ठति, सर्वेषां देवानां सलोको भवति। नास्य तस्य देवाश् च नेशते यद् एनान् नान्वागच्छेत्। देवानां ह वै स एको य एवंविद्। प्रजापतिर् वै द्वादशाहः। तस्य दिश एव लोकाः। स एष द्वादशाहस् सर्वेषु लोकेषु प्रतिष्ठितः। स य एवम् एतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद, सर्वेषु लोकेषु प्रतितिष्ठति। स एष वाव द्वादशाहो य एष तपत्य्, एष इन्द्र, एष प्रजापतिर्, एष एवेदं सर्वम्। तद् एतत्कृते ब्रह्माध्याहितं तपति

3.373

क्षत्रं च राष्ट्रं चर्तं च सत्यं च तान्य् अवस्तात् तपश् च तेजश् च स्वधा चामृतं च तान्य् उ परस्तात्। तद् यद् अत्र क्षत्रम् इन्द्रो वा वरुणो वा सोमो वा राजा तत् तत्। अथ यद् राष्ट्रं यद् देवविशो मरुतस् तत् तत्। ऋतं रात्रिः। सत्यं तद् अहः। तपो विद्युत्। तेजो यो विद्युतो ऽशनिः पतति तत् तत्। स्वधा वृष्टिः। अन्नं तद् अमृतम्। तस्यैष श्लोकः -
क्षत्रं राष्ट्रम् ऋतं सत्यं ब्रह्मणो निहितावराः।
तपस् तेज स्वधामृतं त ऊर्ध्वास आसते, मध्ये ब्रह्म विराजति॥
इति। एतद् उ हैतन् मध्ये ब्रह्म विराजति। य उ एवंविदस् त ऊर्ध्वास आसते। स यथा क्षत्रियः प्रतिनिहित स्याद् एवम् एवैतद् ब्रह्म प्रतिनिहितम् अनत्ययनाय

3.374

देवा यद् अयजन्त तेषां बृहस्पतिर् एवोद्गायत्। गौश् चायास्यश् च प्रस्तोतृप्रतिहर्ताराव् आस्ताम। प्रजापतिर् एव गृहपतिर् आसीत्। इन्द्र एव ब्रह्मासीत्। स ब्राह्मणाद् अशंसत्। मित्रावरुणाव् एव मैत्रावरुणाव् आस्ताम्। अग्निर् एव होतासीत्। स आग्नीध्रम् अकरोद्, अश्विनाव् अध्वर्यू, मरुतो नेष्टापोतारौ विश्वे देवा अच्छावाको, ऽर्बुदो ग्रावस्तुत्। विष्णुर् वा यज्ञम् अभ्यष्टौत्। सोम उन्नेता, ब्रह्मैव सुब्रह्मण्याम् आह्वयद् वा गायत्रेयः। स एष सर्वदेवतायज्ञो यद् द्वादशाहः। एताभिर् ह सर्वाभिर् देवताभिर् द्वादशाहस् तायते। एता हि सर्वा देवता द्वादशाहे क्रियन्ते। तस्माद् यद् एतासु देवतासूपहवम् इच्छेताथर्त्विक्षूपहवम् इच्छेत। यदो यजत एता एव देवता भूतो यजते, यदो याजयत्य् एता एव देवता भूतो याजयति। तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्च्छति

3.375

तद् आहुर् यद् अन्यानि सत्राणि रात्रिभिर् आख्यायते ऽथ कस्माद् द्वादशाहो ऽहोभिर् आख्यायत इति। स ब्रूयाद् - विश्वे वै देवाः पितरं प्रजापतिम् उपेत्याब्रुवन् कियान् स्विद् भवान् इति। सो ऽब्रवीद् द्वादशाहम् अस्मीति। यद् अब्रवीद् द्वादशाहम् अस्मीति तद् द्वादशाहस्य द्वादशाहत्वम्। एष ह वाव संवत्सरः प्रजापतिर् आस। एतान् एव तद् द्वादश मास उवाच द्वादशाहम् अस्मीति। तद् आहुः किं द्वाः किं दश किम् अहर् इति। स ब्रूयाद् आदित्य एव द्वार् आदित्यो दशादित्यो ऽहर् इति। स यद् आदित्य एव द्वार् इत्य् एष ह्य् एव स्वर्गस्य लोकस्य द्वारम्। अथ यद् आदित्यो दशेत्य् एष ह्य् एवासु दशसु दिक्षु तपति। अथ यद् आदित्यो ऽहर् इत्य् एष ह्य् एवाहः। तद् आहुर् याजयितव्यं द्वादशाहेना3 ना3 इति। नेति ब्रूयात्

3.376

आप्नोति वा एष स्तोमान्, आप्नोति छन्दांस्य्, आप्नोति देवान्, आप्नोति लोकान्, आप्नोति कामान् यो द्वादशाहेन याजयति। स उ दुग्ध आभिर् अलोको भवति। अथो ये च विजानन्ति ये च न त एनं मन्यन्ते कृतं करोतीति। तस्माद् द्वादशाहेन नैव याजयेत्। तद् उ वा आहुर् याजयितव्यम् एव। प्रजापतिर् वै द्वादशाहः, प्रजापतिर् उद्गाता, प्रजापतिर् यजमानः। समानी वै देवतोद्गाता च यजमानश् च। समानीम् वा एताव् ऋद्धिम् ऋध्नुतस्, समानं लोकं जयत, समान्यां देवतायां प्रतितिष्ठतः। अथो यज्ञो वै यजमानो, ब्रह्मोद्गाता। यज्ञ एव तत् प्रतिष्ठाय ब्रह्मणस् सलोकतां जयति। सलोकितरो यजमानाद् भवति। तद् आहुर् - यद् एकैवेदं देवता सर्वम् अभवद् द्वादशाह एव, कतमा सा देवतेति

3.377

प्राण इति ब्रूयात्। प्राणो वा इदं सर्वम् अभवत्। स यद् द्वार् इत्य् एतद् ध्य् एवेदं सर्वं द्वारम् उपजीवति। अथ यद् दा इत्य् एष हीदं सर्वं ददाति। अथ यच्छा इत्य् एष हीदं सर्वं शं स्पृशति। अथ यद् धा इत्य् एष हीदं सर्वं हरति। स य एतद् एवं वेद यदि च ह साधु करोति यदि च न, अथ हास्य् साध्व् एव कृतं भवति। अथो ह विद्यात् - साध्व् एवाहं करोमि, नासाधु। यस् साधुकृतो लोकस् स मे लोक इति। तस्य ह स एव लोको भवति। सर्वस्य ह वा अन्यस्य लोको जीर्यति। एवंविदो हैव लोको न जीर्यति। सैषा प्रणेता देवता। एषा हीदं देवता सर्वं प्राणयत। तद् यत् प्राणयत तस्मात् प्राणः। स यद् अस्माल् लोकाद् एवंवित् प्रैत्य् एषा हैवैनं देवतादायोत्पतति। सैनं तं लोकं गमयति, य एतस्यै , यतः परं नास्ति। तद् आहुः स वाद्य द्वादशाहेन यजेत स वा द्वादशाहेन याजयेद्, य एतम् आदित्ये प्रतिष्ठितं विद्याद् इत्य् - आदित्यो वै द्वादशाहस् - तस्याहोरात्राव् एव प्रायणीयोदयनीयौ। अहर् एव प्रायणीयो, रात्रिर् उदयनीयः। तस्य ये प्राञ्चो रश्मयस् तत् प्रथमम् अहः

3.378

ये दक्षिणास् तद् द्वितीयं, ये प्रत्यञ्चस् तत् तृतीयं, य उदञ्चस् तच् चतुर्थं, य ऊर्ध्वास् तत् पञ्चमं, य अर्वाञ्चस् तत् षष्ठं, यद् एव भाति तत् सप्तमं, यत् तपति तद् अष्टमं, यद् एव ताम्रम् इव तन् नवमं, मण्डलम् एव दशमम् अहः। स एष द्वादशाह आदित्ये प्रतिष्ठितः। स य एवम् एतं द्वादशाहम् आदित्ये प्रतिष्ठितं वेद प्रत्य् आदित्ये तिष्ठति, सर्वम् आयुर् एत्य्, अप पाप्मानं हते, गच्छति स्वर्गं लोकं य एवं वेद। इत्य् अधिदेवतम्। अथाध्यात्मम्। अयम् एव द्वादशाहो यो ऽयं चक्षुषि पुरुषः। तस्य पक्ष्माण्य् एव प्रायणीयोदयनीयौ - यान्य् अर्वाञ्चि पक्ष्माणि स प्रायणीयो, यान्य् ऊर्ध्वानि स उदयनीयः। तस्याधरैव वर्तनी प्रथमम् अहः -

3.379

- उत्तरा द्वितीयं, सममेषस् तृतीयं, शुक्लं चतुर्थं, कृष्णं पञ्चमं, कनीनिका षष्ठम्। य एवैष पुरुषस् तस्य ये प्राणास् तान्य् उत्तराण्य् अहानि। प्राण एव सप्तमम् अहश्, चक्षुर् अष्टमं, श्रोत्रं नवमं, वाग् एव दशमम् अहः। स यद् द्वाव् इति द्वाव् एव हेमौ पुरुषौ दृश्येते। अथ यद् दा इत्य् एष हीदं सर्वं दत्ते। अथ यच् छा इत्य् एष हीदं सर्वं शं स्पृशति। अथ यद् धा इत्य् एष हीदं सर्वं हरति। स एष एवोक्थ्यम्। एष हीदं सर्वम् उत्थापयतीव्। तस्माद् एष एवोक्थम्। स एष एवर्क्। ऊर्घ वै नामैष। तम् ऋग् इति परोक्षम् आचक्षते। तस्माद् एष एवर्क्। स एष एव यजुः। एष हीदं सर्वं जरयतीव। तस्माद् एष एव यजुः। स एष एव साम। एतं ह तं हीदं सर्वं समेतम्। तस्माद् एष एव साम। स एष एवोद्गीथः। स यद् उद् इत्य् एतेन हीदं सर्वम् उत्तब्धम्। अथ यद् गीत्य् एष हीदं सर्वं गिरति। अथ यत् थ इत्य् अन्नम् एवास्यैतत्। तस्माद् एष एवोद्गीथः। स एष एव ब्रह्म। एष हीदं सर्वं बिभर्ति। तस्माद् एष एव ब्रह्म। भर्म ह वै नामैषः। तद् ब्रह्मेति परोक्षम् आचक्षते। बिभर्ति हैनम् एषा देवतास्मिंश् च लोके ऽमुष्मिंश् च य एवं वेद। स य एवम् एतं द्वादशाहम् अधिदेवतम् अधिसूर्यम् अधिपुरुषम् अध्यात्मन् प्रतिष्ठितं वेद प्रत्य् आदित्ये तिष्ठति, सर्वे हास्मै वेदास् सर्वे देवास् सर्वे लोकाः कामान् दुह्रे। अतीत्य देवान् ब्रह्मणस् सलोकतां जयति। स एष एवोक्थम् एष ऋग् एष यजुर् एष सामैष उद्गीथ एष ब्रह्मैष एवेदं सर्वम् इत्य् उपासितव्यम्

3.380

इदम् एवेदम् अग्रे ऽन्तरिक्षम् आसीत्। तद् व् एवाप्य् एतर्हि। तद् एतद् वितानं यद् इमान् लोकान् व्याप्तम्। तस्माद् द्वि नाम। तद् अकामयत स्यां प्रजायेय भूमानं गच्छेयम् इति। तत् तपो ऽतप्यत। तत् तप्यमानम् अद्योतत। वीव वा इदम् अद्युतद् इति। सैषा विद्युद् अभवत्। एषो ऽर्चिर् एतज् ज्योतिः। विद्युद् भूत्वातप्यत। तत स्तनयित्नुर् अजायत। तस्माद् यदा विद्योतते ऽथ स्तनयति। स्तनयित्नुर् भूत्वातप्यत। ततो वृष्टिर् अजायत। तस्माद् यदा स्तनयत्य् अथ वर्षति। तद् इदम् आपो महत् सलिलम् आसीत्। यद् ध वा इदम् आहुर् आपो वा इदम् अग्रे महत् सलिलम् आसीद् इत्य् एतास् ता आपः। आपो भूत्वातप्यत। ततो ऽन्नम् अजायत। अन्नं भूत्वातप्यत। ततो ऽन्नमयः पुरुषो ऽजायत प्रजानां जनयिता। स आस्व् अप्स्व् अन्तर् भूर् भुव स्वर् इति व्याहरत्। त एवेमे लोका अभवन्। तद् दिशो ऽन्वसृज्यन्त। सो ऽब्रवीद् इमा वै मे सद् अभूद् इति। त एव मासा अभवन्। ऋद्धिषि वा इति ते ऽर्धमासाः। अहम् अरात्सम् ओषम् इति यद् अहम् इति तान्य् अहान्य् अभवन्। यद् अरात्सम् इति ता रात्रयो, यद् ओषम् इति ता उषसः। स यां जायमानो वाचम् अवदत् स एव त्रयो वेदो ऽभवत्। यद् धैवैषाग्रे किं च देवता जायमानोवाद तद् उ ह ब्रह्मैव बभूव । स ऐक्षत - यम् इमं त्रयं वेदम् असृक्षि हन्तास्मात् सृजा इति

3.381

स त्रिवृता स्तोमेन गायत्रीम् अभ्यक्रन्दत्। ततो वसून् असृजताग्निमुखान्। पञ्चदशेन स्तोमेन त्रिष्टुभम् अभ्यक्रन्दत्। ततो रुद्रान् असृजतेन्द्रमुखान्। सप्तदशेन स्तोमेन जगतीम् अभ्यक्रन्दत्। तत आदित्यान् असृजत वरुणमुखान्। एकविंशेन स्तोमेनानुष्टुभम् अभ्यक्रन्दत्। ततो विश्वान् देवान् असृजत विष्णुमुखान्। त्रिणवेन स्तोमेन पंक्तिम् अभ्यक्रन्दत्। ततो मरुतो ऽसृजतेशानमुखान्। त्रयस्त्रिंशेन स्तोमेनातिछन्दसम् अभ्यक्रन्दत्। ततस् साध्यांश् चाप्त्यांश् चासृजत सवितृमुखान्। पञ्चविंशेन स्तोमेन बृहतीम् अभ्यक्रन्दत्। ततो गन्धर्वान् असृजत मित्रमुखान्। विराजम् अभ्यक्रन्दत्। ततो ऽप्सरसो ऽसृजत त्वष्टृमुखाः। ककुभम् अभ्यक्रन्दत्। ततस् सर्पान् असृजताङ्गिरसोमुखान्। उष्णिहम् अभ्यक्रन्दत् । ततो ऽङ्गिरसो ऽसृजताथर्वमुखान्। अक्षरपंक्तिम् अभ्यक्रन्दत्। ततो ऽसुरान् असृजतासितमुखान्। विष्टारपंक्तिम् अभ्यक्रन्दत्। ततः पितॄन् असृजत यममुखान्। द्विपदाम् अभ्यक्रन्दत्। ततो मनुष्यान् असृजत मृत्युमुखान्। एकपदाम् अभ्यक्रन्दत्। ततो वयांस्य् असृजत मृत्युमुखान्य् उ एव। अमितच्छन्दो ऽभ्यक्रन्दत्। ततः पशून् असृजत धातृमुखान्। स इदं सर्वं सृष्ट्वोर्ध्वं उदक्रामत्। सो ऽगच्छद् यत्रैनम् एतद् उपरि वेदयन्ते

3.382

तम् अस्यां प्राच्यां दिशि वसवो ऽन्वैच्छन्न् अग्निमुखाः। ते ऽन्वविन्दन् यद् अर्चिषो रूपं तत्। तद् एवास्य त उपासते। तम् अस्यां दक्षिणायां दिशि रुद्रा अन्वैच्छन्न् इन्द्रमुखाः। ते ऽन्वविन्दन् यद् आदित्यस्य रूपं तत्। तद् एवास्य त उपासते। तम् अस्यां प्रतीच्यां दिश्य् आदित्या अन्वैच्छन् वरुणमुखाः। ते ऽन्वविन्दन् यच् चन्द्रमसो रूपं तत्। तद् एवास्य ते उपासते। तम् अस्याम् उदीच्यां दिशि विश्वे देवा अन्वैच्छन् विष्णुमुखाः। ते ऽन्वविन्दन् यद् विद्युतो रूपं तत्। तद् एवास्य त उपासते। तम् अस्याम् ऊर्ध्वायां दिशि मरुतो ऽन्वैच्छन्न् ईशानमुखाः। ते ऽन्वविन्दन् यत् श्वेतं रूपं तत्। तद् एवास्य त उपासते। तम् एतस्मिन् परे लोके साध्याश् चाप्त्याश् चान्वैच्छन् सवितृमुखाः। ते ऽन्विन्दन् यत् कृष्णं रूपं तत्। तद् एवास्य त उपासते। तम् अस्मिन्न् एवान्तरदेशे गन्धर्वा अन्वैच्छन् मित्रमुखाः ते ऽन्वविन्दन् यत् सुवर्णस्य हिरण्यस्य रूपं तत्। तद् एवास्य त उपासते। तम् अस्मिन्न् एवान्तरदेशे ऽप्सरसो ऽन्वैच्छंस् त्वष्टृमुखाः। ता अन्वविन्दन् यद् रजतस्य हिरण्यस्य रूपं तत्। तद् एवास्य ता उपासते। तं सर्पा अन्वैच्छन्न् अङ्गिरोमुखाः। ते ऽन्वविन्दन् यन् मधुनो रूपं तत्। तद् एवास्य त उपासते। तम् अङ्गिरसो ऽन्वैच्छन्न् अथर्वमुखाः। ते ऽन्विन्दन् यद् धुतस्य रूपं तत्। तद् एवास्य त उपासते। तम् असुरा अन्वैच्छन्न् असितमुखाः। ते ऽन्वविन्दन् यत् सुरायै रूपं तत्। तद् एवास्य ते उपासते

3.383

तस्मात् ते पराभूताः। ते ह्य् अस्य पापिष्ठम् उपासते। तं पितरः पितृलोके ऽन्वैच्छन् यममुखाः। ते ऽन्वविन्दन् यद् अपां रूपं तत्। तद् एवास्य त उपासते। तं मनुष्या अन्वैच्छन् मृत्युमुखाः। ते ऽन्वविन्दन् यत् क्षीरोदनस्य रूपं तत्। तद् एवास्य त उपासते। तद् एतद् ध वा एतद् अग्रे ऽन्नस्य रूपम् आस यत् क्षीरौदनः। तस्येयं विकृतिर् यद् इदं मनुष्या उपासते। तं वयांस्य् अन्वैच्छन् मृत्युमुखान्य् उ एव । तान्य् अन्विन्दन् हिरण्यपक्षश् शकुन इति। तत् तद् एवास्य तान्य् उपासते। तं पशवो ऽन्वैच्छन् धातृमुखाः। ते ऽन्वविन्दन् हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति। तत् तद् एवास्य त उपासते। तद् एतद् ध वा एतस्यै देवतायै सात्ययज्ञयो रूपम् उपासते हिरण्यशृङ्गो हिरण्यशफः कृष्ण ऋषभ इति। स य एतद् एवं वेद ऋषभ एव स्वानां भवति। अथो यो ऽयं तपति -

3.384

- सो ऽस्याम् ऊर्ध्वायां दिश्य् अन्वैच्छत्। तम् एतैस् सर्वै रूपैस् सहासीनम् अन्वविन्दत्। तान्य् एतस्मा एव सर्वाणि रूपाणि प्रायच्छत्। तद् यद् इदम् इह कल्याणं रूपम् आजायते। यद् एवैष प्रयच्छति तद् इदम् इहाजायते। स यद् भूर् भुव स्वर् इति व्याहरत् त एवेमे त्रयो लोका अभवन्न् उपोदक ऋतधामा ऽपराजितः। अथ यत् करज् जनद् वृधत् इति व्याहरत् त एवैते ऽपरे लोका अभवन्न् अधिदिवः प्रदिवो रोचनः। विष्टप एव सप्तमो ब्रह्मलोको यस्मिन्न् एतत् सत्यं भाति। तम् एषा देवता सत्यं भूत्वानुप्राविशत्। तत् सद् वै प्राणस् सत्याः प्रजाः। तेनास्य सत्येनेदं सर्वं संगृहीतं भवति। यदि च ह सत्यं वदति यदि च नाथ हास्य सत्यम् एवोदितं भवति। अथो ह विद्यात् सत्यम् एवाहं वदामि नानृतं, यत् सत्यं वदतो लोकस् स मे लोक इति। तस्य ह स एव लोको भवति। तद् यथेदं वयं मीमांसामह इदं ब्रह्मेदं ब्रह्मेत्य् एवम् एवैषा देवतैतद्विदांसं(विद्वांस) मीमांसते न हैष चन तद् वेद। मा सो देवता प्रविष्टेति य एव तद् वेद स एव तद् वेद। एतं सा देवता प्रविष्टेति। न ह वा एवंविदः किं चनाविदितं भवति न का चन देवता

3.385

तस्यैष श्लोकः -
इतः परस्तात् पर उ परस्मात् परस् तृतीयाद् उत वा चतुर्थात्।
सहस्रस्थूणे विमिते दृढ उग्रे यत्र देवानाम् अधिदेव आस्ते॥
इति। एष ह वाव स देवानाम् अधिदेवो य एष तपति। तस्यैतत् सहस्रस्थूणं विमितं दृढं उग्रं यत् संवत्सर ऋतवो मासा अर्धमासा अहोरात्राण्य् उषसः। स य एवम् एतत् सर्वं द्वादशाहम् आत्मानम् अभि संपद्यमानं वेद सर्व एनं कामा अभि संपद्यन्ते। द्वादशाहे वै सर्वे स्तोमा सर्वाणि पृष्ठानि सर्वाणि छन्दांसि सर्वाणि सवनानि सर्वे पशवस् सर्वे देवास् सर्वे लोकास् सर्वे कामा , द्वादशाहम् अन्वायत्ता। द्वादशाहम् अन्वाभक्ता, द्वादशाहम् अनुसंतृप्यन्ति, द्वादशाहे संपन्ना, द्वादशाहे प्रतिष्ठिताः। तद् आहुर् यद् एतानि दशैवाहान्य् अथ कस्माद् द्वादशाह इत्य् आख्यायत इति। स ब्रूयाद् यद् एवैते द्वादशाग्निष्टोमा संपद्यन्ते तेनेति

3.386

तद् आहुर् यत् त्रयोदश मासास् संवत्सरस् संवत्सरश् च चतुर्दशो, ऽथ केन त्रयोदशं च मासम् उपाप्नुवन्ति संवत्सरं च चतुर्दशम् इति। अतिरात्राभ्याम् इति ब्रूयात्। प्रायणीयेनातिरात्रेण त्रयोदशं मासम् उपाप्नुवन्त्य्, उदयनीयेन संवत्सरं चतुर्दशम्। तद् आहुस् स वाद्य द्वादशाहं विद्यात्, स वा वेदेति मन्येत, य एनं सर्वेषु लोकेषु प्रतिष्ठितं विद्याद् इति। मासा वै द्वादशाहस्याहानि, त एव लोका, एत एव देवलोकाः। फाल्गुनो वै मासो द्वादशाहस्य प्रथमम् अहश्, चैत्रो द्वितीयं, वैशाखस् तृतीयम्, आषाढापौर्णमासश् चतुर्थं, श्रोणाश्रविष्ठः पञ्चमं, शातभिषजष् षष्ठं, प्रोष्ठपदः सप्तमम्, आश्वयुजो ऽष्टमं, कार्तिको नवमम्, मार्गशीर्षो दशमं, तैष एकादशं, माघो द्वादशं, प्रायणीय एवातिरात्रस् त्रयोदशो मास, उदयनीयस् संवत्सरश् चतुर्दशः। स एष द्वादशाहस् सर्वेषु लोकेषु प्रतिष्ठितः। स य एवम् एतं द्वादशाहं सर्वेषु लोकेषु प्रतिष्ठितं वेद सर्वेषु लोकेषु प्रतितिष्ठति। स एष वाव द्वादशाहो य एष तपत्य्, एष इन्द्र, एष प्रजापतिर्, एष एवेदं सर्वम् इत्य् उपासितव्यम्। एष एवेदं सर्वम् इत्य् उपासितव्यम्

--------------------------------------------------------
टंकण तिथि - 5-7.2014ई.(आषाढ शुक्ल अष्टमी, विक्रम संवत् 2071)

मूल पाठ: jaiminīyaṃ brāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc