जैमिनीयं ब्राह्मणम् · अध्याय 1
जैमिनीयं ब्राह्मणम्
प्रथम काण्डम् (अग्निहोत्रम्)
तद् आहुः केन जुहोति कस्मिन् हूयत इति। प्राणेनैव जुहोति प्राणे हूयते॥
तद् यद् एतद् अग्नीन् मन्थन्ति यजमानस्यैव तत् प्राणान् जनयन्ति। तद् यावद् वै मन्थन्त न तर्हि प्राणिति। अरण्योर् एवास्य तर्हि प्राणा भवन्ति॥
तस्य वै मथ्यमानस्य भस्मावशीयते। अन्नम् एवास्य तज् जायते। अन्नं म एतद् अजनीत्य एव तद् विद्यात्॥
धूमो ऽनु निनर्दति। मन एवास्य तज् जायते। मनो म एतद् अजनीत्य एव तद् विद्यात्॥
अङ्गारो ऽनु निर्वर्तते। चक्षुर् एवास्य तज् जायते। चक्षुर म एतद् अजनीत्य एव तद् विद्यात्॥
स एषो ऽङ्गार एतानि भस्मानि ग्रसते। यथा कुमारो जातस् स्तनम् अभिपद्येत तथा तिर्यङ् विसर्पति। श्रोत्रम् एवास्य तज् जायते। श्रोत्रं म एतद् अजनीत्य् एव तद् विद्यात्॥
उपरि तृणानि धुनोति। प्राण एवास्य स जायते। प्राणो म एषो ऽजनीत्य् एव तद् विद्यात्॥
भा इत्य् उद्दीप्यते। वाग् एवास्य सा जायते। वाङ् म एषाजनीत्य एव तद् विद्यात्॥
स एतान् पञ्च प्राणान् जनयते। तांस् त्रेधा व्यूह्य देवान् कृत्वा तेषु जुह्वद् आ ते। देवा हैवास्य देवा भवन्ति। इमे त्व् एवास्य देवा भवन्ति येषु जुह्वद् आस्त
तद् यद् आहुः -- केन जुहोति कस्मिन् हूयत इति -- प्राणेनैव जुहोति प्राणे हूयते। तद् एतद् अन्नं प्राणे जुहोति। स एषो ऽन्नं कामयमान इमान् हि प्राणान् अभि वर्धयमानस् तेषु जुह्वद् आस्ते। अथैतद् ध वाव ब्राह्मणस्य स्वर् यद् धविः। तद् आत्मन् निधत्त एष्व अमृतेषु प्राणेषु। तद् अस्यात्मन् निहितं न प्रमीयते॥
तद् यदा वै मन उत्क्रामति यदा प्राणो यदा चक्षुर् यदा श्रोत्रं यदा वाग् एतान् एवाग्नीन् अभिगच्छति। अथास्येदं शरीरम् एतेष्व एवाग्निष्व् अनुप्रविध्यन्ति अस्माद् वै त्वम् अजायथा एष त्वज् जायतां स्वाहा इति। सो ऽत आहुतिमयो मनोमयः प्राणमयश् चक्षुर्मयश् श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतस् संभवति। अमृता हैवास्य प्राणा भवन्ति। अमृतशरीरम् इदं कुरुते। सो ऽमृतत्वं गच्छति य एवं विद्वान् अग्निहोत्रं जुहोति
प्रजापतिस् सहस्रसंवत्सरम् आस्त। स सप्त शतानि वर्षाणां समाप्येमाम् एव जितिम् अजयद् यास्येयं जितिस् ताम्॥
स स्वर्गं लोकम् आरोहन् देवान् अब्रवीद् एतानि यूयं त्रीणि शतानि वर्षाणां समापयाथेति। तथेति। ते त्रीणि शतानि वर्षाणां समाप्य ताम् उ एव जितिम् अजयन् यां प्रजापतिर् अजयत्। त एते सर्व एव प्रजापतिमात्रा अयामयाम् ? इति॥
ते ऽब्रुवन् देवशरीरैर् वा इदम् अमृतशरीरैस् समापाम न वा इदं मनुष्यास् समाप्स्यन्ति। एतेमं यज्ञं संभरामेति। तं संवत्सरम् अभिसमभरन्। ते ऽब्रुवन् महद् वा इदं सम् एव भरामेति। तं द्वादशाहम् अभिसमभरन्। ते ऽब्रुवन् महद् वा इदं सम् एव भरामेति। ते पृष्ठ्यं षडहम् अभिसमभरन्। ते ऽब्रुवन् महद् वा इदं सम् एव भरामेति
तं त्रिरात्रं तं द्विरात्रं तम् अप्तोर्यामं तम् अतिरात्रं तं वाजपेयं तं षोडशिनं तम् उक्थ्यं तम् अग्निष्टोमं तम् इष्टिपशुबन्धांस् तं चातुर्मास्यानि तं दर्शपूर्णमासौ तम् एते अग्निहोत्राहुती अभिसमभरन्। सो ऽतो न पराजयते। तद् वा अपराजितं यद् अग्निहोत्रम्। न ह वै पराजयते य एवं वेद॥
स यत् पुरस्ताद् अप उपस्पृशति -- सत्यं वा आपस् सत्यं दीक्षा -- दीक्षैवास्य सा॥
अग्निर् ज्योतिर् ज्योतिर् अग्निस् स्वाहा इत्य् अष्टाक्षरेण जुहोति। अष्टाक्षरा गायत्री। तद् एव प्रातःसवनम्। मनसा निष्केवल्येनोत्तराम् आहुतिं जुहोति। तद् एव माध्यंदिनं सवनम्। उपमृष्टे प्राश्नाति। तद् एव तृतीयसवनम्। लेलिहितम् इव हि तत् तृतीय सवनम्॥
उपरिष्टाद् अप उपस्पृशति। अवभृथ एवास्य सः॥
स यद् एते सायमाहुती जुहोत्य् एताभ्याम् एवास्याहुतिभ्यां सर्वैर् एतैर् यज्ञक्रतुभिर् इष्टं भवति॥
अथ यद् एते प्रातराहुती जुहोत्य् एताभ्याम् एवास्याहुतिभ्यां सर्वैर् एतैर् यज्ञक्रतुभिर् इष्टं भवति॥
तद् एतद् अपर्यन्तं यद् अग्निहोत्रम्
अथ पशुकामस् सायं पशुषु समेतेष्व् अग्निहोत्रं जुहुयात्। ब्रह्म वा अग्निहोत्रम्। ब्रह्मणैवैतत् पशून् परिगृह्णाति। अविसृष्टेषु प्रातः। ब्रह्म वा अग्निहोत्रम्। ब्रह्मणैवैतत् पशून् परिगृह्णाति। स एतान् ब्रह्मणोभयतः पशून् परिगृह्णीते। अव पशून् रुन्द्धे। बहुपशुर् भवति॥
अथ स्वर्गकामः द्वौ समुद्राव् अचर्यौ विततौ महान्ताव् आवरीवर्तेते चर्येव पादौ इति। द्वौ हेव समुद्राव अचर्याव् अहश् चैव रात्रिश् च। ते ये नक्तं जुह्वति रात्रिम् एव ते समुद्रं प्रविशन्ति। अथ य उदिते जुह्वत्य् अहर् एव ते समुद्रं प्रविशन्ति। तयोर् वा एतयोर् अत्ययनम् अस्ति यथा वैषवं वा स्यात् सेतोर् वा संक्रमणम्। अस्तम् इते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात्
अथो हैतौ श्यामशवलाव् एव यद् अहोरात्रे। अहर् वै शवलो रात्रिश् श्यामः। ते ये नक्तं जुह्वति रात्रिम् एव ते श्यामं प्रविशन्ति। अथ य उदिते जुह्वत्य अहर् एव ते शबलं प्रविशन्ति। तयोर् एतद् एवात्ययनम् , अस्तम् इते पुरा तमिस्रायै सुव्युष्टायां पुरोदयात्॥
अथो हैषु सवितैव द्युम्नः। सविता वै प्रजापतिः प्रजापतिर् विश्वे देवाः। प्रजापताव् एवास्य तद् विश्वेषु देवेषु हुतं भवति। तद् एतत् प्राजापत्यं यद् अग्निहोत्रम्॥
अथ यद् एतत् प्रातः प्रभाति , एतस्मिन् वै द्युम्ने प्रजाः प्रजनयांचकार। सविता वै प्रजापतिः प्रजापतिर् विश्वे देवाः , प्रजापताव् एवास्य तद् विश्वेषु देवेषु हुतं भवति। तद् एतद् वैश्वदेवं यद् अग्निहोत्रम्॥
अथो हैतद् अहोरात्रे एवंमुखं संधत्तः। अन्नं वा अग्निहोत्रम्। अन्नाद्यम् एवैतद् अहोरात्रयोर् मुखतो ऽपिदधाति। एवम् एव पुनः प्रातस् संधत्तः॥ अन्नं वा अग्निहोत्रम्। अन्नाद्यम् एवैतद् अहोरात्रयोर् मुखतो ऽपिधायैतौ पुनर्मृत्यू अतिमुच्यते यद् अहोरात्रे
असौ वा आदित्यो ऽस्तं यन् षोढा विम्रोचति। व्यम्रुचद् इति ह स्म वा एतं पूर्वे पुराणिन आचक्षते। अथैतर्हि न्यम्रुचद् इति॥
स वा एषो ऽस्तं यन् ब्राह्मणम् एव श्रद्धया प्रविशति पयसा पशूंस् तेजसाग्निम् ऊर्जौषधी रसेनापस् स्वधया वनस्पतीन्॥
स यद् ब्राह्मणो ऽग्निहोत्रपात्राणि निर्णेनेक्ति यत् परिचेष्टति ययैवैनं श्रद्धया प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥
अथ यत् पयो दुहन्ति येन पयसा पशून् प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति॥
अथ यद् अङ्गारान् निरूहति येन तेजसाग्निं प्रविष्टो भवति तद् एवास्मिंस् तत् संभरति॥
अथ यत् तृणेनावद्योतयति ययोर्जौषधीः प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति॥
अथ यद् अपः प्रत्यानयति येन रसेनापः प्रविष्टो भवति तम् एवास्मिंस् तत् संभरति॥
अथ यत् समिधम् अभ्यादधाति यया स्वधया वनस्पतीन् प्रविष्टो भवति ताम् एवास्मिंस् तत् संभरति
तम् एवं संभृत्य सायं जुहोति। स तां गर्भकृतो रात्रिं वसति। एवम् एव पुनस् संभृत्य प्रातर् जुहोति। तं जनयति। सो ऽस्य जायमान एव सर्वं पाप्मानम् अपहन्ति। देवा वै प्रजापतेर् अजायन्त। एष उ एवंविदो जायते। स यावन्तं प्रजापतिर् लोकम् अजयत् तावन्तं जयति॥
अथो हेक्षत ऽयं वाव माम् अनुष्ठ्या संभरति हन्तायं साङ्गस् सतनुर् अविह्रुतो जरसं गच्छत्व् इति। स ह साङ्ग एव सतनुर् अविह्रुतो जरसं गच्छति॥
अथो हेक्षते ऽयं वाव माम् अनुष्ठ्या वद् हन्तेमम् एवाविशानीति। स हैवंविदम् एवाविशति॥
स एष वा एको वीरो य एष तपत्य् एष इन्द्र एष प्रजापतिः। एतस्मिन् हास्य तद् धुतं भवति य एवं विद्वान् अग्निहोत्रं जुहोति
यद् ध वा अह्ना पापं क्रियत आदित्यस् तत् कारयति। यद् रात्र्याग्निस् तत्। ताव् अब्रूताम् इत्थं चेद् वै भविष्यावो न वै तर्हि शक्ष्यावः प्रजा भर्तुम्। हन्तान्नम् एवासावान्योन्यस्मिन्न् एवात्मानं जुहवावेति। स यद् आदित्यो ऽस्तम् एत्य् अग्नाव् एव तद् आत्मानं जुहोति। स यत् किं चादित्यो ऽह्ना पापं करोति तद् अस्याग्नी रात्र्यापहन्ति॥
आदित्यम् उद्यन्तम् अग्निर् अनूदेति। आदित्य एव तद् आत्मानं जुहोति। स यत् किं चाग्नौ रात्र्या पापं करोति तद् अस्यादित्यो ऽह्नापहन्ति। स यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निर्मुच्यते स य एवं विद्वान् अग्निहोत्रं जुहोति
सायमाहुत्यैव यत् किं चाह्ना पापं करोति तद् अस्याग्नी रात्र्यापहन्ति। प्रातराहुत्यैव यत् किं च रात्र्या पापं करोति तद् अस्यादित्यो ऽह्नापहन्ति। स यथाहिर् अहिच्छव्यै निर्मुच्येत यथा मुञ्जाद् इषीकां विवृहेद् एवम् एव सर्वस्मात् पाप्मनो निर्मुच्यते। तद् यथा हिरण्ये ध्माते न कश् चन न्यङ्गः पाप्मा परिशिष्यत एवं हैवास्मिन् न कश चन न्यङ्गः पाप्मा परिशिष्यते य एवं विद्वान् अग्निहोत्रं जुहोति
अथ ह स्माह नगरी जानश्रुतेयो ऽसौ वा आदित्यो ऽस्तं यन्न् अग्निम् एव योनिं प्रविशतीति। स यद् एते सायमाहुती जुहोत्य् एतस्यैव तद् आदित्यस्य पृष्ठे प्रतितिष्ठति। यथोभयापदी प्रतितिष्ठेत् तादृक् तत्॥
अथ यद् एते प्रातराहुती जुहोत्य् उत्थापयत्य् एवैनं ताभ्याम्। स यथा हस्ती हस्त्यासनम् उपर्य् आसीनम् आदायोत्तिष्ठेद् एवम् एवैषा देवतैतद् विद्वांसं जुह्वतम् आदायोदैति॥
सैनं तं लोकं गमयति य एतस्यै यतः परं नास्ति। स यत् किं च पराचीनम् आदित्यात् तद् अमृतं तद् अभिजयति। अथ यद् अर्वाचीनम् आदित्याद् अहोरात्रे तद् उपमथ्नीताम् इतो यथा रेष्म्णोपमथ्न्याद् एवम्। बहवो ह वा आदित्यात् पराञ्चो लोकाः। ते ऽस्य सर्व आप्ता भवन्ति ते जिताः। तेष्व् अस्य सर्वेषु कामचारो भवति य एवं विद्वान् अग्निहोत्रं जुहोति
देवा वै मृत्युना समयतन्त। स यो ह स मृत्युर् अग्निर् एव सः। ते ऽब्रुवन्न् एते ऽमुं जिगीषामेति। ते ऽब्रुवन्न् आज्याहुतिं जुहुवाम तयैनं जिगीषामेति। तथेति। त आज्याहुतिम् अजुहवुः। ताम् अन्नम् अकुरुत तां प्रत्युददीप्यत। तस्माद् यत्राज्याहुतिं जुह्वति प्रत्युद्दीप्यत एव॥
ते ऽब्रुवन् पश्वाहुतिं जुहवाम तयैनं जिगीषामेति। तथेति। ते पशुम् आलभ्य मेदस् समवदाय पश्वाहुतिम् अजुहवुः। ताम् अन्नम् अकुरुत तां प्रत्युददीप्यत। तस्माद् यत्र पश्वाहुतिं जुह्वति प्रत्युद्दीप्यत एव॥
ते ऽब्रुवन् क्षीराहुतिं जुहवाम तयैनं जिगीषामेति। तथेति ते क्षीराहुतिम् अजुहवुः। तयैनम् अजयन्। तस्माद् यत्र क्षीराहुतिं जुह्वत्य् अङ्गारा एव भवन्ति।
ते ऽब्रुवन्न् अजेषु वा एनम् अन्नेन हन्तानपजय्यं जिगीषामेति
ते ऽब्रुवन् सोमाहुतिं जुहवाम तयैनं जिगीषामेति। तथेति। ते सोमेनायजन्त। ते सोमाहुतिम् अजुहवुः। तयैनं प्राजयन्। तस्माद् यत्र सोमाहुतिं जुह्वत्य अङ्गारा एव भवन्ति॥
स य एवं विद्वान् आज्याहुतिं च पश्वाहुतिं जुहोति प्रियम् एवास्य तेन धामोपगच्छति। अथ यत् क्षीराहुतिं जुहोति जयत्य् एवैनं तेन। अथ यत् सोमाहुतिं जुहोति यथा जित्वा प्रजयेत् तादृक् तत्। स एतौ पुनर्मृत्यू अतिमुच्यते यद् अहोरात्रे
सोमाहुतिघट्टः। प्राणाय त्वा इति समिधम् अभ्यादधाति। अपाने ऽमृतम् अधां स्वाहा इति जुहोति। अथ स्रुचम् अभिमृशति हृदयं प्रेतिर् मनस् संततिश् चक्षुर् आनतिश् श्रोत्रम् उपनतिर् वाग् आगतिः॥ प्रतीतं देवेभ्यो जुष्टं हव्यम् अस्थात्॥ अमृते माम् अधात्॥ आ मां प्राणा विशन्तु भूयसे सुकृताय इति। स ह भूय एव सुकृतं करोति। अथो हैनम् अमुष्मिन् लोके न पापिवाग् आगच्छति य एवं विद्वान् अग्निहोत्रं जुहोति
तद् आहुर् यज् जीवन् पुरुषः करोत्य एव साधु करोति पापं का तयोर् दुष्कृतृसुकृतयोर् व्यावृत्तिर् इति। यद् ध वै जीवन् पुरुषस् साधु करोति प्राणांस् तद् अभिसंपद्यते। अथ यद् दुष्कृतं शरीरं तत्। स यद् अस्माल् लोकाद् एवंवित् प्रैति तस्य प्राणेन सह सुकृतम् उत्क्रामति शरीरे सह दुष्कृतं हीयते। तद् आहुर् दुर्विदितं वैतद् यदा मर्त्यवान् दुष्कृतेन सह वसात्। यो वा एतेन जीवन्न् एव व्यावर्तते तत् सुविदितम् इति। तद् वा एतद् अग्निहोत्रम् एवाभिसंपद्यते
मनो वा अनु प्राणा वाचम् अन्व् आत्मा। स यद् वाचा पूर्वाम् आहुतिं जुहोति मनसोत्तरां तद् दुष्कृतसुकृते व्यावर्तयति। तस्माद् आहुर् नैते आहुती संसृज्ये। दुष्कृतसुकृते ह्य् एताभ्यां व्यावर्तयतीति॥
स यत् सायमाहुत्योर् वाचा पूर्वाम् आहुतिं जुहोति यत् एवाह्ना पापं करोति तस्माद् एव तया व्यावर्तते। अथ यन् मनसोत्तरां यद् एव रात्र्या पापं करोति तस्माद् एव तया व्यावर्तत॥
अथ यत् प्रातराहुत्योर् वाचा पूर्वाम् आहुतिं जुहोति यद् एव रात्र्या पापं करोति तस्माद् एव तया व्यावर्तते। अथ यन् मनसोत्तरां यद् एवाह्ना पापं करोति तस्माद् एव तया व्यावर्तते। स एषो ऽहरहर् दुष्कृतेन व्यावर्तमान एति य एवं विद्वान् अग्निहोत्रं जुहोति
द्वे ह वाव योनी। देवयोनिर् हैवान्या मनुष्ययोनिर् अन्या। द्वा उ हैव लोकौ। देवलोको हैवान्यो मनुष्यलोको ऽन्यः॥
सा या मनुष्ययोनिर् मनुष्यलोक एव सः। तत् स्त्रियै प्रजननम्। अतो ऽधि प्रजाः प्रजायन्ते। तस्माद् उ कल्याणीं जायाम् इच्छेत कल्याणे म आत्मा संभवाद् इति। तस्माद् उ जायां जुग्प्सेन् नेन् मम योनौ मम लोके ऽन्यस् संभवाद् इति। तस्य वै संभविष्यतः प्राणा अग्र प्रविशन्त्य् अथ रेतस् सिच्यते। स इमान् प्राणान् आकाशान् अभिनिवर्तते। तस्माद् उ समानस्यैव रेतसस् सतो यादृश एव भवति तादृशो जायते॥
अथैषा देवयोनिर् देवलोको यद् आहवनीयः। एष ह वै देवयोनिर् देवलोकः। तस्माद् यो गार्हपत्य जुहुयाद् अकृतं करोतीत्य् एवैनं मन्येरन्। स यज् जुहोति यस् साधु कर्त्तेत्य एतस्याम् एवैनद् देवयोनाव् आत्मानं सिञ्चति। सो ऽस्यात्मामुष्मिन्न् आदित्ये संभवति। स हैवं विद्वान् द्व्यात्मा द्वियोनिः। एकात्मा हैवैकयोनिर् एतद् अविद्वान्। स यस्माल् लोकाद् एवंवित् प्रति -
- तस्य प्राणः प्रथम उत्क्रामति। स हे य त्ता देवेभ्य आचष्ट इयद् अस्य साधु कृतम् इयत् पापम् इति। अथ हायं धूमेन सहोर्ध्व उत्क्रामति॥
तस्य हैतस्यर्तवो द्वारपाः। तेभ्यो हैतेन प्रब्रुवीत।
विचक्षणाद् ऋतवो रेत आभृतम् अर्धम स्यं प्रसुतात् पित्र्यावतः।
तं मा पुसि कर्तर्य् एरयध्वं पुंसः कर्तुर् मातय् आसिषिक्त॥
स उपजायोपजायमानो द्वादशेन त्रयोदशोपमासः।
समं तद् विदे प्रति तद् विदे ऽहं तं मा ऋतवो ऽमृत आनयध्वम्॥
इति। तं हर्तव आनयन्ते। यथा विद्वान् विद्वांसं यथा जानन् जानन्तम् एवं हैनम् ऋतव आनयन्ते॥
तं हात्यर्जयन्ते। स हैतम् आगच्छति तपन्तम्। तं हागतं पृच्छति कस् त्वम् असि इति। स यो ह नाम्ना वा गोत्रेण वा प्रब्रूते तं हाह यस् ते ऽयं मय्य् आत्माभूद् एष ते सः इति। तस्मिन् हात्मन् प्रतिपत्त ऋतवस् संपलाय्य पद्गृहीतम् अपकर्षन्ति। तस्य हाहोरात्रे लोकम् आप्नुतः॥
तस्मा उ हैतेन प्रब्रुवीत को ऽहम् अस्मि सुवस् त्वम्। स त्वां स्वर्ग्यं स्वर् अगाम् इति। को ह वै प्रजापतिः। अथ हैवंविद् एव सुवर्गः। स हि सुवर् गच्छति॥
तं हाह यस् त्वम् असि सो ऽहम् अस्मि। यो ऽहम् अस्मि स त्वम् अस्य् एहि इति। स एतम् एव सुकृतरसम् अप्येति। तस्य पुत्रा दायम् उपयन्ति पितरस् साधुकृत्याम्। स हैवं विद्वान् द्वयात्मा द्विदायः। एकात्मा हैवैकदाय एतद् अविद्वान् अग्निहोत्रं जुहोति
वाग् वा अग्निहोत्री। तस्यै मन एव वत्सः। मनसा वै वाचं पृक्तां दुह्रे। वत्सेन वै मातरं पृक्तां दुह्रे। तद् वा इदं मनः पूर्वम्। यत् पश्चा वाग् अन्वेति तस्माद् वत्सं पूर्वं यन्तं पश्चा मातान्वेति। हृदयम् एव मेथ्य् उपदोहनी प्राणो रज्जुः। प्राणेनैव वाक् च मनश्च चाभिहिते। रज्ज्वा वै वत्सं च मातरं चाभिददाति॥
तद् ध जनको वैदेहो याज्ञवल्क्यं पप्रच्छ वेत्थाग्निहोत्रं याज्ञवल्क्या इति। वेदेति होवाच। किम् इति। पय इति। यत् पयो न स्यात् केन जुहुया इति। व्रीहियवाभ्याम् इति॥
यद् व्रीहियवौ न स्यातां केन जुहुया इति। यद् अन्यद् धान्यं तेनेति॥
यद् अन्यद् धान्यं न स्यात् केन जुहुया इति। आरण्याभिर् ओषधीभिर् इति॥
यद् आरण्या ओषधयो न स्युः केन जुहुया इति। अद्भिर् इति॥
यद् आपो न स्युः केन जुहुया इति। स होवाच न वा इह तर्हि किं चनासीद् अथैतद् उ हूयत इव सत्यं श्रद्धायाम् इति। तं होवाच वेत्थाग्निहोत्रं याज्ञवल्क्य नमस् ते ऽस्तु सहस्रं भगवो दद्म इति॥
अथ हैनम् उपजगौ
किं स्विद् विद्वान् प्रवसति -- ॥
--अग्निहोत्री गृहेभ्य।
कथा तद् अस्य काव्यं कथा संततो ऽग्निभिः॥
इति। यद् अग्नीन् आधायाथापप्रवसति कथम् अस्यानपप्रोषितं भवतीति। स होवाच वाजसनेयः
यो जविष्ठो भुवनेषु स विद्वान् प्रवसन् विदे।
तथा तद् अस्य काव्यं तथा संततो ऽग्निभिः॥
इति मन इति होवाच। मनो वाव भुवनेषु जविष्ठम्। मनसैवास्यानपप्रोषितं भवतीति ह तद् उवाच॥
अथ हैनम् उपजगौ
यत् स दूरं परेत्याथ तत्र प्रमाद्यति।
कस्मिन् सास्य हुताहुतिर् गृहे याम् अस्य जुह्वति॥
इति। स होवाच वाजसनेयः
यो जागार भुवनेषु स विद्वान् प्रवसन् विदे।
तस्मिन् सास्य हुताहुतिर् गृहे याम् अस्य जुह्वति॥
इति। प्राण इति होवाच। प्राणो वा भुवनेषु जागरः। प्राण एवास्य सा हुताहुतिर् भवति। तस्मादु आहुः प्राणो ऽग्निहोत्रम् इति। यावद् ध्य एव प्राणेन प्राणिति तावद् अग्निहोत्रं जुहोति
रौद्रं गवि वायव्यम् उपसृष्टम् आश्विनं दुह्यमानम् अग्नीषोमीयं दुग्धं पौष्णाः प्रेन्दवो मैत्रश् शरो वारुणम् ओधश्रितं वैष्णवं प्रतिष्ठाप्यमानं वैश्वदेवम् उन्नीतं सवितुः प्रक्रान्तं द्यावापृथिव्योर् उपसन्नम् इन्द्राग्न्योः पूर्वाहुतिः प्रजापतेर् उत्तरा। तद् एतत् सप्तदशम् अग्निहोत्रम्। सप्तदश उ एवा वाजपेयः। स य एवं विद्वान् अग्निहोत्रं जुहोत्य् उभाव् एव लोकाव् अभिजयति यश् चाग्निहोत्रहुतो यश् च वाजपेययाजिनः॥
त्रयो ऽग्निहोत्रे स्थाणव इति ह स्माह शाण्डिल्यः। यद् अप्रदीप्तायां समिधि जुहोति स स्थाणुः। यद् एनाम् अपराध्नोति स स्थाणुः। यद् एने संसृजति स स्थाणुः। आदीप्तायै समिधस् समुन्मुखे जुहोति। एतिहायोत्तराम् आहुतिं जुहोति। प्र ह सप्तदश -- सप्तदश सहस्रपोषान् पुष्यति य एवं विद्वान् अग्निहोत्रं जुहोति
आरुणिर् वाजसनेयो बर्कुर् वार्ष्णः प्रियो जानश्रुतेयो बुडिल आश्वतराश्विर् वैयाघ्रपद्य इत्य एते ह पञ्च महाब्रह्मा आसुः। ते होचुर् जनको वा अयं वैदेहो ऽग्निहोत्रे ऽनुशिष्टस् स नो ऽतिवदन्न् इव मन्यते। एत। तम् अग्निहोत्रं कथां वादयिष्याम इति॥
ते हाजग्मुः। ते ह ब्रह्मवादिनम् ऊचुः प्र णो ब्रूहीति। तान् ह प्रोवाच॥
तेभ्यो ह प्रोक्तेभ्यः पृथग् आसनानि पृथग् उदकानि पृथङ् मधुपर्कान् पृथग् आवसथान् पृथक् पञ्चभ्यः पञ्चापचितीश् चकार॥
अथ हैषां सभाग आवव्राजोप्त्वा केशश्मश्रूणि नखान् निकृत्याज्याभ्यज्य दण्डोपानहं बिभ्रत्। तान होवाच ब्राह्मणाः कथा भगवन्तो नो ऽनुसंवादयथेति। अति नो ऽवादीर् इति होचुः॥
अथ हैनान् पूर्वः पप्रच्छ ब्राह्मणाः कथा भगवन्तो यूयम् अग्निहोत्रं जुहुथेति। अति वै नो ऽवादीर् इति होचुर् यो नो भूयसस् सतः पूर्वो ऽप्राक्षीः। गौतम प्रतिब्रूहीति
स होवाच यश इत्य एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं यशो ऽस्मि। यशो वाव मे प्रजायाम् अन्ततो भवितेति। तं होवाच गौतम किं यश इति। अग्निम् उपदिशन् वाचेदं यश इत्य् अदो यश इत्य् आदित्यम्। सो ऽहम् अदो यशो ऽस्मिन् यशसि सायं जुहोमीदं यशो ऽमुष्मिन् यशसि प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति ह प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति। स होवाच वाजसनेयस् सत्यम् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं सत्यम् अस्मि। तस्मान् मम सत्यम् इव वदतः प्रकाश इति। तं होवाच याज्ञवल्क्य किं सत्यम् इति। अग्निम् उपदिशन् वाचेदं सत्यम् इत्य् अदस् सत्यम् इत्य् आदित्यम्। सो ऽहम् अदस् सत्यम् अस्मिन् सत्ये सायं जुहोमीदं सत्यम् अमुष्मिन् सत्ये प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति
स होवाच बर्कुर् वार्ष्णो भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। तस्माद् अहं भूयिष्ठं श्रेष्ठं वित्तानाम् अस्मि। भूयिष्ठ वाव मे श्रेष्ठं वित्तानां प्रजायाम अन्ततो भवितेति। तं होवाचाग्निवेश्य किं भूयिष्ठं श्रेष्ठं वित्तानाम् इति। अग्निम् उपदिशन् वाचेदं भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् अदो भूयिष्ठं श्रेष्ठं वित्तानाम् इत्य् आदित्यम्। सो ऽहम् अदो भूयिष्ठं श्रेष्ठं वित्तानाम् अस्मिन् भूयिष्ठे श्रेष्ठे वित्तानां सायं जुहोमीदं भूयिष्ठं श्रेष्ठं वित्तानाम् अमुष्मिन् भूयिष्ठे श्रेष्ठे वित्तानां प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति। स होवाच प्रियो जानश्रुतेयस् तेज इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि तस्माद् अहं तेजो ऽस्मि। तेजो वाव मे प्रजायाम् अन्ततो भवितेति। तं होवाच काण्ड्वीय किं तेज इति। अग्निम् उपदिशन् वाचेदं तेज इत्य् अदस् तेज इत्य् आदित्यम्। सो ऽहम् अदस् तेजो ऽस्मिंस् तेजसि सायं जुहोमीदं तेजो ऽमुष्मिंस् तेजसि प्रातर् जुहोमि। एताव एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतं देवान् राधयानि इति हैव प्रशशंस॥
अथ हापरं पप्रच्छ कथा भगवस् त्वम् अग्निहोत्रं जुहोषीति
स होवाच बुडिल आश्वतराश्विर् वैयाघ्रपद्यो ऽर्काश्वमेधाव् इत्य् एव सम्राड् अहम् अग्निहोत्रं जुहोमि। अन्नं ह्य् एतद् देवानां यद् अर्को ऽश्वो मेधो मेध्य इति। तं होवाच वैयाघ्रपद् को ऽर्कः को ऽश्वो मेधो मेध्य इति। अग्निम् उपदिशन् वाचायम् अर्क इत्य् असाव् अश्वो मेधो मेध्य इत्य् आदित्यम्। सो ऽहम् अमुम् अश्वं मेधं मेध्यं अस्मिन्न् अर्के सायं जुहोमीमम् अर्कम् अमुष्मिन्न् अश्वे मेधे मेध्ये प्रातर् जुहोमि। एताव् एव मा तद् गमिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतम् इति ह प्रशस्योवाच यो ह किल मह्यम् अग्निहोत्र इतिं च गतिं च ब्रूयात् तस्मा अहं वरं दद्याम् इति। ते होचुर् न न्वै वयम् अग्निहोत्र इतिं च गतिं चानूचिमह त्वम् अस्मभ्यम् अग्निहोत्र इतिं च गतिं च ब्रूहि वयं तुभ्यं पृथक् पञ्च वरान् दद्म इति। अग्निम् उपदिशन् वाचेयम् इतिर् इत्य् असौ गतिर् इत्य् आदित्यम्। सो ऽहम् अमूं गतिम् अस्याम् इतौ सायं जुहोमीमाम् इतिम् अमुष्यां गतौ प्रातर् जुहोमि। एताव् एव मा तद् गमयिष्यतो यत्र सर्वे कामाः। एतौ मे पुनर्मृत्युम् अपजेष्यत इति। सुहुतम् इति ह प्रशस्योचुर् वरान् वृणीष्व यान् अदामेति। स होवाचैष एव मे वरो ऽहम् एव युष्मभ्यं पृथक् पञ्च सहस्राणि शताश्वानि ददानीति॥
एतानि वा अग्निहोत्र उपासनान्य् एते कामाः। एतान् एव कामान् अवरुन्द्धे य एवं वेदाथो यस्यैवं विद्वान् अग्निहोत्र जुहोति
अग्नीन् आदधानः प्रातर् एवोद्धरेत। द्विस् सायं द्विः प्रातर् जुहोति। चतस्र आहुतयस् संपद्यन्ते। चतुष्पदा वै पशवो ये च ग्राम्या ये चारण्याः। तेषाम् एवैतत् प्रत्याशं प्रत्यपचयति। एष वै मृत्युर् यद् अग्नी रिहन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा पृथिवीं लोकानां जयत्य् अग्निं देव देवानाम्। अग्नेर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति॥
स ततो धूमम् एव रथं समास्थाय वायोस् सलोकताम् अभिप्रयाति। द्वयहं जुहोति। अष्टाव् आहुतयस् संपद्यन्ते। अष्टाशफा ह वै पशवो ये च ग्राम्या ये चारण्याः। तेषाम् एवैतत् प्रत्याशं प्रत्य चयति। एष वै मृत्युर् यद् वायुर् अजिर एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वान्तरिक्षं लोकानां जयति वायुं देवं देवानाम्। वायोर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
स ततो रेष्माणम् एव रथं समास्थायादित्यस्य सलोकताम् अभिप्रयाति। त्र्यहं जुहोति। द्वादशाहुतयस् संपद्यन्ते। द्वादश मासास् संवत्सरः। संवत्सरो वा इदं सर्वं यद् इ?श्नाति यत् पिबति यस्मै कस्मै चन प्रतिव्याददाति। सर्वं तद् अस्यानशित भवति यावज् जीवानाशकप्रती भवति। एष वै मृत्युर् यद् आदित्यो म्रोचन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा दिवं लोकानां जयत्य् आदित्यं देवं देवानाम्। आदित्यस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
स ततो रश्मीन् एव रथं समास्थाय चन्द्रमसस् सलोकताम् अभिप्रयाति। चतुरहं जुहोति। षोडशाहुतयस् संपद्यन्त। षोडशकलं वै ब्रह्म। षोडशकला देवाः। षोडशकलम् इदं सकृत् सर्वम्। स यद् इह रिप्रं पापं कर्म करोत्य् एकयवः ततः कलया। यथा सुवर्णः प्रवृत्तस् तप्यमानस् सुवर्णताम् अभिनिष्पद्यत एवम् एव द्विषत्सु भ्रातृव्येषु मलं पाप्मानं प्रत्यूह्य स्वर्गं लोकम् अभिप्रैति॥
एष वै शशो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं शास्ति। एष वै यमो य एषो ऽन्तश् चन्द्रमसि। एष हीदं सर्वं यमिति। एष मृत्युर् यद् यमो ऽत्स्यन्न् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वोर्जं लोकानां जयति यमं देव देवानाम्। यमस्य देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
स ततस् स्वधाम् एव हिरण्मयीं नावं समारुह्य प्रजापतेस् सलोकताम् अभिप्रयाति। पञ्चाहं जुहोति। विंशतिर् आहुतयस् संपद्यन्ते। सविंशो वै प्रजापतिः। एष वै मृत्युर् यत् प्रजापतिः प्रभूमान् एव नाम। तम् एव ताभिर् आहुतिभिश् शमयित्वा नभो लोकानां जयति प्रजापतिं देवं देवानाम्। प्रजापतेर् देवस्य सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
तद् यद् वै तन्नभो नामाभीर् वै सा। न हि तत् प्राप्य कस्माच् चन बिभेति। तस्मात् तन्नभः। षडहं जुहोति। चतुर्विंशतिर् आहुतयस् संपद्यन्ते। चतुर्विंशत्यक्षरा वै गायत्री। चतुर्विंशतिर् वसवो देवाः। ते गायत्रीम् अन्वायत्ताः। तेभ्यो गायत्रीव वसुभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। गायत्रीं स छन्दसां जयति वसून् देवान् देवानाम्। वसूनां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
सप्ताहं जुहोति। अष्टाविंशतिर् आहुतयस् संपद्यन्ते। अष्टाविंशत्यक्षरा वा उष्णिक्। अष्टाविंशतिर् भृग्वङ्गिरसो देवाः। त उष्णिहम् अन्वायत्ताः। तेभ्य उष्णिग् भृग्वाङ्गिरोभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। उष्णिहं वै स छन्दसां जयति भृग्वङ्गिरसो देवान् देवानाम्। भृग्वङ्गिरसां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
अष्टाहं जुहोति। द्वात्रिंशद् आहुतयस् संपद्यन्ते। द्वात्रिंशदक्षरा वा अनुष्टुप्। द्वात्रिंशद् विश्वे देवाः। ते ऽनुष्टुभम् अन्वायत्ताः। तेभ्यो ऽनुष्टुब् विश्वेभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। अनुष्टुभं वै स छन्दसां जयति विश्वान् देवान् देवानाम्। विश्वेषां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
नवाहं जुहोति। षट्त्रिंशद् आहुतयस् संपद्यन्ते। षट्त्रिंशदक्षरा वै बृहती। षट्त्रिंशत् साध्या देवाः। ते बृहतीम् अन्वायत्ताः। तेभ्यो बृहती साध्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। बृहतीं वै स छन्दसां जयति साध्यान् देवान् देवानाम्। साध्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
दशाहं जुहोति। चत्वारिंशद् आहुतयस् संपद्यन्ते। चत्वारिंशदक्षरा वै पंक्तिः। चत्वारिंशन् मरुतो देवाः। ते पंक्तिम् अन्वायत्ताः। तेभ्यः पंक्तिर् मरुद्भ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। पंक्तिं वै स छन्दसां जयति मरुतो देवान् देवानाम्। मरुतां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
एकादशाहं जुहोति। चतुश्चत्वारिंशद् आहुतयस् संपद्यन्ते। चतुश्चत्वारिंशदक्षरा वै त्रिष्टुप्। चतुश्चत्वारिंशद् रुद्रा देवाः। ते त्रिष्टुभम् अन्वायत्ताः। तेभ्यस् त्रिष्टुब् रुद्रेभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। त्रिष्टुभं वै छन्दसां जयति रुद्रान् देवान् देवानाम्। रुद्राणां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
द्वादशाहं जुहोति। अष्टाचत्वारिंशद् आहुतयस् संपद्यन्ते। अष्टाचत्वारिंशदक्षरा वै जगती। अष्टाचत्वारिंशद् आदित्या देवाः। ते जगतीम् अन्वायत्ताः। तेभ्यो जगत्य् आदित्येभ्यो देवेभ्य एकैकेनाक्षरेण कामान् निकामान् दुहे। एवम् अस्मै जुह्वते दुहे। जगतीं वै स छन्दसां जयत्य् आदित्यान् देवान् देवानाम्। आदित्यानां देवानां सायुज्यं सलोकतां समभ्यारोहति य एवं विद्वान् अग्निहोत्रं जुहोति
अत्र वै ब्रह्म न विराजत्य् अनाथम् अपरायणम् अनुत्तरम्। तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। तद् द्वादशाहं हुत्वा कीर्तिं यशः प्रजापतिम् अमृतं तद् उदाजहार। तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म हुत्वा प्रजापतय प्रत्यूह्य स्वर्गं लोकम् अभ्युच्चक्राम॥
तद् वै तद् अग्निहोत्रं द्वादशाहं प्रजापतिर् जुहुवांचकार। तद् द्वादशाहं हुत्वा प्रज्ञां मेधां मीमांसां तपस् तद् उदाजहार। तद् वै तद् अग्निहोत्रं द्वादशाहं प्रजापतिर् हुत्वा देवेभ्यश् चर्षिभ्यश् च प्रत्यूह्य स्वर्गम् एव लोकम् अभ्युच्चक्राम॥
तद् वै तद् अग्निहोत्रं द्वादशाहं देवाश् चर्षयश् च जुहुवांचक्रुः। तद् द्वादशाहं हुत्वा पूर्वेभ्यो मनुष्येभ्यः प्रत्यूह्य स्वर्गम् उ एव लोकम् अभ्युच्चक्रमुः॥
तद् वै तद् अग्निहोत्रं द्वादशाहं ब्रह्म जुहुवांचकार। द्वादशाहं प्रजापतिर् द्वादशाहं देवाश् चर्षयश् च। तद् द्वादशाहं द्वादशाहं हुत्वा कामान् निकामान् आपुः। किम् उ य एनं यावज्जीवं जुहुयात्
तद् वै तद् अग्निहोत्रं त्र्यहम् एव पयसा जुहुयात्। तद् वा अग्निष्टोमस्य रूपम्। अग्निष्टोमेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एव दध्ना जुहुयात्। तद् वै वाजपेयस्य रूपम्। वाजपेयेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एवाज्येन जुहुयात्। तद् वा अश्वमेधस्य रूपम्। अश्वमेधेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
तद् वै तद् अग्निहोत्रं त्र्यहम् एवाद्भिर् जुहुयात्। तद् वै पुरुषमेधस्य रूपम्। पुरुषमेधेनैवास्येष्टं भवति य एवं विद्वान् अग्निहोत्रं जुहोति॥
स्वयम् अहतवासा यजमानो ऽग्निहोत्रं जुहुयाद् अजस्रेष्व् अग्निष्व् अप्रवसन्। त्रयोदशीं रात्रिं सोमेन वा पशुना वेष्ट्वोत्सृजेत। यथा सावसान् कृत्वा प्रार्जयेत् तादृक् तत्॥
तद् वै तद् अग्निहोत्रं द्वादशाहम् एव पूर्वे मनुष्या जुहुवांचक्रुः। तस्मात् तेषां दुहे धेनुर् वहत्य् अनड्वान् आदधानः प्रहितो ऽश्वो ऽश्वतर उपतिष्ठत्य अधि? क्ष्यो हस्ती वहति
उपसृज्याग्निहोत्रीम् इत्य आह उपसृष्टे द्यावापृथिवी॥ रुद्रा उपगृह्णन्ति वसूनां दुग्धम्॥ भूतकृत स्थ निरूढ जन्यं भयम् इत्य् अङ्गारान् निरूहति। अथाधिश्रयति वैश्वानरस्याधिश्रितम् असि॥ अग्निस् ते तेजो मा प्रतिधाक्षात्(?)॥ सत्या त्वा इति॥ अथावद्योतयति सं ज्योतिषा ज्योतिः इति। अथापः प्रत्यानयति यस् ते अप्सु रसः प्रविष्टस् तेन संपृच्यस्व इति। स यद् एवास्य तत्र दिशो ग्रसन्ते तद् एवास्य तत् समन्वानयन्तं अन्तरितं रक्षो ऽन्तरिता अरातयः इति। त्रिः पर्यग्निं करोति। अथोद्वासयति दिवं दृंहान्तरिक्षं दृंह पृथिवीं दृंह प्रजां पशून् जुह्वतो मे दृंह इति।
भूतकृत स्थ प्रत्यूढं जन्यं भयम् इत्य् अङ्गारान् प्रत्यूहति। अथ स्रुवं च स्रुचं चादाय निष्टपति प्रत्युष्टं रक्षः प्रत्युष्टः अरातयः इति। अथ स्रुवं संमार्ष्टि सजूर् देवेभ्यस् सायंयावभ्यः इति सायम्। सजूर् देवेभ्यः प्रातर्यावभ्यः इति प्रातः। सुवर्णां त्वां सुवर्णमयीम्॥ हिरण्ययष्टिर् अस्य अमृतपलाशा स्रोतो यज्ञानाम् इति। स्रोतो हैव स यज्ञानां भवति। अथाह उन्नेष्यामि इति। ओं ममहं स्वर्गं लोकम् अभि इति ब्रूयात्
स यं प्रथमं स्रुवम् उन्नयति तद् वै दर्शपूर्णमासयो रूपम्। दर्शपूर्णमासाभ्याम् एवास्येष्टं भवति य एवं विद्वान् प्रथमं स्रुवम् उन्नयति॥
अथ यं द्वितीयं स्रुवम् उन्नयति तद् वै चातुर्मास्यानां रूपम्। चातुर्मास्यैर् एवास्येष्टं भवति य एवं विद्वान् द्वितीयं स्रुवम् उन्नयति॥
अथ यं तृतीयं स्रुवम् उन्नयति तद् वा इष्टिपशुबन्धानां रूपम्। इष्टिपशुबन्धैर् एवास्येष्टं भवति य एवं विद्वांस् तृतीयं स्रुवम् उन्नति॥
अथ यं चतुर्थं स्रुवम् उन्नयति तद् वै त्र्यम्बकवाजपेयाश्वमेधानां रूपम्। त्र्यम्बकवाजपेयाश्वमेधैर् एवास्येष्टं भवति य एवं विद्वांश् चतुर्थं स्रुवम् उन्नयति॥
अथ समिधम् आदाय प्राङ् प्रति। पुरुष इत् समित्। तम् अन्नम् इन्द्धे अन्नस्य मा तेजसा स्वर्गं लोकं गमय॥ यत्र देवानाम् ऋषीणां प्रियं धाम तत्र म इदम् अग्निहोत्रं गमय इति। तूष्णीम् उपसादयति। अथ समिधम् अभ्यादधाति स्वर्गस्य त्वा लोकस्य संक्रमणं हिरण्मयं वंशं दधामि स्वाहा इति। अथ जुहोति। स यां प्रथमां जुहोति देवांस् तयाप्नोति। अथ यां द्वितीयां जुहोत्य् ऋषींस तयाप्नोति
अथोपमार्ष्टि। स यत् प्रथमम् उपमार्ष्टि तेन गन्धर्वाप्सरसः प्रीणाति। तं गन्धर्वाप्सरस आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यद् द्वितीयम् उपमार्ष्टि तेन ग्रहांश् च पितॄंश् च प्रीणाति। तं ग्रहाश् च पितरश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यद् द्विर् अङ्गुल्या प्राश्नाति स यत् प्रथमं प्राश्नाति तेन प्राणापानौ तृप्यतः। तं प्राणापानाव् आहतुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यद् द्वितीयं प्राश्नाति तेनोदानापानौ तृप्यतः। तम् उदानापानाव् आहतुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्रुचा प्राश्नाति तेन समानव्यानौ च गर्भांश् च प्रीणाति। तं समानव्यानौ गर्भाश् चाहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्रुचं निरश्नाति तेन देवजनान् प्रीणाति। त देवजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्रुचस् संक्षालनं निनयति तेन वयांसि प्रीणाति। तं वयांस्य् आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति तेन ऋषीन् प्रीणाति। तम् ऋषय आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् स्थालीसंक्षालनं निनयति तेन सर्पजनान् प्रीणाति। तं सर्पजना आहुश् श्रद्धा ते मा विगात् सर्वैः कामैस् तृप्य स्वर्गं लोकम् आप्नुहीति॥
अथ यत् पश्चाद् वा पुरस्ताद् वा परिक्रम्य दक्षिणतो ऽग्नीनाम् आस्ते प्रजापतिर् एव तद् भूत्वास्ते कम् अहम् अस्मि कं मम इति
भृगुर् ह वारुणिर् अनूचान आस। स हात्य् एव पितरं मने ऽति देवान् अत्य् अन्यान् ब्राह्मणान् अनूचानान्। स ह वरुण ईक्षांचक्रे न वै मे पुत्रः किं चन प्रजानाति। हन्तैनं प्रज्ञापयानीति। तस्य ह प्राणान् अभिजग्राह। स ह तताम्। स ह तान्तः परं लोक जगाम। स हामुष्मिन् लोक आजगाम। पुरुष एव पुरुषं संवृश्च्याथैनं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
द्वितीयं हाजगाम। पुरुष एव पुरुषम् आक्रन्दयन्तं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
तृतीयं हाजगाम। पुरुष एव पुरुषं तूष्णीम् अव्याहरन्तं जघास। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
चतुर्थं हाजगाम। द्वे स्त्रियौ महद् वित्तं जुगुपतुः। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
पञ्चमं हाजगाम। लोहितकुल्यां च घृतकुल्यां च प्रबाहुक् स्यन्दमाने । सा या लोहितकुल्यास् तां कृष्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचिरे। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति॥
षष्ठं हाजगाम। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः. तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो बभूव। स होवाचाभूद् बतेदं किं स्विद् इदम् इति। तं होचुः पितरं वरुणं पृच्छासि स त इदं प्रवक्तेति
स ह तत एवाववृते। स ह वरुणम् एवाजगाम। तं होवाचागस् ताता इति। आगां ततेति। अदर्शस् ताता इति। अदर्शं ततेति। किं ततेति। पुरुष एव पुरुषं संवृश्च्याथैनम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो वनस्पतीन् संवृश्च्याभ्यादधति तान् वा अमुष्मिन् लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतत् समिधम् अभ्यादधाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥
किं द्वितीयम् इति। पुरुष एव पुरुषम् आक्रन्दयन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोक ऽग्निहोत्रम् अजुहुह्वतो नैवंविदः पशून् आक्रन्दयतः पचन्ते तान् वा अमुष्मिन् लोके पशवः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतद् वाचा पूर्वाम् आहुतिं जुहोति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥
किं तृतीयम् इति। पुरुष एव पुरुषं तूष्णीम् अव्याहरन्तम् अघद् इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो व्रीहियवांस् तूष्णीम् अव्याहरतः पचन्ते तान् वा अमुष्मिन् लोके व्रीहियवाः पुरुषरूपं कृत्वा प्रत्यदन्ति। तस्य का निष्कृतिर् इति। यद् एवैतन् मनसोत्तराम् आहुतिं जुहोति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति॥
किं चतुर्थम् इति। द्वे स्त्रियौ महद् वित्तम् अजुगुपताम् इति। ओम् इति होवाच। श्रद्धा च वै ते अश्रद्धा चाभूताम्। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो ऽश्रद्दधाना यजन्ते तद् अश्रद्धां गच्छति यच् छ्रद्दधानास् तच् छ्रद्धाम्। तस्य का निषकृतिर् इति। यद् एवैतद् अङ्गुल्या प्राश्नाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति
किं पञ्चमम् इति। लोहितकुल्यां च घृतकुल्यां च प्रबाहुक् स्यन्दमाने। सा या लोहितकुल्याभूत् तां कृष्णो नग्नः पुरुषो मुसली जुगोप। अथ या घृतकुल्या तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचन्त इति। ओम् इति होवाच। ये वा अस्मिन् लोके ऽग्निहोत्रम् अजुह्वतो नैवंविदो ब्राह्मणस्य लोहितम् उत्पीडयन्ति सासा लोहितकुल्या। अथ य एनां कृष्णो नग्नः पुरुषो मुसल्य् अजुगुपत् क्रोधस् स तस्यो तद् एवान्नम् इति। तस्य का निष्कृतिर् इति। यद् एवैतत् स्रुचा प्राश्नाति सा तस्य निष्कृतिस् तया तद् अतिमुच्यत इति। अथ या एतास् स्रुचो निर्णिज्योदीचीर् अप उत्सिञ्चति सासा घृतकुल्या। तस्यै हिरण्मयाः पुरुषा हिरण्मयैश् चमसैस् सर्वान् कामान् उदचन्त इति॥
किं षष्ठम् इति। पञ्च नदीः पुष्करिणीः पुण्डरीकिणीर् मधूदकास् स्यन्दमानाः। तासु नृत्तगीतं वीणाघोषो ऽप्सरसां गणास् सुरभिर् गन्धो महान् घोषो ऽभूद् इति। ओम् इति होवाच। ममैवैते लोका अभूवन्न् इति। ते केनाभिजय्या इति एतेनैव पञ्चगृहीतेन पञ्चोन्नीतेनेति। स होवाच न वै किलान्यत्राग्निहोत्राल् लोकजित्या अवकाशोऽस्ति। अद्यैव मे अग्न्याधेयस्योपवसथ इति। तस्य ह तथा चक्रुः। स य एवं विद्वान् अग्निहोत्रं जुहोति नैनम् अमुष्मिन् लोके वनस्पतयः पुरुषरूपं कृत्वा प्रत्यदन्ति न पशवो न व्रीहियवा नास्येष्टापूर्ते श्रद्धां चाश्रद्धां च गच्छतो ऽपहते लोहितकुल्याम् अवरुन्द्धे घृतकुल्याम्
एष वा अग्निर वैश्वानरो य एष तपति। तस्य रात्रिस् समिद् अहर् ज्योती रश्मयो धूमो नक्षत्राणि विष्फुलिङ्गाश् चन्द्रमा अङ्गाराः। तस्मिन्न् एतस्मिन् अग्नौ वैश्वानरे ऽहरहर् देवा अमृतम् अपो जुह्वति। तस्या आहुतेर् हुतायै सोमो राजा संभवति॥
स्तनयित्नुर् एवाग्निर् वैश्वानरः। तस्य द्यौस् समिद् विद्युज् ज्योतिर् अभ्राणि धूमो ह्लादनयो विष्फुलिङ्गा अशनिर् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवास् सोमं राजानं जुह्वति। तस्या आहुतेर् हुतायै वृष्टिस् संभवति॥
पृथिव्य् एवाग्निर् वैश्वानरः। तस्यान्तरिक्षं समिद् अग्निर् ज्योतिर् वायुर् धूमो मरीचयो विष्फुलिङ्गा दिशो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा वृष्टिं जुह्वति। तस्या आहुतेर् हुताया अन्नं संभवति॥
पुरुष एवाग्निर् वैश्वानरः। तस्य वाक् समिच् चक्षुर् ज्योतिः प्राणो धूमो मनो विष्फुलिङ्गाश् श्रोत्रम् अङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा अन्नं जुह्वति। तस्या आहुतेर् हुतायै रेतस् संभवति॥
स्त्रियो वा अग्निर् वैश्वानरः। तस्योपस्थं समिद् योनिर् ज्योतिर् इष्या धूमो ऽभिनन्दो विष्फुलिङ्गास् संस्पर्शो ऽङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवा रेतो जुह्वति। तस्या आहुतेर् हुतायै पुरुषस् संभवति॥
सो ऽत्र पञ्चम्यां विसृष्ट्यां पुरुषो देवेभ्यो जायते। पञ्चम्यां विसृष्ट्यां दिव्या आपः पुरुषवाचो वदन्ति।
अथ यथामुं लोकम् अप्येति --
--तस्याग्निर् एवाग्निर् वैश्वानरः। तस्यौषधयश्च वनस्पतयश् च समित्। ज्योतिर् एव ज्योतिः। धूम एव धूमःः। विष्फुलिङ्गा एव विष्फुलिङ्गाः। अङ्गारा एवाङ्गाराः। तस्मिन्न् एतस्मिन्न् अग्नौ वैश्वानरे ऽहरहर् देवाः पुरुषं जुह्वति। तस्या आहुतेर् हुतायै पुरुषो ऽमुं लोकं संभवति। सो ऽस्य लोकः पुनरुत्थायै भवति॥
तस्य हैतस्य देवस्याहोरात्रे अर्धमासा मासा ऋतवस् संवत्सरो गोप्ता य एष तपति। अहोरात्रे प्रचरे। तं हर्तूनाम् एको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति को ऽसि पुरुषेति। स किं विद्वान् प्रवृञ्ज्यात्। तस्य ह प्रहरति। कस्य ह प्रतिराद्धस्य त्रेधा साधु कृत्या विनश्यति। स तृतीयम् आदत्ते। दिशो ऽनु तृतीय व्येति। तृतीयेन सहेमं लोकम् अभ्यवैति। स यो हास्य दानजितो लोको भवति तस्मिन् निरमते। तम् उ ह वै ततो मृत्युर् एवान्तत आप्नोति। अनवजितो हास्य पुनर्मृत्युर् भवति स य एवंवित् स्यात्॥
स यदोपतापी स्याद् यत्रास्य समं सुभूमिस्पष्टं स्यात् तद् ब्रूयाद् इह मे ऽग्निं मन्थतेति। ईश्वरो हागदो भवितोः॥
यद्य् उ तन् न यद् अस्माल् लोकात् प्रेयाद् अथैनम् आददीरन्। नानास्थाल्योर् अग्नी ओप्य हरेयुः। अन्वाहार्यपचनाद् उल्मुकम् आददीरन् यज्ञपात्राणि सर्पिर् अपो दारुण्य् अनुस्तरणीं क्षुरं नखनिकृन्तनम्। ते यन्ति यत्रास्य समं सुभूमिस्पष्टं भवति। तद् अस्याग्नीन् विहरन्ति
अथास्यां दिशि कूपं खात्वा वपन्ति केशश्मश्रूणि। उप्त्वा केशश्मश्रूणि नखान् निकृन्तन्ति। नखान् निकृत्य निरान्त्रं कुर्वन्ति। निरान्त्रं कृत्वा निष्पुरीषं कुर्वन्ति। निष्पुरीषं कृत्वा पांसुभिः कूपे पुरीषम् अभिसंवपन्ति। पाप्मानम् एवास्य तत् प्रच्छादयन्ति। प्रक्षाल्यान्त्राणि प्रत्यवधायैनम् आहरन्ति। तम् अन्तरेणाग्नीन् निधाय गार्हपत्य आज्यं विलाप्योत्पूय चतुर्गृहीतं गृहीत्वा मत्वाहवनीये समिद्वत्य् अन्वारब्धे जुहोति अयं वै त्वद् अस्माद् अंसि त्वम्। एतद् अयं ते योनिर् अस्य योनिस् त्वम्॥
पिता पुत्राय लोककृज् जातवेदो नया ह्य् एनं सुकृतां यत्र लोकः। अस्माद् वै त्वम् अजायथा एष त्वज् जायतां स्वाहा इति। सो ऽत आहुतिमयो मनोमयः प्राणमयश् चक्षुर्मयश् श्रोत्रमयो वाङ्मय ऋङ्मयो यजुर्मयस् साममयो ब्रह्ममयो हिरण्मयो ऽमृतस् संभवति
अथैतां चितां चिन्वन्ति। तस्याम् एनम् आदधति। तस्य नासिकयोस् स्रुवौ निदध्याद् दक्षिणहस्ते जुहूं सव्य उपभृतम् उरसि ध्रुवां मुख ऽग्निहोत्रहवणीं शीर्षतश् चमसम् इळोपवहनं कर्णयोः प्राशित्रहरणे उदरे पात्रीं संवर्तधानीम् आण्डयोर् दृषदुपले शिश्ने शम्याम् उपस्थे कृष्णाजिनम् अनुपृष्ठं स्फ्यं पार्श्वयोर् मुसल च शूर्पे च पत्त उलूखलम्। परिशिष्टानि यज्ञपात्राण्य उपनिदधति। अपो मृण्मयान्य् अभ्यवहरन्ति दद्त्य एवायस्मयानि। अथैनं सर्पिषाभ्युत्पूरयन्ति। यज्ञपात्रेषु सर्पिर् आसिञ्चन्ति
अथैताम् अनुस्तरणीम् आनयन्ति। तां प्रोक्ष्य त्रिर् अपसलीं पर्याणाय्य कूटेन हन्यात्। प्रदक्षिणं हैके पर्याणयन्ति। तद् उ तथा न कुर्यात्। तस्यै वपाम् उत्खिद्य शीर्ष्णि परिवयन्ति हस्तयोर् मतस्नी हृदये हृदयं बाह्वोर् बाहू। यथाङ्गम् एवेतराण्य् अङ्गानि विचिन्वन्ति। अथैनं चर्मणा प्रोर्ण्वन्ति स्वया तन्वा समृध्यस्व इति॥
संस्तीर्योपादीपयन्ति। स तथैव चिकीर्षेद् यथैनम् आहवनीयः प्रथमो गच्छेत्। तद् एनं देवलोकः प्रत्यागच्छति। अथ यथान्वाहार्यपचनस् तद् एनं पितृलोकः प्रत्यागच्छति। अथ यथा गार्हपत्यस् तथास्मिन् लोके प्रजया च पशुभिश् च प्रतितिष्ठति॥
तस्योपादीप्तस्य धूम एव शरीरं धुनोति। स यद् धुनोति तस्माद् धुनः। धुनो ह वै नामैषः। तं धूम इति परोक्षम् आचक्षते परोक्षेणैव। परोक्षप्रिया इव हि देवाः। धूमाद् व रात्रिम् अप्येति रात्रिया अहर् अह्नो ऽपोछन्तापक्षम् अपोछन्तीपक्षाद् आपूर्यमाणपक्षम् आपूर्यमाणपक्षान् मासम्। ते अत्र मासे शरीरं चासुश् च संगच्छाते। तं हर्तूनाम एको यः कूटहस्तो रश्मिना प्रत्यवेत्य पृच्छति को ऽसि पुरुषेति
तं प्रतिब्रूयात् --
विचक्षणाद् ऋतवो रेत आभृतम्
अर्धमास्यं प्रसुतात् पित्र्यावतः।
इति। यद् अदो विचक्षणं सोमं राजानं जुह्वति तत् तत्।
तं मा पुंसि कर्तर्य् एरयध्वम्
इति। पुंसि ह्य् एनम् एतत् कर्तर्य् एरयन्ते।
पुसः कर्तुर् मातर्य् आसिषिक्त
इति। मातरि ह्य् एनम् आसिञ्चति।
स उपजायोपजायमानस् त्रयोदशेन द्वादशोपमासः
इति। एष त्रयोदशो य एष तपति॥
सं तद् विदे प्रति तद् विदे ऽहम्।
तं मर्तवो ऽमृत आनयध्वं द्वादशत्रयोदशेन पित्रा।
तया मात्रा तया श्रद्धया तेनान्नाद्येन तेन सत्येन॥
अहर् मे पिता रात्रिर् माता॥ सत्यम् अस्मि॥
ते मर्तवो ऽमृत आनयध्वम्॥
इति। तं हर्तव आनयन्ते। यथा विद्वान् विद्वांसं यथा जानन् जानन्तम् एवं हैनम् ऋतव आनयन्ते। तं हात्यर्जयन्ते। स हैष न मनुष्यो य एवं वेद। देवानां ह वै स एको य एवंवित्। तं ह वै मनोजवसः पितरश् च पितामहाश् च प्रत्यागच्छन्ति ततः किं न आहार्षीर् इति। तान् प्रतिब्रूयाद् यत् किं च पुण्यम् अकरे तद् युष्माकम् इति। तस्य पुत्रा दायम् उपयन्ति पितरस् साधुकृत्यां द्विषन्तः पापकृत्याम्। स एवम् एतत् त्रेधा विभज्यैतस्य सलोकताम् अप्येति य एष तपति
दीर्घसत्त्रं ह वा एत उपयन्ति ये ऽग्निहोत्रं जुह्वति। एतद् ध वै सत्त्रं जरामूरीयम्। जरया वा ह्य् एवास्मान् मुच्यते मृत्युना वा॥
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निं जुह्वतो ऽग्नीन् अन्तरेण युक्तं वा वियायात् सं वा चरेयुः किं तत्र कर्म का प्रायश्चित्तिर् इति। वज्रो वै चक्रः। वज्रो वा एतस्याग्नीन् अन्वति यस्यान्तरेण युक्तं वा वियाति सं वा चरन्ति। कुर्वीत हैव निष्कृतिम् अपि हेष्ट्या यजेत। तद् उ तथा न विद्यात्। इमान् वा एष लोकान् अनुवितनुते यो ऽग्नीन् आधत्ते।
तस्यायम् एव लोको गार्हपत्यो भवत्य् अन्तरिक्षलोको ऽन्वाहार्यपचनो ऽसाव् एव लोक आहवनीयः। कामं वा एषु लोकेषु युक्तं चायुक्तं च वयांसि च चरन्ति। स विद्याद् यदि मे ऽपि ग्राम एवाग्नीन् अन्तरेणायासीन् नैव म आर्तिर् अस्ति न रिष्टिः का चनेति॥
त्रयो ह त्वै ग्राम्याः पशवो ऽजुष्टा दुर्वराह एडकश् श्वा। तेषां यदि कश् चिद् अन्तरेण सन्नेजीयेत किं तत्र कर्म का प्रायश्चित्तिर् इति
तद् उ हैके छादिमुष्टिम् एव निवपन्तो यन्ति। गार्हपत्याद् आहवनीयान् निनयन्न् इयात् इदं विष्णुर् विचक्रमे इत्य् एतयर्चा। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् आसान् न्वा अयं यजमानस्यावाप्सीत् क्षिप्रे परमासान् आवप्स्यते ज्येष्ठगृह्यं रोत्स्यतीति तथा हैवं स्यात्॥
इत्थम् एव कुर्यात् उदपात्रं वैवोदकमण्डलुं वादाय गार्हपत्याद् आहवनीयान् निनयन्न् इयात् इदं विष्णुर् विचक्रमे इत्य् एतयैवर्चा। देवपवित्रं वा एतद् यद् ऋग् देवपवित्रम् एतद् यद् आपः। तद् यद् एवात्र यज्ञस्याशान्तं भवति यद् अमेध्यम् आपो वै तस्य सर्वस्य शान्तिः। अद्भिर् एवैनं तच् छमयन्ति
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रं दुह्यमानं स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एव तत्र स्थाल्यां परिशिष्टं स्यात् तेन जुहुयात्॥
यद्य् उ नीची स्थाली स्याद् अपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। स्कन्नप्रायश्चित्त्यै वाभिमृश्य अस्कन्न् अधित इति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
यदा वै स्कन्दत्य् अथ धीयते। रेतो वै पयो योनिर् इयम्। योन्याम् एवैतद् रेतः प्रतिष्ठापयति। अनुष्ठ्यास्य रेतस् सिक्तं प्रजायते य एवं वेद। अमुतो वै पर्जन्यस् स्कन्दतीहौषधयो वनस्पतयो जायन्ते। पुरुषाद् रेतस् स्कन्दति पशुभ्यः। तत इदं सर्वं प्रजातम्। स विद्याद् उप मा देवाः प्राभूवन् प्रजातिर् मे भूयस्य् अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्॥
अथो यत्रैतद् विभिन्नं तद् उदपात्रं वैवोदकमण्डलुं वोपनिनयेत् भूर् भुवस् स्वः इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते
अथैतानि कपालानि संचिन्त्य यत्राहवनीयस्य भस्मोद्धृतं स्यात् तद् उपनिकिरेत्। एतद् एवात्र कर्म॥
अथो खल्व् आहुर् यत् प्राच उद्द्रुतस्य स्कन्देत् किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एव तत्र स्रुचि परिशिष्टं स्यात् तेन जुहुयात्॥
यद्य् उ नीची स्रुक् स्याद् अपि वा भिद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तस्योक्तः प्रत्यभिमर्शः॥
तद् उ हैके तत एव प्रत्येत्योन्नयन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् यद् अनेनाग्निहोत्रेणाचिकीर्षीन् न्यवृतत् तस्मान् नास्येदं स्वर्ग्यम् इव भविष्यतीति तथा हैव स्यात्॥
इत्थम एव कुर्यात्। यत्रैव स्कन्देत् तद् उपविशेत्। अथास्मिन् स्थालीम् अहरेयुस् स्रुवं च स्रुचं च निर्णिज्य। तद् अद एवास्योन्नेष्यामीत्य् उक्तं भवति। अथ यथोन्नीतम् उन्नीय समिधम् आदाय प्राक् प्रेयात्। तद् यथाप्रत्युत्थायामित्रान् पचेद् एवम् एवैतद् अवृत्तिं पाप्मानम् अपहत्याहुतिं प्राप्नोति। तद् उ हैक उपेव लभन्ते। अहुतं तस्य यस्याग्निहोत्रोच्छिष्ठेन जुह्वति यातयामं ह्य् एतद् इति वदन्तः। तद् उ तथा न विद्यात्। यदा वा एतद् अयातयामं भवत्य् अथैतस्यापि हविरातञ्चनं कुर्वन्ति
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रं दुह्यमानम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते, न वै देवाः कस्माच् चन बीभत्स इति वदन्तः। तद् उ तथा न विद्यात्। पुरुषो न्वेव बीभत्सेयाद् बीभत्सते बीभत्सान्ताइ3 देवाः। इत्थम् एव कुर्यात्। गार्हपत्यस्यैवोष्णं भस्म निरूह्य तस्मिन्न् एतत्तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्बिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुर् यद् दुग्धम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। येष्व् एवाङ्गारेष्व् अधिश्रयिष्यन् स्यात् तान् एव प्रत्यूह्य तेष्व् एवैनत्तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्भिर् अनुनिनयेत्।अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुर् यद् अधिश्रितम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। येष्व् एवाङ्गारेष्व् अधिश्रितं स्यात्तान् एव प्रत्यूह्य तेष्व् एवैनत् तूष्णीं निनयेत्। तन्न हुतं नाहुतम्। यद् अहैनत् तेषु निनयति तेन हुतं यद् व् एनांस् तेनो एवानुगमयति तेनो अहुतम्। अद्भिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुः --
--यत् प्राग् उद्द्रुतम् अमेध्यम् आपद्येत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते प्रेतम् एतन् नैतस्याहोमः कल्पत इति वदन्तः। अथ हैके ऽद्भिर् अभ्यासिच्य परासिञ्चन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयात् पराङ् वा अयम् इदम् अग्निहोत्रम् असिञ्चत् परासंक्ष्यते ऽयं यजमान इति तथा हैव स्यात्। इत्थम् एव कुर्यात्। आहवनीय एव समिधम् अभ्याधायाहवनीयस्यैवोष्णं भस्म निरूह्य तस्मिन्न् एनत् तूष्णीं निनयेत्। तन् न हुतं नाहुतम्। अद्भिर् अनुनिनयेत्। अद्भिर् एवैनद् आप्नोति। अथ यद् अन्यद् विन्देत् तेन जुहुयात्॥
अथो खल्व् आहुर् यद् अववर्षेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। स विद्याद् उपरिष्टान्मा शुक्रम् आगात् प्रजातिर् मे भूयस्य अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्॥
अथो खल्व् आहुर् यत्पूर्वस्याम् आहुतौ हुतायाम् अङ्गारा अनुगच्छेयुः क्वोत्तरां जुहुयाद् इति। य एव तत्र शकलो ऽन्तिकस् स्यात् तम् अध्यस्यन् जुहुयात्। दारौदारौ ह्य् अग्निः। स यदि तस्यां न तिष्ठेद् धिरण्यम् अभिजुहुयात्। अग्नेर् वा एतद् रेतो यद् धिरण्यम्। य उ वै पिता स पुत्रः। तस्माद् धिरण्यम् अभिजुहुयात्॥
अथो खल्व् आहुः --
--यद् अधिश्रिते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। पर्याधायैवैनद् विष्यन्दयेत्। एतद् एवात्र कर्म। अथो खल्व् एषैव सर्वेषां हविर्यज्ञानां प्रायश्चित्तिः॥
अथो खल्व आहुर् यत् प्राच्य उद्द्रुते यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। यद् एवादयश् चतुर्गृहीतम् आदिष्टं स्यात् तत्रैवैनद् अभ्युन्नयेत्। एतद् एवात्र कर्म॥
अथो खल्व् आहुर् यत् पूर्वस्याम् आहुतौ हुतायां यजमानो म्रियेत किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् उ हैके होतव्यम् एव मन्यन्ते। कृत्स्नं वा एतस्याग्निहोत्रं हुतं भवति यस्य पूर्वा हुताहुतिर् भवतीति वदन्तः। तद् उ तथा न विद्यात्। न वै प्रेतस्याग्निहोत्रं जुहोति। यद् एवादयश् चतुर्गृहीतम् आदिष्टं स्यात् तत्रैवैनद् अभ्युन्नयेत्। एतद् एवात्र कर्म
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्री दुह्यमानोपविशेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। ताम उ हैके यजुषोत्थापयन्ति। अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्योपविशति यस्याग्निहोत्री दुह्यमानोपविशति। ताम् उत्थापयन्ति उद् अस्थाद् देव्य् अदितिः इति। इयं वै देव्य् अदितिः। इमाम् एवास्मै तद् उत्थापयन्ति। आयुर् यज्ञपताव् अधात् इत्य् आयुर् एवास्मिंस् तद् दधति। इन्द्राय कृण्वती भागम् इतीन्द्रियम् एवास्मिंस् तद् दधति। मित्राय वरुणाय च इति -- प्राणापानौ न्वै मित्रावरुणौ -- प्राणापानाव् अवास्मिंस् तद् दधति। तां तस्याम् एवाहुतौ हुतायां ब्राह्मणाय ददति। यं संवत्सरम् अनभ्यागमिष्यन्तो भवन्त्य् अवृत्तिम् अस्मिन् पाप्मानं निवेशयाम इति वदन्तः
तद् उ होवाच वाजसनेयो ऽश्रद्दधानेभ्यो हैभ्यो गौर् अपक्रामति। अवृत्त्या हि तं विध्यन्ति। इत्थम् एव कुर्यात्। दण्डम् एव लब्ध्वा तेनैनां विपिष्योत्थापयेत्। तद् यथा वा अदो धावयतो ऽश्वतरो गदायते युक्तो वा बलीवर्द उपविशति तेन दण्डप्रजितेन तोत्त्रप्रजितेन यम् अध्वानं कामयते तं समश्नुते। एवम् एवैतया दण्डप्रजितया तोत्त्रप्रजितया यं स्वर्गं लोकं कामयते तं समश्नुते। ताम् आत्मन्न् एव कुर्वीत्। आत्मन्न् एव तच् छ्रियं धत्त इति
तद् आहुर् यद् एतस्य दीर्घसत्त्रिणो ऽग्निहोत्रं जुह्वतो ऽग्निहोत्रीवत्सो नश्येत् किं तत्र कर्म का प्रायश्चित्तिर् इति। तद् होवाचारुणिर् द्यौर् वा अग्निहोत्री तस्या आदित्य एव वत्स इयम् एवाग्निहोत्रस्थाली। न ह वा एवंविदो ऽग्निहोत्रीवत्सो नश्यति। क्व ह्य् एष नश्येत्। नो वा एवंविदो ऽग्निहोत्रं दुह्यमानं स्कन्दति। अस्यां ह्य् एवं प्रतितिष्ठति। नो वा एवंविदो ऽग्निहोत्री दुह्यमानोपविशति। यदा वा एषा सुस्पृष्टं वर्षत्य अभिनिपद्य एव बतावर्षीद् इत्य् एनाम् आहुः॥
अथो खल्व् आहुर् यद् एषा लोहितं दुहीत किं तत्र कर्म का प्रायश्चित्तिर् इति। अवृत्तिं वा एषा यजमानस्य पाप्मानं प्रतिदृश्य दुहे या लोहितं दुहे। स व्युत्क्रामते ऽत्युक्त्वान्वाहार्यपचनं परिच्छादयितवै ब्रूयात्। तद् अधिश्रित्य मेक्षणं कृत्वा श्रपयेत्। तत्तद् एव तूष्णीं निनयेत्॥
अनिरुक्तो वै प्रजापतिः। प्राजापत्यम् अग्निहोत्रम्। अथो भूर् भुवस् स्वर् इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् अनेन सर्वेण प्रायश्चित्तिं कुरुते॥
अथो खल्व् आहुः ---
- - -यद् अग्नयो ऽनुगच्छेयुः किं तत्र कर्म का प्रायश्चित्तिर् इति। तम् उ हैक उल्मुकाद् एव निर्मन्थन्ति। यतो वै मनुष्यस्यान्ततो नश्यति ततो वाव स तस्य प्रायश्चित्तिम् इच्छत इति वदन्तः। तद् उ तथा न विद्यात्। उल्मुकं ह्य् एव तत आदाय चरेद् उल्मुकस्य वावव्रश्चम्। इत्थम् एव कुर्यात्। उल्मुकाद् एवापच्छिद्यारण्योर् अभिविमन्थेत्। उप ह तं कामम् आप्नोति य उल्मुकमथ्यायाम् उपो तं यो ऽरण्योः॥
अथो खल्व् आहुर् यद् आहवनीय उद्धृतो ऽनुगच्छेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। अनुगतो वा एष तावद् भवति यावद् गार्हपत्यो नानुगच्छति। स यद्य् अपि बह्व् इव कृत्वो ऽनुगच्छेत् पुनः पुनर् एवैनम् उद्धरेत्। एतद् एवात्र कर्म॥
अथो खल्व् आहुर् यद् आहवनीय उद्धृत गार्हपत्यो ऽनुगच्छेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। तम् उ हैके तत एव प्राञ्चम् उद्धरन्ति। तद् उ तथा न कुर्यात्। यो ऽङ्ग तत्र ब्रूयात् प्राचो न्वा अयं यजमानस्य प्राणान् प्रावृक्षन् मरिष्यत्य् अयं यजमान इति तथा हैव स्यात्॥
तम् उ हैके तत एव प्रत्यञ्चम् आहरन्ति। प्राणो वै गार्हपत्यो ऽपान आहवनीयः। संविदानौ वा इमौ प्राणापानाव् अन्नम् अत्त इति वदन्तः। अथो गृहो वै गार्हपत्यः। प्रतिष्ठो वै गृहाः। स य एनं तत्र ब्रूयात् प्र न्वा अयम् अस्यै प्रतिष्ठाया अच्योष्ट मरिष्यत्य् अयं यजमान इति तथा हैव स्यात्॥
तम् उ हैके गार्हपत्य एवम् अवधित्वोपसमादधति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् अग्नाव् अध्य् अग्निम् अजीजनत् क्षिप्रे ऽस्य द्विषन् भ्रातृव्यो जनिष्यत इति तथा हैव स्यात्॥
तम् उ हैके ऽनुगमय्य मन्थन्ति। तद् उ तथा न कुर्यात्। यो ह तत्र ब्रूयाद् अपि यत् परिशिष्टम् अभूत् तद् अजीजसन् नास्य दायादश् चन परिशेक्ष्यत इति तथा हैव स्यात्॥
इत्थम् एव कुर्यात्। अरण्योर् एव समारोहयेत
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः।
तं जानन्न् अग्न आरोहाथा नो वर्धया रयिम् अथा नो वर्धया गिरः॥
इति। वास उदवसाय जुह्वद् वसेत्। नवावसाने हास्योभयतोरात्रं हुतं भवति नो कांचन परिचक्षां कुरुते॥
स प्रातर् भस्मोद्धृत्य शकृत्पिण्डेन परिलिप्य यथायथम् अग्नीन् आदधीत। एतद् एवात्र कर्म॥
अथो खल्व् आहुर् यद् आहवनीयम् अनुद्धृतम् --
-- अभ्य् अस्तम् इयात् किं तत्र कर्म का प्रायश्चित्तिर् इति। एतस्माद् ध वै विश्वे देवा अपक्रामन्ति यस्याहवनीयम् अनुद्धृतम् अभ्य् अस्तम् एति। स दर्भेण सुवर्णं हिरण्यं प्रबध्य पश्चाद् धरेत्। तद् एतस्य रूपं क्रियते य एष तपति। अह्नो वा एतद् रूपम्। तद् अह्नो रूपं क्रियते। अथेध्मम् आदीप्य प्राञ्चं हरेयुः। तम् उपसमाधाय चतुर्गृहीतम् आज्यं गृहीत्वा विश्वेभ्यो देवेभ्यस् स्वाहा इति जुहुयात्। तद् यथा वा अदवद आवसथवासिनं क्रुद्धं यन्तम् उक्षवेहता वानुमन्त्रयेतान्येन वा प्रियेण धाम्नैवम् एव तद् विश्वान् देवान् अनुमन्त्रयते। ते हास्मै सर्व एवाक्रुद्धा भवन्ति॥ अथो खल्व् आहुर् यद् आहवनीयम् अनुद्धृतम् --
--अभ्युदियात् किं तत्र कर्म का प्रायश्चित्तिर् इति। एतस्माद् ध वै विश्वे देवा अपक्रामन्ति यस्याहवनीयम् अनुद्धृतम् अभ्युदेति। स दर्भेण रजतं हिरण्यं प्रबध्य पुरस्ताद् धरेत्। तच् चन्द्रमसो रूपं क्रियते। रात्रेर् वा एतद् रूपम्। तद् रात्रे रूपं क्रियते। अथेध्मम् आदीप्यान्वञ्चं हरेयुः। तम् उपसमाधाय चतुर्गृहीतम् आज्यं गृहीत्वा विश्वेभ्यो देवेभ्यस् स्वाहा इति जुहुयात्। यत्र वै दीप्तं तत्रैतद् इह गार्हपत्य इत्य् एव विद्वान् उद्धरेत्। असाव् एव बन्धु। अथ हैक आहुर् एत ह वै स्वर्गं लोकं पश्यन्तो जुह्वति य आदित्यम् इति। स यो वा त्वै गतश्रीस् स्याद् यो वास्माल् लोकात् क्षिप्रे प्रजिगांस्ते स उदितहोमी स्यात्॥
अथो खल्व् आहुः --
--यद् अग्नयस् संसृज्येरन् किं तत्र कर्म का प्रायश्चित्तिर् इति। स यदि परस्ताद् अन्यो ऽभिदहन्न् एयात् स विद्यात् परस्तान्मा शुक्रम् आगात् प्रजातिर् मे भूयस्य् अभूच् छ्रेयान् भविष्यामीति। तथा हैव स्यात्। यदि त्व् अस्य हृदयं विलिखेद् अग्नये विविचय इष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये
वि ते विष्वग् वातजूतासो अग्ने भामासश् शुचे शुचयश् चरन्ति।
तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः॥
इति। अथ याज्या
त्वाम् अग्ने मानुषीर् ईळते विशो होत्राविदं विविचिं रत्नधातमम्।
गुहा सन्तं सुभग विश्वदर्शतं तुविष्मणसं सुयजं घृतश्रियम्॥
इति। अथो हैनया पाप्मना व्यावृत्स्यमानो यजेत। क्षिप्रे हैव पाप्मनो व्यावर्तते॥
यदि त्व् अयम् इतो ऽभिदहन्न् एयाद् अग्नये संवर्गायेष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये --
-- मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा।
सं वर्गं सं रयिं जय॥
इति। अथ याज्या
परस्या अधि संवतो अवरं अभ्य् आ तर।
यत्राहम् अस्मि तं अव॥
इति। अथो हैनया यद् भ्रातृव्यस्य संविवृक्षेत तत्कामो यजेत। क्षिप्रे हैवास्य संवृंक्ते॥
अथो खल्व् आहुर् यद् अग्नाव् अग्निम् अभ्युद्धरेत् किं तत्र कर्म का प्रायश्चित्तिर् इति। अग्नये ऽग्निमत इष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये
अग्निनाग्निस् समिध्यते कविर् गृहपतिर् युवा।
हव्यवाड् जुह्वास्यः॥
इति। अथ याज्या
त्वं ह्य् अग्ने अग्निना विप्रो विप्रेण सन् सता।
सखा सख्या समिध्यसे॥
इति। अथो हैनया ब्रह्मवर्चसकामो यजेत। तेजस्वी हैव ब्रह्मवर्चसी भवति॥
अथो खल्व् आहुर् यद् आहवनीयगार्हपत्यौ संसृज्येयातां किं तत्र कर्म का प्रायश्चित्तिर् इति। अग्नये वीतय इष्टिं निर्वपेत्। एता एव पञ्चदश सामिधेनीर् वार्त्रघ्नाव् आज्यभागौ विराजौ संयाज्ये। अथैते याज्यापुरोनुवाक्ये
अग्न आ याहि वीतये गृणानो हव्यदातये। नि होता सत्सि बर्हिषि॥
इति। अथ याज्या
यो अग्निं देववीतये हविष्मं आविवासति।
तस्मै पावक मृडय॥
इति। तस्मै पावक मृडय इति
प्रजननं ज्योतिः। अग्निर् देवतानां ज्योतिः। विराड् वाच्य् अग्नौ संतिष्ठते। विराजं संपद्यते। तस्माद् एष ज्योतिर् उच्यते। द्वौ स्तोमौ प्रातस्सवनं वहतो यथा चक्षुश् च प्राणश् च तथा तत्। द्वौ स्तोमौ माध्यंदिनं सवनं वहतो यथा च श्रोत्रं च बाहू च तथा तत्। द्वौ स्तोमौ तृतीयसवनं वहंतो यथा मध्यं च प्रतिष्ठा च तथा तत्।
हिंकारेण वै ज्योतिषा देवास् त्रिवृते ब्रह्मवर्चसाय ज्योतिर् अदधुः। त्रिवृता ब्रह्मवर्चसेन पञ्चदशायौजसे वीर्याय ज्योतिर् अदधुः। पञ्चदशेनौजसा वीर्येण सप्तदशाय प्रजायै पशुभ्यः प्रजननाय ज्योतिर् अदधुः। सप्तदशेन प्रजया पशुभिः प्रजनेनैकविंशाय प्रतिष्ठायै ज्योतिर् अदधुः॥
स्तोमो वा एतत्। स्तोमे ज्योतिर् दधत इति। तस्माज् ज्योतिष्टोम इत्य् आख्यायते। अथ यत् स्तोमस्तोमं सवनम् अभिप्रणयति तस्माज् ज्योतिष्टोम इत्य् आख्यायते। अथो यद् यज्ञस् संस्तुतो विराजम् अभिसंपद्यते-ज्योतिर् विराट्-तस्माज् ज्योतिष्टोम इत्य् आख्यायते
अस्थूरिर् वा एष यज्ञः पुरुषसंमितः। यत्काम एनम् आहरते सम् अस्मै काम ऋध्यते। अस्थूरिणा हि तत्र गच्छति यत्र जिगमिषति॥
प्रजापतिर् यत् प्रजा असृजत ता अग्निष्टोमेनासृजत। दशमेन च वै स ता अग्निष्टोमस्य स्तोत्रेणासृजत दशमेन च मासा संवत्सरस्य। ता द्वादशेन चैवाग्निष्टोमस्य स्तोत्रेण पर्यगृह्णाद द्वादशेन च मासा संवत्सरस्य। तस्मात् पशवो दशमासो गर्भान् बिभ्रति। त एकादशम् अनुप्रजायन्ते। न का चन द्वादशम् अतिहरति। परिगृहीता हि तेन॥
तासां परिगृहीतानाम् अश्वतरो ऽत्यप्लवत। तस्यानुहाय रेत आदत्त। तद् गर्दभे न्यमार्ट् तद् बडवायां तत् पशुषु तद ओषधीषु। तस्माद् गर्दभो द्विरेतास् तस्माद् बडवा द्विरेताः। तस्मात् पशवो द्वौ द्वौ जनयन्ति। तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति। तस्माद् अश्वतरो बर्हिषि न देयः। अति ह्य् अप्लवताप ह्य् अक्रामत्। आत्त रेता ह्य् अप्रजा हि। षोडशिनस् स्तोत्रे देयः। अतिरिक्तो वै षोडशि स्तोत्राणाम् अतिरिक्तो ऽश्वतरः पशूनाम्। अतिरिक्त एवा तद् अतिरिक्तं दधति यज्ञस्य सलोमतायै। स य एवं विद्वान् अग्निष्टोमेनोद्गायति प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति। ज्येष्ठयज्ञो वा एष प्रजापतियज्ञो यद् अग्निष्टोमः। अश्नुते ज्यैष्ठयं श्रैष्ठयं य एवं वेद
प्रजापतिर् वावेदम् अग्र आसीत्। जनो ह वै प्रजापतिर् देवता। सो ऽकामयत बहुस् स्याम प्रजायेय भूमानं गच्छेयम् इति। स शीर्षत एव मुखतस् त्रिवृतं स्तोमम् असृजत गायत्रीं छन्दो रथन्तरं सामाग्निं देवतां ब्राह्मणं मनुष्यम् अजं पशुम्। तस्माद् ब्राह्मणो गायत्रीछन्दा आग्नेयो देवतया। तस्माद् उ मुखं प्रजानाम्। मुखाद् ध्य् एनम् असृजत॥
सो ऽकामयत प्रैव जायेयेति। स बाहुभ्याम् एवोरसः पञ्चदशं स्तोमम् असृजत त्रिष्टुभं छन्दो बृहत् सामेन्द्रं देवतां राजन्यं मनुष्यम् अश्वं पशुम्। तस्माद् राजन्यस् त्रिष्टुप्छन्दा ऐन्द्रो देवतया। तस्माद् उ बाहुभ्यां वीर्ये करोति। बाहुभ्यां ह्य् एनम् उरसो वीर्याद् असृजत॥
सो ऽकामयत प्रैव जायेयेति
स उदराद् एव मध्यतस् सप्तदशं स्तोमम् असृजत जगतीं छन्दो वामदेव्यं साम विश्वान् देवान् देवतां वैश्यं मनुष्यं गां पशुम्। तस्माद् वैश्यो जगतीछन्दा वैश्वदेवो देवतया। तस्माद् उ प्रजनिष्णुः। उदराद् ध्य् एनं प्रजननाद् असृजत॥
सो ऽकामयत प्रैव जायेयेति। स पद्भयाम् एव प्रतिष्ठाया एकविंशं स्तोमम् असृजतानुष्टुभं छन्दो यज्ञायज्ञीयं साम न कां चन देवतां शूद्रं मनुष्यम् अवि पशुम्। तस्माच् छूद्रो ऽनुष्टुप्छन्दा वेश्मपतिदेवः। तस्माद् उ पादावनेज्येनैव जिजीविषति। पद्भयां ह्य् एनं प्रतिष्ठाया असृजत॥
एतया वै सृष्टया प्रजापतिः प्रजा असृजत। स य एतद् एवं वेद भूमानम् एव प्रजया पशुभिर् गच्छति। तस्माद् व् एतं यज्ञं भूयिष्ठं प्रशंसन्ति यद् अग्निष्टोमम्। प्रजापतियज्ञो ह्य् एषः
प्रजापतिः प्रजाभ्य ऊर्जं व्यभजत्। तद् उदुम्बरस् समभवत्। प्रजापतिर् उद्गाता प्राजापत्य उदुम्बरः। वृणुते ऽन्यान् ऋत्विजो नोद्गातारम्। यद् उद्गाता प्रथमेन कर्मणौदुम्बरीम् अन्वारभते स्वयैव तद् देवतायात्मानम् आर्त्विज्याय वृणीते। ताम् अन्वारभते आयोष् ट्वा सदने सादयाम्य् अवतश् छायायां समुद्रस्य हृदये॥ नमस् समुद्राय नमस् समुद्रस्य चक्षसे॥ मा मा योनोर्वां हासीः इति। यद् आह आयोष् ट्वा सदने सादयामि इति-यज्ञो वा आयुः - तस्यैतत् सदनं क्रियते। अवतश् छायायाम् इति। यज्ञो वा अवतिः। तस्यैषा छाया क्रियते यत् सदः। समुद्रस्य हृदये इति। मध्यतो वा आत्मनो हृदयम्। तस्मान् मध्यतस् सदस औदुम्बरीम् ईयते। नमस् समुद्राय नमस् समुद्रस्य चक्षसे इति। वाग् वै समुद्रो मनस् समुद्रस्य चक्षः। एताभ्याम् एवैतद् देवताभ्यां नमस्करोति। आर्त्विज्यं करिष्यन् मा मा योनोर्वां हासीः। इति-साम वै योनोर्वाम्-साम्न एवैतन् नमस्करोति। आर्त्विज्यं करिष्यन् नैनं सामावहते। न सामन्याम् आर्तिम् आर्छति। न साम्नो हीयते य एवं विद्वान् साम्ने नमस्करोति। य एवैनम् उपवदति स आर्तिम् आर्छति
प्रजापतेर् वा एतद् उदरं यत् सदः ऊर्ग् उदुम्बरः। यन् मध्यतस् सदस औदुम्बरीम् ईयते मध्यत एवैतत् प्रजानाम् अन्नम् ऊर्जे दधाति। तस्मान् मध्यतो ऽशनम् अशितं धिनोति। तस्माद् यत्रैषा यातयाम्नी क्रियते तत् प्रजा अशनायुका भवन्ति। पोषुका ह त्वै भवन्ति॥
उपस्पृश्यां नोपस्पृश्याम् इति मीमांसन्ते। सर्वे वावेदम् आत्मन्वत्। यस् त्वा अन्नम् अभीव कामयते तम् एवैतद् भूयिष्ठं द्वेष्टि। यद् उपस्पृशेद् अन्नाद्यं प्रथमेत्। यन् नोपस्पृशेद् अन्नाद्याद् आत्मानम् अन्तर्यात्। उपस्पृश्य नस्वास्पृष्टेनैवोद्गेयन् नान्नाद्यं प्रथमति नान्नाद्याद् आत्मानम् अन्तरेति॥
साम देवानाम् अन्नम् ऊर्ग् उदुम्बरः। यद् उद्गातौदुम्बरीं श्रयते सामन्न् एवतैद् देवानाम् अन्नम् ऊर्जं दधाति। तस्माद् यत्र साम्नार्त्विज्यं कुर्वन्ति तद् एव देवा भूयिष्ठम् इवादन्ति
प्रजापतिर् उद्गातोर्ग् उदुम्बरः। स एष ऊर्जि श्रितः प्रजापतिः प्रजाभ्य ऊर्जम् अन्नाद्यं विभजति। उद्ङ्ङ् आसीनः प्रस्तौति। उद्गायति। उदीचीम् एव तद् दिशम् ऊर्जा भाजयति। प्रत्यङ्ङ् आसीनः प्रस्तौति। प्रतीचीम् एव तद् दिशम् ऊर्जा भाजयति। दक्षिणासीनः प्रतिहरति। दक्षिणाम् एव तद् दिशम् ऊर्जा भाजयति। प्राञ्चो ऽन्य ऋत्विज आर्त्विज्यं कुर्वन्ति। प्राचीम् एव तद् दिशम् ऊर्जा भाजयन्ति। तस्माद् एषा दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता। तस्माद् यत् प्रजा अवृत्तिं नीयन्ति प्राचीर् एव यन्ति। एषा हि दिशां वीर्यवत्तमोपजीवनीयतमा भूयिष्ठैः प्रीता।
यद् उदीचीनदेवत्या उद्गातारो ऽथ कस्माद् विपर्यावृत्य दिश आर्त्विज्यं कुर्वन्तीत्य् आहुः। ब्रूयाद् दिशाम् अभिष्टयै दिशाम् अभिप्रेत्यै। तस्मात् सर्वासु दिक्ष्व् अन्नं विद्यत इति॥
उद् दिवं स्तभनान्तरिक्षं पृण पृथिवीम् उपरेण दृंह॥ द्युतानस् त्वा मारुतो मिनोतु मित्रावरुणयोर् ध्रुवेण धर्मणा। घृतेन द्यावापृथिवी आ प्रीणीथाम्॥ सुपिप्पला ओषधीः कृधि स्वाहा। इत्य् औदुम्बरीम् अभिजुहोति। इमान् एवैतल् लोकान् रसेनानक्ति
प्रजपतिः प्रजा असृजत। सो ऽअग्निम् अपि मुखाद् असिसृक्षत। सो ऽग्निर् मुखाद् बीभत्समान ऊर्ध्व उद्द्रुत्य मस्तिष्कम् उद्धत्यासृज्यत। तं देवाश् चर्षयश् चोपसमेत्याब्रुवन् वितुन्नो ऽयं मस्तिष्को मामुया भूत् करवामेमं कस्यां चिताचितीति। ते बृहस्पतिम् अब्रुवन् सोमम् अस्मिन् गृहाणेति। स बृहस्पतिर् अब्रवीत् स वा अयं क्रूर इवापूतो ऽमेध्यो ऽशृतंकृत इति। वयं त एतं पूतं मेध्यं शृतंकृतं कुर्म इत्य् अब्रुवन्। तं वै म आहरतेति। तथेति। तम् अस्मै प्रायच्छन्। तं प्रत्यगृह्णात् देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामि इति। देवाङ्गैर् वावैनं तत् प्रत्यगृह्णात्। तं प्रतिगृह्यापवयत्
वसवस् त्वा पुनन्तु गायत्रेण छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
रुद्रास् त्वा पुनन्तु त्रैष्टुभेन छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
आदित्यास् त्वा पुनन्तु जागतेन छन्दसा सुप्रजावनिं रायस् पोषवनिम्॥
इति। छन्दोभिश् च वावैनं तद् देवताभिश् चापवयत्। तं पवयित्वा पश्चाद् अक्षं सादयति बार्हस्पत्यम् असि वानस्पत्यम् प्रजापतेर् मूर्धात्यायुपात्रम् इति। यद् आह बार्हस्पत्यम् असि इति बृहस्पतिर् ह्य् एतम् अग्रे प्रत्यगृह्णात्। यद् आह वानस्पत्यम् इति वनस्पतिभ्यो ह्य् एनम् अधिकुर्वन्ति। यद् आह प्रजापतेर् मूर्धा इति प्रजापतेर् ह्य् एष मूर्धासीत्। यद् आह अत्यायुपात्रम् इत्य् अति ह्य् एतद् अन्यानि पात्राणि पात्रम्। यद् एतद् देवपात्रं प्रथमं युज्यत उत्तमं विमुच्यते तेनैवात्य् अन्यानि पात्राणि। प्र श्रेयसः पात्रम् आप्नोति य एवं वेद। तं पश्चात् अक्षं सादयित्वा गायत्रं विश्वरूपासु गायति
नमः पितृभ्यः पूर्वसद्भ्यो नमस् साकंनिषद्भ्यः।
युञ्जे वाचं शतपदीं गाये सहस्रवर्तनीम्॥
गायत्रं त्रैष्टुभं जगद् विश्वा रूपाणि संभृतम्।
देवा ओकांसि चक्रिरे॥
इति। यत् नमः पितृभ्यः पूर्वसद्भ्यः इति पितरो वा अत्र पूर्व उपसीदन्ति। न तेभ्य एवैतन् नमस्करोति नमस् साकंनिषद्भ्यः इति यैर् एव ब्राह्मणैस् सहोपसीदत्य् आर्त्विज्यं करिष्यंस् तेभ्य एवैतन् नमस्करोति। युञ्जे वाचं शतपदीम् इति वाचम् एवैतच् छतपदीं युङ्क्ते। गाये सहस्रर्वनीम् इति युक्ताम् एवैनाम् एतत् सहस्रवर्तनीं भूतां गायति। गायत्रं त्रैष्टुभं जगत् इति- एतानि वै त्रीणि सवनानि-तान्य् एवैतान्य आत्मन् परिगृह्णीते। विश्वा रूपाणि संभृतम् इति-यज्ञो वै विश्वा रूपाणि-यज्ञम् एवैतेन संभरति। देवा ओकांसि चक्रिरे इति सदेवम् एवैतेन यज्ञं कुरुते
कुसुर्विन्दो हौद्दालकिस् सोमानाम् उज्ज्गौ। तम् उ हासितमृगा कश्यपानां पुत्रा उचुः को ऽनु नो ऽयं नृशंसको ऽन्त उद्गायत्य् एतेमम् अनुव्याहरिष्याम् इति। ते ऽनुव्याहरिष्यन्त आस्तावम् उपसेदुः। स होवाच नमो ब्राह्मणा अस्तु पुरा वा अहम् अद्य प्रातरनुवाकाद् गायत्रेण विश्वरूपासु यज्ञं समस्थापयम्। स यथा गोभिर् गवायम् इत्वा श्रमणम् अबलम् अनुसंनुदेद् एवं वावेदं यज्ञशरीरम् अनुसंनुदाम इति। ते होत्थाय प्रवव्रजुर् नमो ऽस्मै ब्राह्मणायास्तु विदां वा अयम् इदं चकारेति। पुरा ह वा अस्य प्रातरनुवाकाद् गायत्रेण विश्वरूपासु यज्ञस् संस्थितो भवति य एवं वेद
तद् आहुः अध्वर्यो किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीत् इति। अकर्म वय तद् यद् अस्माकं कर्म इत्य् आह होतारं पृच्छत इति। होतः किं स्तुतं स्तोत्रं प्रातरनुवाकेनान्वशंसीः इति। अकर्म वयं तद् यद् अस्माकं कर्म इत्य् आह उद्गातारं पृच्छत इति। उद्गातः किं स्तुतं स्तोत्रं होता प्रातरनुवाकेनान्वशंसीत् इति। अकर्म वयं तद् यद् अस्माकं कर्म इति ज्योतींष्य् एवाहम् अगासिषम् इति व्रूयात् न तमांसि इति। ज्योतिस् तद् यद् ऋग् ज्योतिस् तद् यत् साम ज्योतिस् तद् यद् देवता। एतानि वा अहं ज्योतींष्य् अगासिषं युष्मान् एव तमसा पाप्मना विध्यानि इति। तमसा चैवैनांस् तत् पाप्मना च विध्यति
पश्चात् प्राञ्च उपसीदन्ति। वाचम् एवैतन् मुखतो ऽवरुन्धते। यत् पुरस्तात् प्राञ्च उपसीदेयुर् वाचं पृष्ठतः कुर्वीरन्। वाग् एषाम् उपदासुका स्यात्॥
वाग् वै देवेभ्यो ऽपाक्रामत्। सा वनस्पतीन् प्राविशत्। सैष याक्षे। यद् अधोऽधो ऽक्षं द्रोणकलशं प्रोहन्ति दैवीम् एवैतद् वाचम् अवरुन्द्धे। उद्गातार उद्गीथायाधोऽधो ऽक्षं द्रोणकलशं प्रोहन्ति। अस्माद् लोकाद् द्विषन्तं भ्रातृव्यम् अन्तरेति। उपरिष्टाच् छुक्रम् अपहरति। अमुष्माद् एव तल् लोकाद् द्विषन्तं भ्रातृव्यम् अन्तरेति य एवं वेद॥
नाक्षम् उपस्पृशेत्। यद् अक्षम् उपस्पृशेद् भ्रातृव्ये श्रियम् ऋञ्ज्यात्। अन्तरा चक्रौ प्रोहति। तस्माद् यद् अन्तरा चक्राव् अनसस् तद् उपजीवनीयतमम्। तस्माद् अन्तरा शम्ये युक्तो भुनक्ति
वसवो वा एतम् अग्रे प्रौहन्। ते ऽश्राम्यन्। ते रुद्रान् आह्वयन्। तं रुद्राः प्रौहन्। ते ऽश्राम्यन्। त आदित्यान् आह्वयन्। तम् आदित्याः प्रौहन्। तं प्रोहति वसवस् त्वा प्रोहन्तु गायत्रेण छन्दसा॥ रुद्रास् त्वा प्रोहन्तु त्रैष्टुभेन छन्दसा॥ आदित्यास् त्वा प्रोहन्तु जागतेन छन्दसा इति। देवतानाम् एवैनं तत् प्रौढिम् अनुप्रोहति। देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां प्रोहामि इति वा प्रोहेत्। देवाङ्गैर् एवैनं तत् प्रोहति। बृहस्पतिर् वा एतम् अग्रे प्रौहत्। स रूपेण वर्चसा व्यार्ध्यत। स ऐक्षत कास्य प्रायश्चित्तिर् इति। तां द्रोणकलश एव पर्यपश्यत्। तम् अभ्यमृशत् तनूपा असि तन्वं मे पाहि॥ वर्चोधा असि वर्चो मे धेहि॥ आयुर्धा अस्य् अयुर् मे धेहि। वयोधा असि वयो मे धेहि इति। यद् एवास्य तत्रात्मनो मीयते तद् एतेनाप्यायनम्। एतेनैवोद्गाताभिमृशति तनूपा असि तन्वं मे पाहि॥ वर्चोधा असि वर्चो मे धेहि॥ आयुर्धा अस्य आयुर मे धेहि॥ वयोधा असि वयो मे धेहि इति। यद् एवास्यात्रात्मनो मीयते तद् एतेनाप्यायनम्। एतेनैवोद्गाताभिमृशति तनूपा असि तन्वं मे पाहि॥ वर्चोधा असि वर्चो मे धेहि॥ आयुर्धा-अस्य आयुर मे धेहि॥ वयोधा असि वयो मे धेहि इति। यद् एवास्यात्रात्मनो मीयते तद् एतेनैवाप्याययते। द्वयं वावेदं ब्रह्म चैव क्षत्रं च। तद् उभयं द्रोणकलशे। उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद
संमुखान् ग्राव्णः कृत्वाभिमृशति श्येना अजिरा ऋतस्य गर्भाः प्रयुतो नपातः पर्वतानां ककुभ आ नस् तं वीरं वहत यं बहव उपजीवामो अभिशस्तिकृतम् अनभिशस्तेन्यम् अन्यस्याभिशस्त्याः कर्तारम् इति। आ हैवास्य वीरो जायते ऽभिशस्तिकृद् अनभिशस्तेन्यो ऽन्यस्याभिशस्त्याः कर्ता॥
द्रोणकलशम् अध्यूहति इदम् अहं मां ब्रह्मवर्चसे ऽध्यूहामि इति। यद्य् अस्यावरुद्धो राजन्यस् स्याद् विमुखान् ग्राव्णः कृत्वा तूष्णीं द्रोणकलशम् अध्यूह्य तम् अवह्नारयन् दक्षिणा निरूहेत् इदम् अहम् अमुं विशो निरूहामीदम् अस्य राष्ट्रं न्युब्जामि इति न्यञ्चं द्रोणकलशम् अध्यूहेत् इदम् अहम् अमुं विश्य् अध्यूहामि इति। अपेतरो रुध्यते ऽवेतरो गच्छति। स यद्य् एनम् अवगत्य नाद्रियेत तं कामयेत अत्रैवान्तर् अवरुद्धो ऽस्तु इति। विमुखान् ग्राव्णः कृत्वा तूष्णीं द्रोणकलशम् अध्यूह्य इमा पांशुसवनः इति ग्रावा। तम् उपरिष्टाद् अभिनिदध्यात् इदम् अहम् अमुष्मिन् विश्य् अध्यूहामि इति। अभिप्रक्षीणानाहीनं वितिष्ठति। स यद्य् एनं विदित्वोपधावेद् अस्मिन् वावेदं ब्राह्मणे ऽध्यास यद् इदम् अस्मै वचने वचेति। संमुखान् ग्राव्णः कृत्वा द्रोणकलशम् अध्यूहेत् इदम् अहम् अमुं विश्य् अध्यूहामि इति। ईशे स्वानाम् अपैनं स्वाश् चायन्त्य् अनन्तरम् अवरुद्धो भवति
राष्ट्रं वै द्रोणकलशो विशो ग्रावाणः। यद् द्रोणकलशश् शिथिलस् स्याद् राष्ट्रं शिथिलं स्यात्। तद् अनु विशो विशम् अनु यजमानो यजमानम् अनु प्रजाः। तं दृंहति देवी त्वा धिष्णे निपातां ध्रुवे सदसि सीदेष ऊर्जे सीद इति। इमे वै देवी धिषणे इदं ध्रुवं सदः। एभिर् एवैनं तल् लोकैर् दृंहति इष ऊर्जे सीद इति - वर्षं वा इषे यद् उपरिष्टाद् वर्षस्यैधते तद् ऊर्जे--तद् एवैतेनावरुन्द्धे॥
स्वर्भानुर् वा आसुर आदित्यं तमसाविध्यत्। तं देवाश् चर्षयश् चाभिषज्यन्। ते ऽत्रिम् अब्रुवन्न् ऋषे त्वम् इदम् अपजहीति। तथेति। तद् अत्रिर् अपाहन्। तं ऽबुवन् यो नस् तमसा विद्धेभ्यो ज्योतिर् अविदज् ज्योतिर् अस्य भागधेयम् अस्त्व् इति। तद् एतद् अत्रिहिरण्यं ह्रियते। शतमानं ह स्म पुरा ह्रियते। अथैतर्हि यावद् एव कियच् च ददति। एतद् ध् वाव सर्वेषु लोकेषु ज्योतिर् यद् धिरण्यम्। सर्वेषु लोकेषु ज्योतिर् धत्ते य एवं विद्वान् अत्रिहिरण्यं ददाति
स यत् प्रथमम् अपाहन् सा कृष्णाविर् अभवत्। यद् द्वितीयम् अपाहन् सा धूम्राविर् अभवत्। यत् तृतीयम् अपाहन् सा फाल्गुन्य् अविर् अभवत्। स यं कामयेत पापीयान् स्याद् इति कृष्णम् अस्य पवित्रे ऽप्यस्येत् पापीयान् एव भवति। अथ यं कामयेत नार्वाङ् न परस् स्याद् इति धूम्रम् अस्य पवित्रे ऽप्यस्येन् नैवार्वाङ् न परो भवति। अथ यं कामयेत श्रेयान् स्याद् रुचम् अश्नुवीतेति फाल्गुनम् अस्य पवित्रं कुर्याच् छ्रेयान् एव भवति रुचम् अश्नुते॥
अस्ति हि तत्राप्य् आदित्यस्य न्यक्तम्। तद् अन्तरेषे अवहृत्य संमार्ष्टि वसवस् त्वा संमृजन्तु गायत्रेण छन्दसा॥ रुद्रास् त्वा संमृजन्तु त्रैष्टुभेन छन्दसा॥ आदित्यास् त्वा संमृजन्तु जागतेन छन्दसा इति॥
तद् उदीचीनदशं पवित्रवत्या वितनोति पवित्रं ते विततं ब्रह्मणस् पते इति समष्ट्यै। तपोष् पवित्रं विततं दिवस् पदे इति स्वर्गकामस्य। अरूरुचद् उषसः पृश्निर् अग्रयुः इति प्रजाकामस्य। सर्वाभिर् एव वितनुयाद् एतेषां सर्वेषां कामानाम् उपाप्त्यै॥
राजानम् आनयति। तम् अभिमन्त्रयते स पवस्व सुधामा देवानाम् अभि प्रियाणि धाम॥ त्रिर् देवेभ्यो ऽपवथास् त्रिर् आदित्येभ्यस् त्रिर् अङ्गिरोभ्यः। येन तुर्येण ब्रह्मणा बृहस्पतये ऽपवथास् तेन मह्यं पवस्व॥
स नः पवस्व शं गवे शं जनाय शम् अर्वते।
शं राजन्न् ओषधीभ्यः॥
इति। शम् एवोद्गात्रे भवति शं यजमानाय शं प्रजाभ्यः॥
अध्वर्युर् आग्रायणं ग्रहं गृह्नन् हिंकरोति। तद् एव हिंकृतं भवति। अथोद्गात्रैकर्चो गायत्रं गायति उच्चा ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यं वहति दिवि सद् भूम्य् आ ददे इत्य् अमुतो वृष्टिम् आच्यावयति। ताव् इमौ लोकौ सवासिनौ करोति। ताव् अस्मै कामं पिन्वाते। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद
क्रूरम् इव वा एतद् यज्ञस्य कुर्वन्ति यद् धविर्धाने ग्रावभिस् सोमं राजानं हत्वा बहिष्पवमानं सर्पन्ति। का तस्य प्रायश्चित्तिर् इत्य् आहुर् अप उपस्पृशेयुः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति। वाग् वा एतस्मा अग्रे ऽध्वने ऽतन्द्रायत बहिष्पवमानं सर्पन्ती। तां प्रजापतिर् अब्रवीद् भागधेयं ते करोम्य् अथ सर्पेति। बहिष्पवमानं सर्प्स्यन् होमं जुहुयात् जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युः॥ देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः॥ स्वाहा सरस्वत्यै इति। यत् सरस्वत्यै स्वाहा इति जुहुयाद् वाचं सरस्वतीं स्वाहाकारेण परिगृह्णीयात्। अथ यत् स्वाहा सरस्वत्यै इति जुहोति वाचं तद् उत्तरां स्वाहाकाराद् दधाति। तया परिगृहीतया यज्ञं तनुते। वाचा ह्य् ऊर्ध्वो यज्ञस् तायते। वेकुरा नामासि प्रेषिता दिव्याय कर्मणे शिवा नस् सुयमा भव। सत्याशीर् यजमानाय स्वाहा इति वा जुहुयात्। वाग् वै वेकुरा। ब्रह्म वाक्। ब्रह्मण एवं तद् वाचे होमं हुत्वा सर्पति नार्तिम् आर्छति
अरण्यम् इव वा एते यन्ति ये बहिष्पवमानं सर्पन्ति। तान् ईश्वरो रक्षो वा हन्तोर् अन्या वा नंष्ट्रा। अथ द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्यो ऽग्निः पार्थिवेभ्यस् स्वाहा इति। य एवैषां लोकानाम् अधिपतयस् तेभ्य एवैतद् आत्मानं परिदाय सर्पति नार्तिम् आर्छति॥
प्रजापतिर् यद् यज्ञम् असृजत तं हविर्धान एवासृजत। स सृष्ट उदङ् प्राद्रवत्। तम् एतद् अत्राप्त्वास्तुवन्। यत्रैतद् उद्ञ्चयित्वा बहिष्पवमानेन स्तुवन्ति यज्ञम् एवैतद् आप्त्वा स्तुवन्ति॥
यो वै दैव्यं वाजिनं वेद वाजी भवति। यज्ञो वाव दैव्यो वाजी। य इन् नु मानुषं वाजिनम् अशान्तम् असंमृष्टम् आरोहति तम् इन् नु स हिनस्ति वा प्र वा क्षिणोति। अथ किं यो दैव्यं वाजिनम् अशान्तम् असंमृष्टम् आरोहात्
अध्वर्युः प्रस्तरं हरन् सर्पति। तम् अनुमन्त्रयते एतद् अहं दैव्यं वाजिनं संमाज्मि इति। संसृष्टम् एवैनं शान्तम् आरोहति नार्तिम् आर्छति॥
देवक्षेत्रं वा एषो ऽध्यवस्यति यस् सोमस्योद्गायति। य इन् नु मानुषाय क्षेत्रपतये प्रोच्यावस्यति तम् इन् नु स हिनस्ति वा प्र वा यापयति। अथ किं यो दैव्याय क्षेत्रपतये प्रोच्यावस्यात्। सोमोद्गायोद्गाय सोम इत्य् आह। सोमो वै देवानां क्षेत्रपतिः। सोमायैव तद् देवानां क्षेत्रपतये प्रोच्योद्गायति नार्तिम् आर्छति। मह्यं तेजसे मह्यं ब्रह्मवर्चसाय मह्यम् अन्नाद्याय मह्यं भूम्ने मह्यं पुष्टयै मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्टयै प्रजानां प्रजननाय सोमस्य राज्ञो राज्याय मम ग्रामणेयाय इति॥
ग्रावो ह स्माह मैत्रेयः किं मम एकस्मा आगास्यामि किम् एकस्मा इति। एतेन ह स्म वै स तद् आह सोमोद्गायोद्गाय सोमेदम् अमुष्मा इदम् अमुष्मै इति। ते ह स्मास्मै कामास् समृध्यन्ते॥
देवपाशा वा एते वितायन्ते यद् धिष्ण्या अग्नयो विह्नियन्ते। तान् यो विद्वान् अभ्यवैति देवपाशान् प्रतिमुञ्चते। एषा वै यज्ञस्य द्वार् यद् अन्तराग्नीध्रं च चात्वालं च। तयाभ्यवेयात्। तयोदेयात्। धा वै नाम वेदिः। ताम् अभ्यवयन् ब्रूयात् धा असि सुधां मे धेहि॥ आयुष्मन्तस् त्वद् वर्चस्वन्त उद्गेष्म इति। न देवपाशान् प्रतिमुञ्चते नार्तिम् आर्छति
प्राणान् वै तत् संतत्य स्वर्ग लोकं सर्पन्ति यद् अन्तर् हविर्धाने ग्रहान् गृहीत्वा बहिष्पवमानं सर्पन्ति। संततास् सर्पन्ति। संतत इव वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य संतत्या अव्यवच्छेदाय। प्रावभ्रा इव सर्पन्ति। प्रतिकूलम् इव वा इतस् स्वर्गो लोकः। तद् यथा वा अदः प्रतिकूलम् उद्यन् प्रावभ्र इव भवत्य् एवम् एवैतत्। स्वर्गस्य लोकस्य समष्ट्या अनपव्याधाय॥
अध्वर्युः प्रथमस् सर्पति प्राणो यज्ञस्य। तस्माद् यद् अवच्छिद्येरन् प्राणाद् अवच्छिद्येरन् प्रमायुकास् स्युः। प्रस्तोता द्वितीयस् सर्पति मुखं साम्नः। तस्माद् यद् अवच्छिद्येरन् मुख्याम् आर्तिम् आर्छेयुः। उद्गाता तृतीयस् सर्पति सर्वदेवत्यः प्रजापतिः। तस्माद् यद् अवच्छिद्येरन् सर्वज्यानिं जीयेरन्। प्रतिहर्ता चतुर्थस् सर्पति तुरीयं साम्नः। तस्माद् यद् अवच्छिद्येरंस् तुरीयेणात्मनो यातयेयुः। यजमानः पञ्चमस् सर्पति। पांक्तो यज्ञः पांक्ताः पशवः। तस्माद् यद् अवच्छिद्येरन् यज्ञात् पशुभ्यो ऽवच्छिद्येरन्
ब्रह्मा षष्ठस् सर्पति। षड् वै छन्दांसि। छन्दोभिर् एव तद् रक्षः पाप्मानम् अपघ्नते। सर्वं वावैतद् ब्रह्म। यद् ब्रह्मा पश्चाद् भवति ब्रह्मणैव तद् रक्षः पाप्मानम् अपहत्य स्वर्गं लोकं सर्पन्ति॥
प्रस्तरं हरन्तस् सर्पन्ति। यजमानो वै प्रस्तरो बर्हिः प्रजाः। यद् उपर्युपरि बर्हिः प्रस्तरं हरन्ति यजमानम् एव तत् प्रजास्व् अध्यूहन्ति। तस्माद् यजमान उपर्युपर्य् एवान्याः प्रजाः॥
यद् उपास्येत् स्वर्गलोको यजमानस् स्याद् अवास्माल् लोकाच् छिद्येत। यद् अत्यस्येद् अस्मिन् लोके प्रतितिष्ठेद् अव स्वर्गाल् लोकाच् छिद्येत॥
तद् आहुर् अर्धात्मा वा एष यजमानस्य यत् पत्नी। यत् सा बहिर्वेदि भवति तेनास्माल् लोकान् नावच्छिद्यते। उपैवास्येद् इत्य् उत वै पत्नी न भवति। अथो यद्य् अपि स्याद् उपैवान्यद् अस्येद् अत्य् अन्यद् अस्येत्। यद् उपास्यति तेन स्वर्गलोको यद् अत्यस्यति तेनास्माल् लोकान् नावच्छिद्यते
आदित्यो वा एतद् अत्राग्र आसीद् यत्रैतच् चात्वालम् अदो ऽग्निः। स इदं सर्वे प्रातपत्। तस्य देवाः प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा अयम् इदं प्रधक्ष्यति वीमौ परिहरामेति। तम् अतस् तिसृभिर् आददत तिसृभिर् अन्तरिक्षात् तिसृभिर् दिवम् अगमयन्। स ततः पराङ् एवातपत्। त एतद् आवद् उत्तमम् अक्षरम् अपश्यन्। तेनैनम् अर्वाञ्चम् अकुर्वन्। तत एतद् अर्वाङ् तपति। ऐतनो एवावताक्षरेणाग्निम् अस्मिन् लोके ऽदधुः। स यं कामयेत यजमानस् स्वर्गलोकस् स्याद् इति चात्वालम् एवैनम् अवख्याप्योद्गायेत्। तम् अतस् तिसृभिर् एवाददते तिसृभिर् अन्तरिक्षात् तिसृभिर् दिवं गमयन्ति। स्वर्गलोको यजमानो भवति। ईश्वरो ह तु प्रमायुको भवितोः। पराचीभिस् स्तुवन्ति। सदैव सर्वाभिस् स्तुयुर् अथोत्तमाम् अग्रे ब्रूयाद् अथावराम् अथावराम्। तास् सर्वा अर्वाचीः। तद् उ वा आहुस् सत्रैतत् प्रत्यवरुढं स्वर्गकाम्या वै यजत् इति। यद् एवाद आवद् उत्तमम् अक्षरं भवति तेनास्माल् लोकान् नावच्छिद्यते
रथन्तरवर्णाम् उत्तमां गायन्ति। इयं वै रथन्तरम्। अस्याम् एवैतत् प्रतितिष्ठिति। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा अन्नकाशिनीर् अभितस् समन्तं पर्यविशन्। ताभ्यो हिंकारेणान्नाद्यम् असृजत। तद् ओंकारेण सृष्टम् अवारयत॥
प्रजापतिर् एष यद् उद्गाता तम् एतत् प्रजा अन्नकाशिनीर् अभितस् समन्तं परिविशन्ति। ताभ्यो हिंकारेणैवान्नाद्यं सृजते। तद् ओंकारेण सृष्टं वारयते। स यद् धिंकृत्येनोंकुर्यात् पराङ् देवान्नाद्यम् इयात्। यत् साम प्रथमम् अभिव्याहरेत् क्षत्रं बलम् ऋच्छेत्। क्षत्रं हि साम। यद् ऋचं प्रथमम् अभिव्याहरेद् विशं बलम् ऋच्छेत्। विड् ढय् ऋक्। यद् यजुः प्रथमम् अभिव्याहरति-ब्रह्म वै यजुः-ब्रह्मवर्चसम् एतत् करोति। भूर् भुवस् स्वः॥ मधु करिष्यामि॥ मधु जनयिष्यामि॥ मधु भविष्यति॥ भद्रंभद्रम्॥ इषम् ऊर्जम् इति। यद् भूर् भुवस् स्वः इत्य् एतद् वै ब्रह्मैतद् यजुः। यत् मधु करिष्यामि इति-प्रजा वै मधु-ता एव तत् करोति। यत् मधु जनयिष्यामि इति प्रैवैनास् तज् जनयति। यत् मधु भविष्यति इति भूतिम् एवैनास् तद् गमयति। भद्रंभद्रम् इति - यद् वै पुरुषस्य वित् तद् भद्रं गृहा भद्रं प्रजा भद्रं पशवो भद्रं - तद् एवैतेनावरुन्द्धे। इषम् ऊर्जम् इति - वर्षे वा इषे यद् उपरिष्टाद् वर्षस्यैधते तद् ऊर्जे - तद् एवैतेनावरुन्द्धे
प्रजापतिं कल्पयित्वोद्गायेत्। यो ह वै प्रजापतिं कल्पयित्वोद्गायति कल्पते ऽस्मै दिशः प्रदिश आदिशो विदिश उद्दिशो दिश इति। दिशो वै प्रजापतिः। प्रजापतिम् एव तत् कल्पयित्वोद्गायति। कल्पते ऽस्मै य एवं वेद॥
कपिवनो ह स्माह भौवायनः किं ते यज्ञं गच्छन्ति यद् एव सोमस्याभक्षयित्वा प्र वा सर्पन्ति प्र वा धावयन्तीति। बहिष्पवमानम् उपसन्नेषु ब्रूयाद् यं ब्रह्माणं शुचिम् इव मन्येताहरहस् तम् इति। तेन समुपहूयाथानुमन्त्रयेत।
यो देवानाम् इह सोमपीथो ऽस्मिन् यज्ञे बर्हिषि वेद्याम्।
तस्येदं भक्षयामसि॥
इति। यदि च ह प्रधावयति यदि च नाथ हास्य भक्षित एव देवस् सोमो भवति॥
एतदायतना वा आरण्याः पशवः। यद् बहिष्पवमानम् अरण्ये स्तुवन्ति तस्माद् आरण्याः पशवो ऽरण्यं सचन्ते। पराचीषु स्तुवन्ति। तस्माद् आरण्याः पशवो ऽरण्याद् एवारण्यम् अभिप्रेरते। एकरूपासु स्तुवन्ति। तस्माद् आरण्याः पशव एकरूपाः। आवद् उत्तमम् अक्षरं भवति। तस्माद् एकैको ऽन्यो ऽचलो ग्रामे ऽधिगम्यते। अथो अरण्ये हतं ग्रामम् अभ्यवहरन्ति॥
स्तुत्वोद्द्रवन्ति। यजमानम् एव तत् स्वर्गं लोकं गमयन्ति। बाहून् उद्गृह्णन्ति। यजमानम् एव तत् स्वर्गे लोके समादधति। ते वै तद् अनृतं कुर्वन्ति ये मर्त्यं सन्तम् अमृतत्वं गमयन्ति। ते रूपेण वर्चसा व्यृध्यन्ते। स य एतद् एवान्य उत्तिष्ठेत् तम् उत्तिष्ठन्तम् आरभ्यानूत्तिष्ठेत्। न रूपेण वर्चसा व्यृध्यन्ते। स य एतद् एवान्य उत्तिष्ठेत् तम् उत्तिष्ठन्तम् आरभ्यानूत्तिष्ठेत्। न रूपेण वर्चसा व्यृध्यते नार्तिम् आर्छति॥
भविष्यद् विजानीयात्। यद्य् एताः प्रजा दोद्रुवा इव स्युर् दोद्रुवो योगक्षेमो भविष्यति। तयायम् उद्गातोदगासीदिति विद्यात्। यद्य् उ शान्ता इव स्युश् शान्तो योगक्षेमो भविष्यति। तथायम् उद्गातोदगासीद् इति विद्यात्। एषो ह विशः
उपास्मै गायता नरः इति ग्रामकामो भूतिकामः प्रजननकामः प्रतिपदं कुर्वीत। अस्यै वावेदम् उपगायन्ति। उप वावेदम् अस्यां सर्वम्। उपैवास्यां प्रजया पशुभिः प्रजायते य एवं वेद। नरो ह वै देवविशः क्षत्रं सोम इन्दुः। विशं चैवैतेन क्षत्रं चावरुन्द्धे। अभिदेवं इयक्षते इति सर्वा एवैतेन देवता अनन्तरायम् अभियजते॥
उपो षु जातम् अप्तुरम् इति प्रजाकामः प्रतिपदं कुर्वीत। उपेव वा आत्मन् प्रजया पशुभिः प्रजायते। एताम् एवापरेद्युः प्रतिपदं कुर्वीत। अप्तुरम् इति ह्य् अस्या आप्त्वा श्रेयांसं वसीयान् आत्मना भवति। गोभिर् भङ्गं परिष्कृतम् इति। यज्ञो वै गोभिर् भङ्गः पशवः परिष्कृतः। यज्ञं चैवैतेन पशूंश् चावरुन्द्धे। इन्दुं देवा अयासिषुः इति। यजमानो वै सोमो राजेन्दुस् स्तोमा देवाः। स्तोमा एवैनं स्वर्गे लोकं गमयन्ति
जैमिनीयं ब्राह्मणम्
(द्वादशाहाः)
प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयत - बहु स्यां, प्रजायेय, भूमानं गच्छेयम् इति। स तपो ऽतप्यत। स आत्मन्न् ऋत्वियम् अपश्यत्। ततस् त्रीन् ऋतून् असृजतेमान् एव लोकान्। यद् ऋत्वियाद् असृजत तद् ऋतूनाम् ऋतुत्वम्। यद् ऋत्वियाद् अजनयत् तस्माद् ऋत्विज इत्य् आख्यायन्ते। स यत् प्रथमम् अतप्यत ततो ग्रीष्मम् असृजत। तस्मात् स बलिष्ठं तपति। यद् द्वितीयम् अतप्यत ततो वर्षा असृजत। तस्मात् ता उभयं कुर्वन्त्य् आ च तपन्ति वर्षन्ति च। यत् तृतीयम् अतप्यत तत हेमन्तम् असृजत। तस्मात् स शीततम इव। त्रीन् सतो ऽभ्तप्यत। तान् द्वेधा व्यौहत्। ते षड् ऋतवो ऽभवन्। स ग्रीष्माद् एव वसन्तं निरमिमीत, वर्षाभ्यश् शरदं, हेमन्ताच् छिछिरम्। तस्माद् एत ऋतूनाम् उपश्लेषा इव निर्मिता हि। षड् सतो ऽभ्यतप्यत। तान् द्वेधा व्यौहत्। ते द्वादश मासा अभवन्। द्वादश सतो ऽभ्यतप्यत। तान् द्वेधा व्यौहत्। ते चतुर्विंशतिर् अर्धमासा अभवन्। चतुर्विंशतिं सतो ऽभ्यतप्यत। स ऐक्षत यदि द्वेधा व्यूहिष्यामि, न विभविष्यन्ति, हन्त, निर्मिमा इति। तेभ्यस् सप्त च शतानि विंशतिं चाहोरात्राणि निरममीत। स इदं सर्वं व्यकरोत्। यथा ह वै हिरण्यम् अविकृतम् एवम् इदं ततः पुरा। स सर्वम् अधि हास्मिञ् छिल्पानि गम्यन्ते विकृतानि चाविकृतानि च य एवं वेद
स एवैष प्रजापतिस् संवत्सरो ऽभवत्। स इदं सर्वं स्तब्ध्वा व्याप्यातिष्ठत्। स ऐक्षत - कया स्वधया केनान्नाद्येन कयोर्जेदम् अयं व्यापद् इति। तस्मिन्न् एतां स्वधाम् ऊर्जम् अन्नाद्यम् अक्षितिं पर्यपश्यद् द्वादश पौर्णमासीर् द्वादशाष्टका द्वादशामावास्याः। ताम् अवारुरुत्सत। सैनम् अब्रवीन् न मानभिश्रान्ताम् अवरोत्स्यस इति। स तपो ऽतप्यत। स एतं द्वादशाहं यज्ञम् अपश्यत्। तम् आहरत। सो ऽकामयत - दीक्षितं मा दीक्षिता याजयेयुर् इति। स मासांश् चर्तूंश् चाब्रवीद् याजयत मेति। तं मासा नाब्रुवन्। स वा अस्मास्व् एव सत्या भुनजासा इति। तस्माद् एता मास्य् एव सर्वाः पौर्णमास्यष्टकामावास्याः। तद् ऋतवः प्रसुते पश्चेवान्वबुध्यन्त - प्र हैभ्यो ऽदाद् इति। तम् अब्रुवन्न् - अस्मभ्यम् अपि दक्षिणां प्रयच्छेति। तेभ्यो ऽन्नाद्यं प्रायच्छत्। तद् एतद् यथर्त्व् अन्नाद्यं पच्यते। स दीक्षाभिर् एव पौर्णमासीर् अवारुन्धोपसद्भिर् अष्टकाः प्रसुतेनामावास्याः। स यो हैवं विद्वान् द्वादशाहेन यजत एताम् एव स्वधाम् ऊर्जम् अन्नाद्यम् अक्षितिम् अवरुन्द्धे। प्रत्य् ऋतवो ऽगृह्णन् न मासाः प्रतिग्रहम् अकामयन्त। तस्मान् मासा आख्याततरा इव। आख्याततर उप ह्य् एवाप्रतिगृह्णन् भवति। तस्माद् ऋतवो ज्यायांसः। ज्यायान् ह्य् एव प्रतिगृह्णन् भवति। ता ह वा एतास् तिस्र एव रात्रयः पौर्णमास्यष्टकामावास्याः
पुरो इन्द्राय देवा श्रैष्ठ्याय नातिष्ठन्त। स प्रजापतिम् उपाधावत् - प्र म इमा यच्छेति। तस्मा एते द्वे प्रायच्छत् - पौर्णमासीं चामावास्यां च। अस्मिन्न् एवाष्टकाम् अधत्त। ततो वा इन्द्राय देवा श्रैष्ठ्यायातिष्ठन्त। तिष्ठन्ते ऽस्मै स्वा श्रैष्ठ्याय य एवं वेद। तस्माद् एतां रात्रिं सर्व एव सुहिता वसन्ति। पितर्ह्य् एवैतां प्रजापतौ वसन्ति। तस्माद् एतां रात्रिं न जुहुयाद्, यज् जुहुयान् न ब्रूयात्। अनिरुक्तो वै प्रजापतिः। स यद् एव तत्र त्रिर् विलां कुरुते यद् अस्य गृहे सुहिता वसन्ति सा हैवास्यै समृद्धिः। ते मासाश् चर्तवश् चाब्रुवन् - येन नः पिता प्रजापतिर् यज्ञेनेष्ट्वारात्सीत् तेन यजामहा इति। ते तम् आहरन्त। स प्रजापतिर् ऐक्षत - यदि वा इमे समापयन्ति यथा वा अहम् इदम् अस्म्य् एवम् इमे तर्हि भवन्तीति। तान् अब्रवीन् मयैव गृहपतिना दीक्षध्वम् इति। तं वै त्वास्माभिर् आचक्षान्ता इत्य् अब्रुवन्। मयो युष्मान् इति। तस्मान् मासैश् चर्तुभिश् च संवत्सरम् आचक्षते, संवत्सरेणर्तूंश् च मासांश् च। तस्मात् पुत्रेण पितरम् आचक्षते, पित्रा पुत्रान् । ऐनेन गृह्यांश् चक्षते य एवं वेद
ते ऽयजन्त। ते मासाश् चर्तवश् च संवत्सरे प्रत्यतिष्ठन्, संवत्सर ऋतुषु च मासेषु च। तस्माद् आहुस् समावन् मात्रियेवर्द्धिर् यं च याजयन्ति ये च याजयन्तीति। समावन् मात्रियेव ममानेनर्द्धिर् इति हेक्षेत। यथैवास्यैवम् एव ममेति। तेन हैतेनैक एव यजेत। एको ह्य् एव प्रजापतिर् आर्ध्नोत्। यद्य् उ भूयांसो यजेरन् द्वादश वा त्रयोदश वा यजेरन्न् इमे चत्वार इमे चत्वार इमे चत्वारो ऽयम् एक इति निर्मिमीरन्। यं कामयेरन्न् इमं यज्ञस्य व्यृद्धिर् अन्वियाद् इति तं हैव यज्ञस्य व्यृद्धिर् अन्वेति। यद्य् उ भूयांसो यजेरन् षोडश वा सप्तदश वा यजेरन्न् इमे चत्वार इमे चत्वार इमे चत्वारो ऽयम् एक इति निर्मिमीरन्, यं कामयेरन्न् इमं यज्ञस्य व्यृद्धिर् अन्वियाद् इति तं हैव यज्ञस्य व्यृद्धिर् अन्वेति। यद्य् उ भूयांसो यजेरंश् चतुर्विंशतिर् वा पञ्चविंशतिर् वा यजेरन्न् इमे पञ्चेमे पञ्चेमे पञ्चेमे चत्वारो ऽयम् एक इति निर्मिमीरन्, यं कामयेरन्न् इमं यज्ञस्य व्यृद्धिर् अन्वियाद् इति तं हैव यज्ञस्य व्यृद्धिर् अन्वेति। सर्व इतर ऋध्नुवन्ति। यो वै सत्रस्य गृहपतिं च गृहपत्नीं च वेदाश्नुते गार्हपत्यं प्र गार्हपत्यम् आप्नोति। संवत्सरो वाव गृहपतिर् इयम् एव गृहपत्नी। अश्नुते गार्हपत्यं प्र गार्हपत्यम् आप्नोति य एवं वेद
यो वै छन्दसां स्वाराज्यं वेद गच्छति स्वाराज्यं प्र स्वाराज्यं लोकम् आप्नोति। बृहती वै छन्दसां स्वराट्। ताम् एतां प्रतीचीं पराचीं तिरश्चीम् अन्नाद्यायासते। तस्मात् पशुं प्रत्यञ्चं पराञ्चं तिर्यञ्चम् उपजीवन्ति। एतावद् वाव संवत्सर इन्द्रियं वीर्यं यद् द्वादशाहो - द्वादश पौर्णमासीर् द्वादशाष्टका द्वादशामावास्यास्, तद् एवैतेनावरुन्द्धे। यो वै विराजम् ऋतुप्रतिष्ठितां वेदर्तून् विराजि प्रतिष्ठितान्, गच्छति प्रतिष्ठाम् अवान्नाद्यं रुन्द्धे। त्रिंशदक्षरा विराट्। षड् ऋतवः। एतद् वै विराड् ऋतुषु प्रतितिष्ठत्य्, ऋतवो विराजि। गच्छति प्रतिष्ठाम् अवान्नाद्यं रुन्द्धे य एवं वेद। अनुष्टुभं वावैताम् आसते यद् द्वादशाहम्। द्वात्रिंशदक्षरानुष्टुप्। चतुष्पदाः पशवः। वाग् अनुष्टुप्। वाचा पशून् दाधार। तस्मात् पशवो वाचा सिद्धा वाचाहूता आयन्ति
गायत्रमुखो वै प्रथमस् त्र्यहः । तस्माद् अयम् अग्निर् ऊर्ध्वो दीदाय। गायत्रमध्यो द्वितीयस् त्रियहः। तस्माद् अयं वायुस् तिर्यङ् पवते। गायत्रोत्तमस् तृतीयस् त्रियहः। तस्माद् असाव् अर्वाङ् आदित्यस् तपति। तेजसा वै गायत्री प्रथमं त्रियहं दाधार, पदैर् द्वितीयम्, अक्षरैस् तृतीयम्। त्रिवृद् वै गायत्री तेजः। त्रिवृत् प्रथमम् अहः। तेन प्रथमस् त्रियहो धृतः। त्रिपदा गायत्री, त्रियहो मध्ये , तेन द्वितीयस् त्रियहो धृतः। चतुर्विंशत्यक्षरा गायत्री, चतुर्विंश सप्तमम् अहस्, तेनैव तृतीयस् त्रियहो धृतः। कथं गायत्री द्वादशाहम् इत्य् आहुः। यथारान् नेमिस् सर्वतः पर्येत्य्, एवं गायत्री द्वादशाहं सर्वतः पर्येत्य् अविस्रंसाय। यथा रथनाभाव् अरा धृता एवं गायत्र्यां द्वादशाहो धृतो ऽसंप्लवाय। मयूखो वा एष वा धरुणो यद् गायत्री। तस्यां द्वादशाहो धृतो ऽसंव्याथाय। अनुष्टुब् वा एषा प्रतायते यद् द्वादशाहः। अष्टाभिर् वा अक्षरैर् अनुष्टुप् प्रथमम् अहर् उद्यच्छत्य्, एकादशभिर् द्वितीयं, द्वादशभिस् तृतीयम्। अक्षरम् एव त्रियक्षरं परिशिष्यते। तद् एवोत्तरं त्रियहम् अनुविदधाति
छन्दांस्य् एवास्यै तुरीयं वहन्ति। ताम् एतां प्रतीचीं पराचीं तिरश्चीम् अन्नाद्यायासते। तस्मात् पशुं प्रत्यञ्चं पराञ्चं तिर्यञ्चम् उपजीवन्ति। प्रजापतिर् जायमान एव सह पाप्मनाजायत। सो ऽकामयताप पाप्मानं हनीयेति। स एतं व्यूढछन्दसं द्वादशाहं यज्ञम् अपश्यत्। तम् आहरत्। तेनायजत। तेन विष्वञ्चं पाप्मानं व्यौहत। स यः पाप्मगृहीत इव मन्येत स एतेन व्यूढछन्दसा द्वादशाहेन यजेत। विष्वञ्चं हैव पाप्मानं व्यूहते। प्रजा ह तु संसर्पका इव भवन्ति। तद् यद् गायत्र्याण्य् उत्तराण्य् आज्यानि भवन्ति प्रजानाम् एवासंसर्पाय। मयूखो वा एष वा धरुणो यद् गायत्री। तस्यां द्वादशाहो धृतो ऽसंसर्पाय
दशाहेन वै प्रजापतिः प्रजा असृजत। ता अस्य सृष्टा विषूचीर् विपरौप्यन्त। स एतौ वैश्वानराव् अतिरात्राव अपश्यत्। ताभ्याम् एना उभयतः पर्यगृह्णाद् अनेनेत उपरिष्टाद् अमुता। ता एताभ्याम् एवावारयत। यद् विश्वं भूतम् अवारयत तद् वैश्वानरयोर् वैश्वानरत्वम्। प्रजापतिर् एष यद् उद्गाता। स एतद् दशाहेनैव प्रजास् सृजते। ता एताभ्याम् एव वैश्वानराभ्यां वारयते ऽनेनेत उपरिष्टाद् अमुना प्रजानां धृत्या अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद। प्राणो वै पूर्वो वैश्वानरो ऽपान उत्तरः। प्राणापानाभ्याम् एवैतत् समृद्ध्योदृचम् अश्नुवते। तस्माद् उ हैतयो स्तोत्रेण सुप्यात् प्राणान् नेत् संलुंपानीति। तद् उ वा आहुः को हास्वप्नस्येशे। यद् वाव प्राणो जागर्ति तद् एव जागरितम्। कामम् एव स्वप्तव्यम् इति। तद् आहुर् यन् नु परम एष यज्ञक्रतुर् यद् अतिरात्रः कस्माद् एतं परमं सन्तं प्रथमम् उपयन्तीति। यज्ञक्रतूनाम् एवाप्त्या इति ब्रूयात्। एते वै सर्वे यज्ञक्रतवो यद् अग्निष्टोम उक्थो ऽतिरात्रः। तान् एवैतेनाप्नोति यो वा अग्निष्टोमेन दशाहं कल्पमानं वेद। कल्पते ऽस्मै प्रातस्सवनेनैव प्रथमस् त्रियहः, कल्पते माध्यन्दिने द्वितीयस्, तृतीयसवनेन तृतीयो, ऽग्निष्टोमसाम्नैव दशमम् अहः कल्पते। कल्पते ऽस्मै य एवं वेद
प्राणः पूर्वो वैश्वानरो ऽपान उत्तरो ऽथ यद् अस्ति यत् सत्रं तद् इतराण्य् अहानि। गायत्री वा एषा ज्योतिष्पक्षाय द्वादशाहः । पक्षाव् अतिरात्राव् अग्निष्टोमौ चक्षुषी बाह्याव् अतिरात्राव् अन्तराव् अग्निष्टोमौ। तस्माद् अन्तरे अक्ष्योः कनीनिके। अथ यान्य् अष्टाव् अहानि सा गायत्री। तथा देवा स्वर्गं लोकम् आयन्। गच्छति स्वर्गं लोकं य एवं वेद। जामि द्वादशाहस्यास्तीत्य् आहुः। यद् एतान्य् अष्टाव् अहानि मध्य उक्थ्यानीति, न तत्र जाम्य् अस्तीति ब्रूयात्। पशवो वा उक्थानि। पशून् एवैतत् पशुभिस् समाकरोति। भूयो वै पशवः पशुभिस् समाकृताश् शोभन्त इति। ज्योतिष्टोमो ऽतिरात्रो विराजं संपद्यते। संवत्सरो विराट् प्रजननं संवत्सरः। द्वे स्तोत्रिये पूर्वस्याह्नो विराजम् अतीतो, द्वे उत्तरस्य। ते ये पूर्वस्याह्नो विराजम् अभितो बृहद्रथन्तरे ते युक्ते यज्ञं वहतो, ऽथ ये उत्तरस्य विराजस् स दोहः प्रतिष्ठितिः। आयुष्टोमम् आहरेत स्वर्गकामः। ऊर्ध्वा स्तोमा यन्त्य् अनपभ्रंशाय
गोष्टोमम् आहरेत वीर्यकामः। इन्द्रियं वै वीर्यं पञ्चदशः। यावज् जीवन्ति तावद् वीर्यावन्तो भवन्ति। ईश्वरा ह तु प्रमायुका भवितोः। प्राणेभ्यो हि यन्ति। त्रिवृतो य ईजानाः क्लृप्तं तेषाम् अथ ये ऽनीजाना अक्लृप्तं तेषाम्। यदि बृहत् पृष्ठं भवति रथन्तरेणाश्विभ्यां स्तुवन्ति। इदं वै रथन्तरम् अदो बृहत्। अनाक्रम्यास्याम् अमुष्याम् आक्रमन्ते। ते प्रमायुका भवन्ति ज्यायुका वा । अथो यथा परेण बिलेन प्रतिदधीत तद् वै परैव सिच्यते न पिबति। तादृग् यदि रथन्तरं पृष्ठं भवति रथन्तरेणाश्विभ्यां स्तुवन्ति
पवस्व वाचो अग्रियः इति श्रैष्ठयकामः प्रतिपदं कुर्वीत। प्रजापतिः प्रजा असृजत। ता एनं सृष्टा नापाचायन्। सो ऽकामयत श्रैष्ठयम् आसां प्रजानां गच्छेयम् इति। स एतां प्रतिपदम् अपश्यत्। तयास्तुत। ततो वै स तासां प्रजानां श्रैष्ठयम् अगच्छत्। गच्छति स्वानां श्रैष्ठयं य एवं वेद। एषो ह वै समृद्धा स्तोत्रिया यस्यै पवस्व इत्यारम्भः। समृद्धयैवास्य स्तोत्रियया स्तुतं भवति। यो वै दैव्यं मिथनुं वेद प्र मिथुनेन जायते। पवस्व इति च वाचः इति च दैव्यं मिथुनम्। प्र मिथुनेन जायते य एवं वेद। सर्वेषां वा एषा त्रयाणां साम्नां प्रतिपत् -- पवस्व इति वामदेव्यस्य वाचः इति रथन्तरस्य अग्रियः इति बृहतः। सर्वेषाम् अस्य साम्नां प्रतिपदा स्तुतं भवति। सोम चित्राभिर् ऊतिभिः इति -- सोमो वै देवानां चित्रं -- सोमेनैव देवानां चित्रेण बहुर् भवति प्रजायते। अभि विश्वानि काव्या इति विश्वम् एवैतेन काव्यम् अवरुन्द्धे
पवस्वेन्दो वृषा सुतः इति जने प्रतिष्ठाकामः प्रतिपदं कुर्वीत। कृधी नो यशसो जनः इति ह्य् अस्यै यशस्य् एव जने भवति। वृषा सुतः इति वृषेव वै प्रजनितेवाधिपतिर् इव तस्यां जनतायां भवति यस्याम् ऋध्यते। वृषेवैव प्रजनितेवाधिपतिर् इव तस्यां जनतायां भाति यस्यां भवति य एवं वेद॥
सर्वो ह वै जने बुभूषते ऽरातीयति। विश्वा अप द्विषो जहि इति विश्वा एवैतेन द्विषो ऽपहते। तया पवस्व धारया इति संग्रामं संयतिष्यमाणस्य प्रतिपदं कुर्यात्। यया गाव इहागमन् जन्यास उप नो गृहान् इति जन्या वा एष गा आजिहीर्षति यस् संग्रामं संयतते। आ जन्या गा हरति॥
एताम् एव प्रतिपदं कुर्वीत सनिं प्रैष्यन्। जन्या वा एष गा आजिहीर्षति यस् सनिं प्रैति। आ जन्या गा हरत्य् उपैनं जन्या गावो नमन्ति य एवं वेद॥
अग्न आयूंषि पवसे इत्य् आमयाविनः प्रतिपदं कुर्यात्। अग्निं वा एतस्य शरीरम् अप्येति वायुं प्राणः। अग्निनैवास्य पवमानेन शरीरं प्राणेन संदधाति॥
एताम् एवं प्रतिपदं कुर्वीरन् येषां दीक्षितानां प्रमीयेत। अपूता इव वा एते ऽमेध्या मन्यन्ते येषां दीक्षितानां प्रमीयते। अग्निनैवैनान् पवमानेन पूतान् मेध्यान् करोति॥
एताम् एव प्रतिपदं कुर्वीत-
-ब्रह्मवर्चसकामः। अग्निर् वै देवानां ब्रह्मा। अग्निनैव देवानां ब्रह्मणा वर्चसी भवति।
एताम् एव प्रतिपदं कुर्वीताभिचरन्। अग्निर् वै देवानां ब्रह्मा। अग्निनैव देवानां ब्रह्मणा यं द्वेष्टि तं स्तृणुते।
एताम् एव प्रतिपदं कुर्वीतान्नाद्यकामः। आ सुवोर्जम् इषं च नः इति ह्य् अस्या इषं चैवैतेनोर्जे चावरुन्द्धे॥
एताम् एव प्रतिपदं कुर्वीताभिचर्यमाणः। यो वा अभिचरति यो ऽभिदासति यः पापं कामयते स वै दुच्छुनः। आरे बाधस्व दुच्छुनाम् इत्य् आराद् एवैतेन द्विषन्तं पाप्मानं भ्रातृव्यम् अवाञ्चम् अपबाधते॥
दविद्युतत्या रुचा इति ब्रह्मवर्चसकामः प्रतिपदं कुर्वीत। दविद्युतती वै गायत्री। गायत्री ब्रह्मवर्चसम् ओजो वीर्ये त्रिष्टुप् प्रजननं जगती। ब्रह्मवर्चस्य् ओजस्वी वीर्यवान् प्रजया पशुभिर् जायते य एवं वेद। परिष्टोभन्त्या कृपा सोमाश् शुक्रा गवाशिरः इति। यज्ञो वै सोमाश् शुक्राः पशवो गवाशिरः। यज्ञं चैवैतेन पशूंश् चावरुन्द्धे॥
अस्य प्रत्नाम् अनु द्युतम् इति प्रतिपदं कुर्वीत यस्य पिता वा पितामहो वा श्रेयान् स्याद् अथात्मना पापीयान् इव मन्येत। यैवास्य पित्र्या पैतामही श्रीस् ताम् एवाश्नुते॥
शुक्रं दुदुह्ने अह्रयः इति। यज्ञो वै शुक्रः पशवो ऽह्रयः। यज्ञं चैवैतेन पशूंश् चावरुन्द्ध॥
पयस् सहस्रसाम् ऋषिम् इति। पयस्वान् एव भवत्य् आस्य सहस्रसा वीरो जायते
एते असृग्रम् इन्दवः इति बहूनां संयजमानानां प्रतिपदं कुर्यात्। एते इत्य् एवैनान् ज्यैष्ठयायाभिवदति छन्दसैवैनान् रूपिणा समावद्भाजः करोति। समावत्य् एनान् यज्ञस्याशीर् आगच्छति। प्रजापतिर् यत् प्रजा असृजत ता एनयैव प्रतिपदासृजत। एते इत्य् एव देवान् असृजत असृग्रम् इति मनुष्यान् इन्दवः इति पितृन् तिरः पवित्रम् इति ग्रहान् आशवः इति स्तोमान् विश्वानि इत्य् उक्थानि अभि सौभगा इत्य् एवैनान् जातान् सौभाग्येनाभ्यानक्। प्रजापतिर् एव भूतः प्रजास् सृजते य एवं विद्वान् एतया प्रतिपदोद्गायति। अथो हैनास् तत् सौभाग्येनैवाभ्यानक्ति॥
असृक्षत प्र वाजिनः इति त्रयाणां संयजमानानां प्रतिपदं कुर्यात्। छन्दसैवैनान् रूपिणा समावद्भाजः करोति। समावत्य् एनान् यज्ञस्याशीर् आगच्छति। गव्या सोमासो अश्वया इति गोअश्वम् एवैभ्य एतेनावरुन्द्धे। शुक्रासो वीरयाशवः इति-यज्ञो वै शुक्रः प्रजा वीरः-यज्ञं चैवैभ्य एतेन प्रजां चावरुन्द्धे। युवं हि स्थः स्वःपति इति द्वयोस् संयजमानयोः प्रतिपदं कुर्यात्। छन्दसैवैनौ रूपिणा समावद्भाजौ करोति। समावत्य् एनौ यज्ञस्याशीर् आगच्छति
इन्द्रश् च सोम गोपती ईशाना पिप्यतं धियः इति। इन्द्रश् च वै सोमश् चाकामयेतां सर्वासां प्रजानाम् ऐश्वर्यम् आधिपत्यम् अश्नुवीवहीति। ताव् एतां प्रतिपदम् अपश्यताम्। तयास्तुवताम्। ततो वै तौ सर्वासां प्रजानाम् ऐश्वर्यम् आधिपत्यम् आश्नुवाताम्। अश्नुते ह वै स्वानाम् ऐश्वर्यम् आधिपत्यम् एतया प्रतिपदा तुष्टुवानः॥
इन्द्रायेन्दो मरुत्वते इति राजन्यबन्धोः प्रतिपदं कुर्यात्। ऐन्द्रो वै राजन्यो मारुतीर् विशः। क्षत्रायैव तद् विशम् अनुवर्त्मानं कुर्वन्ति। तस्मात् क्षत्रस्य विड् अनुवर्त्मा॥
यो जिनाति न जीयते इति वा जिनात्य् एव न जीयते। हन्ति शत्रुम् अभीत्य इत्य् अन्यतो वात्येवाभीत्य शत्रुं हन्ति नैनं शत्रुः प्रत्युद्यामी भवति। स पवस्व सहस्रजित् इति। यो वै सर्वं जयति विजयते सः। सर्वजित् सर्वम् एव जयति। विजयत एतया प्रतिपदा तुष्टुवानः
अपघ्रन् पवते मृधः इत्य् अभिशस्यमानस्य प्रतिपदं कुर्यात्। मृधो वा एतम् अजुष्टास् सचन्ते यम् अभिशंसन्ति। अप पापीर् मृधो हते। अप सोमो अराव्णः इति। अरावाण इव ह्य् एतं सचन्ते यम् अभिशंसन्ति। गच्छन्न् इन्द्रस्य निष्कृतम् इति। अनिन्द्रियो वा एषो ऽपदेवो भवति यम् अभिशंसन्ति। इन्द्रियावन्तम् एवैनम् एतेन सदेवं कुर्वन्ति॥
आग्नावारुणीम् आमयाविनो ज्योगामयाविनः प्रतिपदं कुर्यात्। अग्निना वा एष वरुणेन गृहीतो भवति य आमयावी ज्योगामयावी। अग्निनैवैनम् आग्नेयान् मुञ्चन्ति वरुणेन वारुणात्॥
यस्यां वर्षीयस्याम् ऋचि ह्रसीयो ह्रसीयस्यां वा वर्षीयस् ताम् आनायकामः प्रतिपदं कुर्वीत। वर्षीयसा वा एष ह्रसीयः प्रेप्स्यतीति ह्रसीयसा वर्षीयः। प्र ह्रसीयसा वर्षीय आप्नोति य एवं वेद॥
एष देवो अमर्त्यः इति प्रतिपदं कुर्वीत यः कामयेताहम् एवैकधा श्रेष्ठस् स्वानां स्यां रुचम् अश्नुवीयेति। एष एषः इत्य् एवैनां ज्यैष्ठयायाभिवदति। एकधैव श्रेष्ठस् स्वानां भवति रुचम् अश्नुते। ईश्वरो ह त्व् अस्यापरः प्रजायाम् एतादृङ् वीरो नाजनितोः। एष एव नातो ऽन्य इतीव ह्य् एनं वाग् अभिवदति। तद् उ त्व् एतन् न तथा। देवो अमर्त्यः इति वा आह। अदेवश् च ह वै स मर्त्यश् च यस्य वीरस्य सतो वीरो वीर्यवान् नाजयते। अथ ह वै स एव देवस् सो ऽमर्त्यो यस्य वीरस्य सतो वीरो वीर्यवान् आजायते। आ हास्य वीरस्य सतो वीरो वीर्यवान् जायते संधीयते प्रजया न व्यवच्छिद्यते
देवासुरा अस्पर्धन्त। ते देवा वज्रं क्षुरपविम् असृजन्त पुरुषम् एव। तम् असुरान् अभ्यवृञ्जन्। सो ऽसुरान् अपोह्य देवान् अभ्यावर्तत। तस्माद् देवा अबिभयुः। तम् अभिपद्य त्रेधा समशृणन्। स त्रेधा संशीर्ण उद् एवातिष्ठत्। तम् आरभ्य पर्यैक्षन्त। तस्मिन् देवताश् छन्दांसि पुरुषे प्रविष्टा अपश्यन्। ते ऽब्रुवन् देवता वै छन्दांसीमा अस्मिन् पुरुषे प्रविष्टाः। अस्मिन् वा अयं लोके पुण्यं जीवित्वेष्टापूर्तेन तपसा सुकृतेनास्मान् अन्वगमिष्यतीति। ते वै तथा करवामेत्य् अब्रुवन् यथा नो नान्वागच्छाद् इति। तस्मै व पाप्मानम् अन्ववदधामेति। तस्मा एतं पाप्मानम् अन्ववादधुः --
-- स्वप्नं तन्द्रीं मन्युम् अशनयाम् अक्षकाम्यां स्त्रीकाम्याम् इति। एते ह वै पाप्मानः पुरुषम् अस्मिन् लोके सचन्ते। य एतद् अग्ने तीर्त्वास्मिन् लोके साधु चिकीर्षात् तत् त्वम् अस्मिन् लोके धीप्सताद् इत्य् अग्निम् अस्मिन् लोके ऽदधुः। वायुम् अंतरिक्ष आदित्यं दिवि॥
उग्रदेवो ह स्माह राजनिर् नाहं मनुष्यायारातीयामि यान् अस्मै त्रीन् देवानां श्रेष्ठान् अरातीयतो ऽशृणोम्। अरातीतमरातीतं ह्य् एव तस्मै यस्मा एता देवता अरातीयन्तीति। अथो हास्मा एता देवता नारातीयन्ति य एवं वेद। अथो ह तम् एव धीप्सन्ति य एवं विद्वांसं धीप्सतीति॥ ते देवा अब्रुवन् या एवेमा देवताश् छन्दांसि पुरुषे प्रविष्टा एताभिर् एवासुरान् धूर्वामैवेति
तेषां प्राणम् एव गायत्र्यावृञ्जत चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। अस्माद् एवैनान् लोकाद् गायत्र्यान्तरायन्न् अन्तरिक्षात् त्रिष्टुभामुष्माज् जगत्या पशुभ्यो ऽनुष्टुभा। तान् सर्वस्माद् एवान्तरायन्। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥
यद् देवा असुरान् अधूर्वंस् तद् धुरां धूस्त्वम्। धूर्वति द्विषन्तं भ्रातृव्यं य एवं वेद। प्रजापतिर् यत् प्रजा असृजत ता धूर्भिर् एवासृजत। रेत एव रेतस्यासिञ्चत् प्राणं गायत्र्या समैरयच् चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव पंक्त्या प्रत्युपादधात् प्रजापतिर् एव भूतः प्रजास् सृजते य एवं विद्वान् धूर्भिर् उद्गायति
रेतस्यां गायति। रेतस् तत् सिञ्चति। संततम् इव गायति। सततिम् इव वै रेतः। परोक्षम् एव प्रथमे गायति। परोक्षम् इव वै रेतः। नर्चम् उपस्पृशेत्। यद् ऋचम् उपस्पृशेद् रेतो विच्छिन्द्यात्॥
त्र्युदासां गायति। प्राणम् एव प्रथमेनोदासेन परिगृह्णात्य् अपानं द्वितीयेन व्यानं तृतीयेन। त्र्युदासां गायति। आत्मानम् एव प्रथमेनोदासेन परिगृह्णाति जायां द्वितीयेन प्रजां तृतीयेन। त्र्युदासां गायति। इमम् एव लोकं प्रथमेनोदासेनाभ्यारोहत्य् अन्तरिक्षं द्वितीयेनामुं तृतीयेन। स यो हैवं विद्वांस् त्र्युदासां गायत्य् अभि ह भ्रातृव्यलोकाय विजयते॥
स यो भ्रातृव्यलोकं चिच्छित्सेद् द्वयुदासाम् एव गायेत्। ओषम् अस्य द्विषन् भ्रातृव्यः पराभवति श्रियम् आत्मानाश्नुते। ईश्वरो ह तु प्रमायुको भवितोः। प्राणेभ्यो ह्य् एति त्र्युदासायै। स तथैव चिकीर्षेद् यथा सर्वम् आयुर् इयात्। अन्येन भ्रातृव्यलोकं चिच्छित्सत्। त्र्युदासाम् एव गायेत्। न हिंकुर्यात्। यद् धिंकुर्याद् वज्रेण हिंकारेण रेतो विच्छिन्द्यात्
तद् आहुर् हिंकारेण वै प्रजापतिः प्रजाभ्यो ऽन्नाद्यम् असृजत। यन् न हिंकुर्याद् अशनायुकाः प्रजास् स्युः। हिंकुर्याद् एव... भूः इति। यन् हिंकारं विसृजति तेन रेतो विच्छिनत्ति न हिंकारम् अन्तरेतीति। तद् उ वा आहुः ममृदीय इव वा अतो रेतो दारुणतर इव। हिंकारो ऽपि वैनद् वालेन विच्छिन्द्यात्। हिंकारस्यैव काले हिंकारं मनसा ध्यायेत्। तन् न रेतो विच्छिनत्ति न हिंकारम् अन्तरेतीति। भूः इति निधनं करोति। प्रजापतिर् यद् अग्रे व्याहरत् स भूः इत्य् एव व्याहरत्। स इमाम् असृजत। स यत् भूः इति निधनं करोत्य् अस्याम् एवैतद् रेतः प्रतिष्ठापयत्य् अथो एनत् तद् भूतिम् एव गमयति
गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षरे व्यतिषजति। प्राणापानाव् एव तद् व्यतिषजति। तस्मात् प्राणापानौ व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ। सत् इति निधनं करोति। प्राणो वै सन्। प्राण एव तत् प्रतितिष्ठति॥
त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति। तस्माद् युक्ते इव चक्षुषी। ज्योतिः इति निधनं करोति। चक्षुर् वै ज्योतिः। चक्षुष्य् एव तत् प्रतितिष्ठति॥
जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति। श्रोत्रे द्वे परिश्रवणे द्वे। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोत्य् अपि पराङ् यन् पश्चाद् वदश् शृणोति। इळा इति निधनं करोति। पशवो वा इडा। पशुष्व् एतत् प्रतितिष्ठति॥
अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रमाय। यत् पराचीम् अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद् अर्वाचीम् अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। तस्यै निरुक्तं चानिरुक्तं च पदे गायति। निरुक्तेन वै वाचो भुञ्जते। निरुक्तम् अस्या उपजीवनीयम्। भुंक्ते वाचोप चैनां जीवति य एवं वेद। स यन् निरुक्तम् एव गायेद् वदेयुर् एव प्रजा न तूष्णीम् आसीरन्। अथ यद् अनिरुक्तं गायेत् तूष्णीम् एव प्रजा आसीरन् न वदेयुः। यस्मान् निरुक्तं चानिरुक्तं च पदे गायति तस्मात् प्रजा वदन्ति च तूष्णीं चासते। वाक् इति निधनं करोति। वाग् वै ब्रह्म। वाच्य् एव तद् ब्रह्मन् प्रतितिष्ठति॥
पंक्तिं गायति। ऋतवो वै पंक्तिः। तस्यै षड् अक्षराणि द्योतयति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठति
तद् आहुस् समदम् इव वा एतच् छन्दोभ्यः कुर्वन्ति यद् गायत्रे सति प्रातस्सवने सर्वाणि छन्दांस्य् अभिगीयन्ते योधुकाः प्रजा भवन्तीति। स यः कामयेत शान्ताः प्रजा एधेरन्न् इति न धुरो विगायेत्। अपशीर्षाणं तु यज्ञं यजमानस्य कुर्याद् अनृतेन दक्षिणाः प्रतिगृह्णीयात्। ब्रह्म वै करद् इति वै यजमानो दक्षिणा ददाति। स तथैव चिकीर्षेद् यथा नापशीर्षाणं यज्ञं यजमानस्य कुर्यान् नानृतेन दक्षिणाः प्रतिगृह्णीयान्। वि एव गायेत्। यस् त्वा एना विजिगासन् न शक्नोति विगातुम् आर्तिम् आर्छति। यदि रेतस्यां न शक्नोति विगातुम् अरेतस्क आत्मना भवत्य् अरेतस्का गर्भा जायन्ते। यदि गायत्रीं न शक्नोति विगातुं प्रमायुक आत्मना भवति मृता गर्भा जायन्ते। यदि त्रिष्टुभ न शक्नोति विगातुं वधिर आत्मना भवति वधिरा गर्भा जायन्ते। यदि पंक्तिं न शक्नोति विगातुम् ऋतवो लुभ्यन्ति। स य एना नाशंसेत विगातुं परोक्षेणैवैनास् स रूपेण गायेत्। उभयेन त्वाव रेतस्या गीयते
गायत्र्यां प्रस्तुतायां गायत्रम् एव गायन् पृथिवीं मनसा गच्छेत्। प्राण्यापान्यान्यात्। सत् इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति॥
त्रिष्टुभि स्तुतायां गायत्रम् एव गायन्न् अन्तरिक्षं मनसा गच्छेत्। दिदृक्षेतैवाक्षिभ्याम्। ज्योतिः इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति।
जगत्यां प्रस्तुतायां गायत्रम् एव गायन् दिशः पशून् मनसा गच्छेत्। शुश्रूषेतैव कर्णाभ्याम्। इळा इति निधनं करोति। परोक्षेणैवैनान् तद् रूपेण गायति॥
अनुष्टुभि प्रस्तुतायां गायत्रम् एव गायन् दिवं मनसा गच्छेत् परोक्षेणैवैनान् तद् रूपेण गायति।
ओषम् एवैतद् उत्तमं तृचं गायति। प्रजननो वा एष तृचः। ओषम् एव प्रजया पशुभिः प्रजायते य एवं वेद। प्रजापतिर् यत् प्रजा असृजत ता एतेनैव तृचेनासृजत। पवमानस्य ते कवे वाजिन् सर्गा असृक्षत इति सर्गश एवासृजत। असृग्रं वारे अव्यये इति चासृजत। तासां सृष्टानां परावापाद् अबिभेत्। स एताम् उत्तमां समुद्रवतीम् अपश्यत्। तयैनाः अच्छा समुद्रम् इन्दवः इत्य् एव समुद्रेण समन्तं परिण्यदधात्। ता अस्य न परोप्यन्त। नास्य वित्तं परोप्यते य एवं वेद। अग्मन्न् ऋतस्य योनिम् आ इति। ग्रहा ह वा ऋतस्य योनिः। एतस्य ह वा इदम् अक्षरस्य कृतो जाताः प्रजा गच्छन्ति चा च गच्छन्ति
देवासुरा वा एषु लोकेष्व् अस्पर्धन्तास्मिन् भुवने। ते देवा अकामयन्तेमान् लोकान् जयेमासुरान् स्पर्धां भ्रातृव्यान् इति। त एतान्य आज्यानि स्तोत्राण्य् अपश्यन्। तैर् अस्तुवत। तैर् इमान् लोकान् आजयन्। इमम् एव लोकम् आग्नेयेनाजयन्न् अन्तरिक्षं मैत्रावरुणेनामुम् ऐन्द्रेण दिश एवैन्द्राग्नेन। तद् यद् इमान् लोकान् आजयंस् तद् आज्यानाम् आज्यत्वम् । एमान् लोकान् जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद॥
ते देवा अब्रुवन् वीमानि भजामहा इति। तेषां ह विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् एषाम् अयाम गिरिं काष्ठां कृत्वेति। यद् अब्रुवन्न् आजिम् एषाम् अयामेति तद् एषां द्वितीयम् आज्यत्वम्। यद् उ गिरिं काष्ठाम् अकुर्वन् तस्माद् असौ गिरिः काष्ठो नाम
तेषां पच्छो ऽसृज्यन्त। तेषाम् अग्निः प्रथम उदजयत्। अथ मित्रावरुणाव् अथेन्द्रः। अथैकम् अनुज्जितम् आसीत्। तद् इन्द्रो ऽवेद् अग्निर् वावेदम् उज्जेष्यतीति। सो ऽब्रवीद् अग्ने यतर आवयोर् इदम् उज्जयात् तन् नौ सहासद् इति। तथेति। तद् अग्निर् उदजयत्। तद् एनयोस् सहाभवद् अध्यर्धम् अन्यस्य स्तोत्रम् अध्यर्धम् अन्यस्य। ऐन्द्राग्नो यज्ञः। स य एवम् एता देवानाम् उज्जितीर् वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र जयति॥
तद् आहुर् यद् आज्यानि सर्वाणि समाननिधनानि केनाजामि क्रियन्त इति। नानादेवत्यानीति ब्रूयात् तेनाजामीति। अथो यन् नानारूपाणीति ब्रूयात् तेनो एवेति॥
ते वा एते पशव एव। यद् आज्यान्य् अन्तस्सदसं स्तुवन्ति तस्माद् ग्राम्याः पशवो ऽन्तर् ग्रामे न्योकसः। पराचीषु पुनर् अभ्यावर्तन्। तस्माद् ग्राम्याः पशवः पराञ्चः प्रातः प्रेरते ते सायं समावर्तन्ते। नानारूपासु स्तुवन्ति। तस्माद् ग्राम्याः पशवो नानारूपाः। नानादेवत्यासु स्तुवन्ति। तस्माद् ग्राम्याः पशवो नाना। ते यथायथं सायं गृहान् अभ्युपायन्ति
देवासुरास् संयत्ता ज्योङ् न व्यजयन्त। तेष्व् असुरेष्व् इदं सर्वम् आसीत्। अथैकम् एवाक्षरं देवेष्व् आसीत्। वाग् एव। सो ऽग्निर् अब्रवीद् अहं वा इदम् अदर्शं यथेदं जेष्यामीति। तद् वै ब्रूहीत्य् अब्रुवन्। सो ऽब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजामेति। यद् अब्रवीद् अक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजामेति तद् आज्यधुराम् आज्यधूस्त्वम्। ते ऽक्षरेणैवेदं सर्वं संनिधाय धुराधुरम् आसजन्। तान् अजयन्। जयति स्पर्धां द्विषन्तं भ्रातृव्यं य एवं वेद॥
स यदीतरा धुरो विगायेद् व्य् एवाज्यधुरो गायेत्। स यो हैवं विद्वान् संग्रामयोस् संनिहितयोर् ब्रूयाद् अक्षरेण त्वा संनिदधामीति परं ग्रामं स हैव तं ग्रामं जयति। अथो यस्मिन्न् एवं विद् ग्रामे भवति स उ हैव तं ग्रामं जयति॥
ते देवा अब्रुवन् वीमानि भजामहा इति। तस्माद् उ गिरिः काष्ठो नाम
स तेषां सकृद् एवं सर्वेषाम् असृज्यन्त। तेषाम् अग्निर् एवोदजयत्। तस्यापगमनम् अगतस्याक्षो ऽछिद्यत। तस्य रथचक्रं पतित्वा कृष्णाधिकां कोशान्तेन पर्यवर्तत। तम् अब्रुवन्न् ईक्षित्वान्नादो वा अयं श्रेष्ठो भविष्यति पाप्मा वा अस्य पर्यवर्तीति। स यो हैवं विद्वान् परिवर्तयते ऽन्नाद एव श्रेष्ठस् स्वानां भवत्य् अथो हास्य तं पाप्मानम् एव परिवर्तयन्ति॥
सो ऽग्निर् उज्जित्य प्राद्रवत्। तम् इन्द्रो ऽब्रवीत् सह नाव् अस्त्व् इति। नेत्य् अब्रवीत्। यद् वा एको गृह्याणां विन्दते सर्वेषां वै तत् सह भवति। सहैव नाव् अस्त्व् इति। नेत्य् एवाब्रवीत्। स वै माभि चिद् अवेक्षस्वेति। तम् अभ्यवैक्षत। सो ऽब्रवीत् सान्त्वाय माभ्यवैक्षिष्ठास् सह नाव् अभूद् इति। यं यं न्व् एवाहम् अभ्यवेक्षिष्य इत्य् अब्रवीत् तेनतेनैव मे सह भविष्यतीति। नेत्य् एवाब्रवीत्। सान्त्वाय वै मा त्वम् एनद् अभ्यवैक्षिष्ठास् सहैव नाव् अभूद् इति
तौ वै पृच्छावहा इति। तौ प्रजापताव् अपृच्छेताम्। स प्रजापतिर् अब्रवीत् सान्त्वाय वै वां त्वम् एतम् अभ्यवैक्षिष्ठास् सहैव वाम अभूद् इति। तथेति। तद् एनयोस् सहाभवद् अध्यर्धम् अन्यस्य स्तोत्रम् अध्यर्धम् अन्यस्य। ऐन्द्राग्नो यज्ञः॥
तौ मित्रावरुणौ प्राणापानौ पशुभ्यो ऽपाक्रामताम् अनुवी मन्यमानौ नावाभ्याम् अनुवीभ्यां पशवः प्राणिष्यन्तीति। ते पशवो ऽप्राणन्त आध्मायमाना अशेरत। तद् आभ्याम् आचक्षताप मित्रावरुणौ प्राणापानौ पशुभ्यो ऽतामिष्ठां त इमे ऽप्राणन्त आध्मायमानाश् शेरत इति। ताव् आद्रुत्याब्रूतां प्राणन्तु नौ युवाभ्यां पशव इति। नावाभ्याम् अनुवीभ्याम् इत्य् अब्रूताम्। ताभ्याम् एतं मैत्रावरुणम् आज्यम् अवाकल्पयन्। ततो वै ताभ्यां पशवः प्राणन्। स य एवम् एताम् अग्नेर् उज्जितिं वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र जयति। य उ एवैताम् इन्द्रस्यार्धितां वेद यत्र कामयते ऽर्धी ह स्याम् इत्य् अर्धी तत्र भवति। य उ एवैतां मित्रावरुणयोर् अवक्लृप्तिं वेद यत्र कामयते ऽव म इह कल्पेतेत्य् अवास्मै तत्र कल्पते
तानि वा एतान्य् ऐन्द्राग्नान्य् एव सर्वाणि यद् आज्यानि। आग्नेयीषु स्तुवन्ति। तेनाग्नेयं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥
तद् एतद् ऐन्द्राग्नम् एव मैत्रावरुणीषु स्तुवन्ति। तेन मैत्रावरुणं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥
तद् एतद् ऐन्द्राग्नम् एवैन्द्रीषु स्तुवन्ति। तेनैन्द्रं गायत्री छन्दः। ऐन्द्राग्नम् एवैन्द्राग्नीषु स्तुवन्ति। तेनैन्द्राग्नं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥
तद् एतद् ऐन्द्राग्नम् एवैन्द्राग्नीषु स्तुवन्ति। तेनैन्द्राग्नं गायत्री छन्दस् तेनाग्नेयं पञ्चदशस्तोमस् तेनैन्द्रम्॥
तद् एतद् ऐन्द्राग्नम् एव। इन्द्राग्नी यज्ञस्य देवता। स्वायाम् एवैतद् देवतायां प्रातस्सवने यज्ञं प्रतिष्ठापयन्ति
प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एतेनैव साम्ना प्राणम् अदधात्। प्राणो वै गायत्रम्। सर्वम् आयुर् एति य एवं वेद। ताः प्राणं विविदाना रक्षांस्य् अन्वसचन्त। ता एतद् एव साम गायन्न् अत्रायत। यद् गायन्न् अत्रायत तद् गायत्रस्य गायत्रत्वम्। त्रायत एनं सर्वस्मात् पाप्मनो य एवं वेद
तद् ऊर्ध्वम् इव गेयम्। ऊर्ध्वो वै स्वर्गो लोकः। स्वर्गस्यैव लोकस्य समष्ट्यै। त्र्यावृद् गेयम्। त्रयो वा इमे लोकाः। एषां लोकानाम् आप्त्यै। त्रयुदासं गेयम्। त्रयो वै प्राणापानव्यानाः। तेषां संतत्यै। सम् अस्मै प्राणापानव्यानास्तायन्ते य एवं वेद। त्र्यावृद् गेयम्। त्रयो वा इमे लोकाः। एषां लोकानां संतत्यै। सम् अस्मा इमे लोकास् तायन्ते य एवं वेद
पितृदेवत्यं त्व् अस्य नोपशवस्तवा इत्य् आहुः। एतद् ध वा अस्य पितृदेवत्यं यत् तान्ताकरोति। यदि सामिताम्ये मध्य ऋचो वान्यान्। प्राणो वा ऋक् प्राणो गायत्रम्। प्राणस्यैतन् मध्ये प्राणं समानयति॥
यद्य् उ च इयात् प्राणापानव्यानान् गायेत्। प्राण इति द्वे अक्षरे अपान इति त्रीणि व्यान इति त्रीणि। तद् अष्टौ संपद्यन्ते। अष्टाक्षरा गायत्री। तेन गायत्र्यै नैति॥
साम्नो ऽन्तर् अरण्यनापत्यं। यो ह वै साम्नो ऽन्तर् अरण्यम् अवैति सर्वज्यानिं वा जीयते प्र वा मीयते। एतद् ध वै साम्नो ऽन्तर् अरण्यं यत् प्रस्तुतम् अनभिस्वरितम् आदीयते॥
स्वरेण संपाद्योद्गायेत्। एतद् वै साम्नस् स्वं यत् स्वरः। स्वेनैवैनत् तत् समृद्धयति। एतद् वै साम्नो ऽन्नाद्यं यत् स्वराः। अन्नाद्येनैवैनत् तत् समृद्धयति। एतद् वै साम्न आयतनं यत् स्वरः। आयतनेनैवैनत् तत् समृद्धयति। एतद् वै साम्नः प्रियं धाम यत् स्वरः। प्रियेणैवैनत् तद् धाम्ना समृद्धयति
देवान् वै यज्ञस्याहुतिर् नागच्छत्। स प्रजापतिर् ऐक्षत कथं नु देवान् यज्ञास्याहुतिर् गच्छेद् इति। स एते द्वे अक्षरे गायत्र्या उदखिदत्। स एव द्वयक्षरो वषट्कारो ऽभवत् ततो वै देवान् यज्ञस्याहुतिर् अगच्छत्। अन्नं वै वषट्कारः। अत्त्य् अन्नं य एवं वेद॥
इन्द्रो वृत्राय वज्रम् उदयच्छत्। तस्यैते अक्षरे चक्राव् आस्ताम्। वज्रो वा एषः। य एते निस्पृशेद् वज्रं निस्पृशेत्॥
यो वै दुग्धाद् दुग्धम् उपैति न स आप्यायते। अथ यो ऽदुग्धाद् दुग्धम् उपैति स आप्यायते। अदुग्धाद् वा एष दुग्धम् उपैति य एते अक्षरे उपैति। तस्माद् एते अक्षरे नोपोत्ये। यस्य वै सर्वा गायत्री गीयते सर्वम् अस्य गृहे अधिगम्यते। यस्यो नागीयत ईश्वरो रूक्षो भवितोः। अन्यतरद् अक्षरम् अवगृह्य वाचं चतुर्विंशीम् उपायान्। नास्योना गायत्री गीयते नि च स्पृशति न च
यो वा अंशुम् एकाक्षरं वेदान्नाद एव श्रेष्ठस् स्वानां भवति। अथो सह एव तस्यै जनताया उद्गायति। वाग् वा अंशुर् एकाक्षरः। तद् एव गायत्रम्। गायत्र्यै प्रस्तुतायै यद् आदिर् उत्तरम् अक्षरं स स्थाणुः। यस् तद् उद्गायन्न् आरभते स्थाणुम् आरभते। य एनं निर्हरति गायत्रीं छिद्रां करोति। गायत्रीं छिद्राम् अनु यज्ञस् स्रवति। यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः॥
सध्र्यश्वो ह स्माह तैग्मायुधिः क उ स्विद् अद्य रसदिहाव् उरसि निमृदिष्यत इति। एते ह वै रसदिहौ ये एते गायत्र्या उत्तमे अक्षरे। यस् ते उद्गायन्न् आरभते रसदिहाव् उरसि निमृदते। य उ एने निर्हरति गायत्रीं छिद्रां करोति। गायत्रीं छिद्राम् अनु यज्ञस् स्रवति यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः
तानि सर्वाण्य् अक्षराण्य् उद्धृत्य वाचं दध्यात्। वाग् वै ब्रह्म। तद् यथा चर्मणा कृतिकण्टकान् प्रावृत्यातीयाद् एवम् एवैतद् वाचा ब्रह्मणा यज्ञस्थाणुं प्रमृद्य स्वस्त्य् अतिक्रामति नार्तिम् आर्छति॥
अव वा एतत् प्रतिहर्ता साम्नश् छिद्यते यद् गायत्रस्य न प्रतिहरति। प्रस्तूयमानं मनसा प्रतिहिंकुर्यात्। अपान्य वाक् इति ब्रूयात्। तथा साम्नो नावच्छिद्यते नार्तिम् आर्छति। यो वा अक्षरम् अंशुमद् वेद वहन्त्य् एनम् अंशुमतीस् संयुक्ताः। वाग् वा अक्षरम्। तस्यै प्राण एवांशुः। वहन्त्य् एनम् अंशुमतीस् संयुक्ता य एवं वेद
मरुत्वतीः प्रतिपदो भवन्ति। मरुत्वन्तं ग्रहं गृह्णन्ति। मरुत्वान्वा इन्द्रो वृत्रम् अहन् वार्त्रहत्याय। उच्चा ते जातम् अन्धसा इत्य् अन्धस्वतीर् भवन्ति। अहर् वा अन्धः। अह्ना एव रम्भः। यज्ञो वा अन्धः। यज्ञस्यैवारम्भः। त्रीणि यज्ञे ऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः॥ पुरोजिती वो अन्धसः इति। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान् एवैतेनावरुन्द्धे॥
इमे वै लोका सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि त देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। स एताः प्रजापतिर् इति चोपश्याद् उच्चा ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यम् अवहत् दिवि सद् भूम्य् आददे इत्य् अमुतो वृष्टिम् अच्यावयत्। ताव् इमौ लोकौ सवासिनाव् अकरोत्। ताव् अस्मै कामम् अपिन्वाताम्। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद॥
तासु गायत्रम् उक्तब्राह्मणम्
अथामहीयवम्। प्रजापतिः प्रजा असृजत। ता अनशना असृजत। ता अशनायन्तीर् अन्यान्याम् आदन्। स प्रजापतिर् ऐक्षत कथं नु म इमाः प्रजा नाशनायेयुर् इति। स एतत् सामापश्यत्। तेनाभ्यो ऽन्नाद्यं प्रायच्छद् वर्षम् एवापनिधनेन। ताभ्यो ऽवर्षद् एव नोदगृह्णात्। स एतन् निधनम् अपश्यत्। तद् उपैत्। तत आभ्य उद्गृह्णात्। एतस्य ह वा इदं साम्नः कृतो वर्षति च पर्जन्य उच् च गृह्णाति॥
यो वृष्टिकामस् स्याद् एतेनैवापनिधनेन स्तुवीत। वर्षुको हास्मै पर्जन्यो भवति। स यद्य् अतीव वर्षेद् एतद् एव निधनम् उपेयाद् उद् अहास्मै गृह्णाति। वर्षति च हास्मै पर्जन्य उच् च गृह्णाति य एवं वेद॥
ता यद् एनं प्रजास् सुहिता अशिता आमहीयन्त तद् आमहीयवस्यामहीयवत्वम्। ऐनं भार्यास् सुहितास् सुहितं महीयन्ते य एवं वेद॥
ता एनम् अन्नं विविदाना नापाचायन्। सधमादम् इवैवासन्। अन्नं हि श्रीः। सो ऽशोचत्। स नामहीयत। स ऐक्षत कथं न्व् इमा अहं प्रजास् सृजेय ता मा सृष्टा नापचायेयुर् इति। स एतत् सामापश्यत्। तेनास्तुत
स स्तौषे इत्य् एव निधनम् उपैत् ता अतोषयत्। ता अस्य वशम् आयन्। तोषयति द्विषतो भ्रातृव्यान् वशम् अस्य स्वा आयन्ति य एवं वेद। स यद् आमहीयमाना अपश्यत् तद् आमहीयवस्यामहीयवत्वम्। यद् व् एवैना वशे कृत्वामहीयत तद् व् एवामहीयवस्यामहीयवत्वम्। आ स्वान् वशे कृत्वा महीयते य एवं वेद। तद् ये ऽस्य स्वा अवशीकृता इव स्युर् एतद् एवैषां मध्य आसीनो ऽधीयीत। वश एवैनान्कुरुते॥
उत्तरकुरवो हाहुर् अवषट्कृतस्यैव सोमस्य कुरुपञ्चाला भक्षयन्तीति। एकैकस्यै देवतायै होता वषट्करोति सर्वाभ्य उद्गाता। सर्वदेवत्यो ह्य् उद्गाता। आमहीयवस्य निधनेन वषट् कुर्याद् इति। वषट्कृतस्यैव सोमस्य भक्षयन्ति। तद् उ ह स्माह मार्जश् शैलनो भ्रातृव्यान् वाव निधनेन तोषयतीति। पुरस्ताद् एव निधनस्य वषट्कुर्यात् वौषड् भूमी ओ ददा इति। वषट्कृतस्यैव सोमस्य भक्षयति
यो वै यज्ञस्योधर् वेद दुहे यज्ञम्। पवमानो वाव यज्ञः। तस्य गायत्र्य् एवोधः। गायत्रीं चतुरृचां कुर्यात्। यज्ञस्यैव तद् ऊधर् दधाति दुहे यज्ञम्। यो वै यज्ञस्य प्रतिष्ठां वेद प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥
पवमानो वाव यज्ञः। तस्य गायत्र्य् एव प्रतिष्ठा। गायत्रीं चतुरृचां कुर्याद्। यज्ञस्यैव तत्प्रतिष्ठां दधाति। प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥
उच्चा ते जातम् अन्धसा॥ अस्य प्रत्नाम् अनु द्युतम्॥ एना विश्वान्य् अर्य आ इत्य् एतासु गायत्रं कुर्यात्। तास्व् आमहीयवम्। स यद् धाय्यां चतुर्थीं दधाति तेन चतुरृचं भवति। प्रतितिष्ठतीभः। प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति
त्रीणि ह वै छन्दांसि यज्ञं वहन्ति गायत्री त्रिष्टुब् जगती। तद् एवानुष्टुब् आन्ताद् अन्वायत्ता। तया देवास् स्वर्गं लोकम् अजिगांसन्। तया न व्याप्नुवन्। तस्यां चतुष्पदः पशून् उपादधुर् गां चाश्वं चाजां चाविं च। तया व्याप्नुवन्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा बृहती वा इयम् अभूद् ययेदं व्यापामेति। तद् एव बृहत्यै बृहतीत्वम्। न ततः पुरा बृहती नाम छन्द आस। सा वा एषा पशव एव यद् बृहती॥
येन निधनम् उपयन्ति। तेन प्रस्तौति। तेनो एव पुनर् आदिम् आदत्ते। तस्मात् पशवो यत एव प्रजायन्ते ततस्संभवन्ति। ते तत एव पुनः प्रजायन्ते॥
न बृहत्या वषट्कुर्यात् पशूनाम् अप्रवर्गाय। यद् बृहत्या वषट्कुर्याद् वज्रेण वषट्कारेण पशून् प्रवृञ्ज्यात्
देवा वा असुरान् हत्वापूता इवामेध्या अमन्यन्त। ते ऽकामयन्त पूता मेध्याश् श्रितास् स्याम गच्छेम स्वर्गं लोकम् इति। त एता ऋचो ऽपश्यन्। ताभिर् अपुनत। पुनानस् सोम धारयापो वसानो अर्षसि इति। आपो वै पवित्रम्। अद्भिर् एवापुनत। आ रत्नधा योनिम् ऋतस्यसीदसि इति। अन्तरिक्षं वा ऋतम्। अन्तरिक्षम् एवैतेनात्यायन्। उत्सो देवो हिरण्ययः इति। असौ वै लोक उत्सो देवः। अमुम् एवैतेन लोकम् उपासीदन्। ततो वै ते पूता मेध्याश् श्रिता अभवन्न् अगच्छन् स्वर्गं लोकम्। पूतो मेध्यश् श्रितो भवति गच्छति स्वर्गं लोकम् एताभिर् ऋग्भिस् तुष्टुवानः
तासु रौरवम्। अग्निर् वै रूरुर् एतत् सामापश्यत्। यद् अग्नी रूरुर् एतत् सामापश्यत् तद् रौरवस्य रौरवत्वम्॥
रूर इतिवृधः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ रूर इतिवृध्रो ऽपश्यत् तस्माद् व् एव रौरवम् इत्य् आख्यायते॥
अथ यौधाजयम्। इन्द्रो वै युधाजीवन्न् एतत् सामापश्यत्। यद् इन्द्रो युधाजीवन्न् एतत् सामापश्यत् तद् यौधाजयस्य यौधाजयत्वम्। अयुध इव द्विषन्तं भ्रातृव्यं जयति य एवं वेद॥
युधाजीवो वैश्वामित्रः प्रतिष्ठाकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। यद् उ युधाजीवो वैश्वामित्रो ऽपश्यत् तस्माद् व् एव यौधाजयम् इत्य् आख्यायते
यौधाजयेन वै देवा असुरान् संविच्य रौरवेणैषां रवमाणानां स्वम् आददत। यौधाजयेनैव द्विषन्तं भ्रातृव्यं संविच्य रौरवेणास्य रवमाणस्य स्वम् आदत्ते य एवं वेद॥
रौरवेण वै देवा ऊर्ध्वास् स्वर्गं लोकम् आरोहन्। तान् असुरा ओ वा इत्य् एवान्वारोहन्। तद् देवाः प्रत्यबुध्यन्त। त एतं स्तोभम् अपश्यन्। तेनैनान् ओ हा उ वा इत्य् अवाचो ऽवाघ्नन्। उत्सो देवो हिरा हा उ वा इति भूमिस्पृश एवाकुर्वन्। अन्तगतम् इव सामासीत्। रौरवस् स्वर्गो लोक एव यच्छेत्। ऊर्ध्वं प्रतिहाराद् उद्गाता। स्वर्गस्य लोकस्य समष्ट्यै। ण्याया औ हो वा हो इळा इति। स्वरेणैव संतत्य स्वर्गं लोकं समश्नुते॥
एतावन्ति ह खलु वै सामान्य् एतावती सामक्लृप्तिर् एतावान् उ सामबन्धुः। स्वारं भवति। प्राणो वै स्वरः। अथ निधनवत्। आत्मा वै निधनम्। अथैळम्। पशवो वा इळा। प्राणम् आत्मानं पशूंस् तान् एवैतत् संदधाति। सर्वयास्य सामक्लृप्त्या सर्वेण सामबन्धुना स्तुतं भवति य एवं वेद
द्वे उ ह वाव सामनी स्तोभवच् चैवास्तोभवच् च। तयोर् यत् स्तोभवत् तत् क्षत्रम् अथ यद् अस्तोभवत् तद् ब्रह्म। उभयं ब्रह्म च क्षत्रं चावरुन्द्धे य एवं वेद॥
अथ यौधाजयं त्रिणिधं सवनानां क्लृप्त्यै। पवमानेन वै देवेभ्यो ऽन्नाद्यं प्रदीयते। तन् मध्यनिधनं भवत्य् अन्नाद्यस्य विशेषाय। यद् धि देवेभ्यस् सर्वम् अन्नाद्यं प्रदीयेत न तद् इहान्नाद्यं परिशिष्येत यन् मनुष्याश् च पशवश् चोपजीवेयुः। तद् यन् मध्येनिधनं भवत्य् अन्नाद्यस्यैव विशेषाय॥
देवानां वा असुरा यज्ञवशसम् अचिकीर्षन्। यावत्य् एतद् दक्षिणानां काले न स्तुवन्ति न शंसन्ति। तद् देवाः प्रत्यबुध्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ते प्रातस्सवनम् एव प्रथमेन निधनेन पर्यगृह्णन् माध्यंदिनं द्वितीयेन तृतीयसवनं तृतीयेन। तान् एव वज्रान् उदयच्छन्। तान् एव वज्रान् उद्यतान् असुरा नोपाधृष्णुवन्। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥
अथ ह स क्लृप्त एव पवमानो यस्मिन्नावि त्रिणिधनं भवति सवनानाम् एव क्लृप्त्यै
देवासुरास् संयत्ता ज्योङ् न व्यजयन्त। बृहस्पतिर् देवानां पुरोहित आसीद् उशना काव्यो ऽसुराणाम्। तद् यद् एवावस्ताद् ब्रह्माक्रियत तत् परस्ताद् अक्रियत। तत् समानं ब्रह्म न व्यजयत्। तेषां ह त्रिशीर्षगन्धर्वो विजयस्यावेत्। स हैषास। तस्य हाप्स्व् अन्तर् नौनगरं परिप्लवम् आस। तद् इन्द्रो ऽन्वबुध्यत त्रिशीर्षा वै नौ विजयस्य वेदेति। तस्या जायाम् आर्छद् एतस्यैव विजयस्य कामाय। ताम् अब्रवीत् पृच्छतात् पतिं य इमे देवासुरास् संयत्ता ज्योग् अभूवन् कतर एषां जेष्यन्तीति। तद् धैव संवदमानावाजगाम। स ह तद् एव नौमण्ड उपशिश्लेष जलायुका वा तृणकं वा भूत्वा। सेयं पतिं पप्रच्छ य इमे देवासुरास् संयत्ता ज्योग् अभूवन् कतर एषां जेष्यन्तीति
मोच्चैर् इति होवाच कर्णिनी वै भूमिर् इति। तद् इदम् अप्य् एतद् आहुर् मोच्चैः कर्णिनी वै भूमिर् इति। नेति होवाच ब्रूह्य् एवेति। स होवाच ब्राह्मणाव् इमौ समं विदतुर् बृहस्पतिर् अयं देवेषूशना काव्यो ऽसुरेषु। तौ यत् कुरुतस्तत् समम् एव यच्छति। या इतर आहुतीर् जुहोति ता इतरः। तास् समेत्य यथायथम् एव पुनर् विपरायन्ति। तयोर् यतरो यतरान् उपसमेष्यति ते जेष्यन्तीति। तद् धैवेन्द्रो ऽनुबुध्य शुको भूत्वोत्पपात। तं हान्वीक्ष्य पतन्तम् उवाच येषाम् असौ हरितवर्णकः पतति ते जेष्यन्तीति। स होशनसं काव्यम् आजगामासुरेषु। तं होवाचर्षे कम् इमं जनं वर्धयस्य् अस्माकं वै त्वम् असि वयं वा तवास्मान् अभ्युपावर्तस्वेति। कथेति होवाच केन मोपमन्त्रयस इति। या इमा विरोचनस्य प्राह्लादेः कामदुघस् ताभिर् अतितभिर्ह प्रत्वित्वेव प्रदुदुवतुः। तौ हासुरा अन्ववजह्रिरे। तौ हान्वाजग्मुः। स होवाचर्षे ऽनु वै नाव् इमे ऽसुरा अग्मन्न् इति। स वै तथा कुर्व् इति होवाच यथा नाव् एतेनान्वागच्छान् इति। तौ हैतत् प्रतिपेदाते --
स्वायुधः पवते देव इन्दुर् अशस्तिहा वृजना रक्षमाणः।
पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः॥
इति। आ दिवो विष्टम्भम् उच्छिश्रियतुः। तं हैवासुरान् नातीयुः। तौ हाभिः कामदुघाभिर् देवानां जग्मतुः। तौ हागतौ महयांचक्रे
ऋषिर् विप्रः पुरएता जनानाम् ऋभुर् धीर उशना काव्येन।
स चिद् विवेद निहितं यद् आसाम् अपीच्यं गुह्यं नाम गोनाम्॥
इति। ता एताः पशव्या ऋचः। अव पशून् रुन्द्धे बहुपशुर् भवत्य् एताभिर् ऋग्भिस् तुष्टुवानः। तास्व् औशनम्। उशना वै काव्यो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत्। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतल् लोकवित् साम। अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एते तुष्टुवानः। यद् उशना काव्यो ऽपश्यत् तस्माद् औशनम् इत्य् आख्यायते॥
तत् स्वारं भवति। स्वरेण वै देवेभ्यो ऽन्नाद्यं प्रदीयते। ऋक्समं पवमानान्ते भवति। नर्चा सामातिरेचयन्ति नर्चं साम्ना। तद् यद् इहेव चेहेव च पवमानेन स्तुवत एतस्यैव समतायै समं क्लृप्त्यै। पदानुस्वारं पुरस्ताद् गायत्रं भवति पदानुस्वारम् उपरिष्टात् पवमानान्ते। तस्माद् उभयतःप्राणाः प्रजा ऊर्ध्वाश् चावाचीश् च॥
द्विषाम्णी गायत्री। यो ऽयं अवाङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति भस्म च करोति वातं च॥
द्विषाम्णी बृहती। यो ऽयं प्राङ् प्राण एष एव सः। तस्माद् एतेन द्वयं प्राणेन करोति रेतश् च सिञ्चति मेहति च॥
एकसाम्नी त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद् एव प्राणान् उदन्तो ऽनूदनिति
प्रजापतिर् यद् बृहद्रथन्तरे असृजत स मन एवाग्रे बृहद् अपश्यत्। वाचं रथन्तरम् अभिव्याहरत्। तद् यद् वाचं रथन्तरम् अभिव्याहरत् तस्माद् उ रथन्तरं पूर्वं योगम् आनशे। अथ यन् मनो ऽग्रे बृहद् अपश्यत् तस्माद् उ बृहद्रथन्तरे इत्य् आख्यायेते॥
मनो व पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। ऋग् वै रथन्तरं साम बृहत्। ब्रह्म वै रथन्तरं क्षत्रं बृहत्। इदं वै रथन्तरम् अदो बृहत्॥
यद् वा एजत इव तद् राथन्तरं यद् उपस्थितं तद् बार्हतम्। ये वा अन्यतोदन्ताः पशवस् ते राथन्तरा य उभयतोदन्तास् ते बार्हताः। या वै तिरश्ची विद्युत् सा राथन्तरी योर्ध्वा सा बार्हती॥
रथन्तरस्य महिम्नस् संभृत्य रथन्तरेणोद्गायेत् यस् ते अग्नौ महिमा यस् ते अप्सु रथे यस् ते महिमा स्तनयित्नौ य उ ते वाते यस् ते महिमा तेन संभव रथन्तरं द्रविणस्वन् न एधि इति। द्रविणस्वद् एवोद्गात्रे भवति। द्रविणस्वद् यजमानाय द्रविणस्वद् एवोद्गात्रे भवति द्रविणस्वद् यजमानाय द्रविणस्वद् प्रजाभ्यः
देवासुरा अस्पर्धन्त। ते देवा वज्रं क्षुरपविम् असृजन्त पुरुषम् एव। तम् असुरान् अभ्यवृञ्जन्। सो ऽसुरान् अपोप्य देवान् अभ्यावर्तत। तस्माद् देवा अबिभयुः। तम् अभिपद्य बृहद्रथन्तरयोः प्रौहन्। स एष वज्रः क्षुरपविर् बृहद्रथन्तरयोः पुरुष एव। स यं द्विष्याद् बृहद्रथन्तरयोर् एनम् मुखे ऽपिदध्यात्। यदि राथन्तरस् सोमस् स्याद् रथन्तरे प्रस्तुते ब्रूयात् दिवं पितरम् उपश्रये बृहन् मा मा हिंसीः इति। अथानुमन्त्रयेत प्राणैर् अमुष्य प्राणान् वृङ्क्ष्व॥ तक्षणेन तेक्षणीयसायुर् अस्य प्राणान् वृङ्क्ष्व॥ क्रुद्ध एनं मनुन्या दण्डेन जहि॥ धनुर् एनम् आतत्येष्वा विध्य इति। बृहद्रथन्तरयोर् एवैनं मुखेऽपिदधाति। यं द्वेष्टि तं पुरा संवत्सरात् प्राणो जहाति।
यो वै देवरथं वेद रथी भवति। यज्ञो वाव देवरथः। तस्य बहिष्पवमानम् एव रथमुखं बृहद्रथन्तरे अश्वाव् आज्यानि योक्त्राण्य् अभीशू पवमानौ पक्षसी --
-- औशन - कावे आणी नौधसकालेये बन्धुराधिष्ठानं वामदेव्यम् उपस्थो यज्ञायज्ञीयम् अध्यास्थाता स एष पुरुषः। एष वै देवरथः। रथी भवति य एवं वेद। यदि राथन्तरस् सोमस् स्याद् बृहन् नान्तर्यात्। यदि बार्हतस् सोमस् स्याद् रथन्तरं नान्तर्यात्। हो वै बृहद्राथन्तरम्। रथन्तरे प्रस्तुते हो इत्य् उक्त्वादिम् आददीत। बृहद् एव तद् रथन्तरस्य मुखतो युनक्ति। (आ वै रथन्तरं बार्हतम्।) बृहति प्रस्तुते आ इत्य् उक्त्वादिम् आददीत। रथन्तरम् एव तद् बृहतो मुखतो युनक्ति। अस्थूरिं देवरथं करोति प्रति यज्ञं स्थापयति प्रत्य् आत्मना तिष्ठति॥
एष वै देवरथो यद् रथन्तरम्। रथन्तरे प्रस्तुते पृथिवीं हस्ताभ्यां गच्छेद् देवरथस्यानपव्याथाय
एकम् अक्षरं स्तोभति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥
द्वे अक्षरे स्तोभति। द्वे रथस्य पक्षसी। पक्षाभ्याम् एव तद् देवरथं प्रतिष्ठापयति॥
त्रीण्य् अक्षराणि स्तोभति। द्विपाद् वै यजमान आत्मा तृतीयः। यजमान एव तत् प्रतितिष्ठति। अथो त्रय इमे लोकाः। तान् एव तद् आप्नोति॥
चत्वार्य् अक्षराणि स्तोभति। चतस्रो दिशश् चतुष्पादाः पशवः। दिक्षु चैतत् पशुषु च प्रतितिष्ठति॥
पञ्चाक्षराणि स्तोभति। पांक्तो यज्ञः पांक्ताः पशवः। यज्ञे चैतत् पशुषु च प्रतितिष्ठति॥
षड् अक्षराणि स्तोभति। षड् वा ऋतवः। ऋतुष्व् एव तत् प्रतितिष्ठति। अथो षड् वै छन्दांसि। तान्य् एव तद् आप्नोति॥
सप्ताक्षराणि स्तोभति। सप्तपदा वै शक्वर्यः।शाक्वराः पशवः। पशुष्व् एव तच् छक्वर्यां प्रतितिष्ठति। अथो सप्त चतुरुत्तराणि छन्दांसि सप्त मुख्याः प्राणाः। तान्य् एव तद् आप्नोति॥
अष्टाक्षराणि स्तोभति। अष्टाक्षरा वै गायत्री। तेजो ब्रह्मवर्चसं गायत्री। तेजस्व् एव तद् ब्रह्मवर्चसे प्रतितिष्ठति। अथो अष्टाशफेष्व् एव पशुषु
नवाक्षराणि स्तोभति। नव वै पुरुषे प्राणाः। प्राणान् एवैतद् द्विषतो भ्रातृव्यस्य वृञ्ज्यात्। प्राणान् आत्मन् धत्ते ऽथो भ्रातृव्यस्य। त्रिवृत एव स्तोमस्य स्तोत्रम् आप्नोति॥
दशाक्षराणि स्तोभति। दशाक्षरा विराड् अन्नं विराट्। विराज्य एव तद् अन्नाद्ये प्रतितिष्ठति। अथो दश प्राणाः। तान् एव तद् आप्नोति॥
एकादशाक्षराणि स्तोभति। एकादशाक्षरा त्रिष्टुप्। इन्द्रियं वीर्यं त्रिष्टुप्। इन्द्रियम् एव तद् वीर्ये प्रतितिष्ठति॥
द्वादशाक्षराणि स्तोभति। द्वादशाक्षरा वै जगती। पशवो जगती। पशुष्व् एव तज् जगत्यां प्रतितिष्ठति। अथो द्वादश मासाः। तान् एव तद् आप्नोति॥
त्रयोदशाक्षराणि स्तोभति। य एवासाव् अधिचरस् त्रयोदशो मासस् तम् एव तद् आप्नोति॥
चतुर्दशाक्षराणि स्तोभति। संवत्सरो वै चतुर्दशः। संवत्सर एव तत् प्रतितिष्ठति॥
पञ्चदशाक्षराणि स्तोभति। पञ्चदश वा अर्धमासस्य रात्रयः। अर्धमासश एव संवत्सरम् आप्नोति॥
षोडशाक्षराणि स्तोभति। षोडशकलो वै पुरुषः। कला एव तद् द्विषन्तं पाप्मानं भ्रातव्यम् अवाञ्चम् अपवहन्ति श्रियम् आत्मनाश्नुते। अथो षोडशिन एव स्तोमस्य स्तोत्रम् आप्नोति॥
सप्तदशाक्षराणि स्तोभति। प्रजापतिर् वै सप्तदशः। प्रजापताव् एव तत् प्रतितिष्ठति
एतद् अन्यत् स्तोभेत्। ऋचम् एवान्य गायेत्। स यद् ऋचम् एव गायति तेन रथन्तरस्य रूपं नैति। ऋग् घि रथन्तरं साम बृहत्। यद्य् उ स्तोभेद् अष्टाव् एवाक्षराणि स्तोभेत्। तद् व् एव संप्रति। स्वर् दृशं प्रतिविपश्येच् चक्षुषो ऽप्रवर्हाय॥
यद् ईशानम् इन्द्र इति प्रतिहरेद् ईशानो यजमानस्य पशून् अभिमानुकस् स्यात्। अथ यत् शानम् इन्द्र इति प्रतिहरति नेशानो यजमानस्य पशून् अभिमन्यते शान्ताः प्रजा एधन्ते॥
प्रतिहारेप्रतिहार उद्गाता इळा इति ब्रूयात्। पशवो वा इळायतनं रथन्तरम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयति। नस्थुषः इति ब्रूयात्। यत् तस्थुषः इति ब्रूयात् स्थायुकास्य श्रीस् स्यात्। अथ यत् नस्थुषः इत्य् आह नास्य श्रीस् तिष्ठति बहवो ऽस्य स्वायातेन यान्ति॥
बृहद्रथन्तरे व्यावर्तयेत्। यद् ध वै बृहद्रथन्तरे न व्यावर्तयेद् यथा महावृक्षौ समृत्य शाखा विपरिशृणीत एवं प्रजाः पशून् विपरिशृणीयाताम्। हो वा हा वै वृहद् ओ वा हा रथन्तरम्। बृहद्रथन्तरे एवैतद् व्यावर्तयति वि पाप्मना वर्तते य एवं वेद
यथा स्याद् एवं बुभूषन्न् उपेयात्। यथास्येद् एवं भ्रातृव्यवान्। जयत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद॥
बृहद्रथन्तरे यद् असृज्येतां ताभ्यां भीषा प्रजाः पशव उदवेपन्त। ते आत्मानम् एव पर्यैक्षेतां किं नु नाव् इदं क्रूरम् इवात्मनो यस्माद् भीषा प्रजाः पशव उदवेपिषतेति। ते निधने एवापश्यताम्। ते अरण्ये निधाय ग्रामम् अभ्यवैताम्। तद् एव स्वकृतम् इरिणम् अभवत्। तस्माद् आहुर् न स्वकृतम् इरिणम् अध्यवसेयम्। ईश्वरः पापीयान् भवितोर् यत्स्वकृतम् इरिणम् अध्यवस्यतीति। बृहद्रथन्तरयोर् ह वा एतन् निधनाभ्यां निर्दग्धम्। ते ह वा एते ग्रामेगेये एवापनिधने यद् बृहद्रथन्तरे। कामं ह वा एताभ्याम् अपनिधनाभ्यां ग्रामे स्तुवीत
अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौत्य अभिक्रान्त्या अनपभ्रंशाय॥
अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौति। द्विपादम् एव तद् अष्टाशफेषु पशुष्व् अध्यूहति। तस्माद् द्विपाद् अष्टाशफान् पशून् अधितिष्ठति॥
अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे प्रस्तौति। द्विपादम् एव तद् अष्टाशफेषु पशुष्व् अध्यूहति। तस्माद् द्विपाद् अष्टाशफान् पशून् अधितिष्ठति॥
अष्टाक्षरेण प्रस्तौति। द्व्यक्षरेणोत्तरे द्वे प्रस्तौति। तद् द्वादश संपद्यन्ते। द्वादश मासास् संवत्सरः। संवत्सरः प्रजापतिर् यज्ञः। संवत्सरम् एवैतेन प्रजापतिं यज्ञम् आप्नोति॥
अक्षरेषु रथन्तरं करोति। तस्माद् अरेणारेण रथः प्रतितिष्ठन्न् एति॥
रथन्तरेण वै देवा असुरान् संविच्य बृहता जालेनेवाभिन्यौब्जन्। रथन्तरेणैव द्विषन्तं भ्रातृव्यं बृहता जालेनेवाभिन्युब्जति य एवं वेद॥
रथन्तरेण वै देवा ऊर्ध्वास् स्वर्गं लोकम् आयन्। तान्य् असुररक्षसानि नव नवतय इमान् लोकान् अवृण्वन्। रथा हि नामासुः। ते देवा रथन्तरेणैव स्तुत्वा रथन्तरं समारुह्य स्वर्गं लोकम् अगच्छन्। ते ऽब्रुवन्न् अतारिष्म वा इमान् रथान् इति तद् एव रथन्तरस्य रथन्तरत्वम्। तरति द्विषन्तं भ्रातृव्यं य एवं वेद
अशनया ह वै रथा अन्नम् उ वै रथन्तरम्। अन्नेनाशनयां घ्नन्ति। तांताम् अशनयाम् अन्ने हत्वा स्वर्गं लोकम् आरोहन्। बृहता वै देवास् स्वर्गं लोकम् अजिगांसन्। तेन न व्याप्नुवन्। तस्मिन्न् उष्णिक्ककुभा उपादधुः। तेन व्याप्नुवन्। ते ऽब्रुवन्स्वर्गं लोकं गत्वा बृहद् वावेदम् अभूद् येन स्वर्गं लोकं व्यापामेति। तद् एव बृहतो बृहत्त्वम्॥
द्वादश बृहतो रोहान् रोहेत् स्वर्गकाम उदधिम् अर्दयेद् वृष्टिकामः। यावन्त्य् उ ह वै बृहत्या अक्षराण्य् उष्णिक्ककुभोश् च तावद् इतस् स्वर्गो लोकः। प्र स्वर्गं लोकम् आप्नोति य एवं वेद
अथो बृहत्। मनो बृहत्। द्वादशाक्षरः प्रस्तावः। तावद् धि साम। द्वादश मासास् संवत्सरः। संवत्सरस् साम। त्रयो बृहतो रोहा इम एव लोकाः। ते पुनर् नव भवन्ति प्राणा एव। मनो दशमम्। द्वादश बृहतस् तन्वो मासा एव। मासा रश्मयः। रश्मयो मरुतः। तैर् असाव् आदित्यो धृतः। स य एतद् एवं वेद यत्र कामयत इह ध्रिययेति ध्रियते तत्र। यो वै बृहतो बार्हतं पदं वेदोरु प्रजया पशुभिः प्रथते॥
द्वादशाक्षरं वा बृहतो बार्हतं पदम्। तद् आयच्छते ऽवगेयम्। यो वै बृहति त्रिवृतं सदेवं प्रोढं वेद गच्छति क्षत्रमात्राम्। रोहा ह वाव बृहतस् त्रिवृत्सदेवाः। ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति य एवं वेद॥
इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानः परां परावतम् अगच्छत्। तं प्रजापतिर् अकामयत तत् स्याद् इति। तम् ओ हो इत्य् अन्वाह्वयत्। सो ऽभवत्। ओ हो इत्य् एवावरुद्धो राजन्यः कुर्वीत। अव हैव गच्छति
देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। पशवो वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन् प्रजापताव् एव पृच्छामहा इति। ते प्रजापताव् अपृच्छन्त। स प्रजापतिर् अब्रवीत् सर्वेषाम् एव व एतद् वामं सह सर्वान् व एतेन स्तोष्यन्ति सर्वान् व एतद् अवष्यति मा विभग्ध्वम् इति॥
तद् यद् गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्र्यो ह्य् अग्निर् इति। यत् पृष्ठं माध्यंदिनं तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन वैश्वदेवम्। यन्मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्। तद् वा एतत् पशव्यं यद् वामदेव्यम्॥
अनेजन्न् उद्गायेत् पशूनाम् अपरावापाय। यद् एजन्न् उद्गायेत् पशून् परावपेत्। तद् आहुः प्रावृतो ऽनेजन्न् उद्गायेन् नेन् मोपद्रष्टानुव्याहराद् इइति। तद् उपकार्यरूपम्। प्रावृत एवानेजन्न् उद्गायेत्
अक्षं ह स्म वा एतत् पुरा विशश् शीर्षन् निदधति य एव तम् उद्गायन् नावपातयिष्यति स न उद्गास्यतीति। तद् उ तद् उपकार्यरूपम् एव। कामम् एवोद्गेयम्॥
तस्य त्रीण्य अक्षराणि छन्नानि गायति। त्रयो वा इमे लोकाः। प्रजापतिर् वामदेव्यं प्रजापतिर् लोकानाम् अभिनेता। स नो लोकानाम् अभिनेता स नो लोकान् अभिनयाद् इति। वामदेव्यस्य स्तोत्र ऋषभम् अप्यर्जेत्। सौ हौ खा इत्य् एवर्षभः। योनिर् वामदेव्यं प्रजननम् ऋषभः। योन्याम् एवैतत् प्रजननेन प्रजननम् अपिसृजति प्रजात्यै॥
तत् परोक्षम् इव गेयम्। नर्चम् उपस्पृशेत्। वयो वै वामदेव्यम्। यद् ऋचम् उपस्पृशेद् यथा वयो ऽन्तरिक्षेण पतद् वृक्षम् ऋच्छेत् तादृक् तत्॥
पदे अन्तरा नावान्यात्। यद् पदे अन्तरावान्याद् यथा कर्तं पतेत् तादृक् तत्। उत्तरस्य पदस्यारभ्यावान्यात्। स यथाक्रमणाद् आक्रमणम् आक्रम्योदन्यात् तादृक् तत्
विच्छिन्नम् इव वा एतत् साम। प्रतिहारं प्रति कयाशयिवा र्तोहायीति संक्रामेद् अनादृत्य प्रतिहारम्। तद् उ तद् दुष्कररूपम्। सामिताम्य् एतत्। प्रतिहार एव प्रतिह्रियमाणः वाक् इत्य् उद्गाता ब्रूयात्। वाग् वै ब्रह्म। वाचैवैनत् तद् ब्रह्मणा संदधाति॥
आपो वै देवानां पत्नय आसन्। ता मिथुनम् ऐच्छन्त। ता मित्रावरुणाव् उपैताम्। ता गर्भम् अदधत। ततो रेवतयः पशवो ऽसृज्यन्त। रेवतीषु पशुकामस्य कुर्यात्। पशुमान् एव भवति। ईश्वरो ह त्व् अप्रजापतिर् भवितोः। कवतीभ्यो ह्य् एति प्राजापत्याभ्यः। अथ ह वा एतद् भरद्वाजः पृश्निस्तोत्रं ददर्श पशुकामः कया नश् चित्र आ भुवत्॥ रेवतीर् न सधमादे॥ अभी षु णस् सखीनाम् इति। स यद् एकां रेवतीं मध्यतो ऽपिसृजति तेन पशुभ्यो नैति। यद् उ कवत्यौ प्राजापत्ये अभितो भवतस् तेनो प्रजायै नैति॥
तत् स्वारं भवति। प्राणो वै स्वरः। प्राणान् एवैतत् पशुषु दधाति। ईश्वरो ह तु स्वरेण यजमानस्य पशून् निस्वरितोः। यद्य् अनिधनं कुर्यात् प्राणम् अपिहन्यात्
अविता जरायितॄणाम् आ औ हो हा यि शतां भवस्य् औ हो हुं मा ता या हुं मा इत्य् उत्तमाया उत्तरार्धे कुर्यात्। स यथा व्रजे गा अनपाद्य् अर्गलेनापिहन्यात् तादृक् तत्। तद् आहुस् स्वयोनाव् एव तत् स्वारं कार्यम्। य एनम् एवं चकृवांसम् उपमीमांसेत स्वरेण यजमानस्य पशून् निरस्वारीर् इति तं ब्रूयान् निधनवत् पुरस्ताद् रथन्तरं निधनवद् उपरिष्टान् नौधसम्। ताभ्यां म एतद् उभयतः प्रजाः पशवः परिगृहीताः। प्राणम् एवैतद् अधा मध्यतः पशूनाम् इति। य एवैनम् एवं चकृवांसम् उपमीमांसते स आर्तिम् आर्छति॥
अष्टाक्षरा गायत्र्य् अष्टौ वसवः। गायत्रं प्रातस्सवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥
एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। त्रैष्टुभं माध्यंदिनं सवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥
द्वादशाक्षरा जगती। द्वादशादित्याः। जागतं तृतीयसवनम्। अक्षरेऽक्षरे देवतान्वायत्ता॥
अथ किं प्रतियज्ञं यजमानम् अपिनयन्तीति। स ब्रूयात् प्रजापतिर् यद् वामदेव्यम् असृजत तस्य त्रीण्य अक्षराण्य् उदखिदत्। स एव त्र्यक्षराः पुरुषो ऽभवत्। वामदेव्यस्य स्तोत्रे पुरुषः इति ब्रूयात्॥
तत् प्रतियज्ञं यजमानम् अपिनयन्तीति तद् आहुर् न पुरुषः इति ब्रूयात् परोक्षम् एव ध्यायेन् मनसैव नियच्छेद् इति। तद् उ वा आहुर् नैव परोक्षं ध्यायेन् न मनसा नियच्छेद् यद् वाव वेद तेनैवाप्तम् इति
देवा वा असुरान् युधम् अपप्रयन्तो ऽब्रुवन् यन् नो वामं वसु तद् अपनिधाय युध्यामहै यद् अद्य कस्मिंश् चिद् भूते ऽभ्यवधावामेति। प्राणा वाव तेषां वामं वस्व् आसीत्। तद् अपनिधाय युधम् अपपरायन्। तद् एकधा भूत्वासृजमानम् अतिष्ठद् ऋचस् सामानि यजूंषि गाम् अश्वम् अजाम् अविं व्रीहिं यवं ब्राह्मणं राजन्यं वैश्यं शूद्रं यद् इदं किं चित् तत् सर्वम्। तद् एभ्य आचक्षतेदं वै वस् तद् वामं वस्व् एकधा भूत्वासृजमानं तिष्ठतीति। ते देवा असुरान् अजयन्। ते विजिग्यानाः पुनर् आयन्त एकं भूतम् अभ्यवायन्। तन् न व्यजानतेदं मम वामम् इदं ममेति। ते ऽब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। तद् एवैनान् अब्रवीत् सर्वान् एव वो मया स्तोष्यन्ति सर्वान् वो ऽहम् अवैष्यामि मा मा विभग्ध्वम् इति॥
तद् यद् गायत्रीषु स्तुवन्ति तेनाग्नेयम्। गायत्रो ह्य् अग्निःः। यत् पृष्ठं माध्यन्दिनं तेनैन्द्रम्। यत् कवतीषु स्तुवन्ति तेन प्राजापत्यम्। यद् अनिरुक्तं तेन वैश्वदेवम्। यन् मैत्रावरुणाय स्तुवन्ति तेन मैत्रावरुणम्॥
तद् एनान् अब्रवीत् सृजध्वं मद् इति। तथेति। तद् अभ्यस्वरन्। ते ऽब्रुवन् सृजस्वेति
तद् रथन्तरम् असृजत। तद् रथघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् रथन्तरस्य स्तोत्रे रथघोषं कुर्वन्ति। अरात्स्मानेन स्तोत्रेणेत्य एव तद् विद्यात्॥
तद् अब्रुवन् सृजस्वैवेति। तद् बृहद् असृजत। तत् पर्जन्यस्य घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् बृहतस् स्तोत्र दुन्दुभीन् उद्वादयन्ति। वर्षुकः पर्जन्यो भवति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥
तद् अब्रुवन् सृजस्वैवेति। तद् वैरूपम् असृजत। तद् ग्रामघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् वैरूपस्य स्तोत्रे ग्रामघोषं कुर्वन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥
तद् अब्रुवन् सृजस्वैवेति। वैराजम् असृजत। तद् अग्नेर् घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् वैराजस्य स्तोत्रे ऽग्निं मन्थन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥
तद् अब्रुवन् सृजस्वैवेति। तच् छाक्वरम् असृजत। तद् अपां घोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माच् छाक्वरस्य स्तोत्र ऽप उपनिधाय स्तुवन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥
तद् अब्रुवन् सृजस्वैवेति। तद् रैवतम् असृजत। तद् पशुघोषो ऽन्वसृज्यत। ते ऽब्रुवन्न् अरात्स्मानेन स्तोत्रेणेति। तस्माद् रैवतस्य स्तोत्रे पशुघोषं कुर्वन्ति वत्सान् मातृभिस् संवाशयन्ति। अरात्स्मानेन स्तोत्रेणेत्य् एव तद् विद्यात्॥
तद् अब्रुवन् सृजस्वैवेति
तन् नासृजत। तद् ऊर्ध्वम् उदैषद् यथा पृष्ठं यथा ककुद् एवम्। तद् देवास् संगृह्योर्ध्वा उदायन्। ते ऽब्रुवन्न् इयद् वावेदम् आसेदं वाव नो देवानां वामम् इति। यद् अब्रुवन्न् इयद् वावेदम् आसेदं वाव नो देवानां वामम् इति वामदेव्यस्य तद् वामदेव्यत्वम्॥
तद् वा एतत् पिता माता साम्नां यद्व वामदेव्यम्। यद् वै पुत्रो ऽतिपादयति पिता वै तस्य शमयिता पिता निषेद्धा॥
तद् यन् मध्यतः क्रियते शान्त्या एव निषिद्ध्यै। तद् यानि ह वै स्तुतानि सामानि पश्चात्त्वं तेषां वामदेव्यम्। अथ यान्य् अस्तुतानि पुरस्त्वं तेषाम्। तेषाम् उभयेषां शान्त्यै निषिद्ध्यै॥
तत् स्वधूर् गेयं नोच्चैर् इव न नीचैर् इव। यद् उच्चैर् गायेच् छ्रेयसो भ्रातृव्यस्य निधनेन गायेत्। यन् नीचैर् गायेत् पापीयसो भ्रातृव्यस्य नियानेन यायात्। इयं वावैतस्य धूर् इदम् अन्तरिक्षम्। एतद् एवैनं धूर्वति य एवं विद्वांसं धूर्वतीति॥
तद् आहुः प्रादेशमात्राद् वा एतद् इदं लोकं न स्पृशति प्रादेशमात्राद् अमुं नैति॥
अथो आहुर् यावद् एव गोस् सूताया उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नैति। अथो आहुर् यावद् एव शकृत्य् उल्बं तावतैवेमं लोकं न स्पृशति तावतामुं नैति। तद् एवम् इवैव मन्यमानेन गेयम्। तद् उ वा आहुर् यथा वा अक्षेण चक्रौ विष्टब्धाव् एवम् एतेनेमौ लोकौ विष्टब्धौ। नीवेमं लोकं स्पृशति नीवामुम् इति॥
नो हान्यस्यानुवर्त्म गेयम्। ईश्वरो होपजीवी भवितोर् यो ऽन्यस्यानुवर्त्मा गायति। स्वधूर् एव गेयम्॥
यो वै देवानां मधु वेद मधव्यो भवति। वामदेव्यं वामदेवानां मधु। मधव्यो भवति य एवं वेद
इमौ वै लोकौ सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। ते बृहद्रथन्तरे अब्रूतां ये नाव् इमे प्रिये तन्वौ ताभ्यां विवहावहा इति। श्यैतं ह वा अग्ने रथन्तरस्य प्रिया तनूर् आस नौधसं बृहतः। ताभ्यां व्यवहेताम्। ऊषान् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् धूमम् इत इयम् अमुष्यै। वर्षम् एवासाव् अमुतो ऽस्यै शुल्कम् अकरोद् देवयजनम् इत इयम् अमुष्यै। स वहतोरुहैनै वेद य एवं वेद॥
मेनामेनं वाव ते तद् व्यवहेताम्। तस्माद् आहुर् न मेनामेनं व्यूह्यम् इति। बृहद्रथन्तरयोर् ह वा एष विवाहम् अभ्यारोहति। स ईश्वर पराभवितोः। ते तन्वाव् अब्रूताम् आवं नु निधनाभ्यां विवहावहा इति
पदनिधनं ह वा अग्रे श्यैतम् आस वसुनिधनं नौधसम्। ताभ्यां व्यवहेताम्। ततो ह वा इदम् अर्वाचीनम् अन्योन्यस्य गृहे वसन्ति। यथागृहं ह वाव ततः पुरोषुर् यथाज्ञाति वा॥
रथन्तरेण स्तुवन्ति। इदं वै रथन्तरम्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ नौधसेन। अदो वै नौधसम्। अनन्तर्हितान् एवेत ऊर्ध्वान् लोकान् जयति॥
बृहता स्तुवन्ति। अदो वै बृहत्। अथ वामदेव्येन। इदं वा अन्तरिक्षं वामदेव्यम्। अथ श्यैतेन। इदं वै श्यैतम्। अनन्तर्हितान् एवामुतो ऽवाचो लोकान् जयति। उभयान् लोकान् जयति ये चोर्ध्वा ये चार्वाचो य एवं वेद
अथ नौधसम्। नोधा वै काक्षीवतो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत प्रतितिष्ठेयम् इति। स ह देवान् ब्रह्म विभजमानान् उपावपपात। स होवाचर्षिर् अस्मि मन्त्रकृत् स ज्योग् अप्रतिष्ठितो ऽचार्षं तस्मै म एतद् दत्त येन प्रतितिष्ठेयम् इति। तस्मै ह ब्रह्मणो रसस्य ददुः। तद् एव नौधसम् अभवत्। तेनास्तुत। ततो वै स् प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। ब्रह्मणो ह वा एष रसो यन् नौधसम्। ब्रह्मणो हास्य रसेन स्तुतं भवति य एवं विद्वान् नौधसेन स्तुते॥
तद् द्व्यक्षरणिधनं भवति प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै। यद् उ नोधाः काक्षीवतो ऽपश्यत् तस्मान् नौधसम् इत्य् आख्यायते
श्यैतं पशुकामः कुर्वीत। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर् अभि मा वर्तेरन्न् इति। स एतत् सामापश्यत्। तेनास्तुत। तस्य वसु इत्य् एव निधनम् उपैत्। तत् पशवो वै वसु। ततो वै तं पशवो ऽभ्यावर्तन्त। ततो ऽस्माद् अनपक्रामिणो ऽभवन्॥
सोऽब्रवीच् छ्येती वा इमान् पशून् अकृषीति। तद् एव श्यैतस्य श्यैतत्वम्। तद् एतत् पशव्यं साम। श्येतीकृता एनं पशव उपतिष्ठन्ते ऽभ्य् एनं पशव आवर्तन्ते नास्मात् पशवो ऽपक्रामन्ति य एवं वेद। तद् द्वयक्षरणिधनं भवति प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै
गोतमस्य मनार्ये मनोऽपक्रान्तः कुर्वीत। गोतमाद् वै मनो ऽपाक्रामत्। सो ऽकामयत न मन् मनो ऽपक्रामेत् पुनर् मा मन आविशेद् इति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै तं पुनर् मन आविशन् नास्मान् मनो ऽपाक्रामत्। ऐनं पुनर् मनो विशति नास्मान् मनो ऽपक्रामति य एवं वेद। तत् पिबा इति रथन्तरसाम्नः पिबाई इति बृहत्साम्नः। यद् उ गोतमो ऽपश्यत् तस्माद् गोतमस्य मनार्ये इत्य् आख्यायेते
वसिष्ठस्य जनित्रे प्रजननकामः कुर्वीत। वसिष्ठो वै जितो हतपुत्रो ऽकामयत बहु प्रजया पशुभिः प्रजायेयेति। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। ततो वै स बहु प्रजया पशुभिः प्राजायत। ते एते प्रजननी सामनी। बहु प्रजया पशुभिः प्रजायते य एवं वेद। तत् जनित्रम् इति रथन्तरसाम्नः जानित्राम् इति बृहत्साम्नः। यद् उ वसिष्ठो ऽपश्यत् तस्माद् वसिष्ठस्य जनित्रे इत्य् आख्यायेते
पौरुमीढं दक्षोणिधनम् आयुष्कामः कुर्वीत। तरन्तपुरुमीढौ वै वैतदश्वी माहेयौ मह्या आर्चनानस्यै पुत्रौ। तौ ह यन्तौ स्त्री पर्येत्योवाच पुत्रस्य वै त्यस्या उपतपति तं स्म मे चिकित्सतम् इति। तौ ह क्रुध्यन्ताव् इवोचतुः कथं नाव् इत्थं ब्रूयाद् इति तं वा अर्वीष उपवपेति। सा हेयं स्त्री श्रद्धाय देवर्षी मा मन्त्रकृताव् अवोचताम् इत्य् अर्वीष उपोवाप। तौ ह पुनर् आयन्तौ पर्येत्योवाच यं वै कुमारम् अवोचतम् अर्वीष उपवपेत्य् अयं वै सो ऽर्वीष उपोप्तश् शेत इति। तौ हासाध्व् इव कृत्वा मेनाते। ताव् अकामयेताम् उद् इत इयाव गातुं नाथं विन्देवहि सम् अयं कुमारो जीवद् इति। स एतत् पुरुमीढस् सामापश्यत्। तेनास्तुत
अग्निम् ईळिष्वावसे गाथाभिश् शीरशोचिषम्।
अग्निं राये पुरुमीढ श्रुतं नरः॥
को नाम कुमार इति। सुदीतिर् नामेति। तम् अग्निस् सुदीतये छर्दिः इत्य् एवाभ्यमृशत्। स तान्तो निरवर्तत। तम् एतेन निधनेन समैरयत् दक्षायै इति। प्राणा वै दक्षाः। प्राणान् एवास्मिंस् तद् अदधात्। तद् एतद् गातुविन् नाथवित् साम। गातुं व स तन् नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद। यद् उ पुरुमीढो ऽपश्यत् तस्मात् पौरुमीढं दक्षो णिधनम् इत्य् आख्यायते
जमदग्नेस् सप्ताहम् अभिचरन् वा भ्रातृव्यवान् वा कुर्वीत। जमदग्निर् ह वै माहेनानां पुरोहित आस। तान् ह वित्तेनात्यादधौ। त उ हैनम् उपजिहिंसुः। स हेक्षांचक्रे कथं न्व् अहम् एषां सप्तसप्तैकाहनि ग्राम्याणां पशूनां हन्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स तेषां सप्तसप्तैकाहनि ग्राम्याणां पशूनाम् अहन्। तथो एवैषाम् एतद् घ्नन्ति। तद् उ भ्रातृव्यहा। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ जमदग्निर् अपश्यत् तस्माज् जमदग्नेस् सप्ताहम् इत्य् आख्यायते। तद् एषोपगीता
अतिमात्रम् अवर्धन्त नोद् इव दिवम् अस्पृशन्।
भुगुं हिंसित्वा माहेना असंहेयं पराभवन्॥
इति। असंहेयं ह वै स पराभवति य एवं विद्वांसं हिनस्ति
देवासुरा यज्ञे ऽस्पर्धन्त। ते देवा असुरान् बहिष्पवमानान् निरवाघ्नन्। ते ऽसुरा आग्नेयम् आज्यं पर्यवायन्। ते देवा मैत्रावरुणम्। ते ऽसुरा ऐन्द्रम्। ते देवा ऐन्द्राग्नम्। ते ऽसुरा माध्यंदिनं पवमानम्। ते देवा रथन्तरम्। ते ऽसुरा वामदेव्यम्। ते देवा नौधसम्। ते ऽसुराः कालेयम्। तान् कालेय एवान्वभ्यवायन्। तान् कालेयेनैव कालेयाद् अकालयन्त। यद् अकालयन्त तत् कालेयस्य कालेयत्वम्। कालयते वै द्विषन्तं भ्रातृव्यं य एवं वेद॥
ते दिशो व्युदसीदन्। तान् कालेयेनैवानुपर्यायम् अकालयन्त। यद् अनुपर्यायम् अकालयन्त तच् चैव कालेयस्य कालेयत्वम्। अनुपर्यायम् एव द्विषन्तं भ्रातृव्यं कालयते य एवं वेद॥
तरो वै यज्ञस् स्तोमो विदद्वसुः।यज्ञेन च वाव ते तान् स्तोमेन चाकालयन्त। यज्ञेन चैव स्तोमेन च द्विषन्तं भ्रातृव्यं कालयते य एवं वेद
ऋचा वा असुरा आयन् साम्ना देवाः। ते देवा असुरान् ऋच्य एव परिगृह्य साम्नापीडयन्तेव पीडयत् पीडतो भ्रातृव्यस्य व्यधाय। इन्द्रा सबाध उतो याः इति बृहद् गायन्तः। सुतसोमे धीरो इति रथन्तरसाम्नः धोरो इति बृहत्साम्नः। उभे ह वा एते एतद् अनु। तस्माद् उभे रूपे गायेद् यच् च राथन्तरं यच् च बार्हतम्। नाना वा एतयोर् ब्रह्मसामनी भवतः। अथैतद् उभे अनु। तस्माद् उभे एव रूपे गायेत्॥
तद् एळं भवति। पशवो वा इळा। पशुभिर् वाव ते तान् अकालयन्त। तस्माद् यत् पशुमांश् चापशुश् च भ्रातृव्यौ स्पर्धेते य एव पशुमान् भवति स एव तयोर् अभिभवति॥
एतद् ध वै साम प्रजा इमा अनुव्य् आस। ते तस्यैतां नितताम् इळाम् अन्तत उपयन्ति प्रजानां यथायतनाद् अनुद्धाताय। तस्मात् प्रजा यथायतनाद् अनुद्धताः॥
देवाः पितरो मनुष्यास् ते ऽन्यत आसन्न् असुरा रक्षांसि पिशाचा अन्यतः। त एषु लोकेष्व् अस्पर्धन्त। अथ ह कलयो गन्धर्वा अन्तस्थां चेरुर् नेतरान् नेतरान् आद्रियमाणाः। ते देवाः पितरो मनुष्या असुरान् रक्षांसि पिशाचान् अभ्यभवन्। त इमान् लोकान् व्यभजन्त देवलोकम् एव देवा अभजन्त पितृलोकं पितरो मनुष्यलोकं मनुष्याः। तत् कलयो गन्धर्वा एत्याब्रुवन्न् अनु न एषु लोकेष्व् आभजतेति। नेत्य् अब्रुवन्। अनाद्रियमाणा वै यूयम् अचारिष्ट नेतरान् नेतरान् आद्रियमाणा इति। अथ वै वो मनसान्वासिष्मह इत्य् अब्रुवन्न् अन्व् एव न आभजतेति
नेत्य् अब्रुवन्। साधुविभक्ता नो लोकास् तान् न शक्ष्यामस् संलोभयितुम् इति। ते ऽब्रुवन् यद् वयम् इह स्वयं पश्यामस् तद् अस्माकम् अस्त्व् इति। तेभ्य एता कलिन्दाः प्रायच्छन्न् एतासु श्राम्यतेति। तद् यत् कलिभ्यः कलिन्दाः प्रायच्छंस् तत् कलिन्दानां कलिन्दत्वम्। स एतत् कलिर् वैतदन्यस् सामापश्यत्। तेनास्तुत। तेनेमम् अवान्तरदेशं दुर्यन्तं लोकम् अपश्यत्। तम् अजयत्। तद् एतल् लोकवित् साम। विन्दते लोकम् एतेन तुष्टुवानः। गन्धर्वलोकतां ह त्वाव नातिजयति गन्धर्वलोकताम् इवैव जयति। यद् उ कलिर वैतदन्यो ऽपश्यत् तस्मात् कालेयम् इत्य् आख्यायते॥
देवा वै पूर्वाभ्यां सवनाभ्यां तृतीयसवनं प्रवृह्य स्वर्गं लोकम् आयन्। त इमे लोका व्यवृह्यन्त वि यज्ञो ऽवृह्यत। ते देवा अकामयन्त सम् इमान् लोकान् दध्याम सं यज्ञं दध्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् लोकान् समदधुस् सं यज्ञम् अदधुः। तद् यद् इमान् लोकान् समदधुस् तद् वा अस्य स्वर्ग्यम्। तेन गन्धर्वलोकताम् अतिजयति। तरो वै यज्ञस् स्तोमो विदद्वसुः। यज्ञेन च वाव ते तत् स्तोमेन चेमान् लोकान् समदधुस् सं यज्ञम् अदधुः। यज्ञेन चैवास्य स्तोमेन च यज्ञस् संहितो भवतीमे च लोका य एवं वेद॥
सोमो ह खलु वै राजा कालेयम्। सदेवो हास्य यज्ञो भवति। यथा ह वा इदं बद्धवत्सा हिंकरी तुरीयत्य् एवं ह वाव तम् इन्द्रस् सोमम् आगच्छति यस्मिन् कालेयेन स्तुवन्ति। तस्माद् उ हैतस्मात् साम्नो नैव कदा चनेयात् सेन्द्रो मे सदेवो यज्ञो ऽसद् इति। सेन्द्रम् एवैतेन सदेवं यज्ञं कुरुते॥
तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व एव तत् प्रतितिष्ठति
द्वे वावेदम् अग्रे सवने आस्ताम्। द्वाभ्यां वावेदं सवनाभ्यां देवा अग्रे व्यजयन्त। तान् विजित्य यथालोकम् आसीनान् इन्द्र एत्याब्रवीत् त्रीणि छन्दांसि त्रयः प्राणापानव्यानास् त्रय इमे लोकास् त्रिर् देवेष्व् इत्य् आहुः। एतेमानि त्रीणि सवनानि करवामेति। ते ऽब्रुवन् न शक्ष्यामो ऽनेन न्वाव वयं पूर्वेण कर्मणा परिश्रान्तास् स्म इति। स इन्द्रो ऽब्रवीत् स वा अहं मद् एवाधि तृतीयसवनं निर्मिमा इति। स आत्मन एवाधि तृतीयसवनं निरमिमीत। तद् इन्द्रो ह वा एतद् देवतानां यत् तृतीयसवनम्। इन्द्रेण हास्य देवतानां स्तुतं भवति य एवं विद्वांस् तृतीयसवनेन स्तुते॥
धीतम् इव वै तृतीयसवनम्। जागतं सुपर्ण आहरन्न् अधयत्। तद् एतद् पीडितम् इव। स्वादिष्ठया इति। स्वदयन्त्य् एवैनत् तेन। मदिष्ठया इति। रसम् एवास्मिंस् तन्मदं दधति। आशिरम् अवनयन्ति पशुना चरन्त्य् ऐवैतेन प्याययन्ति॥
रक्षोहा विश्वचर्षणीर् अभि योनिम् अयोहते इति पूर्वयोर् एवैष सवनयोर् अभिसंक्रमः। तासु गायत्रम् उक्तब्राह्मणम्
अथ संहितं द्व्यक्षरणिधनं प्रतिष्ठायै। द्विपाद् वै यजमानः प्रतिष्ठित्यै॥
देवासुरा अस्पर्धन्त। तेऽब्रुवन् यन् न इदम् उभयं धनं तत् संनिदधामहै। तेषां नो यतरे जयन्ति तेषां न एतद् उभयं धनं संहितम् अस्त्व् इति। तद् यद् एषाम् उभयं धनम् आसीत् तत् संन्यदधत। ते देवा अकामयन्तोभयम् इदं धनं संहितं जयेमेति। त एतत् सामापश्यन्। तेनास्तुवत। तेनोभयं धनं संहितम् अजयन्। तद्यद् उभयं धनं संहितम् अजयंस् तत् संहितस्य संहितत्वम्। उभयम् एव संहितं द्विषन्तं भ्रातृव्यं जयति य एवं वेद॥
तद् उ होवाचारुणिर् अश्वो वाव स संहित आसीत्। तस्मिन्न् एवैषां तद् धनं संहितम् आसीत् तम् एव तद् असुराणाम् अवृञ्जत प्रजापतिं वावैषां तद् अवृञ्जतेति। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद
अथो हैतद् अविच्छिन्नम् इव वै माध्यंदिनात् सवनात् तृतीयसवनम्। ते देवा एतद् व्यवेक्ष्याविदुर् अविच्छिन्नम् इव वा इदं माध्यंदिनात् तृतीयसवनम् इति। त एतत् सामापश्यन्। तेनैतत् समदधुः। यत् समदधुस् तद् व् एव संहितस्य संहितत्वम्। संहितं हास्यैतत् तृतीयसवनम् अनवच्छिन्नं भवति य एवं वेद॥
उष्णिक्ककुब्भ्यां वा इन्द्रो वृत्राय वज्रम् उदयच्छद् गायत्र्योस् तिष्ठन्। ते एनं नोदयच्छताम्। तयोश् चतुष्पादः पशून् उपादधाद् गां चाश्वं चाजां चाविं च। ते एनम् उदयच्छताम्। स उष्णिक्ककुभोस् तिष्ठन् सभपौष्कले बाहू कृत्वा प्राहरत्। तम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद
स प्राचान्येन पदा प्राभ्रंशत प्रतीचान्येन। येन प्राचा प्राभ्रंशत् सा ककुब् अभवत्। तस्मात् ककुभः पूर्वार्धे ऽक्षराणि भूयिष्ठानि। अथ येन प्रतीचा प्राभ्रंशत सोष्णिग् अभवत्। तस्माद् उष्णिहो जघनार्धे ऽक्षराणि भूयिष्ठानि। ते वा एते छन्दसी धेनुश् चैवानड्वांश् च। तस्मात् पशवः पूर्वार्धेन च जघनार्धेन च भूयिष्ठं भाजयन्ति वहन्ति पूर्वार्धेन दुह्रे च जघनार्धेन प्र च जनयन्ति। उभयं धेनुपयसं चानडुत्पयसं चावरुन्द्धे य एवंवेद
तासु सभं यज्ञस्यैव सभतायै। यद् ध वै किं च यज्ञस्य दुष्टुतं दुश्शस्त विधुरं तस्य ह वा एतत् सभतायै। सभम् अविभम् असद् इति ह वा एतेन स्तुवन्ति। साभं ह वा एतन् नाम॥
सभेन वै देवा असुराणां तेजो बलम् इन्द्रियं वीर्यं पशून् अन्नाद्यं सभेन सभम् आत्मानम् अध्यकुर्वत। तत् सभस्य सभत्वम्। सभेनैव द्विषतो भ्रातृव्यस्य तेजो बलम् इन्द्रियं वीर्यं पशून् अन्नाद्यं सभेन सभम् आत्मानम् अधिकुरुते य एवं वेद॥
प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। सो ऽकामयत न मत् पशवो ऽपक्रामेयुर् अभि मा वर्तेरन्न् इति। स एतत् सामापश्यन्। तेनास्तुत। ततो वै तं पशवो ऽभ्यावर्तन्त ततो ऽस्माद् अनपक्रामिणो ऽभवन्। सो ऽब्रवीत् सभो वै पशुभिर् अभूवम् इति। तद् व् एव सभस्य सभत्वम्। सभो हाविभः पशुभिर् भवति य एवं वेद॥
तद् उ काकुभं स्वारं भवति। प्राणो वै स्वारं पुरुषच्छन्दसं ककुभि। ज्यैष्ठ्यं वै प्राणो ज्यैष्ठयं पुरुषः। ज्यैष्ठ्येनैव तज् ज्यैष्ठ्यं संदधाति ज्यैष्ठ्येन ज्यैष्ठ्ये प्रतितिष्ठति। अथो यजमानम् एव तत् प्राणेन समृद्धयन्ति। सम् अस्मा ऋध्यते य एवं वेद॥
तान् एकरूपान्न व्यजानात्। स एतत् पौष्कलं सामापश्यत्। तेनैषां रूपाणि व्यकरोत्। ते नानारूपा अभवन् श्वेतो रोहितः कृष्णः। एकरूपा ह वाव ते ततः पुरासू रोहिता एव। बहुरूपान् नानारूपान् पशून् अवरुन्द्धे बहुपशुर् भवति य एवं वेद॥
अथ पौष्कलम्। पुष्कल आङ्गिरसः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ पुष्कल आङ्गिरसो ऽपश्यत् तस्मात् पौष्कलम् इत्य् आख्यायते। तच् चतुरक्षरणिधनं भवति। चतुष्पदा वै पशवः। पशव इव उष्णिक्। अभि पूर्वाणाम् एव पशूनाम् अवरुद्ध्यै
यद् यथापूर्वं छन्दांस्य उपेयुर् अनुष्टुभ उत्तमाः कुर्युः। वाग् वा अनुष्टुप्। तां वै यज्ञाद् बहिर्धा कुर्युः। ताम् एवैतद्यज्ञस्य मध्यत आभजन्ति। ता एता भवन्ति पुरोजिती वो अन्धसः इति। पुरस्ताद् ध वा एताः पाप्मानं जयन्ति पुरस्तात् पाप्मानम् अपघ्नन्त्यो यन्ति। जितं ह वा एताभिः। विजितम् अन्ववस्यति
सुतायमादयित्नवे।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियम्॥
इति। दीर्घजिह्वी ह वा असुर्य् आस। सा ह स्म सोमंसोमम् अवलेढि। उत्तरे ह समुद्र आस। स यो ह स्म दक्षिणे समुद्रे सूयते यः पूर्वे यो ऽपरे तं ह स्म तत एवावलेढि। तां हेन्द्रो जिघृक्षन् न शशाक गृहीतमुम्। स होवाच मा कश् चन यष्टेयं वै दीरघजिह्वी सोमंसोमम् एवावलढीति
अथ ह सुमित्रः कौत्सो दर्शनीय आस। स तं होवाच सुमित्र दर्शनीयो वा असि। सुलापा वै दर्शनीयेन स्त्रियः। इमां दीर्घजिह्वीं लिलापयिषस्वेति। तां हेत्योवाच दीर्घजिह्वि कामयस्व मेति। सा होवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति। स ह पुनर् एत्योवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति वै माम् इयम् आहेति। अङ्गेऽङ्गे वा अहं तव शेपांसि करोमीति होवाच। तानि हाभिप्रावृत्येयाय। तां होवाच दीर्घजिह्वि कामयस्व मेति। सा होवाचैकं तव शेपो ऽङ्गेऽङ्गे मम मुष्का न वै तत् संपद्यत इति। अङ्गेऽङ्गे वाव मम शेपांसीति होवाच। अङ्ग ते पश्यानीति
तानि हास्यै दर्शयांचकार। तानि हास्यै छन्दयांचक्रुः। स वा एहीति होवाच। को नामासीति। सुमित्रो नामेति। कल्याणं वै ते नामेति होवाच। तौ ह संनिपाते। तस्यां ह यदार्थं चक्रे ऽथ हैनां तद् एवाभिसंजग्राह। सा होवाच नन्व् अरे त्वं सुमित्रो ऽवोचथा इति। स होवाच सुमित्र एवाह सुमित्रायास्मि दुर्मित्रो दुर्मित्रायेति॥
स एतानि सौमित्राणि सामान्य् अपश्यत्। तैर अस्तुत। तैर् इन्द्रम् आह्वयत्। स इन्द्र एताम् अनुष्टुभं वज्रम् उद्यत्याद्रवत्
पुरोजिती वो अन्धसस् सुताय मादयित्नवे।
अप श्वानं श्नथिष्टन सखायो दीर्घजिह्वियम्॥
इत्य् एवास्यै प्राहन्। ता एता भ्रातृव्यघ्न्यो रक्षोघ्न्य ऋचः। हन्ति द्विषन्तं भ्रातृव्यम् अप रक्षः पाप्मानं हत एताभिर् ऋग्भिस् तुष्टुवानः॥
यो धारया पावकया परिप्रस्यन्दते सुतः।
इन्दुर् अश्वो न कृत्वियः॥
तं दुरोषम् अभी नरस् सोमं विश्वाच्या धिया।
यज्ञाय सन्त्व् अद्रयः॥
इति। पूर्वयोर् एवैष सवनयोर् अभिसंक्रमः॥
तासु श्यावाश्वम्। श्यावाश्वं वा आर्चनानसं समिद्धारं परेतं प्रतिसत्त्रिणो हित्वा स्वर्गं लोकम् आयन्। सो ऽकामयतानूत्पतेयं स्वर्गं लोकं प्रतिसत्त्रिभिस् संगच्छेयेति। स एतत् सामापश्यत्। तेनास्तुत
पुरोजिती वो अन्धस एह्या।सूताय मादयित्नवा एह्या। आपश्वानं श्नाथीष्टाना। तम् ऐहो वा एह्या इत्य् एव मरुतस् स्वर्गे लोक उपाह्वयन्त। ततो वै स प्रतिसत्त्रिभिस् समगच्छत। स हैष मरुद्भिर् एव सह श्यावाश्वः। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद। यद् उ श्यावाश्व आर्चनानसो ऽपश्यत् तस्माच् छ्यावाश्वम् इत्य् आख्यायते॥
इन्द्रो वै तृतीयसवनाद् बीभत्समान उदक्रामत्। धीतम् इव ह्य् आसीत्। तम् एतेन विश्वेदेवास् साम्नाह्वयन्त ओहोइया इति। ततो वा इन्द्रस् तृतीयसवनम् उपावर्तत। ततो ऽस्माद् अनपक्रम्य् अभवत्। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवति। अभ्य् अस्येन्द्रो यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपक्रामति य एवं वेद।
तत् स्वारं भवति। प्राणो वै स्वरः। वीव वा एते प्राणैर् ऋध्यन्ते य यज्ञीयस्य कर्मणो ऽतिपादयन्ति यद् वा नातिपादयन्ति। को हि तद् वेद यदि ते ऽति वा पादयन्ति न वा। तद् यत् स्वारं भवति प्राणैर् एव तत् समृध्यन्ते
अथान्धीगवम्। मध्येनिधनं भवति। प्रतिष्ठायै। समुद्रं वा एते ऽनारम्भणं प्रप्लवन्ते य आर्भवं पवमानम् उपयन्ति। तद् यन् मध्येनिधनं भवति प्रतिष्ठित्या एव। तद् यथा वा अदस् समुद्रं प्रस्नाय द्वीपं वित्त्वोपोत्स्नाय विश्राम्यन्न् आस्त एवं ह वा एतन् निधनम् उपेत्य कामं विश्राम्यन्त आसीरन्न् अस्तुवानाः॥
तद् ऐळं भवति। पशवो वा इळा पशवः कृत्स्नम् अन्नाद्यम्। यो वा अनवसो ऽध्वानं प्रैति नैनं स समश्नुते। अथ यस् सावसः प्रैति स एवैनं समश्नुते॥
अयं वाव समुद्रो ऽनारम्भणो यद् इदम् अन्तरिक्षम्। तस्य नानवसेनेत्थं गतिर् अस्ति नेत्थम्। तद् एतत् पशून् एव कृत्स्नम् अन्नाद्यम् अवसं कृत्वा यन्ति॥
शाक्त्या अन्नाद्यकामा अदीक्षन्त। स एतद् अन्धीगुश् शाक्त्यस् सामापश्यत्। तेनास्तुत। तस्यैतां दशाक्षरां विराजं मध्यत् उपैत्। दशाक्षरा विराड् अन्नं विराट्। ततो वै ते विराजम् अन्नाद्यम् अवारुन्धत। तद् एतद् विराजो ऽन्नाद्यस्यावरुद्धिस् साम। अव विराजम् अन्नाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद। यद् व् अन्धीगुश् शाक्त्यो ऽपश्यत् तस्माद् आन्धीगवम् इत्य् आख्यायते
अथैता भवन्ति अभि प्रियाणि पवते चनोहितः इति। प्रजापतिः प्रजा असृजत। ता अप्राणा असृजत। ताभ्य एताभिर् एवर्ग्भिः प्राणान् अदधात्। अभि प्रियाणि पवते चनोहितः इति। प्रजायै वै प्रियंश्ना अभि इत्य् एव प्राणेनाभ्यपवत। नामानि यह्वो अधि येषु वर्धते इति। महा वै प्रजानामानि। आ सूर्यस्य बृहतो बृहन्न् अधि रथं विष्वञ्चम् अरुहद् विचक्षणः इति। प्राणो वै विष्वङ्। सो ऽयं विष्व् अञ्चति। ता एता आयुष्या ऋचः। सर्वम् आयुर् एत्य् एताभिर् ऋग्भिस् तुष्टुवानःः॥
तासु कावम्। कविर् वै भार्गवो देवेष्व् अमर्त्यं गन्धर्वलोकम् ऐच्छत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स देवेष्व् अमर्त्यं गन्धर्वलोकम् आश्नुत। तद् एतत् लोकवित् साम। अश्नुते देवेष्व् अमर्त्यं गन्धर्वलोकम् एतेन तुष्टुवानः। यद् उ कविर् भार्गवो ऽपश्यत् तस्मात् कावम् इत्य् आख्यायते॥
तत् स्वारं भवति। स्वरेण वै देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयत ऋक्साम पवमानान्ते भवति। नर्चा सामानि रेचयन्ति नर्चं साम्ना। तद् यद् इहेव चेहेव च पवमानेन स्तुवन्ति तद् एतस्यैव समतायै समं क्लृप्त्यै। पदानुस्वारं पुरस्ताद् गायत्रं भवति पदानुस्वारम् उपरिष्टात् पवमानान्ते। तस्माद् उभयतः प्राणाः प्रजा ऊर्ध्वाश् चावाचीश् च॥
यां ह खलु वै पितापुत्रौ नावम् अजतो न सा रिष्यति। दैव्य् एषा नौर् यद् यज्ञः। ताव् एतत् पितापुत्राव् एवाजतः। औशनं पुरस्ताद् भवति कावम् उपरिष्टाद् यज्ञस्यैवारिष्ट्यै। तस्माद् यद् अदाशा नावम् अधिरोहन्ति पितापुत्रौ हैवाग्रे ऽधिरोहतः॥
पञ्चैतानि छन्दांस्य् आर्भवे पवमाने भवन्ति सप्त सामानि। तद् द्वादश संपद्यन्ते। द्वादश मासास् संवत्सरः। पञ्चो वा एवामूनि सामानि माध्यंदिने पवमाने भवन्ति। ऋतव एव सामा एवार्भवे पवमाने कल्पन्त ऋतवो माध्यंदिने। स हैष संवत्सर एव व्यूढो यद् यज्ञः
प्रजापतिर् ह खलु वा एष यस् संवत्सरः। स ह षण् मासो ऽन्यतरमन्यतरं पादम् उद्ग्राहं तिष्ठति। स यदोष्णम् उद्गृह्णात्य् अथ हेदम् उपर्य् उष्णो भवत्य् अध उ ह तदा शीतो भवति। तस्माद् ग्रीष्म उपर्य् उष्णो ऽधश् शीतम् अधिगम्यते। तस्माद् उ ग्रीष्म शीताः कूप्या अप उदाहरन्ति। अथ यदा शीतम् उद्गृह्णात्य् अथ हेदम् उपरि शीतो भवत्य् अध उ ह तदोष्णो भवति। तस्माद् धेमन्न् उपरि शीतो ऽध उष्णम् अधिगम्यते। तस्माद् उ हेमन्न् उष्णाः कूप्या अप उदाहरन्ति। एवं ह वा एष प्रजापतिस् संवत्सरः प्रजा बिभर्ति॥
अथ ह वा एतं सौम्यं चरुम् आहरन्ति। यद् ध वा उद्गातुर् यज्ञ ऊनं वातिरिक्तं वा कुर्वतो मीयते यमलोकं ह वा अस्य तद् गच्छति। तद् धापि मृतोदीरिण आहुर् यमस्यैतत् सभायाम् अपश्याम इति। तद् एतेन पुनर् आह्रियते यद् एतं सौम्यं चरुम् आहरन्ति॥
तं हावेक्षेत
यन् मे मनो यमं गतं यद् वा मे अपरागतम्।
राज्ञा सोमेन तद् वयं पुनर् अस्मासु दध्मसि॥
मनसि मे चक्षुर् अधाश् चक्षुषि मे मनः॥
आयुष्मत्या ऋचो माच्छैत्सि मा साम्नो भागधेयाद् वियोषम्॥
इति। तद् धापि छायां पर्यवेक्षेतात्मनो ऽप्रणाशाय॥
अथो सर्पिषोर् अक्ष्योर् आदधीत चक्षुष आप्यायनाय। तद् अपि विज्ञानम् आसाद्। य आत्मानं न परिपश्येद् अपेतासुस् स स्यात्। तस्मात् सत्याद् अप्य् आज्यं भूय आनीय पर्य् एवात्मानं दिदृक्षेत सर्वस्यायुषो ऽवरुद्ध्यै
अङ्गिरसां वै सत्त्रम् आसीनानां शर्करा अक्षिष्व् अजायन्त। ते ऽकामयन्तान्धास् स्याम प्रपश्येमेति। स एतं सौम्यं श्यामं चरुम् अक्षिष्व् आदधत। तम् एतेन मन्त्रेणादधत
येन ह्य् आजिम् अजयन् नृचक्षा येन श्येनं शकुनं सुपर्णम्।
यद् आहुश् चक्षुर् अदिताव् अनन्तं सोमो नृचक्षा मयि तद् दधातु॥
इति। ततो वै ते ऽनन्धा अभवन् प्रापश्यन्। अनन्धो हैव भवति प्रपश्यति य एवं वेद॥
तद् आहुः प्राश्या3 न प्राश्या3 इति। स यो ऽनूचानस् सन्न् अयश ऋतस् स्यात् स हि तं प्राश्नीयात्। अनूचाना इह वा अलं यशसे। स यो ऽनूचानस् सन्न् अयश ऋतो भवति - अमुं ह वै तस्य लोकं यशो गतं भवति -- तद् एतेन पुनर् आह्रियते। यद् एतं सौम्यं श्यामं चरुं प्राश्नाति तद् उ होवाच शाट्यायनिर् नैवैष प्राश्यः कस् ततो यश आहरेद् यत्र भूयसी रात्री वत्स्यन् स्याद् इति। तस्माद् उ हैतन्नैव प्राश्नीयात्
तुरीयं वा एतत् साम्नः। सामन्न् एवैतद् यज्ञं प्रतिष्ठापयन्ति। तनूर् वा एषा साम्नाम्। सतनून्य् एवैतद् सामानि कुर्वन्ति। यो ह वा एतस्मात् साम्न इयाद् दुश्चर्मा वा स्यात् पापी वैनं कीर्त्तिर् अभिवदेत्॥
गायत्री वा एषा वयो भूत्वोदेति। दिवम् अपतत्। अनुष्टुभि वा एतस्यै सते दिशश् शुक्लम् अहरन्। शुक्लहृता अस्मै प्रजा भवन्ति। दिग्भ्यो ऽस्मै शुक्लो ह्रियते य एवं वेद॥
वयो यज्ञा वो अग्नये इति प्रस्तौति। ओ यिरा यिरा च दक्षसे पोप्रिं वयम् अमृतं जातोवाहोयिविदोसम् इति प्रतिहरति। यज्ञा इति द्वे अक्षरे गिरा इति द्वे पोप्रिम् इति द्वे। तत् षट् संपद्यन्ते। षडक्षरस् तूष्णींशंसः। तूष्णींशंस एवैतद् आग्निमारुते विमुच्यन्ते। स ह्य् अन्तः॥
अग्निर् वैश्वानरः प्रजा अभ्युदतिष्ठत्। स इदं सर्वं प्रातपत्। तस्य देवा प्रदाहाद् अबिभयुः। ते ऽब्रुवन् सर्वं वा अयम् इदं प्रधक्ष्यति --
-- एतस्य हरो ऽपैरयामेति। तस्य हरो ऽपैरयम्। तद् यत् प्रथमम् अपैरयंस् तस्मिन् व्यवदन्त क्वेदं भविष्यतीति। यज्ञेयज्ञे नो भविष्यतीत्य् अब्रुवन्। तद् यज्ञायज्ञीयम् अभवत्। तद् यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम्॥
यद् द्वितीयम् अपैरयंस् तत् नार्मेधम् अभवत्। यत् तृतीयम् अपैरयंस् तद् दाशस्पत्यम् अभवत्। यच् चतुर्थम् अपैरयंस् तद् विशोविशीयम् अभवत्। यत्पञ्चमम् अपैरयंस् तद् वारवन्तीयम् अभवत्॥
अग्निर् वा एष वैश्वानरो यद् यज्ञः। तद्वद् एतान्य अग्निष्टोमसामानि भवन्ति। हरस्यैवैतद् अग्निं वैश्वानरं प्रतिष्ठापयन्ति
नार्मेधं नाथकामः कुर्वीत। नृमेधश् च वै सुव्रतश् च भ्रातरौ। तौ ह निकात्वियादधाते। स ह नृमेधस् सुव्रतस्योज्जगौ। तद् ध यज्ञायज्ञीयेनैवास्तुतम् आस। अथ हैनम् आसस्रुः। यजमानस्य वै त उद्गातुः पुत्रौ पुत्रम् अमीमरताम् अन्तकधृतिं सौव्रतिं नकिरश् च शकपूतश् चेति। तं ह बाहू परामृशन्न् उवाच ब्राह्मणा एष वो यज्ञस् तेन यं कामयन्ते तं याजयतानेन न्वा अहं तद् याजयिष्य इति। तं हौदुम्बर्याम् अनुवेष्ट्य शणशलाकाभिर् उपादीपयांचकार। सो ऽकामयतोद् इत इयां गातुं नाथं विन्देय न मायम् अग्निर् दहेद् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स गातुं नाथम् अविन्दत नैनम् अग्निर् अदहत्। अपि ह तच् छुल्बकं प्रददाह येनानुवेष्टित आस। तद् एतद् गातुविन् नाथवित् साम। गातुं वै स नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद। यद् उ नृमेधो ऽपश्यत् तस्मान् नार्मेधम् इत्य् आख्यायते
दाशस्पत्यं श्रैष्ठ्यकामः कुर्वीत। देवासुरा अस्पर्धन्त। ते देवा इन्द्रम् उपाधावंस् त्वयाधिपत्येदं जयामेति। स इन्द्रो ऽकामयत जयेमासुरान् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै देवा असुरान् अजयन्। तस्मै विजित्यासीनाय दशपतये - दशपतय आ इत्य् अवोद्धारान् उदहरन्। तद् एव दाशस्पत्यस्य दाशस्पत्यत्वम्। उद्धारं हरत उद्धार्यो भवति य एवं वेद॥
विशोविशीयम् अन्नाद्यकाम कुर्वीत। अग्निर् वा अकामयत विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिस् स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिर् अभवत्। तत एनम् विशोविशो व्यवाहरन्त। तद् यद् एनं विशोविशो व्यवहरन्ति तद् विशोविशीयस्य विशोविशीयत्वम्। स हैष विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिः। विशोविश एवान्नादश् श्रेष्ठो ऽधिपतिर् भवति य एवं वेद॥
वारवन्तीयं पशुकामः कुर्वीत। प्रजापतिः पशून् असृजत। ते ऽस्मात् सृष्टा अपाक्रामन्। तान् वारवन्तीयेनैवावारयत। यद् अवारयत तद् वारवन्तीयस्य वारवन्तीयत्वम्। तद् यद् वारवन्तीयम् अग्निष्टोमसाम भवति पशूनाम एवोपस्थित्यै पशूनाम् अनपक्रमाय
यो वै यज्ञस्योधर् वेद प्रत्तं यज्ञं दुहे। यज्ञायज्ञीयं वा यज्ञस्योधः। तस्यैते स्तना गायत्रं रथन्तरं च बृहच् च वामदेव्यं च। तद् गायत्रम् इव प्रस्तुयात्। रथन्तरस्येव स्तोभान् स्तोभेत्। बृहत इव रोहान् रोहत्। हिंकारो वामदेव्यं स्वयम् एव यज्ञायज्ञीयम्। एतद् वै यज्ञं यजमानो दुहे। स हेष्ट्वैव श्रेयान् भवति। यज्ञायज्ञा वो अग्नये इति भवति। एष ह वै यज्ञोयज्ञो यद् यज्ञायज्ञीयम्। यज्ञंयज्ञं वहतीति ह वै यज्ञायज्ञीयस्य यज्ञायज्ञीयत्वम्॥
एतेन ह स्म वै पुरा सर्वाणि स्तोत्राणि स्तुवन्ति। तद् आहुर् ऊर्ध्वा वा एते स्वर्गं लोकं रोहन्ति ये यजन्ते। त ईश्वराः पराञ्चो ऽतिपत्तोर् इति तद् यज्ञायज्ञीयेनोपरिष्टात् स्तुवन्ति। इयं वै यज्ञायज्ञीयम्। अस्याम् एवैतत् प्रतितिष्ठन्ति। अप उपनिधाय स्तुवन्ति -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीयं -- तस्य शान्त्या अप्रदाहाय॥
ऊरुभ्यां पत्न्य् उपप्रवर्तयति। अग्निम् एव तद् वैश्वानरं शमयति। नग्नम् इवोरुं कृत्वोपप्रवर्तयति। नग्नम् इव ह्य् ऊरुं कृत्वा पत्नी वीर्यं करोति। तां संख्यापयन्ति रेतोधेयाय। तद् आहुर् आ वा एतत् प्रत्युद्गातुः प्रजां दत्ते यद् विगीते सामन् संख्यापयन्तीति
तां प्रतिसमीक्षेत वामी नाम संदृशि विश्वा वामानि धीमहि इति। प्रजा वै वामम्। प्रजाम् एव तद् आत्मन् धत्ते। वृष्णस् ते वृष्ण्यावतो विश्वा रेतांसि धीमहि इतीतरा प्रतिसमीक्षते॥
तद् आहुः प्रावृत उद्गायेत् -- अग्निर् वा एष वैश्वानरो यद् यज्ञायज्ञीय - तस्य शान्त्या अप्रदाहायेति। ईश्वरो ह तु पितृदेवत्यो भवितोर् यत् प्रावृत उद्गायेत्। अथो आहुर् यावद् एव श्रोत्रं तावत् प्रावृत्योद्गायेद् इति। तद् उ वा आहुः कर्णाभ्यां वै शृणोत्य् अक्षिभ्यां पश्यति। तस्माद् आत्मानम् अन्तर्याद् यत् प्रावृत उद्गायेत्। अथो आशिरं वै तृतीये सवने ऽवनयन्ति। प्रजा वै पशव आशीः। तस्मात् सर्वस्माद् आत्मानम् अन्तर्यात् प्रावृत उद्गायेत्। अप्रावृत एवोद्गायेद् इति
वयो वै यज्ञायज्ञीयम्। स यं कामयेत यजमानं स्वर्गलोकस् स्याद् इति वयो यज्ञा वो अग्नये इत्य् अस्य प्रस्तुयात्। वय एवैनं शकुनो भूत्वा स्वर्गं लोकं वहति। तद् उ तद् अनायुष्यम् इव। प्रधमितम् इव वा एतद् यद् वयो ऽनालयम् इव। तस्माद् एवं न प्रस्तुयात्॥
ओ यिरा यिरा चा दाक्षासा इति यत् गिरा गिरा च इति ब्रूयाद् अग्निर् वैश्वानरो यजमानं गिरेत्। अथ यत् ओ यिरा यिरा चा दाक्षासा इत्य् आह - अन्नं वा इरा - अन्नाद्यम् एव तद् अग्नेर् वैश्वानरस्य मुखतो ऽपिदधाति। ईश्वरो ह तु रूक्षो भवितोर् यद् ओ यिरा यिरा चा दाक्षासा इति ब्रूयात्। ओ यिरा इहा चा दाक्षासा इत्य् एव ब्रूयात्
तथा ह न रूक्षो भवति॥
एतद् ध स्म वै तत् पूर्वे ब्राह्मणा मीमांसन्ते क उ स्विद् अद्य शिंशुमार्यै व्यात्तम् अतिप्रोष्यत इति। एषा ह वा एकायने शिंशुमारी प्रतीपं व्यादाय तिष्ठति यद् यज्ञायज्ञीयम्। तस्या एतद् अन्नाद्यम् एव मुखतो ऽपिधाय स्वस्त्य् अत्येति॥
पोप्रिं वयम् अमृतं जातो वा इति। यत् प्रप्र वयम् इति ब्रूयात् प्रमायुको यजमानस् स्यात्। अथ यत् पोप्रिम् इत्य् आहैष एवास्मै पोप्रिर् भवति॥
हिं मायि दायिवम् इति। यत् दासम् इति ब्रूयाद् दंसुको यजमानस् स्यात्। अथ यत् दायिवम् इत्य् आह - दिवं संस्तुतो यज्ञो गमयितव्य इत्य् आहुः - दिवम् एवैतत् संस्तुतं यज्ञं गमयन्ति॥
प्रियं मित्रं नु शंसिषम् इति। यत् प्रियं मित्रं न शंसिषम् इति ब्रूयान् न प्रियं मित्रं शंसेत। अथ यत् प्रियं मित्रं नु शंसिषम् इत्य् आह प्रियम् एव मित्रं शंसते
प्रायां मायित्रान् नू शांसीषाम् ऊर्जो नपातं स ह्य् आयुमा इति। यत् नायुमा इति ब्रूयान् नायुष्मान् यजमानस् स्यात्। अथ यत् आयुमा इत्य् आहायुर् एवैतद् उद्गातात्मंश् च यजमाने च दधाति॥
हिं मायास्मायूः आशेमा हव्यदातायाउवा इति। यत् दाशेम इति ब्रूयाद् दंशुका एनं स्युः। अथ यद् आशेमा इत्य् आहाश्नुत एव॥
आशेमा हाव्यादातायायि भुवद् वाजेष्व् अविता भूवाद् धिं मायि वार्धा इति। वृद्ध इव ह्य् एतर्हि यज्ञो भवति॥
उत त्राता बहूनाम् इति। यत् तनूनाम् इति ब्रूयात् तनुर् इव यजमानस् स्यात्। अथ यत् बहूनाम् इत्य् आह बहूनाम् एवैनम् एतत् त्रातारं करोति
तद् आहुर् यज्ञायज्ञीयस्यैकाद् अक्षराद् ऊना ऋचः। तद् यज्ञस्य छिद्रम्। यस् तद् उद्गायन् नापिदधाति यज्ञायज्ञीयं छिद्रं करोति। यज्ञायज्ञीयं छिद्रम् अनु यज्ञस् स्रवति यज्ञम् अनु यजमानो यजमानम् अनु प्रजाः। तस्मिन् वाचं दध्यात्। वाग् वै ब्रह्म। उत त्राता वाग् बहूनाउवा इति। गौः इति हैके दधति - गौर् वै कृत्स्नम् अन्नाद्यम् - कृत्स्नस्यैवान्नाद्यस्यावरुद्ध्यै। तद् आहुर् नैतद् आद्रियत। यद् वाव वाङ्निधनं भवति तेनैव संधीयत इति॥
तद् आहुर् यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यानि छन्दसां क्लृप्तिं विमुक्तिम् अनु प्रजाः कल्पान्ता इति। यज्ञा वो अग्नये इति षड्भिर् अक्षरैः प्रस्तौति। गिरा च दक्षसे इति षड्भिर् अक्षरैर् आदिम् आदत्ते। तद् द्वादश संपद्यन्ते। द्वादशाक्षरा जगती। जगतीं प्रथमतः पर्यूहन्ति। तज् जगत्या विमुच्यन्ते। प्र वयम् अमृतं जातवेदसम् इत्य् एकादशाक्षराणि संपद्यन्ते। एकादशाक्षरा त्रिष्टुप्। तत् त्रिष्टुभा विमुच्यन्ते। प्रियं मित्रं नु शंसिषम् इत्य् अष्टाभिर् अक्षरैर् निधनम् उपयन्ति। अष्टाक्षरा गायत्री। तद् गायत्र्या विमुच्यन्त। तद् यथापूर्वं यथाज्यैष्ठ्यं छन्दांसि विमुच्यमानानि यन्ति। छन्दसां क्लृप्तिं विमुक्तिम् अनु प्रजाः कल्पन्ते नापरामारी पूर्वी म्रियते
देवासुरा यज्ञे ऽस्पर्धन्त। ते देवा असुरान् यज्ञान् निरवाघ्नन्। ते ऽसुरास् त्रयाणां सवनानां रसं वीर्यं प्रवृह्यान्धं तमः प्राविशन्। यद् ध वै किं च पराचीनम् अग्निष्टोमात् तद् अन्धं तमः। यत् पराचीनं संवत्सरात् तद् अन्धं तमः। एतावान् वाव यज्ञो यावान् अग्निष्टोमः। एतावान् उ संवत्सरः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासास् संवत्सरः। द्वादश स्तोत्राणि द्वादश शस्त्राणि। द्वादश पूर्वपक्षा द्वादशापरपक्षाः। अथ यत् ततः पराचीनं तद् अन्धं तमः। तत् प्राविशन्। ते देवा असुरान् अन्वभ्यवायन्। तान् असुरान् एतैर् एवोक्थैः प्रत्युदतिष्ठन्। यद् उक्थैः प्रत्युदतिष्ठंस् तद् उक्थानाम् उक्थत्वम्। तांस् ततो निर् एवावाघ्नन्। ते ऽन्धम् एव तमः प्राविशन्। रात्रिम् एव॥
स इन्द्रो ऽब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति
अहं चेत्य अब्रवीद् वरुणः। अहं वां ज्योतिर् धारयिष्यामीत्य् अग्निर् अब्रवीत्। ताव् अन्वभ्यवैताम्। ताव् एकं तृतीयम् उदाहरताम्। तेन प्रातस्सवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावरुणम् अनुशस्यते। तस्माद् उ गायत्रीषु स्तुवन्ति। गायत्रं हि प्रातस्सवनम्॥
स एवाब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति। अहं चेत्य् अब्रवीद् बृहस्पतिः। ताव् अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन माध्यन्दिनं सवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्राबार्हस्पत्यम् अनुशस्यते। तस्माद् उ ककुप्सु स्तुवन्ति। काकुभं हि माध्यंदिनं सवनम्॥
स एवाब्रवीत् कश् चाहं चेदम् अन्वभ्यवैष्याव इति। अहं चेत्य् अब्रवीद् विष्णुः। ताव् अन्वभ्यवैताम्। ताव् एवैकं तृतीयम् उदाहरताम्। तेन तृतीयसवनम् आप्याययन्। तस्माद् ऐन्द्रीषु स्तुवन्ति। ऐन्द्रावैष्णवम् अनुशस्यते। तस्माद् अनुष्टुप्सु स्तुवन्ति। आनुष्टुभं हि तृतीयसवनम्॥
तान् सर्वस्माद् एवान्तरायन्। ते ऽतो तद् अभि प्रणयन्तीति प्रवतीभ्यः प्रणयन्त्य् एहिवतीषु। प्रेति च वा इदं सर्वम् एति च। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद
तानि वा एतानि त्रीणि सन्ति द्विदेवत्यान्य् ऐन्द्रावारुणम् ऐन्द्राबार्हस्पत्यम् ऐन्द्रावैष्णवम् इति। एतावतैताष् षड् कामदुघा उदाहरन् गां चाश्वं चाजां चाविं च व्रीहिं च यवं च। उपैनम् एताष् षट् कामदुघास् तिष्ठन्ति य एवं वेद॥
एतावान् वाव यज्ञो यावान् अग्निष्टोमः। तद् आहुर् यद् एतावान् एव यज्ञो यावान् अग्निष्टोमस् तस्मिन्न् अन्तर्गते किम् अभ्युक्तानि प्रणयन्तीति। स ब्रूयाद् यज्ञायज्ञीयस्यैकाद् अक्षराद् ऊना ऋचः। तद् यज्ञस्य छिद्रं तद् अभिप्रणयन्तीति। प्रवतीभ्यः प्रणयन्त्य् एहिवतीषु। प्रेति च वा इदं सर्वम् एति च। यज्ञम् एवास्मिंस् तत् सम्यञ्चं दधाति॥
आग्नेयीषु प्रणयन्त्य् आग्नेयीभ्यः। यथाग्नाव् अग्नीन् अभिसमादध्यात् तादृक् तत्। यो वा एकम् अग्निं सन्तं बहुधा विहरेद् बहवस् स्युः। य एनान् बहून् सतस् सार्धं संहरेद् एक एव स्यात्। स यथाग्नाव् अग्नीन् अभिसमादध्यात् तादृक् तत्
तासु साकमश्वम्। देवा वै स्वर्गकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। तद् एनान् अश्व एव भूत्वा स्वर्गं लोकम् अवहत्। ते ऽब्रुवन् स्वर्गं लोकं गत्वा साकं वा अश्वेन स्वर्गं लोकम् अगन्मेति। तद् एव साकमश्वस्य साकमश्वत्वम्। तद् एतत् स्वर्ग्यं साम। अश्नुते स्वर्गं लोकं य एवं वेद॥
प्रमंहिष्ठीयं भ्रातृव्यवान् कुर्वीत। इन्द्रो वृत्राय वज्रम् उदयच्छत्। तं नाशक्नोत् प्रहर्तुम्। स यदैव प्र इत्य् अपश्यद् अथैनम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। यद् उ प्र इत्य् अपश्यत् तस्मात् प्रमंहिष्ठीयम् इत्य् आख्यायते॥
सत्रासाहीयं कुर्वीत यस्य त्वद् इवाजितं स्यात्। इन्द्रो ऽसुरान् अजयत्। तेषां त्वान् इव नाजयत्। सो ऽकामयत सत्रा सर्वान् असुरान् सहेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेन सत्रा सर्वान् असुरान् असहत। तद् यत् सत्रा सर्वान् असुरान् असहत तत् सत्रासाहीयस्य सत्रासाहीयत्वम्। सत्रा द्विषन्तं भ्रातृव्यं सहते य एवं वेद॥
दैवोदासं पुरोधाकामः कुर्वीत। आग्नेयो ब्राह्मण ऐन्द्रो राजन्यः। आग्नेयैन्द्रम् एतत् साम। ब्रह्म वा अग्निः क्षत्रम् इन्द्रः। ब्रह्मणैवैतत् क्षत्रं दधार क्षत्रेण ब्रह्म। तथा हास्माद् राष्ट्रम् अनपक्रामि भवति गच्छति पुरोधां पुर एनं दधते
हारिवर्णं ब्रह्मसाम रक्षोगृहीतः कुर्वीत। आङ्गिरसस् स्वर्गं लोकं यत एभ्यो लोकेभ्यो रक्षांस्य् अन्वसचन्त। ते ऽकामयन्ताप रक्षांसि हनीमहीति। स एतद् धरिवर्ण आङ्गिरसस् सामापश्यत्। तेनास्तुत। तेनैभ्यो लोकेभ्यो रक्षांस्य् अपाघ्नत। हरिश्रियम् इत्य् एवास्माल् लोकात् विराजसि इत्य् अन्तरिक्षात् दिवेदिवे इत्य् अमुष्मात्। ततो वै ते सर्वेभ्य एभ्यो लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहन्। सर्वेभ्य एवैभ्यो लोकेभ्यो रक्षांस्य् अपहत्य स्वर्गं लोकम् आरोहति य एवं वेद। यद् उ हरिवर्ण आङ्गिरसो ऽपश्यत् तस्माद् धारिवर्णम् इत्य् आख्यायते
त्रैतं नाथकामः कुर्वीत। आप्त्यान् साते नयतो ऽरण्ये पिपासाविन्दत्। ते धन्वन् कूपम् अविन्दन्। तन् नैकतो ऽवरोढुम् अकामयत न द्वितः। तत् त्रितो ऽवारोहत्। तौ यदापिबताम् अतृप्यताम् अथ हैनं तद् एव रथचक्रेणापिधाय गोभिः प्रैताम्। सो ऽकामयतोद् इत इयां गातुं नाथं विन्देयेति। स एतत् सामापश्यत्। तेनास्तुत। स सम् इन्दुभिः इत्य् एव निधनम् उपैत्। तं पर्जन्यो वृष्ट्योर्ध्वम् उदप्लावयत्। अभि हि तद् रथचक्रम् उत्प्लावयांचकार येनापिहित आस। तद् एतद् गातुविन् नाथवित् साम। गातुं वै स तं नाथम् अविन्दत। विन्दते गातुं नाथं य एवं वेद॥
स पदेनान्वैत्। तं प्रतिख्यायायन्तम् ऋक्षो ऽन्यो भूत्वा मर्कटो ऽन्यो वनम् अवास्कन्दताम्। तद् उ भ्रातृव्यहा साम। भ्रातृव्यतां वाव तस्य ताव् अगच्छतां याव् ऋक्षं च मर्कटं चाकरोत्। अथो हास्मै वर्षुक एव पर्जन्यो भवति। तद् उ पशव्यम् एव। केवलान् वै स तान् पशून् अकुरुत। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद॥
यद् उ त्रित आप्त्यो ऽपश्यत् तस्मात् त्रैतम् इत्य् आख्यायते
त्रैककुभम् अन्नाद्यकामः कुर्वीत। इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत्। तेषाम् अद्यमानानां त्रयः कुमाराः पर्यशिष्यन्त रायोवाजः पृथुरश्मिर् बृहद्गिरिः। त इन्द्रम् अस्तुवन्। तान् अब्रवीत् किंकामाः कुमारास् स्तुथेति। बिभृह्य् एव नो मघवन्न् इत्य् अब्रुवन्। तान् अन्तरांसयोर् अध्यास्यत। ता अस्य तिस्रः ककुभो ऽलम्बन्त। इमे वै लोकास् सह सन्तस् त्रेधा व्यायन्। तांस् ते सान्नाद्यम् अनुव्यैनो उ। एषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवलम्बत। स ऐक्षतैषां चेद् वै त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवारुन्धते नेमास् तिस्रः ककुभो ऽन्नाद्यम् ऽवहरेयेति। स एतत् सामापश्यत्। तेनास्तुत। तेनैषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् ऽवारुन्धत। तेनेमास् तिस्रः ककुभो ऽवाहरत। तद् यद् एतेषां त्रयाणां लोकानां तिस्रः ककुभो ऽन्नाद्यम् अवारुन्धत तत् त्रैककुभस्य त्रैककुभत्वम्। तद् एतद् अन्नाद्यस्यावरुद्धिस् साम। अवानाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद
त्रीन्द्रियं वा एतत् साम। ऐन्द्रीर् ऋच ऐन्द्रस् साम। इन्द्रः इति निधनं भवति। त्रीणि पुरुष इन्द्रियाण्य् आत्मा प्रजाः पशवः। तान्य् एवैतेनात्मन् परिगृह्णीते॥
तान् अब्रवीत् किंकामो वा एकः किंकाम एकः किंकाम एक इति। सो ऽब्रवीद् रायोवाजः पशुकामो ऽहम् अस्मीति। तस्मा इळां प्रायच्छत्। पशवो वा इळा। अथाब्रवीत् पृथुरश्मिः क्षेत्रकामो ऽहम् अस्मीति। तस्मै क्षेत्रं प्रायच्छत्। स एव पृथुर् वैन्यः। अथाब्रवीद् बृहद्गिरिर् अन्नाद्यकामो ऽहम् अस्मीति। तस्मा अथकारं प्रायच्छत्। अन्नं वा अथकारः॥
सौभरं प्रजाकामः कुर्वीत। हुस् इति निधनम् उपेयात्। सौभरम् अन्नाद्यकामः कुर्वीत। ऊर्क् इति निधनम् उपेयात्। सौभरं वृष्टिकामः कुर्वीत। हिस् इति निधनम् उपेयात्। सौभरम् उद्ग्रहणकामः कुर्वीत्। उत् इति निधनम् उपेयात्। सौभरं स्वर्गकामः कुर्वीत। ऊ इति निधनम् उपेयात्॥
भारद्वाजायनान् ह सत्त्रम् आसीनान् पप्रच्छुः केन प्रजाकामा अस्तोढ्वम् इति। सौभरेणेति। केनान्नाद्यकामा इति। सौभरेणेति। केन वृष्टिकामा इति। सौभरेणेति। केनोद्ग्रहणकामा इति। सौभरेणेति। केन स्वर्गकामा इति। सौभरेणेति। एवम् इव वा एतत् साम। एते वा एतस्मिन् कामा। एतान् एव कामान् अवरुन्द्धे। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते
सौभरं ब्रह्मसाम कुर्वीत यः कामयेता मे प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं पुरुषरूपो जायेतेति। तेजो वै पुरुषस्य प्रजा तेजस् सौभरम्। बृहत् क्षत्रम्। बृहतः क्षत्रियस्यो एषा प्रजा। आ हैवास्य प्रजायां सूपकाशो दर्शनीयः क्षत्रियरूपं पुरुषरूपो जायते य एवं वेद॥
प्रजापतिः प्रजा असृजत। ता अस्य सृष्टाः पराभवन्। तद् इदं सरीसृपम् अभवद् यद् अन्यत् सर्पेभ्यः। स द्वितीया असृजत। ता अस्य परैवाभवन्। ते मत्स्या अभवन्। स तृतीया असृजत। ता अस्य परैवाभवन्। तानि वयांस्य् अभवन्। स चतुर्थीर् असृजत। स ऐक्षत कथं नु म इमाः प्रजास् सृष्टा न पराभवेयुर् इति। स एतत् सामापश्यत्। तेनैना ऊर्क् इत्य् एवाभ्यमृशत्। ता अस्योर्जा समक्ता अवर्धन्त। सो ऽब्रवीत् सुभृतं वा इमाः प्रजा अभार्षम् इति। तद् एव सौभरस्य सौभरत्वम्। सुभृतां प्रजां बिभर्ति य एवं वेद
नार्मेधेनातिरात्रे ऽच्छावाकाय स्तुवन्ति। इळया रात्रिम् अभिसंतन्वन्ति। तद् आहुर् यन्ति वा एते ऽनुष्टुभो य उष्णिक्ष्व् अच्छावाकसाम कुर्वन्तीति। अर्वाग् उष्णिहश् च खलु वा एतासाम् एका मध्य उष्णिग् एकापर उष्णिग् एका। नवधृतं छन्दो नवधृतं वाक् वदति। वाग् अनुष्टुप्। तेनानुष्टुभो न यन्ति। यैतासाम् उत्तमा सा प्रत्यक्षानुष्टुप्। तेनो वावानुष्टुभो न यन्ति। यथा ह वा इदं मधुकृतः पुष्पाणां रसान् संभरन्त्य् एवं ह वा एता देवताश् छन्दसां रसान् समभरन्। छन्दसां हास्य रसेन स्तुतं भवति य एवं वेद॥
अहोरात्रयोर् ह खलु वा एतद् रूपं साम। ऐन्द्राग्नेयं तत् साम। ऐन्द्रम् अहर् आग्नेयी रात्रिः। यो ह वा एतस्मात् साम्नो ऽतिरात्र इयाद् अहोरात्रयोर् ह वै स् रूपेण विवृह्येत। स य एनं तत्र ब्रूयाद् अहोरात्रयोर् एनं रूपेण व्यवृक्षद् इति तथा हैव स्यात्। तस्माद् उ हैतस्मात् साम्ना ऽतिरात्रे नैतव्यम्
क्षेपीयसी ह खलु वै रात्रिर् अह्नः। एहीळं भवत्य् अप्रवर्हाय॥
यद् ऋचश् च साम्नश् चात्यरिच्यत तद् उद्वंशीयम् अभवत्। स हर्चा च साम्ना च प्रतितिष्ठति य एवं वेद। तद् अनृशंसस्य कुर्यान् न नृशंसस्य - परिमितजीवी हि नृशंसो ऽतिरिक्तजीव्य् अनृशंसः - अतिरिक्तस्यैवावरुद्ध्यै। अथ ह वा एतेन देवास् साम्ना वंशम् इवोद्यत्यासुरान् अभ्यत्यक्रामन्। यद् उद्वंशम् इवोद्यत्यासुरान् अभ्यत्यक्रामंस् तद् उद्वंशीयम् अभवत्। तद् उद्वंशीयस्योद्वंशीयत्वम्। अभ्य् अजितं जयति न जितं पराजयते य एवं वेद॥
सर्वेषां वा एतत् पृष्ठानां रूपं साम गायन्ति त्वा गायत्रिणः इति गायत्रस्य अर्चन्त्य् अर्कम् अर्काविणा इति रथन्तरस्य ब्रह्माणस् त्वा होयि शतक्रताव् इति बृहतः उद्वंशम् इव यायिमिरायि इति वैरूपस्य उद् वंशामि इति पुनर् नित्तिन्वं वैराजस्य वायावुवाउम् इति महानाम्नीनां या इरा इति रेवतीनां हाई इति वामदेव्यस्य। सर्वस्मिन्न् एवैतत् पृष्ठरूपो रसे तेजस्य् अपराजिते छन्दसि यज्ञस्यान्ततः प्रतितिष्ठति
सर्वो ह खलु वै षोडशिमान्। यत्रोद्वंशीयं क्रियत उत्तमं पदं पुनर् अभ्यस्यति। षोडश्य् एव तेन रूपेण क्रियते। वज्रो वै भ्रातृव्याय षोडशी। वज्रम् एवैतद् द्विषते भ्रातृव्याय प्रहरति स्तृत्यै॥
तमो वै देवासुरान् अन्तरासीत्। ते देवा एतम् अर्धेळम् अपश्यन्। तेनैनद् द्वियानम्। यं द्विष्यात् तं मनसा ध्यायेत्। एतम् अर्धेळम् उपावयन्त्य् एव। एनम् एत्य् अध्यर्धेळं स्वरति तस्माद् धूपर्धरा अतिक्षरन्ति॥
अषाढो ह सावयसो ऽतिरात्रेणेजे। तद् उ हातिधन्वश् शौनकः प्रसुप्त आस। स होद्वंशीयम् अतिरात्रे ऽच्छावाकसाम चक्रे। तं होवाच मैवं कुरुत पलिप्तेळ स्वरः परस्ताद् अप्रतिष्ठितः पारिचर्यस्य रूपम् इति। स होवाच तां वै वयं कृत्स्नाम् इळाम् उपेत्य स्वरेणैव संतत्य रात्रिं प्रवत्स्यामहा इति। नेति हेतर उवाच। इन्द्रो वाव तेन साम्नासुरान् अन्वभ्यवैत्। ते बलं स्वरं विदित्वा प्रत्याद्रवन्। तं प्राकुर्वत। स प्रकृत एतम् अर्धेळं न्यहन्। त्राणाय वा एष यद् अर्धेळम् इति
नार्मेधम् एव कार्यम्। तद् ऐळं भवति। पशवो वा इळा। पशुर् वा पतेतान् रात्रेर् निरवाघ्नन्। तस्मान् नार्मेधम् एव कार्यम् इति॥
आष्टादंष्ट्रे ऋद्धिकामः कुर्वीत। अष्टादंष्ट्रो वै वैरूपः पश्चेवान्येभ्य ऋषिभ्य एते सामनी अपश्यत्। सो ऽबिभेद् अस्तोत्रीये मे सामनी भविष्यत इति। सो ऽब्रवीद् ऋध्नवात् स यो मे ध्यामनि सोमस्य तर्पयाद् इति। उष्टिप्राशुभिते वा एते सामनी। ऋध्नुवन्त्य् एवैताभ्यां तुष्टुवानाः॥
अष्टादंष्ट्रो वैरूपः पशुकामस् तपो ऽतप्यत। स एते सामनी अपश्यत्। ताभ्याम् अस्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। ते एते पशव्ये सामनी। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् व् अष्टादंष्ट्रो वैरूपो ऽपश्यत् तस्माद् आष्टादंष्ट्रे इत्य् आख्यायेते॥
तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति
प्रजापतिर् यद् देवेभ्यस् तन्वो व्यभजत् ततो या हरिवत्य् आसीत् ताम् आत्मने ऽशिंषत्। ताम् इन्द्राय प्रायच्छत्। तयेन्द्रो ज्यैष्ठ्यम् अगच्छत्। तद् यद् धरिवतीषु स्तुवन्ति तद् ध्य् एव ज्यैष्ठ्यम्। हरिवतीः परोक्षम् अनुष्टुभस् संपद्यन्ते। तास् संस्तुताश् चतुस्त्रिंशदक्षरा भवन्ति। ततो ये चतुस्त्रिंशे अक्षरे साम्नस् ताभ्यां लोको विधीयत इत्य् आहुः। यत् पञ्चत्रिंशदक्षरासु स्तुयुः परं रूपम् उपपद्येरन् बार्हतम्। यत् त्रयस्त्रिंशदक्षरासु स्तुयुर् अवरं रूपम् उपपद्येरन् आनुष्टुभम्। यत् सप्तदशस्तोमम् स्यात् परमं रूपम् उपपद्येरन्। यत् पञ्चदशस्तोमस् स्याद् अवममं रूपम् उपपद्येरन्। यत् षोडशिना षोडशस्तोमेन चतुस्त्रिंशदक्षरासु स्तुवन्ति स्वेनैवैनं तद् आयतनेन समृद्धयन्ति। तेनैभ्यस् समृद्धेन स्वायां जनतायाम् अर्धुकं भवति॥
षोडश स्तोत्राणि षोडश शस्त्राणि। तद् द्वात्रिंशत्। द्वात्रिशदक्षरानुष्टुप्। आनुष्टुभष् षोडश्य् अनुष्टुभं संपन्नः। देवछन्दसानि वा अन्यान्य् आसन्न् असुरछन्दसान्य् अन्यानि
एकाक्षरं देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत् पञ्चदशाक्षरं परमम्। ते देवा अकामयन्त कनीयसा भूयो ऽसुराणां वृञ्जीमहीति। त एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत। ते द्व्यक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम्। अष्टाक्षरे वाष्टौ। तानि यत् षोडशषोडश समपद्यन्त तत् षोडशिनष् षोडशित्वम्। तद् गायत्र्य् एव सप्तदश्य् उपसमपद्यत। तस्माद् आहुस् सप्तदशः प्रजापतिर् इति॥
इन्द्रो वा वृत्रम् अजिघांसत्। स प्रजापतिम् उपाधावद् धनानि वृत्रम् इति। तस्मा एतं षोडशिनं वज्रं प्रायच्छद् यद् अस्य वीर्यम् आसीत् तद् आदाय शक्वर्यः। तं नाशक्नोद् धन्तुम्। तं पुनर् उपाधावद् धनान्य् एव वृत्रम् इति
तस्मै शक्वर्यः प्रायच्छत्। ततो वा इन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥
स ऐक्षत यद्य् अस्मै दिवा प्रदास्यामि रात्रिम् एषां भ्रातृव्यलोको ऽभ्यधिरेक्ष्यते। यद्य् अस्मै नक्तं प्रदास्याम्य् अहर् एषां भ्रातृव्यलोको ऽभ्यधिरेक्ष्यत इति। स एतद् अपश्यत्। यावत्य् एतद् आदित्यो विषितो भवति। तस्मै तावत्य् एव प्रायच्छत्। तेनासुरान् उभाभ्याम् अहोरात्राभ्याम् अन्तरैत्। उभाभ्याम् एवाहोरात्राभ्यां द्विषन्तं भ्रातृव्यम् अन्तरेति य एवं वेद॥
यथा ह वै सूर्मत्याधायैवं षोडशी स्तोत्राणां स्वर्गलोकस्य समष्ट्यै। प्र स्वर्गं लोकम् आप्नोति य एवं वेद
तद् आहुस् त्रिवृद् एव स्तोमः कार्य इति। स त्रिवृद् वै वज्रः। वज्रष् षोडशी। अथो आहुष् षोडश एव कार्य इति। पञ्चदशो वै वज्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। सेन्द्रेण वज्रेण वृत्रं पाप्मानं हनानीति। सेन्द्रेण हैव वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद॥
अथो आहुस् सप्तदश एव कार्य इति। पञ्चदशो वै वज्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। प्रजापतिर् एव सप्तदशः। सो ऽनुष्ठाता सो ऽभिगोप्ता सो ऽभिवादयिता प्रहर जहि मापक्रमीः इति। सेन्द्रेण वज्रेण सप्रजापतिकेन वृत्रं पाप्मानं हनानीति। सेन्द्रेण हैव वज्रेण सप्रजापतिकेन द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति य एवं वेद॥
अथो आहुर् एकविंश एव कार्य इति। सर्वाभ्यो वा एतं सप्तभ्यो होत्राभ्य इन्द्रो वज्रं निरमिमीत तिस्रस् तिस्र एव होत्रायै। स एकविंशष् षोडशी समपद्यत। तेनेन्द्रो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद॥
तद् उ होवाच यामनो भ्रातलायनो विराजो वा एष संपदे षोडशी। वैराजो वै षोडशी विराजिविराजि प्रतिष्ठितः। स यत्रैवैतं विराजं संपद्यमानं मन्येत तद् एवैतेन स्तोतव्यम्
अहोरात्रयोर् वै देवासुरा अधि संयत्ता आसन्। ते देवा अहर् अभ्यजयन्न् अथासुरा रात्रिम् अभ्युपाधावन्। ते देवा अब्रुवन्न् अर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिम् अभिजयेमाभिप्रयुनजामहा इति। ते ऽभ्ययुञ्जत। अह्नो जघनार्धे ऽयतन्त। अथासुरा रात्र्या उदासृत्य पूर्वार्धे ऽयतन्त। एष ह वा अह्नो जघनार्धो यत् सायम्। एष उ वै रात्रेः पूर्वार्धो यत् सायम्। स्वायाम् अन्ये मर्यादायाम् अयतन्त स्वायाम् अन्ये। छन्दांसि वाव तेषां स्वम् आसीत्। छन्दस्स्व् अधि संयत्ता आसन्
एकाक्षरं देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत् पञ्चदशाक्षरं परमम्। सप्ताक्षरं च नवाक्षरं च संनिहिते आस्ताम् ईध्र्यञ्च्य् अन्यानि यत्तान्य् आसन्न् ईध्र्यञ्च्य् अन्यानि। तान् प्रजापतिर् आनुष्टुभो ऽन्तरा विक्रम्यातिष्ठत्। ते समीक्षमाणास् संचाकशतो ऽतिष्ठन्न् अन्योन्यस्यारन्ध्रम् इच्छन्तः॥
ते देवाः प्रजापतिम् उपाधावन् जयामासुरान् इति। तेभ्य एतं षोडशिनं वज्रं प्रायच्छत्। एतेनैषां छन्दोभिश् छन्दांसि संवृज्य माम् उपसंपादयथेति। त एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत द्वयक्षरेण चतुर्दशाक्षरम्। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरम्। सानुष्टुब् अभवत्। तां प्रजापतिम् अपसमपादयनन्। पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरम्। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। सप्ताक्षरेण नवाक्षरम् अष्टाभिर् एवाष्टौ। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। सप्ताक्षरेण नवाक्षरम् अष्टाभिर् एवाष्टौ। सानुष्टुब् अभवत्। तां प्रजापतिम् उपसमपादयन्। तेषां छन्दोभिर् एव छन्दांसि संवृज्यासुरान् निरवाघ्नन्। तान् निरवहतान् दारान् यतः प्रजापतिर् अश्वो ऽरुणपिशङ्गो भूत्वा पराप्रोथत्। त एत उदन्तेष्व् अधिगम्यन्त एकैक इव। ततो वै देवा अभवन् परासुराः। भवत्य् आत्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद
कनीयस्विन इव वै देवा आसन् भूयस्विनो ऽसुराः। कनीयसा वै तेषां त्व् एतद् भूयो ऽवृञ्जत। तस्मात् कनीयान् ग्रामो ज्यायांसं ग्रामं प्रतिसंयतते। तस्माद् उ कनीयांसो भूयसो ऽमित्रान् जयन्ति। कनीयस्वी भूयस्विनं वृञ्जते य एवं वेद॥
एषा ह खलु वै प्रत्यक्षं पंक्तिर् यत् पञ्चाक्षरा पञ्चपदा। पंक्तिषु षोडशिना स्तुवन्ति। पुरुषछन्दसं वै पंक्तिः। यत् पांक्तः पुरुषः पुरुषाद् एवैतद् आप्तां वाचं निर्मिमते। तस्मात् पुरुषस् सर्वा वाचो वदति। आप्त इव वा एतर्हि सर्ववाक्। तद् यद् अनुष्टुप्सु स्तुवन्ति यथा कुम्भ्यासूपदस्तासु महोदधीन् अपधावयेत् तादृक् तत्॥
कनीयांसि छन्दांसि ज्यायस्सु छन्दस्स्व् अध्यूहन्ति। जितदेवत्यानि वा एतानि यत् कनीयांसि। तस्माज् ज्यायस्सु छन्दस्स्व् अध्यूहन्ति। एषां ह खलु वै छन्दसां वीर्यवत्तमा या त्र्यक्षरैकपदा। ताभिर् यच् छन्दांस्य् उपसृजन्ति वीर्यस्यैवावरुद्ध्यै। निधनम् अभ्यतिस्वरति। अह्नो वै देवा रात्रिम् अभ्यत्यक्रामन्। अभि भ्रातृव्यलोकं जयति य एवं वेद। भ्रातृव्यभाजिनम् इव ह्य् एषा यद् रात्रिः
अधिकर्ण्या सोमं क्रीणन्ति। यथा ह वै कर्णेकर्णे ऽधिरूढम् एवं षोडशी स्तोत्राणाम् । सह वै षोडशिनं क्रीणीम इति वदन्तष् षोडशिनं क्रीणन्ति। यद् अधिकर्णी सोमक्रयणी भवति तेनैवैषां षोडशी क्रीतस् तेनावरुद्धः॥
अधिकर्ण्या सोमं क्रीणन्ति। सवनात्सवनात् सोमम् अतिरेचयन्ति। जनद्वतीषु स्तुवन्ति। सर्वाणि रूपाण्य् अनुशास्यन्ते। यद् अधिकर्ण्या सोमं क्रीणन्ति यजमान एनं तेन प्रजनयति। यत् सवनात्सवनात् सोमम् अतिरेचयन्त्य् अध्वर्युर् एनं तेन प्रजनयति। यज् जनद्वतीषु स्तुवन्त्य् उद्गातैन तेन प्रजयति। यत् सर्वाणि रूपाण्य् अनुशास्यन्ते होतैन तेन प्रजनयति। एतानि वै षोडशिनः प्रजननानि। प्र प्रजया पशुभिर् जायते य एवंवेद
इन्द्रं वै हरो ऽत्यरिच्यत। स देवान् अब्रवीत् कथं मा हरो नातिरिच्येतेति। तं विश्वे देवा अब्रुवन् वयं त्वा हरिवता मन्त्रेण स्तोष्यामस् तथा त्वा हरो नातिरेक्ष्यत इति। तं विश्वे देवा हरिवता मन्त्रेणास्तुवन्। ततो वा इन्द्रं हरो नात्यरिच्यत। तद् यद् धरिवतीषु स्तुवन्ति इन्द्रम् एवैतद् धरसा समृद्धयन्ति। एषा ह खलु वै यजमानस्य नेदिष्ठं देवता यद् इन्द्रः। तद् यद् धरिवतीषु स्तुवन्ति यजमानम् एव तद् धरसा तेजसा समृद्धयन्ति। सम् अस्मा ऋध्यते य एवं वेद
प्रष्टिर् इव ह खलु वा एतत् स्तोत्राणां यत् षोडशी। यद् वै प्रष्टिर् अनियुक्तो वह्त्य् अप वा वै स छिनत्ति निर् वा मार्ष्टि। अन्त्येन स्तोत्रेण समस्तोमो भवति। स यथा प्रष्टिं प्रष्टियुगाय नियुञ्ज्याद् एवम् एवैतत् पूर्वेषु स्तोत्रेषु षोडशिनम् अनुनियुनक्त्य् अनिर्मार्गाय॥
अक्षीव ह खलु वा एतत् स्तोत्राणां यत् षोडशी। अन्त्येन स्तोत्रेण समस्तोमो भवत्य् अनाक्षितायैव॥
जामीव ह खलु वा एतत् स्तोत्राणां यत् षोडशी। अन्त्येन स्तोत्रेण समस्तोमो भवत्य् अजामितायै॥
पशवो वा उक्थानि वज्रष् षोडशी। यद् उक्थानाम् अन्ततष् षोडशिना स्तुवन्ति वज्रेणैव तत् पशून् परिगृह्णन्त्य् अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद
तद् आहुर् नोक्थष् षोडशी कार्य इति। पशवो वा उक्थानि वज्रष् षोडशी। वज्रं पशुषु विवर्तयेत्। अतिरात्र एव कार्यः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति॥
यद्य् अभिचरणीयस् सोमस् स्याद् धिरण्मयं वज्रं भृष्टिमन्तं कृत्वा योय एव कर्म कुर्यात् तस्मैतस्मा उपप्रवर्तयेत्। सस एवास्मै वज्रं प्रहरति स्तृत्यै। संस्थिते सोमे न्यञ्चं द्रोणकलशं पर्यस्य करम्भमयान् वा पुरुषान् कृत्वा हरितानां वा तृणानां तेषां नामग्राहं ग्रीवा अपिकृन्तेत् इदम् अहम् अमुष्य ग्रीवा अपिकृन्तामीदम् अमुष्येदम् अमुष्य इति। यावताम् एव नामानि गृह्णाति तावतां ग्रीवा अपिकृन्तति। तं ब्रह्मणे ददाति। ब्रह्म वै ब्रह्मा। ब्रह्म वज्रः। ब्रह्मण्य् एवैतद् वज्रं प्रतिष्ठापयति
इन्द्रश् च वै बृहच् च समभवताम्। इन्द्रं बृहद् . . . .अत्यरिच्यत। तस्या अबिभेद् अनयैव माभिभविष्यतीति। स देवान् अब्रवीत् षोडश्य् अयं यज्ञक्रतुर् अस्त्व् इति। तथेति। स षोडश्य् अभवत्। तत् षोडशिनो जन्म। अति श्रिया द्विषन्तं भ्रातृव्यं रिच्यते य एवं वेद॥
गायत्रीषु द्विपदासु बृहता षोडशिना तुष्टुवानः उप नो हरिभिस् सुतम् इति। एता वै गायत्र्यो द्विपदाः। इन्द्रो वै वृत्रम् अजिघांसत्। स प्रजापतिम् उपाधावद् धनानि वृत्रम् इति। तस्मा एताम् अपहरसम् अनुष्टुभं प्रायच्छत्। तया नास्तृणुत। स यद् अस्तृत्वा व्यनदत् तन् नानदम् अभवत्। तन् नानदस्य नानदत्वम्। तस्माद् आहुर् नानदं षोडशिसाम कार्यं न हि तेनास्तृणुतेति। तं पुनर् उपाधावद् धनान्य् एव वृत्रम् इति। तस्मै सप्तानां होत्राणां हरो निर्माय प्रायच्छत्। तिस्र एव होत्रायै। स एकविंशष् षोडशी समपद्यत। तेनो वृत्रम् अहन्। हन्ति द्विषन्तं भ्रातृव्यं य एवं वेद। एकविंशायतनो ह खलु वै षोडशी। सप्त वै होत्राः प्रातस्सवने वषट्कुर्वन्ति सप्त माध्यंदिने सवने सप्त तृतीयसवने ऽथो यद् एवास्मै हरो निर्माय प्रायच्छत्
गौरीवितिर् वा एतच् छाक्त्यो ऽतिरिक्तं ब्रह्मणो ऽपश्यत्। तद् गौरीवितम् अभवत्। अतिरिक्तं वा एतद् ब्रह्मणो यद् गौरीवितम् अतिरिक्तष् षोडशी स्तोत्राणाम्। यद् गौरीवितेन षोडशिना स्तुवन्त्य् अतिरिक्त एव तद् अतिरिक्तं दधति यज्ञस्य सलोमतायै॥
औपोदितिर् ह स्माह गौपालयो विशालं लिबुजयाभ्यधाद् अनुष्टुभि नानदम् अक्तत् गौरीवितेन षोडशिनम् अतुष्टुवन् न श्रियावपद्य इति। न ह वै श्रियावपद्यते य एवं वेद॥
तद् उ श्वस्तनवद् अपि प्रजाया उपक्लृप्तम्। शक्वरीषु षोडशिसाम कुर्वीत पशुकामः। वज्रो वै षोडशी पशवश् शक्वर्यः। वज्रेणैव पशुं स्पृणोति पशुमान् भवति। शक्वरीषु षोडशिसाम कुर्वीत यः कामयेत वज्री स्याम् इति। वज्रो वै षोडशी वज्रश् शक्वर्यः। वज्रेणैव वज्रं स्पृणोति वज्री भवति। विराट्स्व् अन्नाद्यकामष् षोडशिसाम कुर्वीत। वज्रो वै षोडश्य् अन्नं विराट्। वज्रेणैवान्नाद्यं स्पृणोत्य् अत्त्य् अन्नम् अन्नादो भवति। तास् त्रयस्त्रिंशदक्षरा भवन्ति। ततो यान्य् एकविंशतिः प्रतिष्ठा सा। अथ यानि द्वादश प्रजननं तत्। प्रति प्रतिष्ठायां तिष्ठति प्रजायते नो चान्तस्थायां जीयते य एवं वेद
प्र वो महे महेवृधे भरध्वम् इत्य् एता वै विराजः। अनुष्टुप्सु षोडशिसाम कुर्वीत यः कामयेत न मान्या वाग् अतिवदेद् इति। वज्रो वै षोडशी वाग् अनुष्टुप्। वज्रेणैव वाचं स्पृणोति नैनम् अन्या वाग् अतिवदति। आ तिष्ठ वृत्रहन् रथम् इत्य् एता वा अनुष्टुभः। अथैतास् त्र्यक्षरा एकपदा भवन्ति। विष्णोश् छन्दो भूरिजश् शक्वर्य इति। एताभिर् वा इन्द्रो वृत्रम् अहन्न् एताभिश् श्रियाम् आश्नुतौषम् एव। द्विषन्तं भ्रातृव्यं हन्त्य् ओषं श्रियम् अश्नुते य एवं वेद॥
हिरण्यं संप्रदायं षोडशिना स्तुवन्ति। षोडशिनम् एव तज् ज्योतिष्मन्तं कुर्वन्ति॥
अश्व उपतिष्ठते साम्येक्ष्याय। भ्रातृव्यलोकं वावैषां तद् विधमंस् तिष्ठति॥
यस्माज् जातो न परो ऽन्यो अस्ति य आ बभूव भुवनानि विश्वा।
प्रजापतिः प्रजया संरराणस् त्रीणि ज्योतींषि सचते स षोडशी॥
इति षोडशिग्रहम् अवेक्षते॥
इन्द्रश् च सम्राड् वरुणश् च राजा तौ ते भक्षयांचक्रतुर् अग्र एतम्। तयोर् अहं भक्षम् अनुभक्षयामि वाग् जुषाणा सोमस्य तृप्यतु॥
इति॥
एकाक्षरं देवानाम् अवमम् आसीत् सप्ताक्षरं परमम्। नवाक्षरम् असुराणाम् अवमम् आसीत् पञ्चदशाक्षरं परमम्। ते देवा अकामयन्त कनीयसा भूयो ऽसुराणां वृञ्चीमहीति। त एकाक्षरेण पञ्चदशाक्षरम् अवृञ्जत द्वयक्षरेण चतुर्दशाक्षरं त्र्यक्षरेण त्रयोदशाक्षरं चतुरक्षरेण द्वादशाक्षरं पञ्चाक्षरेणैकादशाक्षरं षडक्षरेण दशाक्षरं सप्ताक्षरेण नवाक्षरम्। अष्टाभिर् एवाष्टौ। एवं कनीयसा ज्यायसो द्विषतो भ्रातृव्यस्य वृंक्ते य एवं वेद
अह्नो ऽसुरा नुत्ता रात्रिं प्राविशन्। ते देवा एतम् अनुष्टुप्शीर्षाणं वज्रं समभरन्। तेनैनान् अभ्यवायन्। वाग् वा एषा। वाचा ज्योतिषान्वभ्यवायन्। विराड् वा एषा। विराजा ज्योतिषान्वभ्यवायन्। न वै सुयज्ञ इवातिरात्रः। तद् यत् पान्तं भवति तेनैव यज्ञः क्रियते। अह्नश् च सुलम्बो रात्रेश् च संतत्या अप्यवच्छेदाय। यानि छन्दांस्य् अहर् वहन्ति तानि रात्रिं वहन्ति। एषा गायत्र्य् एषा विराड् एषा ककुब् एषानुष्टुप्॥
बृहतीषु स्तुवन्ति। तेन बृहतीभ्यो नयन्ति। तासां यद् द्वादशाक्षराणि पदानि तेन जगतीभ्यो नयन्ति। त्रिष्टुभा वषट्करोति। तेन त्रिष्टुभो नयन्ति। तान् संधिनाभिपलायन्त आश्विने नासंहेयम् अगमयन्। असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद॥
एषा वा अग्निष्टोमस्य संमा यद् रात्रिः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश रात्रेः। एषा वा उक्थस्य संमा यद् रात्रिः। त्रीण्य् उक्थानि त्रिदेवत्यस् संधिः। एषा वा अग्निष्टोमस्य च संवत्सरस्य च संमा यद् रात्रिः। द्वादश वा अग्निष्टोमस्य स्तोत्राणि द्वादश मासास् संवत्सरः। रात्र्या त्वाव त्रयोदशो मास आप्यते। एषा वै व्रध्नस्य विष्टपं यद् रात्रिः। गच्छति व्रध्नस्य विष्टपं य एवं वेद
एष वाव सर्वगायत्रो यद् अतिरात्रः । न वै रात्र्या ऋते ऽहर् न रात्रिर् ऋते ऽह्नः। नैषा लोकानाम् एक एकः। अहोरात्रे वा इदं सर्वम् इमे लोकाः। भूतं भव्यं प्रजनयतः। तद् आहुर् न प्रथमं यजमानो ऽतिरात्रेण यजेतेति। स्वं च ह्य् अतिमन्यते। द्वौ यज्ञक्रतू। ब्रह्म वा अग्निष्टोमः। ब्रह्म वै ब्राह्मणस्य स्वम्। अग्निष्टोमं च ह्य् अतिमन्यत उक्थं च षोडशिनम्। तद् उ वा आहुर् अग्निष्टोममात्रं वावाग्निष्टोमेनाभिजयत्य् उक्थमात्रम् उक्थेन षोडशिमात्रं षोडशिना रात्र्या त्वाव सर्वम् अवरुन्द्ध इति। स यो हैवं विद्वान् एकेन यज्ञक्रतुना चतुरो यज्ञक्रतून् संतनोत्य् आस्य चत्वारो विराजयन्ते सर्वेषु पशुषु प्रतितिष्ठति
अह्नो ऽसुरा नुत्ता रात्रिं प्राविशन्। ते देवा एतानि सामान्य् अपश्यन्न् एतान् पर्यायान्। तैर् एनान् अन्वभ्यवायन्। तान् पर्यायम् अघ्नन्। यत् पर्यायम् अघ्नंस् तत् पर्यायाणां पर्यायत्वम्। पर्यायम् एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद॥
ये प्रथमरात्रेण छन्ना आसंस् तान् प्रथमेन पर्यायेणाघ्नन्। यत् प्रथमस्य पर्यायस्य प्रथमानि पदानि पुनरादीनि भवन्ति ये प्रथमरात्रेण छन्ना भवन्ति तान् एव तेन घ्नन्ति। ये मध्यरात्रेण छन्ना आसंस् तान् मध्यमेन प्रयायेणाघ्नन्। यन् मध्यमस्य पर्यायस्य मध्यमानि पदानि पुनरादीनि भवन्ति ये मध्यरात्रेण छन्ना भवन्ति तान् एव तेन घ्नन्ति। ये ऽपररात्रेण छन्ना आसंस् तान् उत्तमेन पर्यायेणाघ्नन्। यद् उत्तमस्य पर्यायस्योत्तमानि पदानि पुनरादीनि भवन्ति ये ऽपररात्रेण छन्ना भवन्ति तान् एव तेन घ्नन्ति। पुनरभिघातं वावैनांस् तद् अघ्नन्। यथा वै हत्वा पुनर् हन्यात् तादृक् तत्। पुनरभिघातम् एव द्विषन्तं भ्रातृव्यं हन्ति य एवं वेद
शर्वरी वै नाम रात्रिः। ते देवा अब्रुवन्न् अपि वै नश् शर्वर्याम् अभूद् इति। तद् एवापिशर्वराणाम् अपिशर्वरत्वम्। अपि ह वा अस्य शर्वर्यां भवति य एवं वेद॥
असुरेषु वा इदम् अग्र आसीत्। तद् देवा अभिजित्याब्रुवन् केन न्व् अहोरात्रे उपरिष्टात् संदध्यामेति। त एतद् राथन्तरं संधिम् अपश्यन्। तेनाहोरात्रे उपरिष्टात् समदधुः। यत् समदधुस् तत् संधेस् संधित्वम्। आश्विनं ह खलु वै संधेर् उक्थम्। महति रात्रे सन्धिना स्तुवन्ति। आ सूर्यस्योदेतोर् आश्विनम् अनुशस्यते ऽहोरात्रयोर् एव संतत्या अहोरात्रयोस् समारम्भाय॥
अहोरात्रे देवा अभिजित्य ते वज्रम् एव परिधिम् अकुर्वत पशूनां गुप्त्या असुराणाम् अनभ्यवचाराय। तद् यद् एता उष्णिहो ऽन्ततः क्रियन्ते -- वज्रो वा उष्णिहः - वज्रेणैव तत् पशून् परिगृह्णात्य् अपरा(वा)पाय। नास्य वित्तं परोप्यते य एवं वेद
असुरेषु वा इदम् अग्र आसीत्। तद् देवा अभिजित्याब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् अस्यायामेति। त आजिम् आयन्। अग्नेः प्रथमो रथ आसीद् अथोषसो ऽथाश्विनोः। ताव् अश्विनाव् अश्वी अश्व्याम् अत्यकुरुताम्। तौ द्रवन्ताव् अग्निः पर्युदतिष्ठत्। ताव् अब्रूताम् अति नौ सृजस्वेति। नेत्य् अब्रवीद् अनु नु मा भजतम् इति। तृतीयं त इत्य् अब्रूताम् आवाभ्यां त्व् एवाख्यायताद् इति। तथेति ताव् अत्यार्जत। तौ द्रवन्ताव् उषाः पर्युदतिष्ठत्। ताव् अब्रूताम् अति नौ सृजस्वेति। नेत्य् अब्रवीद् अनु नु मा भजतम् इति। तृतीयं त इत्य् अब्रूताम् आवाभ्यां त्व् एवाख्यायताद् इति। तथेति ताव् अत्यार्जत। ताव् उदजयेताम्। स य एवम् एताम् अश्विनोर् उज्जितिं वेद यत्र कामयत उद् इह जयेयम् इत्य् उत् तत्र जयति। य उ एवैताम् अग्नेश् चोषसश् चान्वाभक्तिं वेद यत्र कामयते ऽन्वाभक्त इह स्याम् इत्य् अन्वाभक्तस् तत्र भवति। तस्मान् नानादेवत्यास् संस्तुवन्ति। अथाश्विनम् इत्य् एवाख्यायते। वारेवृतं हि तत् तयोः
अहोरात्रयोर् वै देवासुरा अधिसंयत्ता आसन्। ते देवा अहर् अभ्यजयन्। अथासुरा ऋचं च रात्रिं च प्राविशन्। ते देवा अब्रुवन्न् अर्धिनो वा अस्य भुवनस्याभूम कथं सत्रा रात्रिम् अभिजयेम रत्नैर् अन्वभ्यवायमिति। तव छन्दसेत्य् अग्निम् अब्रुवन्। तव स्तोमेनेतीन्द्रम्। तव संपदेति प्रजापतिम्। युष्माकम् आयतननेति विश्वान् देवान्। यद् अग्निम् अब्रुवंस् तव छन्दसेति तस्माद् गायत्रीषु स्तुवन्ति। यद् इन्द्रम् अब्रुवंस् तव स्तोमेनेति तस्मात् पञ्चदशस्तोमो रात्रेः। यत् प्रजापतिम् अब्रुवंस् तव संपदेति तस्माद् अनुष्टुभं संपद्यते। यद् विश्वान् देवान् अब्रुवन् युष्माकम् आयतनेनेति तस्माज् जगत्यो ऽनुशंस्यन्ते। तान् संधिनाभिपलायन्त। आश्विनेनासंहेयम् अगमयन्। असंहेयं ह वै द्विषन्तं भ्रातृव्यं गमयति य एवं वेद
अहोरात्राभ्यां वै देवा असुरान् निर्हृत्य तांस् त्रिवृतैव वज्रेणाभिन्यदधुः। इमे वै लोकास् त्रिवृतः। एभिर् एवैनांस् तल् लोकैर् अभिन्यदधुः। तस्माद् आहुर् नैव तावद् असुरा अन्वाभवितारो यावद् इमे लोका भवितार इति। एभिर् हि लोकैर् अभिनिहिताः॥
एषा वा अग्निष्टोमस्य च संवत्सरस्य संमा यद् रात्रिः। चतुर्विंशत्यर्धमासस् संवत्सरश् चतुर्विंशति रात्र्या उक्थामदानि। त्रीणि सवनानि त्रयः पर्यायाः। रात्रिम् एव तत् त्रिषवणां कुर्वन्ति। अथो एनां तद् अह्न इव समुत्कल्पयन्ति। अहोरात्रे देवा अभिजित्य ते ऽमुम् आदित्यं सवनैर् एव प्रत्यञ्चम् अनयन्। तं पर्यायैः पुनः प्राञ्चम्। तम् आश्विनेन पुरस्ताद् उदस्तभ्नुवन्। तस्माद् आहुर् नोदिते सूर्य आश्विनम् अनुशस्यम् इति। वि हैनं गमयति। स य एतद् एवं वेद नीतो ऽस्य सवनैर् असाव् आदित्यः प्रत्यङ् भवत्य् आनीतः पुनः पर्यायैः प्राङ् उत्तब्धः पुरस्ताद् आश्विनेन। उभे ऽस्याहोरात्रे स्पृते अवरुद्धे भवतो भोगायास्मा आदित्या केतूंश् चरति
अथैष राथन्तरस् संधिर् भवति। प्रजापतिर् उषसं स्वां दुहितरं बृहस्पतये प्रायच्छत्। तस्या एतत् सहस्रम् आश्विनं वहतुम् अन्वाकरोत्। स देवान् अब्रवीद् इयम् एव मम युष्माकम् एतद् इतरद् इति। तस्माद् यदानृशंसो जायां विन्दते व्य् एव वहतुम् आदिशति। ते देवा अब्रुवन् वीदं भजामहा इति। तस्य विभागे न समपादयन्। ते ऽब्रुवन्न् आजिम् अस्यायामेति। त आजिम् आयन्। अग्नेः प्रथमो रथ आसीद् अथोषसो ऽथाश्विनोः। ताव् अश्विनाव् अश्वी अश्वीयाम् अत्यकुरुताम्। तौ देवा अब्रुवन् वारो ऽयं वाम् अथ नस् सहास्त्व् इति। तस्मान् नानादेवत्यास् स्तुवन्ति। अथाश्विनम् इत्य् आख्यायते। अग्नये प्रथमाय स्तुवन्त्य् अथोषसे ऽथाश्विभ्याम्। एवं ह्य् एषाम् एता उज्जितयः॥
एकं साम द्वे छन्दसी। द्विपदम् एव तच् चतुष्पात्सु पशुष्व् अध्यूहति। तस्माद् द्विपाच् चतुष्पदः पशून् अधितिष्ठति॥
अनुदिते सूर्ये परिदध्याद् यं कामयेत पापीयान्स्याद् इति पापीयान् एव भवति। व्युषिते परिदध्याद् यं कामयेत नार्वाङ् न परस् स्याद् इति। नैवार्वाङ् न परो भवति। बहुवर्षी ह तु पर्जन्यो भवति। उदिते परिदध्याद् यं कामयेत श्रेयान् स्याद् रुचम् अश्नुवीतेति। श्रेयान् एव भवति रुचम् अश्नुते
पान्तम् आ वो अन्धसः इत्य् अन्धस्वतीर् भवन्ति। अहर् वा अन्धो रात्रिः पान्तम्। अहोरात्रयोर् एव संतत्या अहोरात्रयोस् समारम्भाय॥
तास्व् ओकोनिधनं वैतहव्यम्। ओकोनिधनेन वै वैतहव्येन देवा असुरान् ओकसओकसो ऽनुदन्त। ओकसओकस एव द्विषन्तं भ्रातृव्यं नुदते य एवं वेद। प्राणा ह खलु वा ओकः। प्राणान् एवैतद् द्विषतो भ्रातृव्यस्य वृंक्ते प्राणान् आत्मन् धत्ते॥
तद् आहुः प्रेव वा एते ऽस्माल् लोकाच् च्यवन्ते ये ऽतिरात्रम् उपयन्तीति। तद् यद् ओकोनिधनं भवति -- अयं वौ लोकः पुरुषस्यौकः -- अस्मिन्न् एवैतल् लोके प्रतितिष्ठति॥
वीतहव्य आश्रायसो ज्योग् अपरुद्धश् चरन्। सो ऽकामयताव स्व ओकसि गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। स ओकाय इत्य् एव निधनम् उपैत्। ततो वै सो ऽव स्व ओकस्य् अगच्छत्। एतत् कामसनि साम। एतं वै स कामम् अकामयत। सो ऽस्मै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् उ श्रीर् एव राज्यं वै स तद् अगच्छत्। अश्नुते श्रियं गच्छति राज्यं य एवं वेद। यद् उ वीतहव्य आश्रायसो ऽपश्यत् तस्माद् ओकोनिधनं वैतहव्यम् इत्य् आख्यायते
प्र व इन्द्राय मादनम् इति मद्वतीर् भवन्ति। रसो वै मदः। धीतेवैषा यद् रात्रिः पीडितेव। नाभिषुण्वन्ति। यद् एवादस् तृतीयसवनाद् ऋजीषम् अतिरेचयन्ति तेनास्यां चरन्ति। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्याम् एतद् दधत्य् एव। एनाम् एतेनाप्याययन्ति॥
तासु शाक्त्यम्। शाक्त्येन वै शाक्त्याः पशून् अवारुन्धत। तच् छाक्त्यस्य शाक्त्यत्वम्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। शाक्त्या अन्नाद्यकामास् तपो ऽतप्यन्त। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै ते ऽन्नाद्यम् अरुन्धत। तस्य वा एतस्यास्ति यथैव गौरीवितस्यैवम्। अन्नं वै गौरीवितम्। अन्नम् उ वै श्वस्तनम्। अन्नम् उ ह वा इदं सर्वम् अतिरिरिचे। अतिरिक्तेवैषा यद् रात्रिः। अतिरिक्तं रात्र्याम् अन्नाद्यं दधति। तत् स्वारं भवति। प्राणो वै स्वरः। अन्नम् उ वै प्राणाः। तद् एतद् अभिपूर्वस्यैवान्नाद्यस्यावरुद्धिस् साम। अवान्नाद्यं रुन्द्धे ऽन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद। यद् उ शाक्त्या अपश्यंस् तस्माच् छाक्त्यम् इत्य् आख्यायते
वयम् उ त्वा त्वदिदर्थाः इति काण्वम्। कण्वो वै नार्षदो ज्योग् अप्रतिष्ठितश् चरन् सो ऽकामयत प्रतितिष्ठेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। स रन्ताया इत्य् एव निधनम् उपैत्। अरत इव वा एष भवति यो न प्रतितिष्ठति। लेलेव वै रात्री रतिर् वा एषा। ततस् स प्रत्यतिष्ठत्। तद् एतत् प्रतिष्ठा साम। प्रतितिष्ठति य एवं वेद। यद् उ कण्वो नार्षदो ऽपश्यत् तस्मात् काण्वम् इत्य् आख्यायते॥
इन्द्राय मद्वने सुतम् इति मद्वतीर् भवन्ति। रसो वै मदः। धीतेवैषा यद् रात्रिः पीडितेव। नाभिषुण्वन्ति। यद् एवादस् तृतीयसवनाद् ऋजीषम् अतिरेचयन्ति तेनास्यां चरन्ति। तद् यद् एता मद्वतीर् भवन्ति रसम् एवास्याम् एतद् दधत्य् एव। एताम् एतेनाप्याययन्ति
तासु श्रौतकक्षम्। श्रुतकक्षः काक्षीवतः पशुकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। स एताम् इळाम् उपैत्। पशवो वा इळा। ततो वै स पशून् अवारुन्द्ध। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद॥
पुनर्नितुन्नछन्दो भवति। यत्रयत्र वै देवाश् छन्दसां रसम् अन्वविन्दंस् तत् पुनर्नितुन्नम् अकुर्वन्। तत् पुनर् अभ्याघ्नन्। धीतवैषा यद् रात्रिः। तद् यत् पुनर्नितुन्नछन्दो भवति रसम् एवास्याम् एतद् दधति। रसस्यैवैषानुवृत्ति। यद् उ श्रुतकक्षः काक्षीवतो ऽपश्यत् तस्माच् छ्रौतकक्षम् इत्य् आख्यायते॥
तदैळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति
अयं त इन्द्र सोमः इति। पुनःप्रोक्तिर् ह वा एषा हविषो यन् नुते। परो यज्ञ इति ह वा एतद् इन्द्राय प्राहुः। द्वितीयं ह्य् एतद् धविः क्रियते यद् रात्रिः॥
तास्व् और्ध्वसद्मनम्। और्द्वसद्मनेन वै देवा एषु लोकेषूर्ध्वा असीदन्। यद् एषु लोकेषूर्ध्वा असीदंस् तद् और्ध्वसद्मनस्यौर्ध्वसद्मनत्वम्। तद् एतत् स्वर्ग्यं साम। ऊर्ध्व एवैतेन स्वर्गे लोके सीदति य एवं वेद। और्ध्वसद्मनेन वै देवा असुराणां सुवृक्तिभिः इति पशून् अवृञ्जत नृमादनम् इति वज्रं प्राहरन् भरेष्व् आ इति स्वर्गं लोकम् आरोहन्। और्ध्वसद्मनेनैव द्विषतो भ्रातृव्यस्य सुवृक्तिभिः इत्य् एव पशून् वृंक्ते नृमादनम् इति वज्रं प्रहरति भरेष्व् आ इति स्वर्गं लोकम् आरोहति॥
तान्य् आहुर् नानोपेत्यानि। नानेव वा इमे लोका। एषां लोकानां विधृत्या इति। सुवृक्तिभिः इति वा अयं लोकः नृमादनम् इत्य् अन्तरिक्षं भरेष्व् आ इत्य् असौ। तस्मान् नानोपेत्यान्य् एषां लोकानां विधृत्यै
तद् उ होवाच जानश्रुतेयो वीर्यं वा एतत् साम्नो यन् निधनम्। तद् विक्षुभ्णुयुस् तद् वियुञ्ज्युर् यन् नानोपेयुः। सार्धम् एवोपेत्यानि साम्नस् सवीर्यत्वायेति। तानि चतुरक्षराणि भवन्ति। याश् चतस्रो दिशो ऽस्मिन् लोके तासु सर्वासु प्रतितिष्ठाम याश् चतस्रो दिशो ऽन्तरिक्षे लोके तासु सर्वासु प्रतितिष्ठाम याश् चतस्रो दिशो ऽमुष्मिन् लोके तासु सर्वासु प्रतितिष्ठामेति॥
और्ध्वसद्मनेन ह खलु वै रात्रिः पृष्ठिनीदं वै रथन्तरम् अन्तरिक्षं वामदेव्यम् अद एव बृहत्। य उ ह वा एषां लोकानां श्रेष्ठास् ते पृष्ठानि। तेषाम् एको भवति य एवं वेद। प्रजापतिर् ह खलु वा ऊर्ध्वसद्म। अश्नुत प्रजापतितां य एवं वेद
आ तू न इन्द्र क्षुमन्तम् इति वैणवम्। वेणुर् वै वैश्वामित्रो ऽकामयताग्र्यो मुख्यो ब्रहमवर्चसी स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै सो ऽग्र्यो मुख्यो ब्रह्मवर्चस्य् अभवत्। अग्र्यो मुख्यो ब्रह्मवर्चसी भवति य एवं वेद। यद् वेणुर् वैश्वामित्रो ऽपश्यत् तस्माद् वैणवम् इत्य् आख्यायते॥
तद् व् एवाचक्षत आपालम् इति। अपाला ह वा आत्रेयी तिलका वा रुछ्वसाप्यास। सा कामयताप पापं वर्णं हनीयेति। सैतत् सामापश्यत् तेनास्तुत। सा तीर्थम् अभ्यवयती सोमांशुम् अविदन्त्। तं समखादत्। तस्यै ह ग्रावाण इव दन्ता ऊदुः। स इन्द्र आद्रवद् ग्रावाणो वै वदन्तीति। साभिव्याहरत् कन्या वार् अवायती सोमम् अपि स्रुताविदत्। अस्तं भरन्त्य् अब्रवीत् इन्द्राय सुनवै त्वा शक्राय सुनवै त्वा इति। अस्यै वा इदं ग्रावाण इव दन्ता वदन्तीति विदित्वेन्द्रः पराङ् आवर्तत। तम् अब्रवीत्
असौ य एषि वीरको गृहंगृहं विचाकशत्। (ऋ. ८.९१.२)
इमं जम्भसुतं पिब धानावन्तं करम्भिणम् अपूपवन्तम् उक्थिनम्॥
इति। अनाद्रियमाणैवैतम् अब्रवीत्।
आ चन त्वा चिकित्सामो ऽधि चन त्वा नेमसि।
इति पुरा मा सर्वयर्चापाला स्तौतीत्य् अपपर्यावर्तत।
शनैर् इव शनकैर् इवेन्द्रायेन्दो परि स्रव।
इत्य् एवास्यै मुखात् सोमं निरधयत्। सोमपीथ इव ह वा अस्य स भवति य एवं विद्वांस् स्त्रियै मुखम् उपजिघ्रति(उपाजघ्रति?)
ताम् अब्रवीद् अपाले किंकामासीति। साब्रवीत्
इमानि त्रीणि विष्टपा तानीन्द्र विरोहय।
शिरस् ततस्योर्वराम् आद् इदं म उपोदरे॥
सर्वा ता रोमशा कृधि॥
इति। खलतिर् हास्यै पितास। तं हाखलतिं चकार। उर्वरा हास्य न जज्ञे। सो ह जज्ञे। उपस्थे हास्यै रोमाणि नासुः। तान्य् उ ह जज्ञिरे। तां खे रथस्यात्यबृहत्। सा गोधाभवत्। तां खे ऽनसो ऽत्यबृहत्। सा कृकलास्य् अभवत्। तां खे युगस्यात्यबृहत्। सा संश्लिष्ठिकाभवत्। तद् एषाभ्यनूच्यते
खे रथस्य खे ऽनसः खे युगस्य शतक्रतो।
अपालाम् इन्द्र त्रिष् पूत्व्य् अकृणोस् सूर्यत्वचम्॥
इति। तस्यै ह यत् कल्याणतमं रूपाणां तद् रूपम् आस। तद् एतत् कामसनि साम। एतं वै सा कामम् अकामयत। सो ऽस्यै कामस् समार्ध्यत। यत्काम एवैतेन साम्ना स्तुते सम् अस्मै स काम ऋध्यते। यद् व् अपालात्रेय्य् अपश्यत् तस्माद् आपालम् इत्य् आख्यायते
अभि त्वा वृषभा सुते इत्य् आर्षभम्। इन्द्रो वा अकामयतर्षभस् सर्वासां प्रजानां स्याम् ऋषभतां गच्छेयम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स ऋषभस् सर्वासां प्रजानाम् अभवद् ऋषभताम् अगच्छत्। तद् एवार्षभस्यार्षभत्वम्। ऋषभ एव स्वानां भवत्य् ऋषभतां गच्छति य एवं वेद॥
तद् व् एवाचक्षते दैवोदासम् इति। दिवोदासो वै वाध्र्यश्विर् अकामयतोभयं ब्रह्म च क्षत्रं चावरुन्धीय राजा सन्न् ऋषिस् स्याम् इति। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स उभयं ब्रह्म च क्षत्रं चावारुन्ध राजा सन्न् ऋषिर् अभवत्। उभयम् एव ब्रह्म च क्षत्रं चावरुन्द्धे राजा सन्न् ऋषिर् भवति य एवं वेद। यद् उ दिवोदासो वाध्र्यश्विर् अपश्यत् तस्माद् दैवोदासम् इत्य् आख्यायते
इदं वसो सुतम् अन्धः इति गारम्। देवेभ्यो वा असुरा गरान् प्राकिरन्। तान् अविद्वांसो ऽगिरन्न् अन्नम् एव मन्यमानाः। ते गरगिरो ऽमन्यन्त। ते ऽकामयन्तापेमान् गरान् गीर्णान् हनीमहीति। त एतत् सामापश्यन्। तेनास्तुवत। तेनेमान् गरान् गीर्णान् अपाघ्नत। त एवेमे गिरयो ऽभवन्। तद् यद् गरान् गीर्णान् अपाघ्नत तद् एव गारस्य गारत्वम्। स यो गरगीर् मन्येताप्रतिगृह्यस्य प्रतिगृह्य, अनाश्यान्नस्यान्नम् अशित्वा स एतेन स्तुवीत। अप हैव तं गरं गीर्णं(गार्णं?) हते। यद् अनेन किं च पापं कृतं भवति तद् अपहते॥
तद् ऐळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति
इदं ह्य् अन्व् ओजसा इति घृतश्चुन्निधनम्। घृतश्चुता च वै मधुश्चुता च देवा यत्रयत्रैषां यज्ञस्योपादस्यत तद् आप्याययन्त। तस्माद् आहुस् सोमस्यैवांशुर् आप्यायस्वेति। उपदस्तेवैषा यद् रात्रिः। तद् यद् घृतश्चुन्निधनं भवत्य् ऐवैतम् एतेन प्याययन्ति॥
घृतश्चुच् च वै मधुश्चुच् आङ्गिरसां स्वर्गं लोकं यताम् अहीयेताम्। ताव् अकामयेताम् अनूत्पतेव स्वर्गं लोकम् इति। तौ तपो ऽतप्येताम्। ताव् एते सामनी अपश्यताम्। ताभ्याम् अस्तुवाताम्। तौ स्तुत्वैव घृतश्चुते मधुश्चुत इत्य् एव स्वर्गं लोकम् अनूदपतताम्। अन्तो वै पयसां घृतम् अन्तस् स्वर्गो लोकानाम्। अन्तो वै रसानां मध्व् अन्तस् स्वर्गो लोकानाम्। अन्त्याभ्यां वाव तौ तत् सामभ्याम् अन्त्यं स्वर्गं लोकम् आश्नुवाताम्। अन्त्याभ्याम् एवैतत् सामभ्याम् अन्त्यं स्वर्गं लोकम् अश्नुते य एवं वेद॥
पशवो ह खलु वै घृतश्चुतः पशवो मधुश्चुतः। पशून् वाव तौ तद् एताभ्याम् अवारुन्धाताम्। तैर् उ पशुभिर् इष्ट्वा स्वर्गम् एव लोकम् अगच्छताम्। ते एते पशव्ये स्वर्ग्ये सामनी। अव पशून् रुन्द्धे गच्छति स्वर्गं लोकं य एवं वेद
यज्ञस्तनौ वा एते सामनी। एताभ्यां वा इन्द्रो यज्ञं सर्वान् कामान् अदुग्ध। दुहे ह वै यज्ञं सर्वान् कामान् य एवं वेद। यजुर्निधनं वा एतयोर् अन्यतरत् सामनिधनम् अन्यतरत्। तद् यद् घृतश्चुन्निधनं तद् यजुर्निधनम् अथ यन् मधुश्चुन्निधनं तत् सामनिधनम्। या यजुषश् च साम्नश् चर्धिर् ऋध्नोति ताम् ऋद्धिम् आप्नोति तान् कामान् य एवं वेद॥
तद् आहुर् यद् आज्येन दिवा चरन्त्य् अथ केनैषां रात्रिर् आज्यवती भवतीति। घृतश्चुन्निधनेनेति ब्रूयात्। एतेन ह वै रात्रिर् आज्यवती भवति। यद् उ घृतश्चुच् च मधुश्चुच् चाङ्गिरसाव् अपश्यतां तस्माद् एवम् आख्यायते
अथ मैधातिथम्। काण्वायनास् सत्त्राद् उत्थायायन्त आयुञ्जानाः। ते होद्गीथा इति किमुद्वत्यैतद्धनाम् उर्वारुबहुप्रवृत्तं शयानम् उपेयुः। ते ऽकामयन्तेमान् एव पशून् भूतान् उत्सृजेमहीति। स एतन् मेधातिथिः काण्वः सामापश्यत्। तेनोपन्यषीदन्
आ त्व् एता निषीदतेन्द्रम् अभि प्र गायत
सखायस् स्तोमवाहसः॥
पुरूतमं पुरूणाम् ईशानं वार्याणाम्।
इन्द्रं सोमे सचा सुते॥
स घा नो योग आ भुवत् स राये स पुरन्ध्याम्॥
इति। पशवो वै रयिः। ततो वै ते तान् पशून् भूतान् उदसृजन्त। हिंकारेण हैवैनान् उत्ससृजिरे। ते हैते ऽत्र पश्चाद् उर्वारुपृश्नय इति पशवः। तद् एतत् पशूनाम उत्सृष्टिस् साम। अव पशून् रुन्द्धे बहुपशुर् भवति य एवं वेद। यद् उ मेधातिथिः काण्वो ऽपश्यत् तस्मान् मैधातिथम् इत्य् आख्यायते
अथ सौमेधम्। देवा वा असुरान् हत्वापूता इवामेध्या अमन्यन्त। तै ऽकामयन्त पूता मेध्यास् स्यामेति। त एतत् सामापश्यन्। तेनास्तुवत। ततो वै पूता मेध्या अभवन्। ते ऽब्रुवन् सुमेध्या वा अभूमेति। तद् एव सौमेधस्य सौमेधत्वम्। पूतो मेध्यो भवति य एवं वेद॥
तद् व् एवाचक्षते पौर्वतिथम् इति। पूर्वतिथिर् वा आर्चनानसश् श्यावाश्वात् कनीयान्। सो ऽकामयताव पशून् रुन्धीय भूमानं पशूनां गच्छेयम् इति। स एतत् सामापश्यत् तेनास्तुत।
आ घा गमद् यदि श्रवत् सहस्रिणीभिर् ऊतिभिः।
इति। सहस्रम् एव पशून् अवारुन्द्ध भूमानं पशूनाम् अगच्छत्। तद् एतत् पशव्यं साम। अव पशून् रुन्द्धे भूमानं पशूनां गच्छति य एवं वेद। यद् उ पूर्वतिथिर् आर्चनानसो ऽपश्यत् तस्मात् पौर्वतिथम् इत्य् आख्यायते॥
इन्द्र सुतेषु सोमेषु इत्य् उष्णिहो भवन्ति। देवपुरा वा एषा यद् उष्णिहः। ता यद् अन्ततः क्रियन्ते देवपुराम् एवैतद् अन्ततः परिहरन्ति पशूनां गुप्त्या असुराणाम् अनभ्यवचाराय
तासु कौत्सम्। कुत्सश् च लुशश् चेन्द्रं व्यह्वयेताम्। स कुत्सस्य हवम् आगच्छत्। तं शतेन वार्ध्रीभिर् आण्डयोर् अबध्नात्। तं लुशो ऽभ्यवदत्
स्ववृजं हि त्वाम् अहम् इन्द्र शुश्रवानानुदं वृषभ रध्रचोदनम्।
प्र मुञ्चस्व परि कुत्साद् इहागहि किम् उ त्वावान् मुष्कयोर् बद्ध आसते॥
इति तास् सर्वास् संलुप्य लुशम् अभि प्राद्रवत्। तं कुत्सः इन्द्र सुतेषु सोमेषु इत्य् अन्वाह्वयत्। तम् अभ्यावर्तत। तं लुशः इन्द्रा होयी हावे होयी इति। ताव् अन्तरातिष्ठत्। ताव् अब्रवीद् अंशम् आहरेताम् आत्मना वाम् अन्यतरस्य पास्यामि महिम्नान्यतरस्येति। तथेति। ताव् अंशम् आहरेताम् आत्मानम् अन्यतर उदजयन् महिमानम् अन्यतरः। आत्मानं कुत्स उदजयन् महिमानं लुशः। आत्मनान्यतरस्यापिबन् महिम्नान्यतरस्य। आत्मना कुत्सस्यापिबन् महिम्ना लुशस्य। उभा उ ह त्वाव तस्य ताव् आत्मानौ यद् आत्मा च महिमा च। तद् एतत् सेन्द्रं साम। सेन्द्रो हास्य सदेवो यज्ञो भवत्य् अभ्य् अस्येन्द्रो यज्ञम् आवर्तते नास्येन्द्रो यज्ञाद् अपाक्रामति य एवं वेद। यद् उ कुत्सो अपश्यत् तस्मात् कौत्सम् इत्य् आख्यायते॥
तद् एळम् अच्छावाकसाम भवति। पशवो वा इळा। पशुष्व् एवैतत् प्रतितिष्ठति
तद् आहू रथन्तरम् एव प्रथमे तृचे स्याद् वामदेव्यं द्वितीये बृहत् तृतीय एषां लोकानां समारोहायेति। इमे वै लोका एतानि सामानि। अयम् एव लोको रथन्तरम् अन्तरिक्षं वामदेव्यम् असाव् एव बृहत्। तस्माद् एवम् एव कार्यम् एषां लोकानां समारोहायेति। प्राणव्यानोदाना ह खलु वा एतानि सामानि। प्राण एव रथन्तरं व्यानो वामदेव्यम् उदानो बृहत्। तस्माद् एवम् एव कार्यं प्राणव्यानोदानानां संतत्या अव्यवच्छेदायेति॥
अथ यः कामयेत प्रजा मे श्रेयसी स्याद् इति रथन्तरम् एव प्रथमे तृचे कुर्याद् वामदेव्यम् उत्तरयोः। प्रजापतिर् वै वामदेव्यम्। प्रजापतिम् एव तत् स्वरम् अन्तत उपयन्ति प्रजननाय॥
बृहता श्रीकामस् स्वर्गकामस् स्तुवीत। श्रीर् वै स्वर्गो लोकः। बृहद् अश्नुते श्रियं गच्छति स्वर्गं लोकं य एवं वेद। अथो ह भ्रातृव्यलोकम् एव नावजहाति। भ्रातृव्यभाजनम् इव ह्य् एषा यद् रात्रिः॥
रथन्तरेण प्रतिष्ठाकामस् स्तुवीत। प्रतिष्ठा वै रथन्तरम्। प्रत्य् एव तिष्ठति॥
गायत्रीषु संधिना ब्रह्मवर्चसकामस् स्तुवीत। ब्रह्म वै गायत्री। ब्रह्मवर्चस्य् एव भवति॥
ककुप्सु पुरुषकामः। पुरुषो वै ककुप्। पुरुषवान् एव भवति॥
उष्णिक्षु पशुकामः। पशवो वा उष्णिक्। पशुमान् एव भवति॥
विराट्स्व् अन्नाद्यकामः। अन्नं वै विराट्। अन्नाद एव भवति॥
अनुष्टुप्सु प्रतिष्ठाकामः। प्रतिष्ठा वा अनुष्टुप्। प्रत्य् एव तिष्ठति॥
पंक्तिषु यज्ञकामः। यः कामयेत पुनर् मा यज्ञ उपनमेद् इति। यज्ञो वै पंक्तिः पुनर् एवैनं यज्ञ उपनमति॥
त्रिष्टुप्स्व् ओजस्कामः वीर्यकामः।ओजो वै वीर्यं त्रिष्टुप्। ओजस्व्य् एव वीर्यवान् भवति॥
जगतीषु पशुकामः।पशवो वै जगती। पशुमान् एव भवति॥
तद् आहुर् एकस्मिन् वावैतस्य छन्दस्य् एकस्मिन् कामे स्तुतं भवति य एवं स्तुते। अथैतस्य सर्वेषु छन्दस्सु सर्वेषु कामेषु स्तुतं भवति यो बृहतीषु स्तुते। बृहती ह्य् एवैतानि सर्वाणि छन्दांस्य् अभिसंपद्यन्त इति। गायत्री च जगती च ते द्वे बृहत्यौ। उष्णिक् च त्रिष्टुप् च ते द्वे बृहत्यौ। अनुष्टुप् च पंक्तिश् च ते द्वे बृहत्यौ। बृहत्य् एव बृहती। तस्माद् बृहतीष्व् एव स्तोतव्यम् एतेषां सर्वेषां छन्दसां सर्वेषां कामानाम् अवाप्त्यै
तद् आहुर् यत् त्रिवृद् एव स्तोमानां लघिष्ठो रथन्तरं साम्नाम्। आश्विनम् उ वै शस्त्राणां गरिष्ठम्। अथ कस्मात् त्रिवृद् एव स्तोमानां रथन्तरं साम्नाम् आश्विनस्य शस्त्रं प्रत्युद्यन्तुम् अर्हत इति। स ब्रूयात् प्राणो वै त्रिवृतः प्राणेष्व् इदं सर्वं प्रतिष्ठितं प्राणा इदं सर्वं प्रत्युद्यच्छन्ति प्राणा इदं सर्वं प्रतिप्रति। इमे वै लोकास् त्रिवृतः। एष्व् इदं लोकेषु सर्वं प्रतिष्ठितम्। इम इदं लोकास् सर्वं प्रत्युद्यच्छन्ति। इम इदं लोकास् सर्वं प्रतिप्रति। वाग् वै रथन्तरम्। वाचीदं सर्वं प्रतिष्ठितम्। वाग् इदं सर्वं प्रत्युद्यच्छति। वाग् इदं सर्वं प्रतिप्रति। इयं वै रथन्तरम्। अस्याम् इदं सर्वं प्रतिष्ठितम्। इयम् इदं सर्वं प्रत्युद्यच्छति। इयम् इदं सर्वं प्रतिप्रति। तस्मात् त्रिवृद् एव स्तोमानां रथन्तरं साम्नाम् आश्विनस्य शस्त्रं प्रत्युद्यन्तुम् अर्हत इति
तद् आहुर् यत् पवमानवन्तो ऽन्ये यज्ञक्रतवो ऽथ केनैषां रात्रिः पवमानवती भवतीति। रथन्तरेण संधिनेति ब्रूयात्। एतेन ह वै रात्रिः पवमानवती भवति। तेन सकृद् धिंकृतेन पराचा स्तुवते। सकृद् ध्य् एव परस्तात् त्रिवृते हिंकुर्वन्ति यत् प्रायणं तद् उदयनम् असद् इति॥
रेतस्सिक्तिर् ह त्वै पूर्वस् त्रिवृत् प्रजापतिर् उत्तरः। आत्मा वै प्रजा पशव एतानि तृचानि। प्रजापतिर् वै रथन्तरम्। यथा रेत एव सिक्तं स्यान् न प्रजायेत तादृक् तद् यत् सकृद् धिंकृतैस् स्तुवीरन्। तद् यत् तृचायतृचाय हिंकुर्वन्ति प्रजात्या एव। बहुर् भवति प्रजायते य एवं वेद॥
अथो हैषाम् एक एव पर्याय आयतनवान् स्यात्। आयतनौ द्वौ स्यातां यत् सकृद् धिंकृतैस् स्तुवीरन्। तद् यत् तृचायतृचाय हिंकुर्वन्ति तेनैवैषां सर्वरात्रिर् आयतनवती पवमानवती भवति। यथा वा अहस् तथा रात्रिर् यथा रात्रिस् तथाहः। पूर्वाह्णो मध्यंदिनो ऽपराह्णः पूर्वरात्रो मध्यरात्रो ऽपररात्रः। तद् यत् तृचायतृचाय हिंकुर्वन्त्य् अहोरात्रयोर् एव विधृत्यै
तद् आहुर् यद् एकविंशम् अनु सर्वे यज्ञक्रतवस् संतिष्ठन्ते ऽत्य् उ वा एकविंशान्य् उक्थानि रात्रिर् एत्य् अथ केनैषाम् एकविंशम् अनु रात्रिस् संतिष्ठत इति। स ब्रूयाद् यद् एवैत एकविंशतिश् च त्रिवृतो भवन्ति नव चैकविंशा इति॥
अथ ह स्माह भाल्लवेयः क उ स्विद् अन्योभयतो ज्योतिषा यज्ञक्रतुना यक्ष्यत इति। एष ह वा उभयतोज्योतिर् यज्ञक्रतुर् यद् अतिरात्रस् त्रिवृत् पुरस्ताद् बहिष्पवमानं भवति। त्रिवृद् उपरिष्टाद् राथन्तरस् संधिः। अग्निर् वै पूर्वस् त्रिवृद् आदित्य उत्तरः। अग्निना वा अयं लोको ज्योतिष्मान् आदित्येनासौ। उभयतो ज्योतिषास्य यज्ञक्रतुनेष्टं भवति ज्योतिष्मान् अस्मिंश च लोके ऽमुष्मिंश् च भवति य एवं वेद॥
तौ वा एतौ ब्रह्म चैव क्षत्रं च। ब्रह्म वै त्रिवृत् क्षत्रं पञ्चदशः। तद् एतद् ब्रह्म च क्षत्रं च संधाय रात्रिं वहतः। तद् एतद् ब्रह्म च क्षत्रं च संधायान्ततः पाप्मानम् अपहतस् तद् यद् एतौ स्तोमाव् अन्ततः क्रियेते। पाप्मानं हते य एवंवेद। तौ यद् गायत्रीं संपद्येते - तेजो वै ब्रह्मवर्चसं गायत्री -- तेजस्य् एव तद् ब्रह्मवर्चसे प्रतितिष्ठति। अथो यजमानम् एव तद् आयुषि प्रतिष्ठापयति सर्वायुष्ट्वाय। प्राणो(प्राणौ?) हि गायत्री। सर्वम् आयुर् एति य एवं वेद
विराट्संपदैव यज्ञेन यजेतेत्य आहुः। अन्नं वै विराट्। अन्नं ह वै देवानां सोमो राजा। अन्नम् एव तत् कृत्वा देवेभ्यस् सोमं राजानं प्रयच्छति। न ह वा एषो ऽनभिषुतो देवानाम् अन्नम्। तम् एतद् अभिषुत्यान्नं कृत्वा देवेभ्यः प्रयच्छति। यद् ध वा इह देवेभ्यः करोति तद् अस्मै देवाः कुर्वन्ति। त एनं समृद्धाः प्रजया पशुभिर् अन्नाद्येन समृद्धयन्ति॥
विराण् नातियष्टव्येत्य् आहुः। यो ह वै विराजम् अतियजते पुनर् ह सो ऽमुष्मिन् लोके यजमान आस्ते। स रूक्षः पुरुषो विराजं संपिपादयिष्न्न् ईप्सन्न् अनाप्नुवन्न् आस्ते। क्व हि तद् आप्स्यति यद् इतो नाप्त्वा प्रैति॥
पुरुषान् इव हासीनान् असितो दैवल उवाच क एत आसत इति। ये विराजम् अत्ययजामहीति होचुः। तान् हाभ्युवाद
स रथाद् अवपद्यते--
-- पुरश् चक्रं पथ्यो बिले।
तं चक्रम् अभिवर्तते यो ऽसंपन्नेन यजते॥
पाको यज्ञेन देवयुर् यद् ददाति तद् एवास्य न लोकम् अभिगच्छति॥
इति। पाकास् सन्तो ऽविजानन्तो ऽदेवायत इति हैनांस् तद् उवाच ये विराजम् अत्ययजध्वम् इति॥
तद् आहुः कुतो यज्ञम् अतथाः क्वैनं प्रत्यतिष्ठिप इति। यत एवैनम् अतसीति ब्रूयात् तद् एवैनं प्रत्यतिष्ठिपम् इति। पुरुषाद् ध वै यज्ञस् तायते पुरुषे प्रतितिष्ठति॥
अथ ह हृत्स्वाशया आल्लकेयो महावृषो राजा पुत्रं दीक्षयांचकार। तस्य ह सोमशुष्मस् सात्ययज्ञिर् उद्गीथायोढ आस। तम् उ ह महावृषाणां दूता आसस्रुर् आगच्छ समितिर् वा इयम् इति। तद् ध प्रधावयन्न् उवाचोद्गातर् एतं ते पुत्रं परिददानीति। स हेष्ट्वा पुनर् आजगाम। स होवाचोद्गातः क्व यज्ञं प्रत्यतिष्ठिपः क्व यजमानं क्वास्य पशून् इति। तद् ध न प्रत्युवाच। स होवाच पुनर् मे पुत्रं दीक्षयत न वै विद्म यत्र मे पुत्रम् अकृद् इति।त म् अह पुनर् दीक्षयांचक्रुः। तस्य ह स्वयम् एवोज्जगौ। स यत् प्रत्यवक्ष्यद् यजमान एव यज्ञं प्रत्यतिष्ठिपं यजमानं वामदेव्ये रथन्तरे ऽस्य पशून् इति
एतद् ध वै परमं वाचः क्रान्तं यद् दशेति। एतावद् ध परमं वाक् चक्रमे। तद् यत् परमं वाचः क्रान्तं तत् सर्वम् आप्नवानीति। अथ यद् अत ऊर्ध्वं विंशतिश् शतं सहस्रम् इत्य् अङ्गान्य् एवास्यै तानि पर्वाणि। वाच एव सा प्रभूतिः। तद् उ हात्रैव सर्वां विराजम् आप्नोति। पुरुषसंपद् ध खलु वा एषा दशाक्षरा विराट्। दश पुरुषे प्राणाः। सा वा एषैतासाम् एव नवतिशतस्य स्तोत्रियाणां प्रशंसा। नवतिशतं ह्य् एवैषो ऽग्निष्टोमः। संस्कृतस्तोत्रिया भवन्ति। कृतं तद् यद् अशीतिशतं कृतम् इदं दशकृतं सत्। तद् उ ह कुरव आहुर् द्वापर एष यन् नवतिशतं स्तोत्रियास् त्रयाणाम् अयानाम् अधमःः। कृतं वै त्रेताद्वापरम्। द्वे स्तोत्रिये उपप्रस्तुत्ये। स कृतस् स्तोमस् संपद्यते। कृतेन तज् जयति यज् जिगीषति। कृतेनोद्भिनत्ति। अथो पक्षाव् एतौ यत् पवमानौ। ताव् एव तत् समौ करोति। अथो विश्वज्योतिर् एव यज्ञक्रतुर् भवति। अथो द्व्यतिष्टुतः। ताव् एव विराजस् स्तनौ। स द्विपाद् यजमानः प्रतिष्ठित्यै
तद् उ ह स्माह कहोळः कौषीतकेयो दीर्घस्तनी बत तेषां विराट् येषां स्तोत्रिये विराजस् स्तनाव् इति। अपि नूनम् एतां विराजं प्रतिवेशतो दुह्र इति ह स्माह। अक्षय्याम् एवैतां संपदं देवा उपासत। ताम् ऋषय उपासत। ताम् उ एव वयं परो ऽवर उपास्महे। एतासाम् एव नवतिशतस्य स्तोत्रियाणां पञ्च च सहस्राण्य् आ चत्वारिंशतानि द्वासप्ततिर् अक्षराणि। तद् ये एव ते द्वासप्ततितमे अक्षरे ताव् एव विराजस् स्तनौ। स द्विपाद् यजमानः प्रतिष्ठित्या इति। तद् आहुर् यद् द्वापरस् स्तोमो ऽथ केन कृतस् स्तोम इति। अक्षरैर् इति ब्रूयात्। अथो स्तोत्रैर् इति। अथो स्तुतशस्त्रैर् इति। अथो यद् दशकृतम् इति ब्रूयात् तेनो एव कृतस् स्तोम इति। अयं ह वाव दशकृतम् उपाप्नोति
आपो वा इदम् अग्रे महत् सलिलम् आसीत्। तद् अपाम् एवैश्वर्यम् आसीत्। यद् अपाम् एवैश्वर्यम् आसीद् अपां राज्यम् अपाम् अन्नाद्यं तद् अग्निर् अभ्यध्यायन् ममेदम् ऐश्वर्यं मम राज्यं ममान्नाद्यं स्याद् इति। स एताम् अग्निष्टोमसंपदम् अपश्यत्। तयेमा अपो व्युदौहद् ऊर्ध्वाश् चावाचीश् च। स एतम् एव दिनर्दिनं स्तोमं गायन् केवलीदम् अन्नाद्यम् अकुरुत। स नवभिर् एकविंशैर् अमूर् ऊर्ध्वा उदतभ्नोत्। ताः परेण दिवं पर्यौहत्। ता एताः पर्यूढा ऋतुशो वर्षन्तीस् तिष्ठन्ति। एकविंशत्या त्रिवृद्भिर् इमा अवाचीर् अभ्यतिष्ठत्। ताः परेण पृथिवीं पर्यौहत्। ता एताः पर्यूढा अनूत्खायैक उपजीवन्ति --
--तिष्ठन्तीर् एके स्रवन्तीर् एके। स एवम् एता अपो व्यूह्य विनुद्यास्मिन् लोके ऽन्नम् आदत्। ता नाल्पकं न मध्यमं न महद् इवान्नाद्यम् अभ्यतिरिच्यत। एवम् एव द्विषन्तं भ्रातृव्यं व्यूह्य विनुद्यास्मिन् लोके ऽन्नम् अत्ति तं नाल्पकं न मध्यमं न महद् इवान्नाद्यम् अभ्यतिरिच्यते य एवं वेद। तम् एतम् अन्नं जिगीवांसं सर्वे देवा अभिसमगच्छन्त। ते वै तन् नाविन्दन्त। या ह्य् असौ यज्ञायज्ञीयस्यैकविंशी ताम् आसु बहिष्पवमानीषु नवसु प्रत्युपधाय शये ऽनन्तो भूत्वा परिगृह्यैतद् अन्नाद्यम्॥
अथो यथा पात्रे ऽङ्गारा ओप्तास् स्युर् एवम् एवैषु लोकेषु दृशे ऽनन्त आस। तान् अविन्दमानान् अब्रवीत् स्तुत मेति
तं वसवो गायत्र्या छन्दसा गायत्रेण साम्ना प्रातस्सवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तं रुद्रास् त्रिष्टुभा छन्दसा त्रैष्टुभेन साम्ना माध्यंदिनेन सवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तम् आदित्या जगत्या छन्दसा जागतेन साम्ना तृतीयसवनेनास्तुवन्। तांस् तस्मिन्न् एव सवन उपाह्वयत। तं विश्वे देवा वाङ् मनश् च प्रजापतिर् अनुष्टुभा छन्दसा यज्ञायज्ञीयेन साम्नास्तुवन्। तांस् तस्मिन्न् एव स्तोत्र उपाह्वयत। एवम् एते देवा एतं यज्ञक्रतुम् अन्वायतन्त। अथ य एनं नान्वायतन्त --
--शश्वद् ध ते पराभूता देवानाम् अशनया। अथ य एनम् अन्वायतन्त इम एतर्हि परिशिष्टाः। त उ एवापर्युषिभवितारः॥
स हैष वैश्वदेवस् स्तोमः। विश्वेषां हैव देवानां पुरा स्तोम आस। तेन यद् अग्निम् अस्तुवन् सास्याग्निष्टोमता। अग्निं हैनेनास्तुवन्। स्तुवते हैनेन स्वा स्तुवते ऽरणा। स्तुवते हैनेन जने स्वा य एवं वेद॥
स हैष नवैकविंशान् अभिसंपद्यते द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविंशः। एका स्तोत्रियातिरिच्यते। यजमानो हैव सो ऽतिरिच्यते यो वैवं वेद। यथा ह गिरौ ज्योतिर् भायाद् एवं तस्यां जनतायां भाति यस्यां भवति य एवं वेद॥
स उ एवैकविंशतस् त्रिवृतो ऽभिसंपद्यते। अग्निर् वै त्रिवृत्। तद् यद् वै किं च त्रिवृत् तत् सर्वम् अग्निम् एवाभिसंपद्यते। याश् च ह मह्तयस् संपदो याश् च क्षल्लिकास् ता ह सर्वा एवंविदम् अभिसंपद्यन्ते। सर्व एनं कामा अभिसंपद्यन्ते य एवं वेद। स एष एकविंशत्या त्रिवृद्भिर् अमुष्मिन्न् आदित्ये प्रतिष्ठितो नवभिर् असाव् एकविंशैर् अस्मिन्। ताव् एताव् एवम् अन्योन्यस्मिन् प्रतिष्ठितौ। प्रतितिष्ठति य एवं वेद
नासाव् अस्तम् एति नायम् अनुगच्छति। इमम् एवासाव् अभ्य् अस्तम् एति। तद् अस्यास्तत्वम्। इमं ह्य् एवासाव् अभ्य् अस्तम् एत्य् अमुम् एवायम् अभ्यनुगच्छति। तद् अमुष्यामुत्वम्। अमुं ह्य् एवायम् अभ्यनुगच्छति न हास्तम् एति नानुगच्छति य एवं वेद॥
ते हैते सवासिन्यौ देवते। गच्छति हैताभ्यां सवासित्वम्। अथो हास्यैते एव देवते। एषु लोकेषु सर्वपाप्मानम् अपघ्नत्यौ तिष्ठतः॥
यावद् उ ह वा अयम् अग्निर् अस्मिन् लोके दीप्यते तावद् अमुष्मिन् लोक आदित्यः न हैव तावद् एवंविदो लोकः क्षय्यः॥
यथा ह वा इदम् आयतनम् आयतनीं प्रेप्सेद् एवम् इमं लोकम् आपः प्रेप्सन्ति याश् चामूर् याश् चेमाः। तायन्न संभिन्दन्त्य् एतस्यैव स्तोमस्य क्रतोः। एष एवैनास् स्तोमो ऽपिददते। स यो न्वावैकस्य राज्यस्य त्राता द्वयोर् यस् त्रयाणां लोकी वाव स तेन मन्येत। अन्त्ये तु सलोक्य् असद् यस् तेषाम् एको ऽसद् ये ऽस्य लोकस्य त्रातारः। अस्य ह स लोकस्य त्रातॄणाम् एको भवति य एवं वेद। तेन लोकी सः। यावद् ध वा अप्य् एवंविदो ब्राह्मणा भवितारो न हैव तावद् याश् चामूर् आपो याश् चेमास् ता उभयीस् संपद्येमं लोकं निर्मृष्टारः
तस्य वा एतस्याग्निष्टोमस्य गायत्रीम् एव प्रातस्सवनं संपद्यते त्रिष्टुभं माध्यंदिनं सवनं जगतीं तृतीयसवनम्। तद् एतत् स्वयंसंपन्नं प्रातस्सवनम्। गायत्रम् एव सर्वम्॥
अथ चत्वारि छन्दांसि माध्यंदिनं सवनं गायत्री बृहती ककुप् त्रिष्टुप्। तस्या एतस्यै ककुभो ऽष्टाविंशत्यक्षरायै विंशतिम् अक्षराणि गायत्र्याम् उपदधाति। सा त्रिष्टुप् संपद्यते। अथ यान्य् अष्टाव् अतिरिच्यन्ते तानि बृहत्याम् उपदधाति। सा त्रिष्टुप् संपद्यते। त्रिष्टुब् एव त्रिष्टुप्॥
अथ षट् छन्दांसि तृतीयसवनं गायत्र्य् उष्णिक्ककुभाव् अनुष्टुब् जगती बृहती। तस्या एतस्यै गायत्र्यै चतुर्विंशत्यक्षरायै विंशतिम् अक्षराणि ककुभ्य् उपदधाति। सा जगती संपद्यते। अथ यानि चत्वार्य् अतिरिच्यन्ते तान्य् उष्णिह्य् उपदधाति। सा द्वात्रिंशदक्षरानुष्टुप् संपद्यते। अनुष्टुब् एवानुष्टुप्। तां द्वेधा व्यूहति। तस्यै षोडशाक्षराण्य् अनुष्टुभ्य् उपदधाति। सा जगती संपद्यते। स्वयम् एव परस्ताज् जगती। अथ यानि षोडशातिरिच्यन्ते तानि यज्ञायज्ञीयस्य बृहत्याम् उपदधाति। सा द्वापञ्चाशदक्षरा जगती संपद्यते। चत्वार्य् अक्षराणि जगतीम् अतियन्ति य एते चतुष्पादाः पशवः। अथो स्तना एव विराजो दोहः। अथो प्रतिष्ठैव। यथा चतुष्पदी प्रतिष्ठात् तथा। तद् व् अत्रैवानुव्येति। न किं चनातिरिच्यते। वामदेव्यस्य न्यूने त्रीण्य् उपदधाति --
--यज्ञायज्ञीय एकम्॥
गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। ब्रह्मणो ऽस्य सतः क्षत्रस्येव प्रकाशो भवति वैश्यस्येव रयिः पुष्टिर् य एवं वेद॥
तस्यो एवाक्षरशो गायत्रीम् एव प्रातस्सवनं संपद्यन्ते त्रिष्टुभं माध्यंदिनं सवनं जगतीं तृतीयसवनम्। एकान्नसप्ततिः प्रातस्सवनस्य स्तोत्रियाष् षष्टिस् त्रिष्टुभो माध्यंदिनं सवनं चतुर्विंशतिश् च जगतीस् तृतीयसवनम्। एका च ककुप्। पुरुषो वै ककुप्। स ह स यजमान एवैतस्यां संपद्य् अध्यूढः। तद् व् अत्रैवानुव्येति। न किं चनातिरिच्यते। एकस्यै ककुभो ऽष्टाविंशत्यक्षरायै चत्वार्य् अक्षराण्य् आदाय वामदेव्यस्य न्यूने त्रीण्य् उपदधाति यज्ञायज्ञीय एकम्। अथ या गायत्री परिशिष्यते ताम् अद एकान्नसप्तत्यां प्रातस्सवनस्य स्तोत्रियासु प्रत्युपदधाति। तद् उ हानन्तम्। अनन्तां श्रियं जयति य एवं वेद
तस्यो एव द्वे सवने बृहतीं संपद्येते। यथैव पुरा तृतीयसवनं तथा तृतीयसवनम्। एकान्नसप्ततिः प्रातस्सवनस्य स्तोत्रियाः। ताष् षट्चत्वारिंशद् बृहत्यस् संपद्यन्ते। या हि तिस्रो गायत्र्यस् ते द्वे बृहत्यौ। न ताष् षट्चत्वारिंशद् बृह्त्यस् संपद्यन्ते। तद् एतद् आयद् एव प्रातस्सवनं बृहतीम् अभिसंपद्यते। यस्माद् आयद् एव प्रातस्सवनं बृहतीम् अभिसंपद्यते तस्माद् ब्राह्मणो जायमान एव लोकी जायते। तं वा त्वै चरणेन भूयांसं कुरुते तं वा कनीयांसम्॥
अथैतद् द्वौ माध्यंदिनं सवनं संपादयत उद्गाता च होता च। चत्वारि छन्दांस्य् उद्गाता युनक्ति। तानि च होतानुशंसत्य् उप च त्रीण्य् आहरत्य् अनुष्टुभं पंक्तीं जगतीम्। गायत्री च जगती च ते द्वे बृहत्यौ। बृहत्य् एव बृहती। यस्माद् एतद् द्वौ माध्यंदिनं सवनं संपादयतस् तस्माद् राजन्यस्य कार्यो लोक इष्टापूर्तेन श्रद्धया ब्रह्मण्यतया। अथ यस्माद् यथैव पुरा तृतीयसवनं तस्माद् उ ब्राह्मणाच् च राजन्याच् च वैश्यो लोकी। इतरो न हि तथा लोकी यथा ब्राह्मणश् च राजन्यश् च
क्लृप्तं ह वै लोकं यजमानो ऽभिजायते। पशून् एव प्रथमस्य तृचस्य प्रथमया स्तोत्रियया जयति भूमिं द्वितीययाग्निं तृतीयया। अन्तरिक्षम् एव द्वितीयस्य च तृचस्य प्रथमया स्तोत्रियया जयति वायुं द्वितीयया प्राणं तृतीयया। दिवम् एव तृतीयस्य तृचस्य प्रथमया स्तोत्रियया जयत्य् आदित्यं द्वितीयया नक्षत्राणि तृतीयया। नवैता बहिष्पवमान्यो भवन्ति नव देवलोकाः। तान् एवैताभिर् आप्नोति॥
ता एतास् तिस्रो विराजो दैवी यज्ञिया मानुषी। एतासु ह सुचित्तश् शैलनो जनकं वैदेहं समूदे। स होवाच् श्रद्धाम् आविदद् ऋत्विजो मे ह्वयन्त्व् इति। तस्मै ह कुरुपञ्चालान् ऋत्विज ऊहुः। तेषु हागतेषु शैलनो बिभयांचकार गच्छद् ब्राह्मणा इवोदन्तायं वाहन लघूयेद् इति। स होवाच सम्राड् वाक्यम् एवम् अस्तीति। तिस्रो वा इमा विराजो तृष्यन्तीस् सर्वकामा अन्नाभिधानाः। तासु स्म त्वा यो ऽन्तर् अवदधाति तस्मै वोद्गातारं वृणीष्व। स वाव तेषां कामानाम् अभिवोढा। य एतासु कामास् स उ एव पुनर्मृत्योर् अतिवोढा य एवं वेदेति
अथ ह प्रधावयांचकार। तस्मिन् ह प्रैष्यन्नैमान् ह स्म पृच्छत्य् आसां विराजाम् ऋद्धिम्। ते ह स्मानाभ्यावयन्ति य उ ह स्माभ्यावयन्तीति। यां ह स्मैकाम् अभ्यावयन्ति स ह स्मात् ते ब्राह्मणं बताहं ब्राह्मणम् एतासु मीमांसमानम् अपश्यं मच् च धावत शैलनम् इति। तद् व्यचरं हास यथा शैलन इयेष॥
ता एतास् तिस्रो विराजो दैवी यज्ञिया मानुषी। सैषा दैवी विराड् यद् इमे लोकाः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर् यजमानम् अवदधाति। तस्या एतस्यै चन्द्रमा एवापिधानम्। एतद् धि देवानां प्रत्यक्षम् अन्नाद्यं यच् चन्द्रमाः॥
अथैषा यज्ञिया विराड् यद् एता बहिष्पवमान्यः। सा न्यूना। यजमानावधानायैव तन् न्यूना। तद् अन्तर् यजमानम् अवदधाति। तस्या एतस्यै हिंकार एवापिधानम्। हिंकारेण ह्य् एव देवेभ्यो ऽन्ततो ऽन्नाद्यं प्रदीयते॥
अथैषा मानुषी विराड् यद् इमे पुरुषे प्राणाः। सा न्यूना। स उ एव यजमानप्रत्यक्षम्। तस्या एतस्या अन्नम् एवापिधानम्॥
नाभिर् वा एतास् तिस्रो विराजः। अभि ह तान् कामान् आप्नोति य एतासु कामा अपि त्व् इह तेषु भवत्य् अति ह पुनर्मृत्यु मुच्यते बहुपुरुषम् अस्मिन् लोके ऽन्नम् अत्ति। न ह्य् एतद् एकपुरुषायान्नाद्यं यद् एतासु। यद् ध वै किं चेदम् अस्मिन् लोक आत्मन्वत् तद् ध सर्वं मृत्युर् एवाभिव्यादाय तिष्ठति। स यो ह स मृत्युस् संवत्सर एव सः। तस्य हर्तव एव मुखानि। तद् यद् वै किं च म्रियते न हास्यानृतौ म्रियते य एवं वेद। ऋतुषु वाव प्रजायते प्रजया पशुभिर् य एवं वेद
ता वा एता नव बहिष्पवान्यः। ताष् षड् बृहत्यः। षड् उ मृत्योर् मुखान्य् ऋतव एव। अथ ह वा एतानि मृत्योर् मुखानि बृहत्य् एव प्रतिविभवितुम् अर्हति नान्यच् छन्दः। स बृहत्यैवर्तोर् मुखम् अपिदधाति। बृहत्य् ऋतोर् बृहत्य् ऋतोः। स यथा समेन विषमम् अतीत्य प्रत्यवेक्षेतैवम् एवैतं मृत्युं पराङ् अतीत्य प्रत्यवेक्षते॥
तम् एव तं त्रिवृतं वज्रम् उपप्रवर्तयति। स एषो ऽहरहर् इमान् लोकान् अनुवर्तते। तद् ध स्माह नगरी जानश्रुतेयो न हैव तावद् देवासुरं भविता यावद् एव त्रिवृद् वज्रो ऽहरहर् इमान् लोकान् अनुवर्तत इति। ऊर्ध्वो ह्य् अयम् अग्निर् दीप्यते तिर्यङ्ङ् अयं वायुः पवते ऽर्वाङ् असाव् आदित्यस् तपति। त एते ऽनिमेषम् अन्योन्यम् ईक्षन्ते। कथम् एतेष्व् एवं सत्सु देवासुरं स्याद् इति। एष उ एवास्य त्रिवृद् वज्रो ऽहरहर् इमान् लोकान् अनुवर्तमानस् सर्वं पाप्मानम् अपघ्नन् पल्ययते य एवं वेद
तद् आहुस् स वाद्य यजेत स वान्यं याजयेद् यच् चतुष्टोमेन याजयन् सर्वस्तोमेन याजयति। नवैता बहिष्पवमान्यो भवन्ति। तासां सप्तविंशतिः पदानि। तेन त्रिणवं स्तोमं नान्तर्यन्ति। नवैवैता बहिष्पवमान्यो भवन्ति। चतुर्विंशत्यक्षरा गायत्री। तत् त्रयस्त्रिंशत्। तेन त्रयस्त्रिंशं स्तोमं नान्तर्यन्ति। एतद् वै चतुष्टोमेन याजयति॥
यो वै स्तोमानाम् अवमं परमं वेद गच्छति परमताम्। त्रिवृद् वाव स्तोमानाम् अवमस् त्रिवृत् परमः। तद् उ होवाच प्रकुर् वार्ष्णस् त्रिवृतं स्तोमं त्रयस्त्रिंशं भवन्तम् अपश्यं तस्माद् अहं परमताम् अगच्छम् इति। गच्छति परमतां य एवं वेद॥
अथ ह स्माहारुणिः किं सो ऽभिचरेत् किं वाभिचार्यमाण आद्रियेत य एतं त्रिवृतं वज्रं त्रिभृष्टिम् अच्छिद्रम् अच्छम्बट्कारिणम् अहरहर् इमान् लोकान् अनुवर्तमानं वेद। स्वयम् अभिचरितो वाव स यम् एवंविद् द्वेष्टि यो वैवंविदं द्वेष्टीति। एष उ एवैनं त्रिवृद् वज्रस् त्रिभृष्टिर् अच्छिद्रो ऽच्छम्बट्कार्य् अहरहर् इमान् लोकान् अनुवर्तमानो ऽभिवर्तते। तस्य न भूत्य् अल्पिकेव चनाशास्ति परापरैव भवतीति
तद् उ ह स्माहोपजीवः खाळायनो ऽहम् एवैतं त्रिवृतं वज्रं प्रत्यक्षं वेद तस्माद् यम् अहं द्वेष्मि यो मां द्वेष्टि ताव् उभौ शश्वद् एव पापीयांसौ भवत इति। अग्निर् वा अस्य लोकस्य वज्रो वायुर् अन्तरिक्षस्यादित्यो दिवः। तद् इद् अध्यात्मम्। यो ऽग्निर् वाग् एव सा यो वायुः प्राण एव स य आदित्यश् चक्षुर् एव तत्। तस्माद् यद् अहं द्विषन्तम् अभिवदामि यद् अभिप्राणिमि यद् अभिवीक्षे वज्रम् एवाहं तस्मै तं प्रहरामि। तस्य हरश्वेम्णेत्मिकेव नाशास्ति। एता उ एवैनं देवता धूर्वन्ति य एवं विद्वांसं धूर्वतीति॥
अथ ह स्माह श्वेतकेतुर् आरुणेयो यथाश्वस्य कृष्णकर्णस्येत्थादानीतस्य रूपं स्याद् एवम् एवाहम् एतस्य स्तोमस्य रूपं वेद। तावद् दृशेन्यं तावद् वपुषेण्यम्। तस्माद् आत्मा। य एव पूर्वाह्णे दिदृक्षन्ते ते ऽपराह्णे दिदृक्षन्ते। नैव सुदृशेन्यम् इव सन्तं नाहं कदा चन चक्षुष्मन्तं पर्येमीति॥
तद् उ होवाच शाट्यायनिः को ऽश्वश् श्वेतः किम् एकम् इति। यथैवास्याग्ने रूपं यथा त्विषिर् यथास्य वायोर् यथामुष्यादित्यस्यैवम् एवैतस्य स्तोमस्य रूपम् एवं त्विषिः। तद् एवैतत् प्रजा अभिवार्य दिदृक्षमाणास् तिष्ठन्ति। तस्माद् बहिष्पवमाने ये च विजानन्ति ये च न ते सर्वे ऽनीशाना अभिपरिवार्य दिदृक्षमाणास् तिष्ठन्तीति। अथो हैता यश एव। अप्य् अन्यासां देवतानाम्। तासाम् एतद् इन्द्रियं वीर्यं रसस् तेजस् संभृतं यद् एता बहिष्पवमान्यःः। स य एवम् एतद् देवतानाम् इन्द्रियं वीर्यं रसं तेजस् संभृतं वेदेन्द्रियवान् एव वीर्यवान् यशस्वी त्विषिमान् भवति
तद् आहुर् यत् पुरुषो योषां संभविष्यन् परोक्षं निलयनम् इच्छते ऽन्त एवान्ये पशवो ऽन्योन्यस्य स्कन्दन्ति किं तद् यज्ञे क्रियते यस्मात् तत् तथेति ब्रूयाद् यस्मात् त्रिवृत् स्तोमो बहिष्पवमाने प्राङ् इवोत्क्रम्य धिष्ण्येभ्यो निलीय गायत्रीं स्कन्दति मध्य एवान्य ऋत्विजो धिष्ण्यानां यद् अन्त आसते तस्मात् तत् तथेति। त्रिवृतं हि स्तोमं पुरुषो ऽन्वायत्तो धिष्ण्यान् अन्ये पशव इति॥
तद् व् एवाहुर् यत् स त्रिवृत् स्तोमो गायत्रीं स्कन्दति किं सा ततः प्रजनयतीति। इळान्तं यज्ञं सप्तनाभिम् इति ब्रूयात्। गायत्री गर्भं धत्ते। सा पुरोनुवाक्यां प्रजनयति। पुरोनुवाक्या याज्या याज्या वषट्कारं वषट्कार आहुतीर् आहुतयो दक्षिणा दक्षिणास् स्वर्गं लोकम्। तद् यथा वित्तं प्रवाहं क्षिप्रं प्रवहेद् एवम् एवैनम् एता देवतास् स्वर्गाय लोकाय प्रवहन्ति। त्रिवृद् एवैनं स्तोमो गायत्र्यै प्रयच्छति गायत्री पुरोनुवाक्यायै पुरोनुवाक्या याज्यायै याज्या वषट्काराय वषट्कार आहुतीभ्य आहुतयो दक्षिणाभ्यो दक्षिणास्स्वर्गं लोकं गमयन्ति॥
स एष इळान्तो यज्ञस् सप्तनाभिः। तस्य ह त्रिवृद् एव स्तोमो नाभिर् गायत्री नाभिः पुरोनुवाक्या नाभिर् याज्या नाभिर् वषट्कारो नाभिर् आहुतयो नाभिर् दक्षिणा नाभिः। उप हैनम् एष यज्ञो नमति य एवं वेद
पञ्चदशान्य् आज्यानि भवन्ति पञ्चदशापूर्यमाणस्यार्धमासस्य रात्रयः। तद् एव तेनाप्नोति। दश हस्त्याह्गुलयश् चत्वार्य् ऊर्वष्ठीवानि यद् ऊर्ध्वं नाभेस् तत् पञ्चदशम्। तद् एवात्रोपसंदधाति॥
पञ्चदशो माध्यंदिनः पञ्चदशापोछतो ऽर्धमासस्य रात्रयः। तद् एव तेनाप्नोति। दश पद्याङ्गुलयश् चत्वार्य् ऊर्वष्ठीवानि यद् अवाचीनं नाभेस् तत् पञ्चदशम्। तद् एवात्रोपसंदधाति॥
सप्तदशानि पृष्ठानि। द्वादश मासाः पञ्चर्तवः। तद् एव तेनाप्नोति। दश हस्त्याङ्गुलयस् सप्त शीर्षन्प्राणाः। तत् सप्तदशम्। तद् एवात्रोपसंदधाति॥
सप्तदशार्भवः। द्वादश मासाः पञ्चर्तवः। तद् एव तेनाभिपूर्वम् आप्नोति। दश पद्याङ्गुलयश् चत्वार्य् ऊर्वष्ठीवानि त्रयो ऽवाचः प्राणाः। तत् सप्तदशम्। तद् एवात्रोपसंदधाति॥
एकविंशम् अग्निष्टोमसाम। द्वादश मासाः पञ्चर्तवस् यत्र इमे लोका असाव् आदित्य एकविंशः। तद् एव तेनाप्नोति। दश हस्त्याङ्गुलयो दश पद्या आत्मैकविंशः। तद् एवात्रोपसंदधाति
स हैवं विद्वान् अहोरात्रयोर् अर्धमासशो मासश ऋतुशस् संवत्सरश एतस्मिन् सर्वस्मिन्न् आत्मानम् उपसंधाय तं मृत्युं तरति यस् स्वर्गे लोके। न हैवंवित् पुनर् म्रियते। तस्य हर्ङ्मयान्य् अस्थानि भवन्ति साममयानि मांसानि। स एषो ऽपहतपाप्मा धूतशरीरो ऽतीत्यैतं मृत्युं शरीरं धूनुते॥
अथैते दैवी च मानुषी च विराजौ। तयोर् एव एतद् आदित्यो ऽध्यूढस् तपति। चतस्रो दिशस् चत्वारो ऽवान्तरदेशा द्वाव् इमौ लोकौ। एषा दैवी विराट्। अथ मानुषी। चत्वारो ऽत्तारष् षड् आद्याः। ब्राह्मणश् च राजन्यश् च वैश्यश् च शूद्रश् चैते ऽत्तारः। गौश् चाश्वश् चाजाश् चाविश् च व्रीहिश् च यवश् चैत आद्याः। एतयोर् एष एतद् आदित्यो ऽध्यूढस् तपति। तन् न शोको न हिमो नाशनायति न पिपासति नास्य का चनावृत्तिर् अस्ति। न ह वा अशनायति न पिपासति नास्य का चनावृत्तिर् भवति य एवं वेद
यजमानं ह वा एतद् उद्गाता रेतो भूतं सिञ्चति यद् बहिष्पवमानं गायति। मन एव रेतस्यया समीरयति प्राणं गायत्र्या चक्षुस् त्रिष्टुभा श्रोत्रं जगत्या वाचम् अनुष्टुभा। आत्मानम् एव पंक्त्या प्रत्युपदधाति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्। प्रैव तेन जनयति॥
यस्माद् एतद् घोषीवोपब्दिमद् इव गायते तस्माद् घोषीवोपब्दिमद् इव गर्भा जायन्ते। तद् उ वा आहुर् अघोषम् एव गेयम्। यदा वै विजायमाना क्ररिकुरुते ऽथ सा घोषा- करोति। अथो शनैर् इव वा अघोषम् इव मागामृष्टिद् विजायते। अथो हैतत् सत्यं यद् गायत्रम्। तस्य संपदं लोभयेद् रथन्तरवर्णाम् अभ्यस्येत्। तस्माद् अघोषम् एव गेयम् इति॥
अथाग्नेयम् आज्यम् एकदेवत्यम्। प्रेतिर् एव सा। अथैन्द्राग्नं द्विदेवत्यम्। प्रतिष्ठितिर् एव सा। सा वा एषा प्रेतिश् चैव प्रतिष्ठितिश् च। प्रतितिष्ठति य एवं वेद॥
त्रिवृत्पञ्चदशाभ्यां पुरुषो ऽस्मिन् लोके प्रतिष्ठितः। स यम् एव हरति स त्रिवृद् येन प्रतितिष्ठति स पञ्चदशः। तौ वा एताव् उभाव् एव त्रिवृताव् उभौ पञ्चदशौ। तेजो वै ब्रह्मवर्चसं त्रिवृत् स्तोम ओजो वीर्यं पञ्चदशः। ओजसैव तद् वीर्येण प्रतिष्ठाय तेजो ब्रह्मवर्चसं हरति य एवं वेद
अथ माध्यंदिनस्य पवमानस्य गायत्री। यो ऽयम् अवाङ् प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् एतेन द्वयं प्राणेन करोति भस्म च करोति वातं च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥
अथ बृहती। यो ऽयं प्राङ् प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् एतेन द्वयं प्राणेन करोति रेतश् च सिञ्चति मेहति च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान्न् नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥
अथ त्रिष्टुप्। नाभिर् एव सा। तस्याम् एकं साम। तस्माद् एतेनैकम् एव प्राणेन करोति यद् एव प्राणान् उदनतो ऽनूदनिति॥
अथ पृष्ठानि। इन्द्रियं वै वीर्यं पृष्ठानि। तस्माद् ये के चानूकभाजो गोर् अश्वस्य पुरुषस्य तेषाम् अनूकम् एव बलिष्ठम्। इन्द्रियं ह्य् एतद् वीर्यं यत् पृष्ठानि। तानि बृहतीषु भवन्ति। तस्माद् इमा बृहतीर् इव कीकसा बृहतीर् इव पशवः पृष्ठम् अभिसमायन्ति॥
अथार्भवस्य पवमानस्य गायत्री। यो ऽयं प्राण एष एव सः। तस्यां द्वे सामनी। तस्माद् द्वयं प्राणेन करोति प्राण्यापानिति। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् नेतर इतरम् अनुनिनर्दति नेतर इतरम्। एतेन हि तद् विहृतम्॥
अथोष्णिक्ककुभौ। चक्षुषी ते। समानं छन्दः। द्वे सामनी। तस्माद् द्वे अक्ष्यौ समानं पश्यतः। त्रिपदोर् ऋचोर् भवतः। तस्मात् त्रिवृच् चक्षुश् शुक्लं कृष्णं कनीनिका। परोवरीस्योर् ऋचोर् भवतः। तस्मात् परोवरीयः पुरुषः पश्यति। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् नानावीर्ये चक्षुषी॥
अथानुष्टुप्। वाग् एव सा। तस्यां द्वे सामनी। तस्माद् द्वयं वाचा करोत्य् अन्नं चैनयात्ति वदति च। नाना प्रस्तावो नाना निधने हिंकारो ऽन्तरेण। तस्मान् न सर्वं सत्यं वाचा वदति न सर्वम् अनृतम्। एतेन हि तद् विहृतम्॥
अथ जगती। श्रोत्रम् एव तत्। तस्याम् एकं साम। तस्माद् एतेनैकम् एव श्रोत्रेण करोति यद् एव शृणोति। चतुष्पदायाम् ऋचि भवति। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोति। अपि पराङ् यन् पश्चाद् वदतश् शृणोति॥
अथ यज्ञायज्ञीयम्। शिर एव तत्। अध्यूढं वा एतद् अन्येष्व् अङ्गेषु यच् छिरः। अध्यूढम् अन्येषु स्तोत्रेषु यज्ञायज्ञीयम्। अध्यूढो ऽन्येषु स्वेषु भवति य एवं वेद। उपरि वा एतद् अन्येभ्यो ऽङ्गेभ्यो यच् छिरः। उपर्य् अन्येभ्यस् स्तोत्रेभ्यो यज्ञायज्ञीयम्। उपर्य् अन्येभ्यस् स्वेभ्यो भवति य एवं वेद॥
स एषो ऽपहतपाप्मा यज्ञ एव प्रत्यक्षम्। तस्य ह नोपवदंश् च न पापं कर्तास्ति। यद्य् एनं बहिष्पवमाने ऽनुव्याहरेद् यज्ञस्य रेतस् सिक्तम् अचीक्लृपं यज्ञमारो ऽरेतस्का ते प्रजा भविष्यतीत्य् एनं ब्रूयात्। यद्य् एनम् एकदेवत्य आज्ये ऽनुव्याहरेद् यज्ञस्य प्रेतिम् अचीक्लृपं यज्ञमार् प्रेत्य् अजनयं मरिष्यसीत्य् एनं ब्रूयात्। यद्य् एनं द्विदेवत्य आज्ये ऽनुव्याहरेद् यज्ञस्य प्रतिष्ठाम् अचीक्लृपं यज्ञमारो ऽप्रतिष्ठितो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनं माध्यंदिनस्य पवमानस्य गायत्र्याम् अनुव्याहरेद् यज्ञस्यावाञ्चं प्राणम् अचीक्लृपं यज्ञमारो वीघातस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयाद् अवस्नावस् त्वा हनिष्यतीति। यद्य् एनं बृहत्याम् अनुव्याहरेद् यज्ञस्य शिश्नम् अचीक्लृपं यज्ञमारो मूत्रग्राहस् त्वा हनिष्यतीत्य् एनं ब्रूयात्।अथो ह ब्रूयाद् अरेतस्को भविष्यसीति। यद्य् एनं त्रिष्टुभ्य् अनुव्याहरेद् यज्ञस्य नाभिम् अचीक्लृपं यज्ञमार उदावर्तस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। यद्य् एनं पृष्ठेष्व् अनुव्याहरेद् यज्ञस्येन्द्रियं वीर्यम् अचीक्लृपं यज्ञमारो वज्रस् त्वा हनिष्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयाद् अनाज्ञातवधस् त्वा हनिष्यतीति
यद्य् एनम् आर्भवस्य पवमानस्य गायत्र्याम् अनुव्याहरेद् यज्ञस्य प्राणम् अचीक्लृपं यज्ञमारः प्राणस् त्वा हास्यतीत्य् एनं ब्रूयात्। अथो ह ब्रूयात् प्रमायुको भविष्यसीति। यद्य् एनम् उष्णिक्ककुभोर् अनुव्याहरेद् यज्ञस्य चक्षुषी अचीक्लृपं यज्ञमारो ऽन्धो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनम् अनुष्टुभ्य् अनुव्याहरेद् यज्ञस्य वाचम् अचीक्लृपं यज्ञमारो वाक् ते ऽपक्रमिष्यतीत्य एनं ब्रूयात्। अथो ह ब्रूयाद् अशनया मरिष्यसीति। यद्य् एनं जगत्याम् अनुव्याहरेद् यज्ञस्य श्रोत्रम् अचीक्लृपं यज्ञमारो बधिरो भविष्यसीत्य् एनं ब्रूयात्। यद्य् एनं यज्ञायज्ञीये ऽनुव्याहरेद् यज्ञस्य शिरो ऽचीक्लृपं यज्ञमारश् शिरस्ते विपतिष्यतीत्य् एनं ब्रूयात्
एते ह वै प्रतिव्याहराः न हैवंविद् यज्ञियाम् आर्तिम् आर्छति। य एवैनम् उपवदति स आर्तिम् आर्छति। स य एनम् उपवदेत् तं ब्रूयात् पूर्णम् एवाहम् एतं साङ्गं सतनुं सर्वंयज्ञं वेद स यत् त्वम् अत्रोनं वेत्थ तत् त्वयैवापिदधानीति। स एवार्तिम् आर्छति य एवं विद्वांसम् उपवदति॥
स एष प्रजापतिर् अग्निष्टोमो ऽमूम् एकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु प्रत्युपधाय शय एता द्विष्टना विराजो दुहानः पञ्च पञ्चदशानि पञ्च सप्तदशानि। ता एव पञ्च द्वात्रिंशिनीर् विराजः दुहे ह वै विराजं सर्वान् कामान् य एवं वेद। स हैवं विदो ऽनृतं चन वदतो यज्ञस् स्रवति। स्रवति ह वा अनृतं वदतो यज्ञो ऽथो ह पूयति। नो ह त्व् एवंविदो यज्ञस् स्रवति न पूयति। तस्मात् कुरुपञ्चाला द्विष्टनां न दुह्रे। प्रजापतेर् ह सा। तस्माद् व् अन्य उदन्ता दुह्रे। नहि ते तां विदुः। तस्माद् व् अन्य उदन्ता अशनायुकतरा इव॥
स एष प्रजापतिर् अग्निष्टोमः --
--परिमण्डलो भूत्वानन्तो भूत्वा शये। तदनुकृतीदम् अप्य् अन्या देवताः परिमण्डलाः परिमण्डल आदित्यः परिमण्डलश् चन्द्रमाः। परिमण्डला द्यौः परिमण्डलम् अन्तरिक्षं परिमण्डलेयं पृथिवी। अपि यद् इदं पुरुषे दिव्यं तत्परिमण्डलम्। एतस्यैव न्यङ्गम् अनुन्यञ्जानः परिमण्डलां महतीम् अनन्तां श्रियं जयति य एवं वेद॥
स एष यज्ञ ऊर्ध्व एव पुरुषम् अन्वायत्तः। तस्य पादाव् एव बहिष्पवमानम्। इमान्य् एव चत्वार्य् ऊर्वष्ठीवान्य् आज्यानि। यद् अर्वाचीनं नाभेस् स त्रिछन्दा माध्यंदिनः। पृष्ठान्य् एव पृष्ठानि। अयम् आर्भव इदम् अग्निष्टोमसाम॥
तद् ध नगरिणं दाल्भ्यं ब्राह्मणः पप्रच्छ कद्र्यङ् यज्ञ इति। स होवाचोर्ध्व एव पुरुषम् अन्वायत्त इति। एवं ह तद् उवाच। स य एवम् एतद् ऊर्ध्वम् आत्मन् यज्ञं तायमानं वेदोर्ध्व् एव प्रजया पशुभी रीहन्न(रोहन्न्) एति। य उ एनं प्रत्यञ्चं वेद प्रत्यङ भूतिं भवति। तस्येदम् एव बहिष्पवमानम् इमान्य् आज्यान्य् अयं माध्यंदिनः पृष्ठान्य् एव पृष्ठान्य् अयम् आर्भवः प्रतिष्ठैव यज्ञायज्ञीयम्। प्रत्यङ् भूतिं भवति। य एवम् एताव् आत्मन् यज्ञौ तायमानौ वेदोप हैनं यज्ञौ नमतः
तस्यैष श्लोकः
यद् अस्य पूर्वम् अपरं तद् अस्य यद् व् अस्यापरं तद् व् अस्य पूर्वम्।
अहेर् इव सर्पणं शाकलस्य न विजानामि यतरत् पुरस्तात्॥
इति। शकलो ह गौपायनो यज्ञं मिमान इयाय। स ह स्मैतन् न विजानाति कतरद् यज्ञस्य पूर्वं कतरद् अपरं कतरद् अणीयः कतरत् स्थवीय इति। तद् आहुः कुतो यज्ञस्याणिष्ठम् इति। यतो वरिष्ठम् इति। कुतो वरिष्ठम् इति। यतो ऽणिष्ठम् इति। बहिष्पवमानं वाव प्रति यज्ञो ऽणिष्ठः। तद् इदं पादाव् अवोचत्। पादौ वै प्रति पुरुषो ऽणिष्ठः। तद् वै वरिष्ठः। पद्भ्यां ह्य् एति। कुतो वरिष्ठ इति। यतो ऽणिष्ठ इति। यज्ञायज्ञीयं वाव प्रति यज्ञो ऽणिष्ठः। तद् इदं शिरो ऽवोचत्। शिरो वै प्रति पुरुषो ऽणिष्ठः। तद् वै वरिष्ठः। अक्षिभ्यां हि पश्यन्न् एति॥
तद् आहुर् यद् ऊर्ध्वो यज्ञस् तायेत देवा एव जीवेयुर्न मनुष्याः। यद् अर्वाङ् तायेत मनुष्या एव जीवेयुर् न देवा इति। ऊर्ध्वश् च ह वै यज्ञस् तायते ऽर्वाङ् चाथो ह तिर्यङ्। तद् यत् पृच्छेयुः कद्र्यङ् यज्ञ इत्य् ऊर्ध्व इति ब्रूयाद् अथो ऽर्वाङ् इत्य् अथो तिर्यङ्ङ् इति। सर्वा एव दिश इति ब्रूयात्। सर्वा उ ह वै दिश एवंविदो यज्ञस् ततो भवति॥
कुरुपञ्चाला ह ब्रह्मोद्यम् ऊदिरे। ते ह श्वानं संवेष्टितं शयानम् उपेयुः। ते होचुर् अस्मिन् न्व् एव नो विजयो ऽध्य् अस्त्व् इति। ते ह पञ्चालाः कुरून् पप्रच्छुः किम् अस्य यज्ञस्येवेति। तद् ध न प्रत्यूचुः। स होवाच वसिष्ठश् चैकितानेयो यथा वा असाव् अदो ऽमूम् एकविंशीं यज्ञायज्ञीयस्यासु बहिष्पवमानीषु नवसु प्रत्युपधाय शय एवं वा अयम् इदम् उभाव् अन्तौ संधाय शये। तस्य वा अयं यज्ञक्रतोर् अनया शय्ययो रूपं निगच्छतीति। तस्माद् इदम् अनर्थ्यं सन्तं बिभृतेति। तेन ह जिग्युः
द्विर् ह वै यजमानो जायते मिथुनाद् अन्यज् जायते यज्ञाद् अन्यत्। तद् यन् मिथुनाज् जायते तद् अस्मै लोकाय जायत। अथ यद् यज्ञाज् जायते तद् अमुष्मै लोकाय जायते गन्धर्वलोकाय जायते देवलोकाय जायते स्वर्गलोकाय जायते॥
यज्ञो वै यजमानो यज्ञस् सोमो राजा। तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुण्वन्ति यजमानम् एव तद् रेतः कुर्वन्ति॥
प्रजापतिर् एष यद् उद्गाता। स त्वष्टा स रेतसस् सेक्ता स रूपाणां विकर्ता। तद् यद् बहिष्पवमान रेतस्यां गायति यजमानम् एव तद् रेतोभूतं सिञ्चति। यद् ऋचम् असाम्नीं गायेद् अस्थ्य् एव जायेत न मांसम्। यत् सामानृचं गायेन् मांसम् एव जायेत नास्थि। ऋचं साम्नाभिलिप्तां गायति। तस्माल् लोम्ना त्वचा मांसेन पुरुषो ऽभिलिप्तो जायते॥
तस्यां न हिंकुर्यात्। यद् धिंकुर्याद् वज्रेण हिंकारेण रेतो विच्छिन्द्यात्। यो हि तद् अपि बालेन वीयात् स एवैनद् विच्छिन्द्यात्। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अरेतस्का गर्भा जायेरन्। अरेतस्का ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते
गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षऱए व्यतिषजति। प्राणापानाव् एव तद् व्यतिषजति। तस्मात् प्राणापानौ तद् व्यतिषक्तौ प्रजा अनुसंचरत आ च परा चायातयामानौ। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेन् मृता गर्भा जायेरन्। मृता ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥
त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। चक्षुषी एव तद् दधाति। तस्माद् युक्ते इव चक्षुषी। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अन्धा गर्भा जायेरन्। अन्धा ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥
जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। श्रोत्रम् एव तद् दधाति। श्रोत्रे द्वे परिश्रवणे द्वे। तस्मात् समानत्र सन् सर्वा अनुदिशश् शृणोति। अपि पराङ् यन् पश्चाद् वदतश् शृणोति। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् बधिरा गर्भा जायेरन्। बधिरा ह वै दुरुद्गातुर् वर्तन्यां गर्भा जायन्ते॥
अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् अर्वाचीम् अभिनुदन् गायति वाचो ऽनपक्रामाय। यत् पराचीम् अपनुदन् गायेद् वाचं प्रधमेद् वाग् अस्माद् अपक्रामुका स्यात्। तां यद् अर्वाचीम् (?) अभिनुदन् गायत्य् आत्मन्न् एव तद् वाचं प्रतिष्ठापयति। तस्यै निरुक्तं चानिरुक्तं च पदे गायति। निरुक्तेन वै वाचो भुञ्जते ऽनिरुक्तम् अस्या उपजीवनीयम्। भुंक्ते वाचोप चैनं जीवति य एवं वेद। स यन् निरुक्तम् एव गायेद् वदेयुर् एव प्रजा न तूष्णीम् आसीरन्। अथ यद् अनिरुक्तं गायेत् तूष्णीम् एव प्रजा आसीरन् न वदेयुः। यस्मान् निरुक्तं चानिरुक्तं च पदे गायति तस्मात् प्रजा वदन्ति च तूष्णीं चासते
तां बलवद् उपब्दिमतीं निघातं गायेत्। निघ्नद् अव ह खलु वा एतच् छन्दो यद् अनुष्टुप्। अनुष्टुभा वै वाचा छन्दसा देवा असुरान् अवाचो ऽवाघ्नन्। तां यद् बलवद् उपब्दिमतीं निघातं गायति -- भ्रातृव्यो वै पाप्मा -- भ्रातृव्यम् एतत् पाप्मानं वाचम् अवहन्ति श्रियम् आत्मनाश्नुते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेद् अजिह्वा गर्भा जायेरन्। अजिह्वा ह वै दुरुद्गातुर् वर्तन्या गर्भा जायन्ते॥
पंक्तिं गायति। ऋतवो वै पंक्तिः। तां गायत्रीम् एव प्रसृतां गायति। तस्माद् गर्भा जायमानाः प्रसार्यन्ते। ताम् अधीयन् गायेत्। यद् अनधीयन् गायेत् सामि गर्भाः पतेयुः। सामि ह वै दुरुद्गातुर् वर्तन्यां गर्भाः पतन्ति। अथ यद् एतद् उत्तमं तृचं जन्मैव तत्। प्रैव तेन जनयति॥
मनो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। स यो मनो रेतस्येति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति महामना मनस्व्य् अस्माद् आजायते। अथ यः प्राणो गायत्रीति विद्वान् उद्गायति सर्वम् आयुर् एति। अथ यो ऽस्माद् आजायते स सर्वम् आयुर् एति। अथ यश् चक्षुस् त्रिष्टुब् इति विद्वान् उद्गायत्य् अह्रीतमुखी पश्यो दृष्ट्यास्माद् आजायते दर्शनीयः। अथ यश् श्रोत्रं जगतीति विद्वान् उद्गायति शुश्रूषुश् श्रोत्रियेणास्माद् आजायते श्रवणीयः। अथ यो वाग् अनुष्टुब् इति विद्वान् उद्गायति शस्तोद्गाता वाचोरार्द्ध्य् अस्माद् आजायते --
-- सभेयः॥
एवं ह्य् एतत् कुरुपञ्चाला अविदुः। तस्मात् कुरुपञ्चालेषु सर्वैर् वीरैस् सह वीर आजायते। अथ यर्ह्य् एतद् उदन्ताः पुरा नावेदिषुस् तस्माद् उदन्तेषु पुरा सर्वैर् वीरैस् सह वीरो नाजनि। अथ यत इदम् उदन्तान् एवंविदश् च सचन्त एवंविदश् चैनान् याजयन्ति ततो हर्वाचीनम् उदन्तेषु सर्वैर् वीरैस् सह वीर आजायते॥
कुरुपञ्चाला ह ब्रह्मोद्यम् ऊदिरे। ते ह पञ्चालाः कुरून् पप्रच्छुः किं वयं तद् यज्ञे ऽकुर्म येनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। तद् ध न प्रत्यूचुः। तेन हैनान् जिग्युः। ते यत् प्रत्यवक्ष्यन् यस्माद् वयम् एवंविदश् च स्म एवंविदश् च नो याजयन्ति तेनास्मासु सर्वैर् वीरैस् सह वीर आजायत इति। सर्वैर् ह वा अस्माद् वीरैस् सह वीर आजायते य एवं वेद॥
तद् आहुर् विगेया धुरा न विगेया इति। विगेया इत्य् आहुः --
--कुरवः॥
गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री ब्रह्म प्रातस्सवनं -- स्व एव तद् आयतने ब्रह्म दधाति॥
अथ यत् त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप्। एनानि वै क्षत्रे शिल्पानि हस्तिनिष्को ऽश्वतरीरथो ऽश्वरथो रुक्मः कंसः -- तान्य् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥
अथ यज् जगतीं गायति - - विड् वै जगती। एतानि वै विशि शिल्पानि गोऽश्वं हस्तिहिरण्यम् अजाविकं व्रीहियवास् तिलमाषास् सर्पिः क्षीरं रयिः पुष्टिः -- तान्य् एव तद् आहृत्य ब्रह्मण्य् अनक्ति॥
तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्राद् एव तद् आहृत्य ब्रह्मण्य् अनक्ति
तद् यथा तूष्णीं कशनैर् विहन्याद् एवम् एवैतानि सर्वाणि शिल्पान्य् आहृत्य ब्रह्मण्य् अनक्ति। तस्माद् विगेया इति॥
यतो ह वा इदम् एता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अन्नाद्या ह ब्राह्मणा आसुः। एकापच्चादेवा (एकापश्चादेवा?) हर्वाशत एकशकटे वशे हस्मद् अमथित्वा सत्ययज्ञः पौलुषिर् याति। अथ यत इदम् एता विगीयन्ते ततो हैतानि शिल्पानि ब्राह्मणेष्व् अधिगम्यन्ते॥
गायत्रीं पुरस्ताद् गायति गायत्रीम् उपरिष्टात्। ब्रह्म वै गायत्री। ब्रह्मणैव तद् एतान्य् उभयतश् शिल्पानि परिगृह्णाति। ब्रह्मणा हैनम् एतान्य् उभयतश् शिल्पानि परिगृहीतान्य् उपतिष्ठन्ते य एवं वेद॥
न विगेया इत्य् आहुः पञ्चालाः। स्वयं विगीता वा एता यद् धुरः। अनुसवनं वा एता विगायन्न् अभ्यारोहति। अथ यद् एनान् पापी कीर्त्तिर् अनुतिष्ठति व्यगासिषुर् इति। यौ वै युध्येते याव् ऋतीयेते ताव् आहुर् व्यगासिष्ठाम् इति। अथो ये राष्ट्रे प्यवभिन्दाने --
--तिष्ठत इति॥
गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रे सति प्रातस्सवने गायत्रीं गायति -- ब्रह्म वै गायत्री -- ब्रह्मैव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
अथ यत् त्रिष्टुभं गायति -- क्षत्रं वै त्रिष्टुप् -- क्षत्रियम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
अथ यज् जगतीं गायति -- विड् वै जगती -- वैश्यम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- शूद्रम् एव तद् ब्राह्मणस्य स्वे ऽन्वाभजति। सो ऽस्यादित्सत उपजिहीर्षते। अथो ऽस्यैव तत्। स्वेन ह्य् एनम् आभजति॥
यद्य् आवृङ् (आविर्?) नाथो पाके नैव लिप्सते। तस्मान् न विगेया इति। यतो ह वा इदम् एता विगीयन्ते ततो हेदं ब्राह्मणा जीयन्ते। अथ यर्ह्य् एता न विजगुर् अजेया ह ब्राह्मणा आसुः
गायत्रं वै प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम्। तद् एवानुष्टुब् अन्वायत्ता। स यद् गायत्रं सत् प्रातस्सवनं सर्वम् एव गायत्रं गायति ब्रह्मण एव तं केवलम् उद्धारम् उद्धरति। सो ऽस्य ब्रह्मणः केवल उद्धार उद्धृतो भवति॥
अथ यत् त्रैष्टुभं सन् माध्यंदिनं सवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तत् क्षत्रियस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै क्षत्रियं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥
अथ यज् जागतं सत् तृतीयसवनं गायत्रेणैवानुप्रतिपद्यते ब्राह्मणम् एव तद् वैश्यस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै वैश्यं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति॥
तद् एवानुष्टुब् अन्वायत्ता। अथ यद् अनुष्टुभं गायति -- आनुष्टुभो वै शूद्रः -- ब्राह्मणम् एव तच् छूद्रस्य स्वे ऽन्वाभजति। सो ऽस्मै दित्सति श्रद्धया कर्मणोपचारेण। यदा वै शूद्रं श्रद्धा विन्दति ब्राह्मणं वाव स तर्हीछति। सो ऽस्मै ददाति। केवलं स्वं कुरुते ऽपित्वी क्षत्रे भवत्य् अपित्वी विशि। यात्य् अन्तस्थान्तस्थायां जीयते। उप हैनं शतं परिस्कन्दास् तिष्ठन्ते ऽथो भूयांसो य एवं विद्वान् धुरो न विगायतीति। स यदि विगायेद् अदो विद्वान् विगायेत्। यद् उ न विगायेद् इदं विद्वान् न विगायेत्। आर्तिस् सा यो ऽन्यतरद् एव वेदेति ह स्माह शाट्यायनिः
रेतस्यां गायति। रेतस् तत् सिञ्चति। तद् रेतस् सिक्तं गायत्र्योद्वर्धयति वर्षीयसा छन्दसा। तत् त्रिष्टुभोद्वर्धयति वर्षीयसा छन्दसा। तज् जगत्योद्वर्धयति वर्षीयसैव छन्दसा। तद् यद् वर्षीयसा छन्दसोद्वर्धयति तस्माद् वर्धमानस्य भूयोभूयो वीर्यं भवति॥
अनुष्टुभाणिष्ठं गच्छति ह्रसीयसैव छन्दसा। तस्माद् उत्तरवयसे प्रतितराम् इवाववर्धते। पंक्त्याणिष्ठां गच्छति। तस्मात् पञ्चमे मासि गर्भा विक्रियन्ते। अनुष्टुभा वाचाणिष्ठां गच्छति। तस्माद् उ जीर्णस्य वाचं शुश्रूषन्ते। शिरो वा एतद् यज्ञस्य यद् बहिष्पवमानम्। तद् वै तत्। रेतस्यैवापि सर्व आत्मा। स यद् बहिष्पवमाने --
-- गायत्रीं गायति प्राणो वै गायत्रो गायत्रं शिर एव। तदायतनो वै प्राणः। यच् छिरस् स्व एव तद् आयतने प्राणं दधाति॥
त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव चक्षुः। ताम् अन्यत्रायतनां सतीं नियुनक्ति। तस्माद् उत जीवत एव चक्षुर् अपक्रामति॥
जगतीं गायति। श्रोत्रं वै जगती। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तम् इव श्रोत्रम्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव श्रोत्रम् अपक्रामति।
अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम् एव तद् आहृत्य शीर्षन् नियुनक्ति। यन् नियुनक्ति तस्मान् नियुक्तेव वाक्। ताम् अन्यत्रायतनां सतीं नियुनक्ति तृतीयसवनायतनां वा सर्वायतनां वा। तां यद् अन्यत्रायतनां सतीं नियुनक्ति तस्माद् उत जीवत एव वाग् अपक्रामति। अवान्ये प्राणाः क्रामन्ति न प्राणः
तद् आहुः किं तद् यज्ञे क्रियते यस्माज् जीवत एवान्ये प्राणा अपक्रामन्ति न प्राण इति। स ब्रूयाद् यस्मात् स्व आयतने गायत्रीं गायति तस्माद् यावज् जीवति तावत् प्राणो नापक्रामतीति॥
अथ ह वै धुरां विज्ञाश् च संज्ञाश् च। मानो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। मनसा सुहार्दसं च दुर्हार्दसं च विजानाति। प्राणेन सुरभि चासुरभि च विजानाति। चक्षुषा दर्शनीयं चादर्शनीयं च विजानाति। श्रोत्रेण श्रवणीयं चाश्रवणीयं च विजानाति। वाचा स्वादु चास्वादु च विजानाति। एता इह विज्ञाः। वि ह वै ज्ञायते श्रेयान् भवति य एवं वेद॥
ता उ एव संज्ञाः। मनो वै रेतस्या प्राणो गायत्री चक्षुस् त्रिष्टुप् श्रोत्रं जगती वाग् अनुष्टुप्। रेतस्यायां प्रस्तुतायां यस्य कामयेत -
-- तस्य मनसा मनो ध्यायेत्। गायत्र्यां प्रस्तुतायां यस्य कामयेत तस्य प्राणेन प्राणं ध्यायेत्। त्रिष्टुभि प्रस्तुतायां यस्य कामयेत तस्य चक्षुषा चक्षुर् ध्यायेत्। जगत्यां प्रस्तुतायां यस्य कामयेत तस्य श्रोत्रेण श्रोत्रं ध्यायेत्। अनुष्टुभि प्रस्तुतायां यस्य कामयेत तस्य वाचा वाचं ध्यायेत्। एता उ ह संज्ञाः। सं ह वै तेन जानीते येन कामयते ऽनेन संजानीयेति य एवं वेद॥
अथैता देवधुरश् च मनुष्यधुरश् च संदधति। मनो वै मनुष्यधुर् आपो देवधुरः। रेतस्यायां प्रस्तुतायां मनसापस् संदध्यात्। तद् अन्तरा यजमानस्य मनो ऽवयातयेत्। प्राणो वै मनुष्यधूर् वायुर् देवधूः। गायत्र्यां प्रस्तुतायां प्राणेन वायुं संदध्यात्। तद् अन्तरा यजमानस्य प्राणम् अवयातयेत्। चक्षुर् वै मनुष्यधूर् आदित्यो देवधूः। त्रिष्टुभि प्रस्तुतायां चक्षुषादित्यं संदध्यात्। तद् अन्तरा यजमानस्य चक्षुर् अवयातयेत्। श्रोत्रं वै मनुष्यधूर् दिशो देवधूः। जगत्यां प्रस्तुतायां श्रोत्रेण दिशस् संदध्यात्। तद् अन्तरा यजमानस्य श्रोत्रम् अवयातयेत्। वाग् वै मनुष्यधूः पृथिवी देवधूः। अनुष्टुभि प्रस्तुतायां वाचा पृथिवीं संदध्यात्। तद् अन्तरा यजमानस्य वाचम् अवयातयेत्। एतद् वै देवधुरश् च मनुष्यधुरश् च संदधाते। तद् वै देवधुरश् च मनुष्यधुरश् च संधाय तं मृत्युं तरति यस् स्वर्गलोके। न हैवंवित् पुनर् म्रियते। देवतास्व आत्मनम् उपसंदधाति
अथैतेषां महतां ब्राह्मणानां समुदितम् आरुणेर् जीवलस्य कारीरादेर् अषाढस्य सावयसस्येन्द्रद्युम्नस्य भाल्लवेयस्येति। जीवलश् च ह कारीरादिर् इन्द्रद्युम्नश् च भाल्लवेयस् तौ हारुणेर् आचार्यस्य सभाग आजग्मतुः। ते हाषाढस्य गृहेषु शिश्यिरे। स होवाचाषाढ आम् आरुणे यत् सहैव ब्रह्मचर्यम् अचराव सहान्वाब्रवीवह्य् अथ केनेदं त्वम् अस्मान् अत्यनूचिषे। यद् इदं त्वम् इयत्प्रियः कीर्त्तेर् इयत्प्रियश् चक्षुष इयत्प्रियस् सनेर् असि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। प्रियम् इति। य आसां प्रियम् उपास्ते किं स भवतीति। प्रिय एव स कीर्त्तेः प्रियश् चक्षुषः प्रियस् सनेर् भवतीति। एवम् एव त्वम् असीति होचुः॥
अथ होचुर् जीवलं कारीरादिं यद् इदं त्वम् एव तस्यार्धस्य श्रेष्ठो ऽसि यस्मिन्न् अस्य् अपि त्वा राजानो ऽधस्ताद् उपासते केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति । किं त्वं तद् धूर्षूपास्स् इति । श्रियम् इति । य आसां श्रियम् उपास्ते किं स भवतीति। यस्मिन्न् एवार्धे भवति तस्य श्रेष्ठो भवत्य् अप्य् एनं राजानो ऽधस्ताद् उपासत इति। एवम् एव त्वम् असीति होचुः॥
अथ होचुर् अषाढं सावयसं यत् त्वं शार्कराक्षाणां वाव ग्रामण्य् एवासि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। जातम् इति। य आसां जातम् उपास्ते किं स भवतीति । यत्रैव सजातो भवति तद् ग्रामणीर् भवतीति। एवम् एव त्वम् असीति होचुः॥
अथ होचुर् इन्द्रद्युम्नं भाल्लवेयं यद् इदं तवोपर्युपर्य अन्यान् कीर्त्तिश् चरति विवचनम् एवासि केन त्वम् इदं प्रापिथेति। स होवाच धूर्ष्व् एवाहं तद् उपास इति। किं त्वं तद् धूर्षूपास्स इति। यश इति। य आसां यश उपास्ते किं स भवतीति। उपर्युपर्य् एवान्यान् कीर्त्तिश् चरति विवचनम् एव भवतीति। एवम् एव त्वम् असीति होचुः।
ते होचुर् इत्थं चेद् इदम् अभूद् एतेदं संप्रब्रवामहा इति
ते हारुणिम् ऊचुस् त्वं वै न आचार्यो ऽसि त्वं प्रथमो ब्रूष्वेति। स होवाच गायत्रीम् एवाहं प्रियम् उपास इति। प्राणो वै गायत्री प्राणो वै प्रियम्। न वै प्राणात् प्रेयः किं चनास्ति। स य एवम् एतां गायत्रीं प्रियम् उपास्ते यथा प्रिय एव प्राण आत्मन एवं प्रिय एव स कीर्त्तेर् एवं प्रियश् चक्षुष एवं प्रियस्सनेर् भवतीति॥
अथ होवाच जीवलः कारीरादिस् त्रिष्टुभम् एवाहं श्रियम् उपास इति। क्षत्रं वै त्रिष्टुप् क्षत्रं वै श्रीः। स य एवम् एतां त्रिष्टुभं श्रियम् उपास्ते यस्मिन्न् एवार्ध भवति तस्य श्रेष्ठो भवत्य् अप्य् एनं राजानो ऽधस्ताद् उपासत इति॥
अथ होवाचाषाढस् सावयसो जगतीम् एवाहं भूमानं प्रजातिम् उपास इति। भूमा वै प्रजातिर् जगती छन्दसाम्। स य एवम् एतां जगतीं भूमानं प्रजातिम् उपास्ते भूमानम् एव प्रजया पशुभिर् गच्छति यत्रैव सजातो भवति तद् ग्रामणीर भवतीति॥
अथ होवाचेन्द्रद्युम्नो भाल्लवेयो ऽनुष्टुभम् एवाहं यश उपास इति। वाग् वा अनुष्टुप् वाग् उ वै यशः। वाग् उपर्युपर्य् अन्यान् कीर्त्तिश् चरति। स य एवम् एताम् अनुष्टुभं यश उपास्त एषैवास्य वाग् अनुष्टुब् उपर्युपर्य् एवान्यान् कीर्त्तिर् विहरन्त्य् एति विवचनम् एव भवतीति
ते ह वै ते तथैकैकेनैवासुः। अथ य एवम् एतानि सर्वाण्य् एकधा वेदैवं ह्य् एतानि सर्वाण्य् एकधा भवन्त्य् एकधैव श्रेष्ठस् स्वानां भवति॥
तद् उ होवाच वासिष्ठश्चैकितानेयः पश्चैवानुबुध्य धुरो ह वा इमे ब्राह्मणा मीमांसमानास् ताम् एव धुरं नावाग्मन् यस्याम् एता धुरि सर्वा अधीति। रेतस्यां ह वै स तद् उवाच। यां ह वा आहुर् एका धूर् इति रेतस्या ह वै सा धुरां धूः। अन्नं तद् धुराम्। अलंकरणं सुरभिर्गन्धो गायत्र्यै दर्शनीयस् त्रिष्टुभश् श्रवणीयो जगत्यै। यद् एव वाचा पुण्यं वदति तद् अनुष्टुभः। स ह वा एना अन्नम् आदधाति य एना एतैस् समृद्धयति। ता एनम् अन्नाद्यमाना अन्नादं श्रेष्ठं स्वानां कुर्वन्ति। अन्नादश् श्रेष्ठस् स्वानां भवति य एवं वेद
त्रयो ह वा एते समुद्रा यत् पवमाना अग्निर् वायुर् असाव् आदित्यः। तैश् छन्नैर् उद्गायेत्। स यर्हि वै प्रजापतिः प्रजाभ्यो वृष्टिम् अन्नाद्यं प्रयच्छति छाद्यन्त एते तर्हि। प्रजापतिर् एष सः। यद् उद्गास्यन् पवमानैश् चान्यैर् उद्गायति छादयत्य् एव यजमानम् अन्नाद्येन छादयत्य् आत्मानं छादयति प्रजा बहुवर्षी तत्र पर्जन्यो भवतीति ह स्माह कूटश् शैलनो यत्राहम् उद्गायामीति। यत्र वै बहुवर्षी पर्जन्यो भवति कल्याणो वै तत्र बलीवर्दो ऽश्वतरो हस्ती निष्कः पुरुषः। रूपंरूपं वाव तत्र कल्याणम् आजायत इत्य् एतद् ध तद् विद्वान् उवाच। यो वै देवांश् च मनुष्यांश् च व्यावर्तयति वि पाप्मना वर्तते॥
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। तैश्छन्नैः परोक्षम् अनिरुक्तैः पवमानैर् उद्गायेत्। छन्ना इव हि परोक्षम् अनिरुक्ता इव देवाः प्रजाः पृष्ठोक्थानि। तैर् अच्छन्नैः प्रत्यक्षं निरुक्तैर् उद्गायेत्। अच्छन्ना इव हि प्रत्यक्षं निरुक्ता इव मनुष्याः। एतद्वै देवांश् च व्यावर्तयति वि पाप्मनावर्तते य एवं वेद
दैवीं ह वा एष संसदम् एति यः पवमानैर् उद्गायति। स यथा श्रेयांसम् अभ्यायन्न् एवं शिक्षन्न् एवोपशिक्षन्न् इवोपनमस्यन्न् इव। संसिद्धैश् शक्नुवन्न् उपहन्यमान उद्गायेत्। यथायन्तम् आमिवेद् यथा यद् याचेत् तद् दद्यात् तादृक् तत्। अथ य एतैर् असंसिद्धैर् अशक्नुवन्न् उपहन्यमान उद्गायेद् यथायन्तं प्रतिमिवेद् यथा यद् याचेत्तन् न दद्यात् तादृग् उ तत्। तद् उ हात्रैव यज्ञस्य समृद्धं च व्यृद्धं च विज्ञायते॥
अतिहार्या ह वा एषा यत् पवमाना। यो वा अतिहार्याम् असंवीतो ऽतिगाहते मृदा वै स लिप्यत आयति वा। अथ यस् संवीतो ऽतिगाहते न मृदा लिप्यते नायति। एवम् इव वै पवमाना उपचर्याः।
तद् आहुर् यद् अन्यानि स्तोत्राणि स्तोत्रियप्रतिपदो ऽथ कस्मात् पवमाना अस्तोत्रियप्रतिपद इति। स ब्रूयात् प्राणा वै पवमानाः प्राणा उ पावमान्यः। तद् यत् पवमानान् पावमानीभिर् एवानुप्रतिपद्येरन् पराञ्च एव प्राणान् निर्मृज्युर् इति। तान् यद् अनुष्टुभानुप्रतिपद्यन्ते - वाग् वा अनुष्टुप्। वाच्य् अपानो नियतः -- वाचैव तद् अपानं दधार
तद् आहुर् अशान्तम् इव वा एतत् स्तोत्रं यत् स्तोत्रियेण नानुप्रतिपद्यन्ते। केनैषां स्तोत्रियप्रतिपदो ऽनितं भवतीति। स् ब्रूयाद् वाग् वा अनुष्टुब् वाच्य् उ वै सर्वाणि छन्दांसि। यद् आग्नेयम् ऐन्द्रं पवमानं तेनैषां स्तोत्रियप्रतिपदो ऽनितं भवति॥
जया ह वै नामैते स्तोमा यत् पवमानाः। पवमानैर् वै देवा असुरान् पराञ्च एव जयन्त आयन्। तद् यत् पवमानाः पराञ्च एव भवन्ति यथा पराङ् एव जयन्न् इयात् तादृक् तत्। तान् यद् अनुष्टुभानुप्रतिपद्यन्ते -- वाग् वा अनुष्टुब् वाग् उ वै वाचयित्री -- वाचा वा आह प्रेहि जयाभिक्राम मापक्रमीर् इति। स यथा वाचा ब्रूयाद् प्रेहि जयाभिक्राम मापक्रमीर् इति तादृक् तत्॥
देवा वै पवमानाः। (तानि) देवानां स्तोत्राणि। तानि देवा अन्वायत्ताः। प्रजाः पृष्ठोक्थानि। तानि प्रजानां स्तोत्राणि। तानि प्रजा अन्वायत्ताः। तद् यत्पवमानैः पराचीनैर् एव स्तुवते तस्मात् पराञ्चो देवाः। पराङ् आदित्य एति पराङ् चन्द्रमाः पराञ्चि नक्षत्राणि पराङ् अग्निर् दहन्न् एति। अथ यस्मात् पृष्ठोक्थैः पराचीनैश् चार्वाचीनैश् च स्तुवते तस्माद् उ पराचीश् चार्वाचीश् च प्रजाः। पराञ्चः प्रातः प्रेरते। ते सायं समावर्तन्ते। पराग् रेतस् सिक्तम्। तद् अर्वाक् प्रजायते
पृथुर् ह वैन्यो दिव्यान् व्रात्यान् पप्रच्छ
यज्ञस्य धाम परमं गुहायां
निर्मितं महतो ऽन्तरिक्षात्।
कस्माद् यन्ति पवमानाः पराञ्चः
कस्माद् उक्थ्याः पुनर् अभ्याकनिक्रति॥
इति।
देवा अन्यां वर्तनिम् अध्वरस्य मानुषास उपजीवन्त्य् अन्याम्।
तस्माद् यन्ति पवमानाः पराञ्चम्
तस्माद् उक्थ्याः पुनर् अभ्याकनिक्रति॥
इति ह प्रत्यूचुः। यो वै देवान् मनुष्येष्व आभक्तान् वेद मनुष्यान् उ देवेष्व् आभक्त एव देवेषु भवत्य् आभक्तो मनुष्येषु। गच्छति तं लोकं यत्र देवा नास्माद् देवता अपक्रामन्ति॥
देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। साम वै देवाः प्रजाश् छन्दांसि। तद् यत् पवमानसामानि पराञ्च्य् एव भवन्त्य् अथेयम् अनुनिवेष्टते। तेन देवा मनुष्येष्व् आभक्ताः। अथ यद् अभ्यावर्तिष्व् ऋचं निवेष्टमानां सामानुनिवेष्टे तेनो मनुष्या देवेष्व् आभक्ताः। स य एतद् एवं वेदाभक्त एव देवेषु भवत्य् आभक्तो मनुष्येषु। गच्छति तं लोकं यत्र देवा नास्माद् देवता अपक्रामन्ति
यो वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते। देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। तद् यत् पवमानान् पावमानीष्व् एव स्तुवते तस्माद् देवा एकरूपास् सर्वे शुक्लः। अथ यस्मात् पृष्ठोक्थैर् नानारूपा असुराः। नानादेवत्यासु स्तुवते। तस्माद् उ प्रजा नानारूपाश् श्वेतो रोहितः कृष्णः। एतद् वै देवरूपं च मनुष्यरूपं च व्यावर्तयति वि पाप्मना वर्तते य एवं वेद॥
यो वै देवानाम् उद्धारं वेदोद् उद्धारं हरत उद्धार्यो भवति। बहिष्पवमानं वाव देवानाम् उद्धारः। तेन सकृद् धिंकृतेन पराचा स्तुवते। तस्मात् पराङ् उद्धारः। स एष एव देवानां श्रेष्ठः। तस्योद्धारः प्रजाः। प्रजापतेर् एवोद् उद्धारं हरत उद्धार्यो भवति य एवं वेद॥
तम् एतं यज्ञस्य रसं प्रवृह्य परान् यस्मात् प्रजापतये प्रयच्छति तस्माद् बहिष्पवमानेन स्तोष्यन्तः प्रह्वारा इव प्रकुपिता इव सर्पन्ति। एवम् इव वै श्रेयस उपचारः। तस्माद् उ तस्य स्तोत्रेण व्याहरेत्। को हि श्रेयसः परिवेषणम् उपवदितुम् अर्हति। यो वै श्रेयसः परिवेषणम् उपवदति यया वै स तम् आर्त्या कामयते तयैनं निनयति। अथ यत् ततो ऽध्वर्युस् संप्रैषान् वदति प्रजापतय एव तद् यज्ञस्य रसं प्रदाय तम् आप्याययति। तेनास्यापीनेन रसवता स्तुतं भवति
यो वै देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु। पवमाना वै देवयशसम्। ते ह ते प्राणा एव। त एनं देवेषु निवेदयन्ते। अभ्यावर्ता मनुष्ययशसम्। ते ह ते ऽपाना एव। त एनं मनुष्येषु निवेदयन्ते। एतद् वै देवयशसं च मनुष्ययशसं च। स य एवम् एतद्देवयशसं च मनुष्ययशसं च वेद यश एव देवेषु गच्छति यशो मनुष्येषु॥
यो वै मितं चामितं च वेद मितं च हास्यामितं च बहु भवति। देवा वै पवमानाः प्रजाः पृष्ठोक्थानि। साम वै देवाः प्रजाश् शस्त्राणि। तद् वा एतत्। एत एवापि सर्वे देवा यत्स्तोत्राणि। तद् यन् मितानि स्तोत्राणि भवन्ति तस्मान् मिता देवाः। अष्टौ वसव एकादश रुद्रा द्वादशादित्याः। अथ यस्माद् अमितानि शस्त्राणि तस्माद् व् अमिताः प्रजाः। न तान् विद्म यावन्तो ब्राह्मणा यावन्तो राजन्या यावन्तो वैश्या यावन्तश् शूद्रा इति। एतद् वै मितं चामितं च। मितं हास्यामितं च बहु भवति य एवं वेद॥
ये अर्वाञ्चस् तं उ पराच आहुर् ये पराञ्चस्तं उ अर्वाच आहुः।
इन्द्रश् च या चक्रथुस् सोमश् च तानि धुरा नियुक्ता रजसो वहन्ति॥
इति। पवमाना वै पराञ्चः। तेषां चमसा अर्वाञ्चः। ते ह ते प्राणा एव। तस्मात् प्राण्यापानितुं शक्नोति। अभ्यावर्ता अर्वाञ्चः। तेषां पराञ्चश् चमसाः। ते ह ते ऽपाना एव। तस्माद् व् अपान्य प्राणितुं शक्नोति
यो वै सवनानां ज्यैष्ठ्यं वेद गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्याद् अवरोहति। गायत्री वै प्रातस्सवनस्य ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तद् गायत्रम् इत्य् आख्यायते। त्रिष्टुप् माध्यंदिनस्य सवनस्य ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तत् त्रैष्टुभम् इत्याख्यायते। जगती तृतीयसवनस्य ज्यैष्ठ्यम्। तद् यत् तत्रान्यदन्यच् छन्दः क्रियते ऽथ तज् जागतम् इत्य् आख्यायते । एतद् वै सवनानां ज्यैष्ठ्यम्। स य एवम् एतत् सवनानां ज्यैष्ठ्यं वेद गच्छति ज्यैष्ठ्यं न ज्यैष्ठ्याद् अवरोहति॥
यो वै देवानां गृहान् वेद गृही भवति विन्दते गृहान्। छन्दांसि वाव देवानां गृहाः। अष्टाक्षरा गायत्र्य् अष्टौ वसवः। गायत्र्यैव वसवो गृहिणः। एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। त्रिष्टुभैव रुद्रा गृहिणः। द्वादशाक्षरा जगती द्वादशादित्याः। जगत्यैवादित्या गृहिणः। अनुष्टुभैव विश्वे देवाः। सवनैर् इन्द्राग्नी। स य एवम् एतान् देवानां गृहान् वेद गृही भवति विन्दते गृहान्॥
यो वै देवानां तृप्तीर् वेद तृप्यत्य् आत्मना तृप्यत्य् अस्य प्रजा
तद् उ ह स्माहेयपिस् सौमापस् स वाद्य यजेत स वान्यं याजयेद् यो यथा महति तीर्थे सिकते गा असंबाधमानास् संतर्पयेद् एवं सर्वा देवता अनुसवनं छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्तीर् विद्याद् इति। अष्टाक्षरा गायत्र्य् अष्टौ वसवः। वसूनां गायत्रं प्रातस्सवनम्. तत् ते प्रातस्स्वने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। एकादशाक्षरा त्रिष्टुब् एकादश रुद्राः। रुद्राणां त्रैष्टुभं माध्यंदिनं सवनम्। तत् ते माध्यंदिने सवने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। द्वादशाक्षरा जगती द्वादशादित्याः। आदित्यानां जागतं तृतीयसवनम्। तत् ते तृतीयसवने छन्दस्स्व् अक्षरमक्षरम् अनुसंबाधमानास् संतृप्यन्ति। अनुष्टुभैव विश्वेदेवाः। सवनैर् इन्द्राग्नी। स य एवम् एतां देवानां तृप्तीर् वेद तृप्यत्य् आत्मना तृप्यत्य् अस्य प्रजा
यद् यत्र ह वा एवंविद् यजत एवं विद्वान् याजयति न हैव तस्य देवा ईशते। यत् तन् नाना गच्छेयुर् यदि च ह भक्षयिष्यन्तो भवन्ति यद च नाथ हैव गच्छन्ति। यद् इह शुचिर भवति भक्षयन्ति यद्य् अशुचिः प्रेक्षयन्ति। तद् धापि पणाय्यं यस्य प्रेक्षिवायन्॥
यो वै देवानां पात्रं वेद पात्र्यस् स्वानां भवति। ब्राह्मणो ह वाव देवानां पात्रम्। पात्र्यस् स्वानां भवति य एवं वेद॥
तद् यथा ह वै शुद्धेन शुचिना पात्रेण पिपासन्त्य् एवं ह वाव देवा ब्राह्मणेन शुद्धेन शुचिना पिपासन्ति। तस्माद् उ ह ब्राह्मणेन शुद्धेनैव शुचिना बुभूषितव्यम्
प्रजापतिर् देवान् असृजत। तान् मृत्युः पाप्मान्वसृज्यत। ते देवाः प्रजापतिम् उपेत्याब्रुवन् कस्माद् उ नो ऽसृष्टा मृत्युं चेन् नः पाप्मानम् अन्वस्रक्ष्यन्न् आसिथेति। तान् अब्रवीच् छन्दांसि संभरत तानि यथायतनं प्रविशत ततो मृत्युना पाप्मना व्यावर्त्स्यथेति। वसवो गायत्रीं समभरन्। तां ते प्राविशन्। तान् साछादयत्। रुद्रास् त्रिष्टुभं समभरन्। तां ते प्राविशन्। तान् साछादयत्। आदित्या जगतीं समभरम्। तां प्राविशन्। तान् साछादयत्। विश्वे देवा अनुष्टुभं समभरन्। तां ते प्राविशन्। तान् साछादयत्। मरुतः पंक्तिं समभरन्। तां ते प्राविशन्। तान् साछादयत्। साध्याश् चाप्त्याश् चातिच्छन्दसं समभरन्। तां ते प्राविशन्। तान् साछादयत्
सवनान्य् एवेन्द्राग्नी अनुप्राविशताम्। ततो वै तान् मृत्युः पाप्मा न निरजानात्। कुतो हि तस्य मृत्युः पाप्पेशिष्यते यं न निर्जानाति। न हैनं मृत्युः पाप्मानुविन्दति य एवं वेद। छन्दांसि वाव तान् मृत्योः पाप्मनो ऽछादयन्। तद् यद् एनान् छन्दांसि मृत्योः पाप्मनो ऽछादयंस् तच् छन्दसां छन्दस्त्वम्। छादयन्त्य् एवैनं छन्दांसि मृत्योः पाप्मनो य एवं वेद। तद् येनयेन ह वै छन्दसैवंविद् आर्त्विज्यं करोति तत्तद् एव स तर्हि प्रपन्नो भवति। येनयेन ह्य् एवैनं छन्दसा कुर्वन्तम् उपवदति तस्माद् आवृश्च्यते। तस्य हैतस्य नैव का चनार्तिर् अस्ति य एवं वेद। य एवैनम् उपवदति स आर्तिम् आर्छति॥
अथ होर्जो जानायनः कपिवनं भौवायनं पप्रच्छ यद् गायत्रं प्रातस्सवनं त्रैष्टुभं माध्यंदिनं सवनं जागतं तृतीयसवनम् अथ केयम् अनुष्टुब् अयातयाम्नी सवनमुखान्य् उपापतत्य् आन्ताद् यज्ञं वहतीति। स होवाच वाग् वा अनुष्टुब् वाचो यज्ञस् तायते। तद् यथा वा अदो भद्र बलीवर्देन रज्ज्वभिहितेन पुनःपुनः प्रतिधावन्ति प्रतिकूलाय वा कुरवे वोद्वोढ एवं वा एतां वाचम् अनुष्टुभं सवनमुखेषु पर्याणाय युञ्जन्ति। प्रतिकूलानि वा एतानि यत् सवनमुखानि। सैषा वाग् एषायातयाम्न्य् आन्ताद् यज्ञं वहति। यो वा अनुष्टुभं सर्वत्रापीनं वेद सर्वत्र हास्यापि पुण्यो भवति॥
अष्टाक्षरा गायत्र्य् एकादशाक्षरा त्रिष्टुब् द्वादशाक्षरा जगती वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशदक्षरा ऽनुष्टुप्। अपि वा एतस्यै प्रातस्सवने ऽपि माध्यंदिने सवने ऽपि ततीयसवने ऽपि वा एतस्यै ब्रह्मण्य् अपि क्षत्रे ऽपि विश्य् एपि वा एतस्या अस्मिन् लोके ऽप्य् अन्तरिक्षे ऽप्य् अमुष्मिन् - स य एवम् एताम् अनुष्टुभं सर्वत्रापीनं वेद सर्वत्र हैवास्यापि पुण्यो भवति
अथ हाहीनसम् आश्वत्थिं केशी दार्भ्यः केशिनस् सात्यकामिनः पुरोधाया अपरुरोध। स ह स्थविरतरो ऽहीना आस कुमारतरः केशी। तं होवाचां केशिन् किं मे विद्वान् राजन्यम् उपाहृथा इति। स होवाच दहेद् अनुष्टुभम् एव सर्वाणि छन्दांस्य् उपास्महे बृहतीं पशून् यज्ञं स्वर्गं लोकम् इति। तं हास्रं विवेद। स ह कृपयांचक्रे। तं होवाच मा कृपयथाः। यदि राजन्यकाम्या कृपयस एष ते राजन्यः। अपि वै वयम् अन्यं राजन्यम् एषिष्यामहा इति। स होवाच नैतत् केशिन् राजन्यकाम्या ब्रह्मचर्यम् एव वै मा तद् अनुसंस्मृत्यास्रम् अविदत्। चचार वै ब्रह्मचर्यम्। उपचरसं वावेदम् अशृण्म यद् अयम् इयत्कुमारको ऽभिवेदयत इति । एवम् एवैतद् अनुसंस्मृत्यास्रम् अविदद् इति॥
स यद् अनुष्टुभं सर्वाणि छन्दांस्य् उवाचाष्टाक्षरा गायत्र्य् एकादशाक्षरा त्रिष्टुप् द्वादशाक्षरा जगती वाग् इति यज्ञायज्ञीयस्य निधनम्। तद् द्वात्रिंशत्। द्वात्रिंशदक्षरानुष्टुप्। एतद् अनुष्टुभं सर्वाणि छन्दांस्य् उवाच बृहतीं पशून् इति। या वा अनुष्टुप् सा बृहती। चतुष्पात्सु वा एषा पशुषूपहितेषु बृहत्य् अभवत्। यज्ञम् इति। यो ह्य् एव पशुमान् भवति तं यज्ञ उपनमति। स्वर्गं लोकम् इति। बृहती ह्य् एव स्वर्गो लोकः॥
अथ ह संगमन क्षैमिस् सत्ययज्ञं पौलुषिं पप्रच्छाचार्येण प्रहित आरुणिना सत्ययज्ञ पौलुषे यत् स्तुता गायत्री भवति स्तूयते त्रिष्टुब् अस्तुता जगती कथं तास् सर्वास् संपद्य माध्यंदिनं सवनम् उद्यच्छन्तीति। तद् ध न प्रत्युवाच। तेन हैनं जिगाय। स यत् प्रत्यवक्ष्यद् यस्माद् ब्राह्मणश् च वैश्यश् च क्षत्रियम् अधस्ताद् उपासाते अथो यद् अस्याद्याव् अभवताम् अथो यद् एवैतद् द्वादशाक्षरं पदम् इति
छन्दांसि यद् इमान् लोकान् व्यभजन्तेमम् एव लोकं गायत्र्य् अभजतान्तरिक्षं त्रिष्टुब् अमुं जगती। ब्रह्म वै गायत्री क्षत्रं त्रिष्टुब् विड् जगती। सेयं त्रिष्टुब् अस्मिन्न् अन्तरिक्षे नालर्नेतुपादनेनारारण्यत। सेमां गायत्रीं प्राङ् अभ्यविध्यत्। ताम् अभ्यतपत्। तस्या अबिभेद् आयतनं म उपहरिष्यत इति। ताम् अब्रवीन् नमस् ते ऽस्तु किंकामा माभिविध्यसीति। प्रदानं मे प्रयच्छेत्य् अब्रवीत्। तस्यै द्वे अष्टाक्षरे पदे प्रायच्छत्। सामूं जगतीम् उपपल्यायत। ताम् अभ्यविध्यत्। ताम् अभ्यतपत्। तस्या अबिभेद् आयतनं म उपहरिष्यत इति। ताम् अब्रवीन् नमस् ते ऽस्तु किंकामा माभिविध्यसीति। प्रदानं मे प्रयच्छेत्य् अब्रवीत्। तस्यै द्वादशाक्षरं पदं प्रायच्छत्। सेमाम् एव गायत्रीं पुनर् उपपल्यायत। ताम् अब्रवीद् यत् ते प्रदानं प्रादां किम् उ न्व एवेछसीति। सर्वम् एव म आत्मानं प्रयच्छेत्य् अब्रवीत्। अथ किम् उ मे भविष्यतीति। समानं नाव् अन्नाद्यं भविष्यति पुरस् त्वा धास्य इति। तथेति। तां पुरो ऽधत्त। तस्यै सर्वम् आत्मानं प्रायच्छत्। तद् यद् गायत्री सर्वम् आत्मानं प्रायच्छत् तस्माद् ब्राह्मणस् सर्वेणात्मना क्षत्रियम् अभ्येति। अथो यज् जगती न सर्वम् इवात्मानं प्रायच्छत् तस्माद् उ क्षत्राद् विड् अपक्रामम् इव चरति। यांयाम् एव तां गायत्री च जगती च संप्रायच्छतां सैवैषा बृहत्य् अभवत्। तस्माद् बृहत्यै त्रीणि चाष्टाक्षराणि पदानि द्वादशाक्षरं च। सैषा गायत्री प्रथमतो युज्यते उच्चा ते जातम् अन्धसा इति। एषा पुरोहितावसाने। विन्दते पुरोधां वा पुरोधामात्रं वा या एवं वेद
अथ बृहत्य् अथ त्रिष्टुप्। तद् एतद् ब्रह्मणा च क्षत्रेण चोभयतो ऽन्नाद्यं परिगृहीतम्। ब्रह्मणा च ह वा एनं क्षत्रेण चोभयतो ऽन्नाद्यं परिगृहीतम् उपतिष्ठते य एवं वेद। तस्माद् ब्राह्मणेन क्षत्रियाय न द्रोग्धव्यं न क्षत्रियेण ब्राह्मणाय। समानं ह्य् एनयोर् अन्नाद्यम्। तस्माद् यद् ब्राह्मणो महद् इव गच्छति क्षत्रियम् एव स तस्यान्नाद्यस्य द्वितीयं गोप्तारम् इच्छते। यत् क्षत्रियो ब्राह्मणम् उ एव। विन्दते क्षत्रियं भर्तारं य एवं वेद॥
चतुरक्षराणि ह वा अग्रे छन्दांस्य् आसुर् अयज्ञवाहानि। अथ हेन्द्रस्य त्रिदिवे सोम आस। तं हाग्नयो गन्धर्वा जुगुपुर् एत एव धिष्णयाः। त उ एवाशीविषाः। स हिरण्मय्योः कुश्योर् आस। ते ह स्म निमेषमात्रम् अभिसंपततः। तानीमानि छन्दांस्य् अब्रुवन् सोमम् आहराम यज्ञं तनवामहा इति। सा जगती प्रथमोदपतद् ओजिष्ठा बलिष्ठा भूयिष्ठा वीर्यवत्तमा मन्यमाना। तस्यै परेतायै सोमपालास् त्रीण्य् अक्षराण्य् अविन्दन्त। सैकाक्षरा पुनर् आगच्छद् दीक्षां च पशूंश् चाहरन्ती। तस्माद् य एव पशुमान् भवति तं दीक्षोपनामुका॥
अथ त्रिष्टुब् उदपतत्। तस्यै परेतायै सोमपाला एकम् अक्षरम् अविन्दन्त। सा त्र्यक्षरा पुनर् आगच्छत् तपश् च दक्षिणाश् चाहरन्ती। कस्मात् त्रिष्टुभो लोके दक्षिणा नीयन्ते। तस्माद् उ तम् एव तपस् तप्यमानं मन्यन्ते --
-- यो ददत्॥
अथ गायत्र्य् उदपतत्। ताम् अनुष्टुभ् माता प्रत्यन्वैक्षत। तस्मान् माता पुत्रं जनं यन्तं प्रत्यन्वीक्षेत जीवन्न् आहरन्न् आगच्छेति। सा नानैव हस्ताभ्यां सवने समगृह्णाद् इमानि चानयोर् अक्षराणि मुखेनैकं सवनं सह सर्वेणैव यज्ञेनागच्छत्। तद् एतद् आहुर् धीतम् इव वै तृतीयसवनम्। मुखेन हि तद् आहरद् इति। सा सोमम् आहृत्याब्रवीद् इमे इतरे छन्दसी आ वा अहम् इमं सोमम् अहार्षम् एतं यज्ञं तनवा इति। ते अब्रूतां विवृहे वा आवं स्वो न तस्मा अलम् इति। सैतद् गायत्री प्रातस्सवनम् उपयुु़ञ्जानाब्रवीद् अहं वा इदं वक्ष्यामीति। तद् अवहत्। तत् समस्थापयत्। तस्माद् गायत्रं प्रातस्सवनम् इत्य् आख्यायत॥
सैतं माध्यंदिनं सवनम् उपायुंक्त। तस्यै तृचेन कृतम् आसीत्। अथ त्रिष्टुब् भीयमानामन्यत। साब्रवीद् अप्य् अहम् ऐमीति। अपीहीत्य् अब्रवीत्। अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति। तां त्रिभिर् अक्षरैर् उपपरैत्। सैतत् त्रिष्टुब् एकादशाक्षरा भूत्वा माध्यंदिनं सवनम् अवहत्। तत् समस्थापयत्। सा यत् त्रिष्टुभम् अब्रवीद् अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति तस्मात् त्रैष्टुभं माध्यंदिनं सवनम् इत्य् आख्यायते॥
सैतत् तृतीयसनम् उपायुंक्त। तस्यै तृचेन कृतम् आसीत्। अथ जगती हीयमानामन्यत। साब्रीद् अप्य् अहम् ऐमीति। अपीहीत्य् अब्रवीत्। अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति। ताम् एकेनाक्षरेणोपपरैत्। सैतज् जगती द्वादशाक्षरा भूत्वा तृतीयसवनम् अवहत्। तत् समस्थापयत्। सा यज् जगतीम् अब्रवीद् अहं ते वक्ष्यामि त्वं तु ब्रुवाणेति तस्माज् जागतं ततीयसवनम् इत्य् आख्यायते
गायत्री वै प्रातस्सवनं वहति गायत्री माध्यंदिनं सवनं गायत्री तृतीयसवनम्। स य एतद् एवं वेद गायत्री प्रातस्सवनं वहति गायत्री माध्यंदिनं सवनं गायत्री तृतीयसवनम् इत्य् आ जरसं हास्य यशः कीर्त्तिर् न व्येति। तद् उ होवाचारुणिर् गायत्रीं वा अहं सर्वाणि सवना निवहन्तीं वेद तस्मान् म आ जरसं यशः कीर्त्तिर् न व्येतीति। आ जरसं हैवास्य यशः कीर्त्तिर् न व्येति य एवं वेद॥
तानीमानि छन्दांस्य अब्रुवन्न् इयं वाव नश् श्रेष्ठेयं वीर्यवत्तमा या सोमम् आहार्षीद् या यज्ञं ततैताम् एवाप्ययामेति। तान् त्रिष्टुब्जगत्यौ सवनाभ्याम् अप्यैताम्। अथ यद् उष्णिक्ककुभोर् द्वे अष्टाक्षरे पदे तेन ते अप्यैताम्। अथ यद् बृहत्यै त्रीण्य् अष्टाक्षराणि पदानि तेन साप्यैद्। अथ यद् अनुष्टुभश् चत्वार्य् अष्टाक्षराणि पदानि तेन साप्यैत्। अथ यत् पंक्तेः पञ्चाष्टाक्षराणि पदानि तेन साप्यैत्
दशाक्षरा ह साग्र आस। साप्येनकाम्याद् अष्टाक्षराणि पदानि चक्रे। यद्य् अतिछन्दसि यदि विराजि यस्मिन् कस्मिंश् चिच् छन्दस्य् अष्टाक्षरं पदम् अधिगम्यते गायत्रीम् एव तेन सर्वाणि छन्दांस्य् अपियन्ति। स य एतद् एवं वेद गायत्रीं सर्वाणि छन्दांस्य् अपियन्तीत्य् अभि हैनं स्वास् संजानते श्रेष्ठतायै। तद् आहुर् अति त्रिवृतं स्तोमा यन्ति न गायत्रीं छन्दांसीति नाहैव त्रिवृतं स्तोमा अतियन्तीति ब्रूयान् नो गायत्रीं छन्दांसीति। त्रिप्रयाणा हि स्तोमास् त्रिमध्यास् त्र्युदयाः। एतद् उ गायत्रीं सर्वाणि छन्दांसि नातियन्ति॥
अथ हौपाविर् आरुणिं पप्रच्छारुण आरुणे कस्मै कम् अनुष्टुब् यज्ञम् उद्यच्छतीति। तद् ध न प्रत्युवाच। स होवाचाजिनमिम् अजिनात कं प्र ते ब्रवीमि मामथा इति वाव मे गौतमं प्रोच्यमानं न मनुत इति। स यत् प्रत्यवक्ष्यत् -- प्रजापतिर् वा अनुष्टुप् प्रजापतिर् वै कः - प्रजापतये कम् उद्यच्छतीति ह प्रत्यवक्ष्यद् इति। तद् उ ह शश्वन् न तथा। यद् एव बृहतीं सर्वाणि छन्दांस्य् अभिसंपद्यन्ते - बृहती स्वर्गो लोकः -- स्वर्गाय लोकाय कम् उद्यच्छतीति ह प्रत्यवक्ष्यद् इति
रथन्तरसाम्ना यष्टव्यां3 बृहत्साम्ना3 इति मीमांसन्ते। रथन्तरसाम्नेति हाहुस् सावयसाः। इदं रथन्तरम् इदं विद्म। को विदिताद् अविदितम् उपेयात्। यथा ह वै कूपस्य खातस्य गम्भीरस्य परस् तमिस्रम् अव ददृश एवं ह वै शश्वत् परस्ताद् अन्तरिक्षस्यासौ लोकः। तत् कस् तद् वेद यदि तत्रास्ति वा न वा। अद्य् उ ह वै शश्वद् अस्मिन्न् एव लोके ऽसौ लोक उपजीवति। स यो ऽपि दश कृत्वो यजेत रथन्तरसाम्नैव यजेतेति॥
बृहत्साम्ना यष्टव्यम् इत्य् आहुर् आरुणिसात्ययज्ञयो ऽदो बृहत्। तद् अद उत्क्रान्तम् अपहतपाप्मं श्वोवसीयसं नाधिष्ठीवन्ति नाधिचरन्ति नाध्यासते। बहुर् इमं लोकम् अपवदति बहुर् अवमोंसत उभाव् अस्मिन् जीवतः पुण्यकृच् च पापकृच् च। अथाह उत्क्रान्तम् अपहतपाप्मं श्वोवसीयसम्। नामुष्मिन् पापकृज् जीवति। अध्य् उ ह वै शश्वद् अमुष्मिन्न् एव लोके ऽयं लोकः। अमुतः प्रदानाद् ध्य् अयं लोको जीवति। या ह्य् अमुतो वृष्टिः प्रदीयते ताम् अयं लोक उपजीवति। स यो ऽपि दश कृत्वोय जेत बृहत्साम्नैव यजेतेति॥
उभयसाम्ना यष्टव्यम् इति ह स्माह शाट्यायनिर् एतयोर् उभयोः कामयोर् उपाप्त्यै। तथेति ताव् उभौ कामाव् उपाप्नोतीति। तद् अस्यैतत् साम कृत्स्नं युक्तं यज्ञं वहति
तस्य गायत्रम् एव हिंकारो रथन्तरं प्रस्तावो वामदेव्यम् उद्गीथो बृहत् प्रतिहारो यज्ञायज्ञीयं निधनम्। एकैकम् उ ह वा एतेषां स्वर्गस्य लोकस्येशे। अश्नुते स्वर्गं लोकं य एवं वेद॥
अथो हैतद् एवार्क्यम् एतन् महाव्रतम्। तस्य गायत्रम् एव शिरो बृहद्रथन्तरे पक्षौ वामदेव्यम् आत्मा यज्ञायज्ञीयं पुच्छम्। स यावद् अर्क्यवता महाव्रतवतावरुन्द्धे तावद् अवरुन्द्धे य एवं वेद॥
अथो हैषायुष्यैव क्लृप्तिः। आयुर् वै गायत्रं विश्वायू रथन्तरं समायुर् वामदेव्यं सर्वायुर् बृहद् अत्यायुर् यज्ञायज्ञीयम्। आयुष्मन्तो ह भवन्त्य् एनया तुष्टुवानाः॥
अथो हास्यैतान्य् एव पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते ऽग्निः पृथिव्यां वायुर् अन्तरिक्ष आदित्यो दिवि चन्द्रमा नक्षत्रेषु विद्युद् अप्सु। अग्निर् एव रथन्तरस्य वायुर् वामदेव्यस्यादित्यो बृहतश् चन्द्रमा गायत्रस्य विद्युद् यज्ञायज्ञीयस्य। आपो हि यज्ञायज्ञीयम्। एतान्य् अस्य पञ्च ज्योतींषीद्धान्य् एषु लोकेषु दीप्यन्ते य एवं वेद
यो वै बृहद्रथन्तरयोर् अन्तवच् चानन्तं च वेदान्तं हि श्रियै परिगृह्णात्य् अनन्तं स्वर्गं लोकं जयति। इयं वै रथन्तरम्। तस्या अस्यै समुद्रो ऽन्तः। अदो बृहत्। तस्या अमुष्या अन्तो नास्ति। एवं ह वा एतत् परेणापि समुद्रं ददृशे। स य एवम् एते बृहद्रथन्तरयोर् अन्तवच् चानन्तं च वेदान्तं हि श्रियै परिगृह्णात्य् अनन्तं स्वर्गं लोकं जयति॥
यो वै बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद स्तोम्यो ह भवति स्तुवत एनेन स्वा अयं नश् श्रेष्ठ इति।
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः।
ईशानम् अस्य जगतस् स्वर्दृशम् ईशानम् इन्द्र तस्थुषः॥
इति स्तोम्या।
न त्वावं अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते।
इति स्तोत्रिया।
अश्वायन्तो मघवन्न् इन्द्र वाजिनो गव्यन्तस् त्वा हवामहे॥
इति याचितम् इवैतया वीर्यम् इव प्रोक्तम्। स य एवम् एते बृहद्रथन्तरयोस् स्तोम्यां च स्तोत्रियां च वेद स्तोम्यो ह भवति स्तुवत एनेन स्वा अयं नश् श्रेष्ठ इति। अथो हास्यैतेनैव विज्ञानेन सर्वे तृचा विज्ञाता भवन्ति
बृहद्रथन्तरे वा असृज्येताम्। तद् अनु पशवो ऽसृज्यन्त। ये राथन्तरा आसन् रथन्तरं ते ऽन्वृज्यन्त ये बार्हता बृहत् ते। तान् समद् अविन्दत्। तद् व्यवभिन्दानम् अतिष्ठत्। ते अब्रूताम् इत्थं चेद् वै भविष्यावो न वै तर्हि शक्ष्यावः प्रजा भर्तुम्। हन्त रूपाणि व्यतिषजावहा इति। ते रूपाणि व्यत्यषजेताम्। या राथन्तरी वाग् आसीद् बार्हतान् सा पशून् आविशद् या बार्हती राथन्तरान् सा। गौर् वै राथन्तरी नीचीव न्युब्जिता। सा बार्हतीं वाचं वदति भा इति पराचीम् एव। अविर् वै राथन्तरीं वाचं वदति क्रन्देन । अजा वै बार्हत्य् ऊर्ध्वेवाक्रान्ता। सा राथन्तरीं वाचं वदति --
--माक्ककारेण। ते पुरुषे न समपादयेताम्। ते अब्रूताम् उभे इमम् आविशावेति। तथेति। तम् उभे आविशताम्। तस्मात् पुरुष उभयीं वाचं वदति या च राथन्तरी या च बार्हती। ते ये राथन्तराः पशवो राथन्तरीम् अस्य ते वाचं पश्यन्त उपतिष्ठन्ते ये बार्हता बार्हतीं ते। पुरुषो वै बृहद्रथन्तरयोस् संक्रोशः। स य एतद् एवं वेद पुरुषो बृहद्रथन्तरयोस् संक्रोश इत्य् उभे हास्मिन् पशवस् संक्रोशन्ते ये च राथन्तरा ये च बार्हताः। स यो ह स बृहद्रथन्तरयोस् संक्रोशः पुरुषो य एवं वेदैवंविदो वैनयोस् संक्रोशः
आरुणिं ह यान्तम् उदीच्याः परिप्रजिघ्न्युर् आरुणआरुणे कियता बृहद्रथन्तरे प्रजाः प्रजनयतः कियता देवयशसम् आनशाते इति। तद् ध न प्रत्युवाच। स होवाच वेदाहम् एतद् यन् मे ब्रह्म लिप्सध्वे तद् व् एवाहं युष्मभ्यं न वक्ष्यामीति। तम् उ हान्तेवासिन ईक्षांचक्रिरे ऽमेधयेदम् इत्थं प्रत्यवोचद् अनवगतम् अह स्विद् अस्याभूद् धन्तैनं पृच्छाम इति। तं होचुर् यत् प्रत्यवक्ष्यः कथं प्रत्यवक्ष्य इति। स होवाच यद् अष्टाक्षरेण प्रथमस्या ऋचः प्रस्तौत्य् अष्ठाशफांस् तेन पशून् प्रजनयतः। यद् द्व्यक्षरेणोत्तरयोर् द्विपदस् तेन। निधनेनैव देवयशसम् आनशाते इति प्रत्यवक्ष्यम् इति होवाच यत् प्रत्यवक्ष्यम् इति॥
यो वै बृहद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्। ऊर्ध्वा वै रथन्तरस्य देवहूतिर् अर्वाची बृहतः। तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्योर्ध्वम् इव प्रस्तौति तस्माद् अयम् ऊर्ध्वो लोक ऊर्ध्वो ऽयम् अग्निर् दीप्यत ऊर्ध्वा ओषधय ऊर्ध्वा वनस्पतयस् सर्वम् एवोर्ध्वम्। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्यौ हो इत्य् अर्वाङ् प्रस्तौति तस्माद् असाव् अर्वाङ् लोको ऽर्वाङ् असाव् आदित्यस् तपत्य् अर्वाङ् चन्द्रमा अर्वाञ्चि नक्षत्राण्य् अर्वाची वृष्टिर् एति सर्वम् एवार्वाक्। स य एवम् एते बृद्रथन्तरयोर् देवहूती वेद यन्त्य् अस्य देवा हवम्
बृह्द्रथन्तरे वा असृज्येताम्। तद् अनु पशवो ऽसृज्यन्त। ये राथन्तरा आसन् रथन्तरं ते ऽन्वसृज्यन्त ये बार्हता बृहत् ते। ते ये राथन्तराः पशवस् त आद्या अथ ये बार्हतास् ते ऽत्तारः। तद् यद् रथन्तरस्यर्चैवापरिष्टुभ्य प्रस्तौति तस्माद् राथन्तराः पशवो ऽस्थिप्रतिष्ठाना आद्याः। अथ यस्माद् बृहतस् स्तोभेन परिष्टुभ्य प्रस्तौति तस्माद् बार्हताः पशवो मांसप्रतिष्ठाना अत्तारः। अत्तुर् हास्य सतो बह्व् आद्यं भवत्य् आस्माद् अत्ता वीरो जायते य एवं वेद॥
बृहद्रथन्तरे वै मध्यतः प्रजासु गर्भान् धत्तः। तस्माद् यज्ञायीयेनैवान्ततः प्रजनयतः। तद् यद् अष्टाक्षरेण प्रथमस्या ऋचः प्रस्तौत्य् अष्टाशफांस् ते पशून् गर्भान् धत्तः। यद् द्व्यक्षरेणोत्तरयोर् द्विपदस् तेन। तद् यद् एवंविदा यज्ञायज्ञीयम् अन्ततः क्रियते जन्मैव तत्। प्रैव तेन जनयति। तस्माद् यज्ञायज्ञीयस्य स्तोत्रे वरं दद्यात्। यथा पुत्रे जाते वरं ददाति तथा। तद् धि यजमानस्य जन्म। अथ या एता अपः पत्न्य् उपप्रवर्तयति या एव तत्र वस्तेर् भिद्यमानस्यापो यन्ति ता एव ताः। अथो अन्नं वा आपः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्। तद् उ वाङ्निधनं भवति। तस्माद् उ कुमारो जायमान एव वाचम् अभिव्याहरति
बृहद्रथन्तरे वा असृज्येताम्। ते समाननिधने असृज्येताम् अन्तर्निधने वा बहिर्निधने वा। ते अब्रूताम् आजिम् अनयोर् निधनयोर् अयावेति। तथेति ते आजिम् ऐताम्। तद् बृहद् उदजयत्। तद् रथन्तरं हीयमानम् अमन्यत। तद् अब्रवीन्मिथुने ऽन्ते सानुपूर्वं मे योगं प्रयच्छेति। तथेति । तद् अस्य मिथुनम् अभवत्। तस्मा एतं पूर्वं योगं प्रायच्छद् एतं पूर्वाह्णम्। पूर्वाह्णो ह वै रथन्तरस्य योगो ऽपराह्णो बृहतो अस इति ह रथन्तरस्य हस् इति बृहतः । न हैते अहर्निधने सत्यनिधने। सत्यं ह वा एतयोर् निधनम्। तस्माद् उभयसाम्ना यजमान आ सायम् एव यजेत। उभयम् एव बृहद्रथन्तरे आत्ते। स तमिति। उभे हैवास्य बृहद्रथन्तरे आत्ते भवतः॥
तद् आहुर् अन्तर्निधने3 बृह्द्रथन्तरे बहिर्निधने3 इति। उभयम् इति ब्रूयाद् अन्तर्निधने च बहिर्निधने चेति। इदं वै रथन्तरम् अदो बृहत्। तयोर् इदम् एवान्तरिक्षं निधनम्। तेनान्तर्निधने। अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण पृथिवीम् आपस् तेनो बहिर्निधने इति॥
तद् आहुर् बृहद्रथन्तरयोर् अन्तर् वामदेव्यां3 वामदेव्ये ऽन्तर् बृहद्रथन्तरे3 इति। उभयम् इति ब्रूयाद् बृद्रथन्तरयोर् अन्तर् वामदेव्यं वामदेव्ये ऽन्तर् बृहद्रथन्तरे इति। इदं वै रथन्तरम् अदो बृहत्। इदम् एवान्तरिक्षं वामदेव्यम्। तेन बृहद्रथन्तरयोर् वामदेव्यम्। अथ यत् परेण दिवम् अन्तरिक्षं मन्यन्त एवं परेण पृथिवीम् आपस् तेनो वामदेव्यं तेन बृहद्रथन्तरे इति
प्रजापतिर् यस्माद् योनेः प्रजा असृजत - सो ऽलेलायद् एव। स दीप्यमानो भ्राजमानो ऽतिष्ठत्। सो ऽवेद् अस्ति न्वा अन्तर् इति। स देवान् अब्रवीद् अस्ति वा इदम् अन्तर् इतस् सृजध्वम् इति। सो ऽग्निर् गायत्र्या स्वाराण्य् असृजतेन्द्रस् त्रिष्टुभा निधनवन्ति विश्वे देवा जगत्यैळानि प्रजापतिर् अनुष्टुभर्क्समानि। तद् यद् गायत्रं स्वारम् आग्नेयं तद् देवतया यत् त्रैष्टुभं निधनवद् ऐन्द्रं तद् देवतया यज् जागतम् ऐळं वैश्वदेवं तद् देवतया यद् आनुष्टुभम् ऋक्समं प्राजापत्यं तद् देवतया॥
तद् उ ह स्माहेयपिस् सौमापो न बृहद्रथन्तरे यज्ञं कल्पयतः। उभे वै ते अन्तर्निधने वा बहिर्निधने वा। स्वारर्क्समे वाव यज्ञं कल्पयत इति। तद् यद् ऋच्य् अन्तस् संतिष्ठते तद् राथन्तरम् अथ यद् ऋचम् अतिस्वरति तद् बार्हतम्
तद् आहुः कति सामानीति। चत्वारीति ब्रूयात्। चत्वार्य् उ ह वै सामानि स्वारं निधनवद् ऐळम् ऋक्समम्। चतस्रो दिशश् चतुष्पादाः पशवः। चत्वारि छन्दांसि यज्ञवाहा गायत्री त्रिष्टुब् जगत्य् अनुष्टुप्॥
तान्य् उ ह वै त्रीण्य् एव स्वारं निधनवद् ऐळम्। यद् ऋक्समं स्वारम् एव तत्। त्रिषवणो यज्ञस् त्रयः प्राणापानव्यानास् त्रय इमे लोकाः॥
ते उ ह द्वे एव स्वारं चैव निधनवच् च। या हीळा निधनम् एव तत्। द्वाव् इमौ लोकाव् आविष्टमाव् इव द्वौ प्राणापानौ द्विपात् पुरुषः॥
तद् उ ह वा एकम् एव स्वारम् एव। यद् धि निधनं येळा यद् ऋक्समं स्वारं एव तद् इति। तद् एतद् एकम् एव साम स्वारम् एव। य एवायं पवते तत्। याश् च ह वा अमूर् उपरि पतन्ति याश् चाधस् सर्पन्ति ता एतम् एव स्वारं प्राणम् उपजीवन्ति। स य एतद् एवं वेद सर्वम् एवायुर् एति॥
स यो हैवं विद्वान् जामि कल्पयत्य् अजाम्य् एवास्य तत् क्लृप्तं भवति। तत् तूपर्युपर्य् अजाम्य् एव चिकल्पिषेत्। अमिथुनं तद् अप्रजननं यज् जामि। यथा पुमांसो वा सह शयातां स्त्रियौ वा। किं पुमांसौ सह शयानौ प्रजनयेतां किं स्त्रियौ तौ चेन् मिथुनीकर्तारं न लभेयाताम्। अथो यद् एवाजामि तन् मिथुनं तत् प्रजननम्॥
आत्मा वै स्वरः प्रजा निधनं पशव इळा जायर्क्समम्। समानौ वा आत्मा च जाया च। त एतम् आत्मनोभयतः प्रजाः परिगृहीता अपरावापाय। नास्य वित्तं परोप्यते य एवं वेद
तान्य् एतानि निधनानि न समर्पयेत्। न स्वारे सह कुर्यात्। प्राणस् स्वरः। प्राणेन तत् प्राणं समर्पयेत्। प्रमायुको यजमानस् स्यात्॥
यन् निधने सह कुर्यात् - वज्रो वै निधनम् - वज्रेण तद् वज्रं समर्पयेन् महासंग्रामस् तस्मिन्न् अर्धे संनिधीयेत दण्ड उद्गातारम् ऋच्छेद् इषुर् यजमानम्॥
यद् ऐळे सह कुर्यात् -- पशवो वा इळा -- पशुभिस् तत् पशून् समर्पयेन् महादेवस् तस्यार्धस्य पशून् शमयेत् सर्वज्यानिम् उद्गाता जीयेतावृत्तिं यजमानो नीयात्॥
यद् ऋक्समे सह कुर्यात् पत्नी वास्य प्रमायुका स्याद् अन्त्यो वा मृत्युर् यजमानं हन्यात्। एष ह वा अन्त्यो मृत्युर् यद् अहन् नंष्ट्रः--
--शार्दूलस् तस्करः। तस्माद् एतानि निधनानि न समर्पयेन् नेद् असानीति॥
एतान्य् उ ह वै चत्वारि सामानि चतुरार्षेयाणि। तद् उ वा आहुः को हाप्रमादस्येश उत वै प्रैव माद्यतीति। स यदि स्वारे सह कुर्यात् - - प्राणस् स्वरः -- प्राण एवैतत् प्राणं भूयांसम् अकृषि ज्योग् जीविष्यामीत्य् एव तत्राध्यायेत्॥
(तत्) सह कुर्यात् - प्रजा वै तत् -- प्रजायाम् एवैतत् प्रजां प्रत्यतिष्ठिपं प्रजावान् एतेन भविष्यामीत्य् एव तत्राध्यायेत्॥
अथ वज्रो वै निधनम्। वज्रम् एवैतद् द्विषते भ्रातृव्याय प्राहर्षम् इति॥
यद् एवैळे सह कुर्यात् -- पशवो वा इळा -- पशुष्व् एवैतत् पशून् भूयसो ऽकृषि बहुपशुर् भविष्यामीत्य् एव तत्राध्यायेत्॥
ऋक्समे सह कुर्यात्। प्रजननं वा ऋक्समम्। प्रजनन एवैतत् प्रजननं भूयो ऽकृषि जायां जायायाम् अभ्यावक्ष्ये बहुर् भविष्यामि प्रजनिष्य इत्य् एव तत्राध्यायेत्। तथा हैनं तन् नात्येति॥
स य एनम् एवं चकृवांसम् उपमीमांसेत तं ब्रूयात् साध्व् एवाहम् एतद् वेद नासाधु। स यत् त्वम् अत्रासाधु वेत्थ तुभ्यम् एव तद् भविष्यति। यद्य उ वै पुरा साम्नार्त्विज्यं चकर्थ जाम्य् उ एव त्वया तत् कृतम् इति। स एवार्तिम् आर्छति य एवं विद्वांसम् उपवदति
अथैतेभ्यस् त्रिभ्यो रूपेभ्यो मध्यंदिनान् नेयाद् अन्धस्वतो मरुत्वतः प्रत्नवतः। अन्नं वा अन्धो वीर्यं मरुतस् स्वर्गो लोकः प्रत्नः। यद् अन्धस्वत इयाद् अन्नाद्यात् तद् इयात्। यन् मरुत्वत इयाद् वीर्यात् तद् इयात्। यत् प्रत्नवत इयात् स्वर्गात् तल् लोकाद् इयात्। स यद्य् एतेषां सर्वेषाम् अवकाशं न विन्देन् मरुत्वत एव नेयात्। वीर्यं वै मरुत्वतः। वीर्येण वै कर्म क्रियते वीर्येण सर्वम् अभ्यश्नुते। तस्मान् मरुत्वत एव नेयाद् इति॥
अथैतां स्वरेण गायत्रीम् अभ्यारोहति। प्राणस् स्वरः। प्राणेनैवैतत् प्राणम् अभ्यारोहति। न वै प्राणः प्राणं हिनस्ति। स यत् स्वरेण गायत्रीम् अभ्यारोहति प्राणम् एव तत् प्रथमतो यज्ञस्य दधाति। तस्माद् अयं प्राणः प्रथमतो हितः॥
अथो आग्नेयम् एतद् देवतया यत् स्वारम् । आग्नेयम् एतच् छन्दो यद् गायत्री। अग्निनैव तद् अग्निम् अभ्यारोहति। अग्निर् वै पथिकृद् देवतानाम्। येन वै केन चाग्निर् एति पन्थानम् एव कुर्वन्न् एति। स यत् स्वरेण गायत्रीम् अभ्यारोहत्य् अग्निम् एव तत् पथिकृतं प्रथमतो यज्ञस्य युनक्ति। सो ऽग्निनैव कृतं पन्थानम् अन्वेति। स यथा पथा यन्न् एवम् एव स्वस्त्य् अरिष्ट उदृचं समश्नुते य एवं विद्वान्स्वरेण गायत्रीम् अभ्यारोहति
निधनेन द्वितीयेनाभ्यारोहति। इन्द्रो वै निधनम्। इन्द्रो वै श्रेष्ठी देवतानाम्। यत्र वै श्रेष्ठी ग्रामाग्रं प्रतिपद्यते न वै तत्र रिष्टिर् अस्ति। सो ऽरिष्टस् स्वस्त्य् उदृचं समश्नुते य एवं विद्वान् निधनेन द्वितीयेनाभ्यारोहति॥
अथो एतौ ह वा आशिष्ठौ देवतानां यद् इन्द्राग्नी। स यथाशिष्ठौ वहिष्ठौ वृत्वोपयुञ्जीत तादृक् तत्॥
अथैताम् इळया बृहतीम् अभ्यारोहति। पशव इळा पशवो बृहती। पशुभिस् तत् पशून् समाकरोति। भूयो वै पशवः पशुभिस् समाकृताश् शोभन्त इति॥
स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् - वज्रं पशुषु विवर्तयेत्। स यद् इळाया अवकाशान् न विन्देत् स्वरेणाभ्यारोहेत्। प्राणस् स्वरः पशवो बृहती। प्राणम् एव तत् पशुषु दधाति॥
अथैनत् त्रिणिधनं द्वितीयं भवति। त्रयो वा इमे लोका वज्रा एते। यन् निधनान्य् एभ्यो लोकेभ्य एतैर् वज्रैस् सर्वं पाप्मानम् अपहते। अथो हास्यैत एव वज्रा एषु लोकेषु सर्वं पाप्मानम् अपसेधन्तस् तिष्ठन्ति। अथो त्रीणि यज्ञस्य छिद्राणि। तद् द्वे अपि यत् तस्य आयतन एकं भवति
अथैतां स्वरेण त्रिष्टुभम् अभ्यारोहति। प्राणस् स्वरः। पुरुषसंमित एष यत् पवमानः। स्वारं पुरस्ताद् भवति स्वारम् उपरिष्टात्। ताव् इमौ पुरुषस्य प्राणापानौ विपर्यूढौ। ताभ्यां विष्वञ्चि स्वरति॥
अथ रथन्तरम्। रेतस्सिक्तिर् एव सा॥
अथ वामदेव्यं स्वारम्। प्राणो वै स्वरः। अस्मिन्न् एवैतद् रेतसि सिक्ते प्राणं प्रतिदधाति॥
अथ नौधसं निधनम्। जन्मैव तत्। प्रैव तेन जनयति॥
अथ कालेयम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥
अथार्भवस्य पवमानस्य गायत्र्य् उक्तब्राह्मणा॥
अथैता स्वरेण ककुभम् अभ्यारोहति। प्राणस् स्वरो विवृहः ककुप्। विवृह एव तत् प्राणं दधाति। स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् -- यथोपतापिनं दण्डेन हन्यात् तादृक् तत्। अथ यत् स्वरेणाभ्यारोहति प्राणम् एवास्याम् एतद् दधाति। भिषज्यत्य् एवैनाम् एतेन॥
अथैतां निधनेनोष्णिहम् अभ्यारोहति। वज्रो वै निधनं पशव उष्णिक्। जीर्णा इवैतर्हि तृतीयसवने पशवो भवन्ति। तस्माज् जीर्णं पशुम् आहुर् अर्थम् एनेन क्रमिंतति। अथो वज्रेणाभिपत्य शासने विकारं भुञ्जसे॥
अथ यन् निधनेन बृहतीं परिचक्षते युवान इवैतर्हि पशवो भवन्त्य् अजीर्णा इव। तस्माद् युवानं पशुम् आहुर्जीववरणी न इति
अथ तां स्वरेणानुष्टुभम् अभ्यारोहति। प्राणस् स्वरो वाग् अनुष्टुप्। तद् वै दैव्यं मिथुनं यद् वाक् च प्राणश् च। दैव्यम् एव तन् मिथुनं दधाति। स यन् निधनेनाभ्यारोहेत् - वज्रो वै निधनम् - वज्रेण दैव्यं मिथुनं वीयात्। स यदि स्वरस्यावकाशं न विन्देद् वाङ् निधनेनाभ्यारोहेत्। वाग् अनुष्टुब् वाङ् निधनम्। न वै वाग् वाचं हिनस्ति॥
अथैतन् मध्येनिधनं द्वितीयं भवति। वाग् वा अनुष्टुप्। तद् वाचो ऽनुष्टुभो मध्ये निधनं भवति। रेतस्सिक्तिर् एव सा। तत् सहिंकारं भवति। नाभिर् वै हिंकारः। नाभ्यो ह वै धृता गर्भा अवाचीनबिलेभ्यो नावपद्यन्ते। नाभिधृता ह वै गर्भाः॥
तस्यैतद् दशाक्षरं मध्येनिधनं भवति। दशाक्षरा विराड् अन्नं विराट्। एतद् ध वै तद् गर्भा अन्नम् अनश्नन्त उपजीवन्ति॥
अथैतां स्वरेण जगतीम् अभ्यारोहति। प्राणस् स्वरः। पुरुषसंमित एष यत् पवमानः। स्वारं पुरस्ताद् भवति स्वारम् उपरिष्टात्। ताव् इमौ पुरुषस्य प्राणापानौ विपर्यूढौ। ताभ्यां विष्वञ्चि स्वरति॥
अथ यज्ञायज्ञीयम्। रेतस्सिक्तिर् एव सा॥
अथ साकमश्वं स्वारम्। प्राणो वै स्वरः। अस्मिन्न् एवैतद् रेतसि सिक्ते प्राणं प्रतिदधाति॥
अथ सौभरं निधनम्। जन्मैव तत्। प्रैव तेन जनयति॥
अथ नार्मेधम् ऐळम्। पशवो वा इळान्नं पशवः। यद् एव जाताभ्यो ऽन्नाद्यं प्रतिधीयते तद् एवैतत्॥
एवं प्रथमः पर्याय एवं द्वितीय एवं तृतीयः
त्रीणि ह वै निधनानीळा स्वरो निधनम् एव निधनम्। अथ यद् ऋक्समं स्वारं वाव तन् मन्यन्ते। समाना ह्य् ऋक्समस्य च (स्वारस्य च) जाम्यजामिता। अयं वै लोक इळा पशव इळा पशवो ऽयं लोकः। इदम् एवान्तरिक्षं स्वरः प्राणस् स्वरः। प्राणो वा अन्तरिक्षम्। असाव् एव लोको निधनं गतिः प्रतिष्ठा। तान्य् उ ह वै यो जामि यथापूर्वं कल्पयेत्। ऐळम् एव प्रथमं कुर्यात्। अथ स्वारम् अथ निधनवत्। एवं हीमे लोका यथापूर्वम्। आत्मा ह खलु वै निधनम्। प्राणस् स्वरः। पशव इळा। तद् यद् ऐळं च निधनवच् चान्तरेण स्वारं क्रियते तथा हास्यैतानि सर्वाणि प्राणसंततानि भवन्ति। मध्यतो ह्य् अयं प्राणः प्रजाः पशून् भुवनानि विवस्ते॥
अथ ह वै यद् बृहद्रथन्तरे सामानि व्यभजेताम् --
-- तानि राथन्तराण्य् एवान्यान्य् आसन् बार्हतान्य् अन्यानि। अथ येषु समपादयेतां तानि राथन्तरबार्हतानि चाभवन् बार्हतराथन्तराणि च॥
तद् यद् ऋचा प्रस्तावम् अन्तर्निधनं तद् राथन्तरम्। अथ यत् पुरस्तात् स्तोभं बहिर्निधनं तद् बार्हतम्। अथ यद् ऋचा प्रस्तावं बहिर्निधनं तद् राथन्तरबार्हतम्। अथ यत् पुरस्तात् स्तोभम् अन्तर्निधनं तद् बार्हतराथन्तरम्॥
तद् आहुः कति सामानीति। चत्वारीति ब्रूयात्। चत्वार्य् अह वैव सामानि राथन्तरं बार्हतं राथन्तरबार्हतं बार्हतराथन्तरम्। तान्य् उ ह वै यो जामि यथापूर्वं कल्पयेद् राथन्तरम् एव प्रथमं कुर्याद् अथ बार्हतम् अथ राथन्तरबार्हतम् अथ बार्हतराथन्तरम्। तद् उ चतुर्णां साम्नां षड् रूपाणि व्यतिषजति। सर्वे ह खलु वै निधना जामि कल्पयति यो वै रूपा जामि कल्पयेत्
तत् सुक्लृप्तिः। निधनवता गायत्रीम् आरभेत वीर्यं निधनं वीर्यं गायत्री। वीर्येण तद् वीर्यं समृद्धयति॥
ऐळेन बृहतीम् आरभेत। पशव इळा पशवो बृहती। पशुभिस् तत् पशून् समृद्धयति॥
स्वारम् अन्त्यं भवति। प्राणस् स्वरः प्राणो ऽन्त्यम्। सर्वम् आयुर् एति य एवं वेद॥
निधनवद् रथन्तरं वा बृहद् वा पृष्ठं क्रियते। वीर्यं निधनं वीर्यं पृष्ठम्। वीर्येण तद् वीर्यं समृद्धयति॥
स्वारं मैत्रावरुणसाम। प्राणस् स्वरः प्राणो मैत्रावरुणसाम॥
द्व्यक्षरणिधनं ब्रह्मसाम। द्वन्द्वं प्रतिष्ठा प्रतिष्ठा ब्रह्मसाम॥
ऐळम् अच्छावाकसाम। पशव इळा पशवो ऽच्छावाकसाम॥
अन्तर्निधनेन रथन्तरसाम्नार्भवस्य गायत्रीम् आरभेत। बहिर्निधनेन बृहत्साम्ना॥
स्वरेण ककुभम् आरभेत। प्राणस् स्वरः। विवृह एव ककुप्। विवृह एव तत् प्राणं दधाति॥
ऐळेन वा निधनवता वोष्णिहम् आरभेत। वीर्यं निधनं वीर्यम् उष्णिक् । पशव इळा पशव उष्णिक्। येनैव कामयेत तेन ताम् उपेयात्॥
स्वरेणानुष्टुभम् आरभेत। प्राणस् स्वरो वाग् अनुष्टुप्। प्राणेनैवैतद् वाचम् अनुसंतनोति प्राणेन वाचम् आरभते॥
स्वारम् अन्त्यं भवति। प्राणस् स्वरः प्राणो ऽन्त्यम्। सर्वम् आयुर् एति य एवं वेद
वाङ्निधनं यज्ञायज्ञीयम् अन्ततः क्रियते। तद् एतत् सर्वं यज्ञं समिष्टं वाच्य् एव संनिधत्ते न हास्येष्टापूर्तं प्रमीयते य एवं वेद। नो हि वाचः प्रमयो ऽस्ति॥
मरुत्वन् मध्यंदिनान् नान्तर्यात्। तेन हि स रूपी तेन वीर्यवान्। गायत्रीषु रथन्तरसाम्नः कुर्यात् त्रिष्टुप्सु बृहत्साम्नस् त्रिणिधनं बृहत्याम् उत्तमं करोति। यद् एवात्र यज्ञस्य विधुरं भवति तद् एव तेन शमयन्ति॥
महद् अन्धस्वद् आर्भवान् नान्तर्यात्। तेन हि स रूपी तेन वीर्यवान्। गायत्रीषु रथन्तरसाम्नः कुर्याद् अनुष्टुप्सु बृहत्साम्न ऐळं मध्येनिधनम् अनुष्टुभ्य् उत्तमं करोति। यद् एवात्र यज्ञस्य विधुरं भवति तद् एव तेन शमयति॥
तद् यन् मरुत्वच् च त्रिणिधनं च मध्यंदिनान् नान्तरेति यदि च मद्वद् अन्धस्वद् यदि चैळं मध्येनिधनम् आर्भवान् नान्तरेति तथा हास्यैतानि सर्वाण्य् अनन्तरितानि भवन्ति॥
अथ है वै नैकर्चे गायत्रं कुर्यात्। ऐळं मध्येनिधनम् अनुष्टुभ्य अकाम एवैते त्रिवृति स्तोम एकर्चयोः कुर्यात्। ये एवैते उष्णिक्ककुभोस् सामनी ते वैव तृचयोः कुर्यात् ते वैकर्चयोः। नो तु तृचैकर्चं नाम। न वा ऋक्तो न सामतो ऽन्त्यम् एकर्चाय तत्स्थानं नार्भवस्य गायत्री नाग्निष्टोमसाम
त्रीणि ह वै यज्ञस्योदराणि गायत्री बृहत्य् अनुष्टुप्। अत्र ह्य् एवावपन्त्य् अत उद्धरन्ति। तद् उ यथायं मध्येन पुरुषस् सुहितो वा स्याद् अशनायेद् वा तथा तत्। अथ यथेतराण्य् अङ्गानि स्थितान्य् एवम् अन्यानि स्तोत्राणि स्थितान्य् एव॥
चत्वार्य् उ ह वै सामान्य् एकर्चेभ्यो तस्थानानि बृहद्रथन्तरे वामदेव्यं यज्ञायज्ञीयम् इति। तानि यत्र क्व चानुपरिप्लवेरंस् तानि तृचेष्व् एव कल्पयेन् नैकर्चेषु। अथ ह वै नैकर्चकल्पी स्यात्। अवीर्य इव वा एष यद् एकर्चः। अयं वै लोक एकर्चः। अवच्छिन्न इव वा अयम् आभ्यां लोकाभ्याम्॥
वीर्यसंतततर इव तृचः। त्रयो वा इमे लोकाः। इमे हि लोकास् तृचः। त्रयो वा एकस्माद् वीर्यवत्तराः। एतस्माद् ध वा इदं भूयस्वी कनीयस्विनम् अतिमन्यते। या हि भूयसी गव्यूतिर् भूयस्य् ऋद्धिस् तां तृचेनर्ध्नोति। अथ या कनीयसी गव्यूतिः कनीयस्य् ऋद्धिस् ताम् एकर्चेनर्ध्नोति॥
एकर्चो ह त्वाव तृचाज् ज्यायान्। एकर्च इति त्रीण्य अक्षराणि तृच इति द्वे। यो ह त्वावैतान्य् ऋक्तृचांश् चाक्षरतृचांश् च वेदोभये मे तृचाः कृता भवन्तीत्य् उभे हैवास्य तृचाः कृता भवन्ति। अथो यद् एवर्क्साम हिंकारस् तेनास्य तृचाः कृता भवन्ति। अथो यद् एव प्रस्तावः प्रतिहारो निधनं तेनो एव तृचेभ्यो नैति
प्रजापतिर् ह वा एतत् प्रातस्सवने प्रजाः प्रजनयंस् तिष्ठति यद् एतद् बहिष्पवमानम्। स ह सैव देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो लोकः॥
अथाग्नेयम् आज्यम्। स ह सो ऽभिजिद् एव स्तोमः। अग्निर् एव सः। स हीदं सर्वम् अभ्यजयत्। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥
अथ मैत्रावरुण् आज्यम्। स ह स विश्वजिद् एव स्तोमः। अहोरात्रे एव ते। अहर् वै मित्रो रात्रिर् वरुणः। तद् ये के चादित्याद् अर्वाञ्चो लोकास् तान् ह सर्वान् अहोरात्रे एवाप्नुतः। ते उ ह त्व् एवंविदो लोकं नाप्नुतः। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥
अथैन्द्रं आज्यम्। स ह स सर्वजिद् एव स्तोमः। इन्द्र एव सः। स हीदं सर्वम् अजयत्। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥
अथैन्द्राग्नम् आज्यम्। स ह स उद्भिद् एव स्तोमः। इन्द्राग्नी एव तौ। तौ हीदं सर्वम् आजिसृत्यायाम् उदभिन्त्ताम्। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः
अथ माध्यंदिन पवमानः। स ह स धनजिद् एव स्तोमः। वायुर् एव सः। स हीदं प्राणो भूत्वा सर्वं धनम् अजयत्। तद् यद् वै किं च प्राणी जीयते तस्मिन् सर्वस्मिन्न् अपित्वी भवति य एवं वेद। ( स ह सैव देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवताये लोकस् स हैवंविदो ) लोकः॥
रथन्तरं वा बृहद् वा पृष्ठम्। स ह स श्रीर् एव स्तोमः। श्रीर् हि पृष्ठम्। स ह सैव देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो लोकः॥
अथ वामदेव्यम्। स ह सा शांतिर् एव स्तोमः। आप एव ताः। यद् ध वा इमां पृथिवीम् अग्निर् वैश्वानरो ददाह तं हाद्भिर् एव शमयांचक्रुः। उभा उ ह वा एतौ वैश्वानरौ यन् निदाघश् च शिशिरश् च। तद् यद् अन्तरेण वर्षा व्यवहिताश् शान्त्या एव। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥
अथ नौधसं वा श्यैतं वा ब्रह्मसाम। सह स सर्वच्छन्दा एव स्तोमः। ब्रह्मैव तत्। ब्रह्म हि सर्वाणि छन्दांसि। स ह सैव (देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवताये लोकस् स हैवंविदो) लोकः॥
अथ कालेयम्। स ह स रस एव स्तोमः। अन्नम् एव तत्। स यो हान्नस्य रसस्य लोकस् सो ऽस्य लोको भवति य एवं वेद। स ह सैव ( देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥
अथार्भवः पवमानः। स ह सो ऽसित एव स्तोमः। दिश एव ताः। दिशो ह वै व्युत्क्रामन्ति पाप्मा न सिषाय। न हैनं पाप्मा सिनोति य एवं वेद। स ह सैव ( देवता भूत्वैतम् आस्तावम् आसीदति। यो हैतस्यै देवतायै लोकस् स हैवंविदो) लोकः॥
अथ यज्ञायज्ञीयम्। स ह स नाक एव स्तोमः। आदित्य एव सः। एष हि न कस्मै चनाकम् उदयति। स ह सैव देवता भूत्वैतम् आस्तावम् आसादति। यो हैतस्यै देवतायै लोकस् स हैवंविदो लोकः। एतद् ध वै स्तोमेन्द्रियम्। एते ह वै स्तोमानाम् इन्द्रियावन्तः। इन्द्रियवान् भवत्य् अपित्व्य् अस्मिन् सर्वस्मिन् भवति य एवं वेद
प्रजापतिर् वावेदम् अग्र आसीत्। सो ऽकामयताहम् एवेदं सर्वं स्याम् अहम् इदम् अभिभवेयम् इति। सो ऽअग्निर् एव भूत्वा पृतना असहत। भूमिर् भूत्वा भूतं भव्यम् अभवत्। आपो भूत्वा सर्वम् आप्नोत्। मनो भूत्वा सर्वम् अमनुत। वाग् भूत्वा सर्वं व्यभवत्। चक्षुर् भूत्वा सर्वं व्यपश्यत्। श्रोत्रं भूत्वा सर्वम् अशृणोत्। वायुर् भूत्वा प्रजानां प्राणो ऽभवत्। अन्तरिक्षं भूत्वा दिवम् अस्तभ्नोत्। द्यौर् भूत्वा सर्वम् अनुव्यभवत्। विराड् भूत्वादित्यो ऽभवत्। कामो भूत्वानन्तो ऽभवत्। अनन्तो भूत्वा मृत्युरभवत्। संवत्सरो भूत्वा नादस्यत्। न ह दस्यति य एवं वेद। चन्द्रमा भूत्वार्धमासान् पर्यगृह्णात्। पर्जन्यो भूत्वा प्रजानां जनित्रम् अभवत्। यज्ञो भूत्वा देवान् बिभर्ति॥
ता अस्येमाः प्रजासः सृष्टा न समजानत। ता नाम भूत्वानुप्राविशत्। ता एता नाम्ना संजानते ऽसौ वा अयम् अमुष्य पुत्र इति॥
स एष वाग्निष्टोमो य एष तपत्य् एष इन्द्र एष प्रजापतिर् एष एवेदं सर्वम् इत्य् उपासितव्यम्
रेतस्यां गायति। रेतो वै रेतस्या। रेतसस् संतत्या अव्यवच्छेदाय। अहिंकृतां गायति। वज्रो वै हिंकारः। यद् धिंकुर्याद् वज्रेण हिंकारेण रेतो विच्छिन्द्यात्॥ स यद्य एकाहस् स्यात् तस्मिन्न् अहिंकृतां गायेत्। एकं हि तद् अहः॥
यदि द्व्यह उभयोर् अह्नोर् अहिंकृतां गायेत्। प्रायणं हि तयोर् अन्यतरद् उदयनम् अन्यतरत्॥
यदि त्र्यहस् तस्मिन् मीमांसन्ते हिंकुर्या3न् इति। तद् धैक आहुः कामम् एवाप्य् अन्वहं संवत्सरं रेतस्याम् अहिंकृतां गायेत्। संवत्सरं वै सिक्तम् अभिक्रियते। रेतस् एवाभिकृत्या इति। तद् उ होवाच शाट्यायनिर् यद् वाव प्रथमाहन् रेतस् सिच्यते स गर्भस् संभवति। अथ यत् त ( त ) स् सिच्यते ऽमुयैव तत् परासिच्यत इति। तस्माद् उ प्रथमाहन्न् एव रेतस्याम् अहिंकृतां गीत्वा हिंकृताम् उत्तरेष्व् अहस्सु गायेत्। अथो अन्नं वै हिंकारः -- अन्नेन वै गर्भो ऽभिवर्धते --अभिवृद्ध्या एवेति। ताम् उदयने गायेद् यत् प्रायणं तद् उदयनम् असद् इति
ता हैता गळुना आर्क्षाकायणश् शालापत्य आरुणेर् अध्य् अधिजगे। ता एता आरुणेया धुरः। तद् आहुः किं छन्दो रेतस्येति। बृहतीति ब्रूयात्। कथं बृहतीति। मनो हि रेतस्येति ब्रूयात्। नो मनसो बर्हीयः कि चनास्ति। अथो सर्वे प्राणा मनो ऽभिसंपन्नाः। सर्वाणि छन्दांसि बृहतीम् अभिसंपन्नानि। तस्माद् बृहती रेतस्येति। सा केन वृद्धेत्य् आहुः। वृद्धा तेनेति ब्रूयाद् यद् रेतस्या। रेतस्यो हीदं सर्वं वृद्धम्। वृद्धा तेन यन् मनो वृद्धा तेन यच् चन्द्रमा एषा देवतेति। सा हैषा चन्द्रमा एव यद् रेतस्या। स एष रेतसः प्रतिरूपो देवभक्षस् सोमो राजा। सर्वस्यास्य रसस् समुदूढः। तं सर्वे देवा उपजीवन्ति। तस्माद् आहुस् सोम एव राजा ब्रह्म सर्वे ह्य् एनं देवा उपजीवन्ति। सा हैषा ब्रह्मैव यद् रेतस्या। ब्रह्मणा हास्य स्तुतं भवति य एवं विद्वान् रेतस्यया स्तुते
गायत्रीं गायति। प्राणो वै गायत्री। तस्यै द्वे अक्षरे व्यतिषजति। ओ3र्वाणो अशिश्रा दे3युर्व देवाय दा इति व्यतिषजति। स प्राणः। स वायुः॥
त्रिष्टुभं गायति। चक्षुर् वै त्रिष्टुप्। तस्यै द्वे अक्षरे द्योतयति। षोधा इत्य् एते द्योतयति। तद् इदं चक्षु। सो ऽसाव् आदित्यः॥
जगतीं गायति। श्रोत्रं वै जगती। तस्यै चत्वार्य् अक्षराणि द्योतयति। सोमाश् शुक्राः इति शुक्रवती पदे द्योतयति। तद् इदं श्रोत्रम्। ता इमा दिशः॥
अनुष्टुभं गायति। वाग् वा अनुष्टुप्। ताम अर्वाचीम् अभिनुदन् गायति। ओ3 वाजं वाज्य् अक्रामा3 इति निरुक्तं पदं गायति। नुषँः इति निराह। सा वाक्। स प्रजापतिः॥
पंक्ति गायति। ऋतवो वै पंक्तिः। तस्यै षड् अक्षराणि द्योतयति। पवस्वा सूर्या इति सूर्यवती पदे द्योतयति
ते षड् ऋतवः। षड् ढुर एता देवताः। एताभिस् तद् देवा असुरान् अधूर्वन्। यद् अधूर्वंस् तस्माद् धुरो ऽभवन्। एताभिर् अस्य सर्वाभिर् देवताभिस् स्तुतं भवति य एवं वेद। ताभ्य उ एव सर्वाभ्यो देवताभ्य आवृश्च्यते य एवं विद्वांसम् उपवदति। तां हैताम् एते पंक्ति विगायन्ति नाविकृता गर्भा जायन्त इति वदन्तः सांजग्मानो दायिवा कोवा पवस्वा सूर्याः इति। तद् उ होवाच शाट्यायनिर् एतां विगायन्ति तत इदं गर्भा मुह्यन्ति। यतो वै गर्भाः प्रसार्यन्ते ऽथ जायन्ते। तस्माद् एषा गायत्रम् एव प्रसृता गेयेति। तद् आहुस् स चाद्य धुरो विगायेद् य एनास् संगातुं विद्याद् इति। तद् धैक आहुर् बहिष्पवमाने वाव वयं विगायन्तस् संगायामः यदो ओवा इति वाङ्निधनाः कुर्मस् तेनैव नस् संगीता भवन्तीति। तेनाज्येष्व् आद्रियन्ते न पवमानयोः। अथ हैक आहुर् आज्येष्व् एव वयं विगायन्तस् संगायाम इति॥
जगतीं होतुर् आज्ये। जागतो हि होता
सैषा भवति अग्न आ याहि वीतये इति॥
गायत्रीं मैत्रावरुणस्य। गायत्रो हि मैत्रावरुणः। सैषा भवति आ नो मित्रावरुणा इति॥
त्रिष्टुभं ब्राह्मणाच्छंसिनः। त्रैष्टुभो हि ब्राह्मणाच्छंसी। सैषा भवति आ याहि सुषुमा हि ते इति॥
अनुष्टुभम् अच्छावाकस्य। आनुष्टुभो ह्य् अच्छावाकः। तस्यैषा भवति इन्द्राग्नी आ गतं सुतम् इति॥
तद् उ हात्रैव यथारूपं गीता भवन्ति। अथ य एनाः प्रातस्सवने गीत्वा माध्यंदिने च सवने तृतीय सवने च गायति तस्य हैव यथायतनं गीता भवन्ति। इदं वा एना एष तद् आयतनाच् च्यावयति य एना माध्यंदिनायतनाश् च सतीस् तृतीयसवनायतनाश् चाथ प्रातस्सवन एव गायति। अथ य एवैनाः प्रातस्सवने गीत्वा माध्यंदिने च सवने तृतीय सवने च गायति स एवैना आयतनेषु प्रतिष्ठापयति। ता अस्यायतनवतीर् गीता भवन्त्य् अत्रैवैतास् संगीता भवन्ति
इति ह स्माहाद्धियस् सात्ययज्ञिर् ऋद्धुकम् अस्मै स्वायां जनतायां भवति य एवं विद्वान् धुरो न विगायतीति। तस्माद् यदीतरा धुरो विगायेद् व्य् एवाज्यधुरश् च पवमानधुरश् च गायेद् इति। तद् उ होवाच शाट्यायनिर् विकर्षन्त एते धुरो ये विगायन्ति। यदि त्रिष्टुभो माध्यंदिने यो रसस् तं प्रातस्सवने दधाति। यदि रथन्तरवर्णां गायति यो रथन्तरस्य पृष्ठेषु रसस् तं प्रातस्सवने दधाति। यदि जगतीं गायति यो जगत्यै तृतीय सवने रसस् तं प्रातस्सवने दधाति। यद्य् अनुष्टुभं गायति--वाग् वा अनुष्टुप्--तां प्रातस्सवने दधाति। सेयं वाग् अनुष्टुप् प्रातस्सवने बद्धा न कस्मै चनालं भवति।
यद्य् अप्य् आग्नेयम् एवाज्यम् अपिवहेच् छून्ये अमू सवने यातयाम्नी स्याताम्। यद्य् उ वै समाने यस् समाने यज्ञक्रतौ द्वेधा जिगासति विषिक्ता इमे रसा यातयामानो भवन्ति। तद् उ तद् विकृष्टम् उ एव साध्व् एतस्यै नोपपादो ऽस्ति। तस्मात् ओवा ओवा इत्य् एव गायेत्॥
अथो द्वे एव धुरौ मनश् चैव वाक् च। मनसो हि वाक् प्रजायते। सा मनोनेत्रा वाग् भवति। तन् मनो वाचम् अभिप्रवहति। वाग् उ पुनर् मन एवाभिप्रवहति। स यो मनसश् च वाचश् स्वरो जायते-
-स इन्द्रः। इन्द्रस् सर्वे देवाः। स हैव देवलोकं गमयति य एवं विद्वान् उद्गायति। अथ हान्ये गन्धर्वलोकं वा पितृलोकं वा गमयन्ति। अथो हास्यै ताभ्याम् एव धूर्भ्यां सर्वा धुर उपाप्ता भवन्ति॥
प्रजापतिर् यज्ञम् असृजत। तं देवेभ्यः प्रायच्छत्। गायत्रेणैव प्रातस्सवनं प्रायच्छत् सामभिर् माध्यंदिनं सवनं तृतीयसवनं च। आमहीयवप्रतिपद् एव माध्यंदिनं सवनम् आसीत् संहितप्रतिपत् तृतीयसवनम्। तेनायजन्त। तेषां यद् एव गायत्रं शिर आसीत् तत् समभवत्। ते देवाः प्रजापतिम् उपेत्याब्रुवन्न् एकं वाव किल सामास गायत्रम् एव। यद् वाव नो गायत्रं शिरो ऽभूत् तत् समभूत्। तथा न इदं यज्ञं विधेहि यथा सर्वं एव साङ्गास् सतनवो ऽअमृतास् संभवामेति। स एतस्माद् एव प्रातस्सवनात् षड् गायत्राण्य् उदखिदत्। त्रीणि माध्यंदिनं सवनम् अवहरत् त्रीणि तृतीयसवनम्। तम् अब्रुवन् यत इदम् आदिथाः किम् अह भविष्यतीति। सो ऽब्रवीच् छन्दांस्य् अत्र प्रतिवप्स्यामि छन्दोभिर् एता आ( यायिष्यन्त इति। यद् अब्रवीच् छन्दांस्य् अत्र प्रतिवप्स्यामि छन्दोभिर् एता आख्यायिष्यन्त इति तस्माद् एता गायत्रीस सतीश् छन्दोभिर् आख्यायन्ते॥
अथोपगीतनैव ते ऽयजन्त। ते सर्व एव साङ्गास् सतनवो ऽमृतास् समभवन्। सर्वो हैव साङ्गस् सतनुर् अमृतस् संभवति य एवं वेद। एतस्मिन् तद् यद् विद्वान् श्रेयान् भवतीति ह स्माह शाट्यायनिः
अथैतद् आमहीयवं प्राजापत्यं सवनमुखे क्रियते। तद् एतत् स्वयं प्रशस्तं यत् प्रजापत्यम्। तस्मिन्न् उ प्रशस्त एव सत्य् एषा भूयसी प्रशंसा क्रियते यद् एतद् ओम् इत्य् आदत्ते। असौ वा आदित्य एतद् अक्षरम्। तद् एतत् त्रयस्य वेदस्यापीळितम् अक्षरम्। स यद् ओम् इत्य् आदत्ते ऽमुम एवैतद् आदित्यं मुख आधत्ते। स यथा मधुना लाजान् प्रयुयाद् एवम् एवैतेनाक्षरेण सामन् रसं दधाति। तद् आप्याययति। तेनास्यापीनेन रसवता स्तुतं भवति॥
प्रतिह्रियमाणं सामावसीदतीत्य् आहुः कुरवस् स यद् ऊर्ध्वं प्रतिहाराद् उद्गृह्णाति तद् उत्थापयतीति। सामान्न् एवेदं सामाभिगायामीत्य् एव तद् विद्याच् छ्रेष्ठताम् अनेन स्वानां गमिष्यामीति॥
पुनानस् सोम धारया इति प्रस्तौति। अपो वसानो अर्षसि इत्य् अष्टाक्षराणि॥ आ रत्नधा योनिम् ऋत-इत्य् अष्टेन तानि षोडश। -स्य सीदसि इति चत्वारि। ततो यानि षोडश स एव षोडशकलः पशुः। अथ यानि चत्वारि त एतस्य पशोस् स्तनाः। स यथा पशुं स्तनिनं प्रत्तं दुहीतैवम् एवैतेन गीतेनैतद् दुहे यं कामं कामयते। तत् पशव्यम् इति ह स्माह सुचित्तश् शैलनस् स पशुमान् भवति य एवं विद्वान् रौरवं गायतीति
प्रस्तूयमानं साम प्रजाकामो ऽभ्युद्गायेद् विहृते प्रस्तावे क्षत्रकामः। प्रतिह्रियमाणम् एव पशुकामो ऽभ्युद्गायेत्। निधनम् एव स्वरम् उपयन् ब्रह्मवर्चसं ध्यायेत। ब्रह्मवर्चसं हि स्व (रः)। ते चत्वारस् सामन् कामा इति ह स्माह जानश्रुतेयः। अथ ह स्माह वैतहव्यस् त्रय एव सामन् कामाः। यद् एव वाचा करोति सा प्रजा। मनसो हि वाक् प्रजायते। स यद् वाचा करोमि-प्रजा म एषा-प्रजावान् एतेन भविष्यामीत्य् एव तद् विद्यात्। अथ यद् ऋचं गायति ते पशवः। पशवो ह्य् ऋक्। स यद् ऋचं गायामि-पशवो म एते-पशुमान् एतेन भविष्यामीत्य् एव तद् विद्यात्। अथ यन् निधनं स्वरम् उपैति तद् ब्रह्मवर्चसम्। ब्रह्मवर्चसं हि स्वरम् उपैमि-ब्रह्मवर्चसं म एतत्-ब्रह्मवर्चस्य् एतेन भविष्यामीत्य् एव तद् विद्यात्। अत्रैवैते सर्वे कामा उपाप्यन्त एवं विदुष इति॥
तद् एतत् सत्यम् अक्षरं यद् ओम् इति। वज्रा ह खलु वा एते यद् यौधाजयस्य साम्नो निधनानि। ते देवा एतेन सत्येनाभिगीय ओम् इत्य् एतैर् यौधाजयस्य निधनैर् असुरान् पाप्मानं भ्रातृव्यान् अघ्नन्। एवम् एवैवं विद्वान् एतेन सत्येनाभिगीय ओम् इत्य् एतैर् यौधाजयस्य निधनैर् द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति॥
तत् त्रिणिधनं भवति। त्रयो वा इमे लोकाः। वज्रा एते यन् निधनानि। एभ्यो लोकेभ्य एतैर् वज्रैस् सर्वं पाप्मानम् अपहते। अथो हास्यैत एव वज्रा एषु लोकेषु सर्वं पाप्मानम् अपहत्य ओम् इत्य् एव स्वर्गे लोकम् आरोहति
अथैतद् औशनं त्रैष्टुभम्। तद् यत्र देवासुरास् संयत्ता आसंस् तद् एष्व् अव्रवीत् त्रिर् अहं ष्टुब् अस्मीति। यद् अब्रवीत् त्रिर् अहं ष्टुब् अस्मीति तस्मात् त्रिष्टुप्। ते देवा एतया त्रिस् स्तुत्वा द्विषन्तं पाप्मानं भ्रातृव्यम् अघ्नन्। एवम् एवैवं विद्वान् एतया त्रिस्स्तुत्वा द्विषन्तं पाप्मानं भ्रातृव्यं हन्ति। तस्य त्रिः प्ररोहति। त्रैष्टुभो वा असाव् आदित्यश् शुक्लं कृष्णं पुरुषः। त्रैष्टुभम् इदं चक्षुश् शुक्लं कृष्णं पुरुषः। तच् छ्रेष्ठया देवतया संपाद्योद्गायति। स श्रेष्ठतां स्वानाम् अश्नुते य एवं विद्वान् औशनं गायतीति
अथ निर्बाधापस्तम्भौ। साम्नो हिंक्रियमाण एतां दिशं यं द्विष्यात् तं मनसा निर्बाधेत। तत एव स पराभवति। प्रतिह्रियमाण एताम् उ एव दिशं यं द्विष्यात् तं मनसापस्तभ्नुयात्। तत उ एव स पराभवति॥
अथो त्रयस् साम्नस् स्वर्गास् त्रयो नारकाः। प्रस्तुते पुरादेस् स नारकः। तद् द्विषन्तं भ्रातृव्यं पातयित्वादिस् स्वर्गो लोकः। तस्मिन् आत्मानं दध्यात्। प्रतिहृते पुरोपद्रवात् स नारकः। तद् द्विषन्तं भ्रातृव्यं पातयित्वोपद्रवस् स्वर्गो लोकः। तस्मिन्न् आत्मानं दध्यात्। उपद्रुते पुरा निधनात् स नारकः। तं द्विषन्तं भ्रातृव्यं पातयित्वा निधनं स्वर्गो लोकः। तस्मिन्न् आत्मानां दध्यात्॥
तद् उ होवाच शाट्यायनिर् अपहतपाप्मैतत् साम्नो यद् ऊर्ध्वं प्रस्तावात् स्वर्ग एषु लोकः। कस् तस्मिन् द्विषन्तं भ्रातृव्यम् आभजेत। प्रस्तुत एव पुरादेस् स एवैको नारकः। तद् द्विषन्तं भ्रातृव्यम् पातयित्वा सर्वस्मिन्न् एव सामन्न् आत्मानं दध्यात्। अथो यजमानम्। सो ऽपहत्य पाप्मानं स्वर्गं लोकम् एति। एतत् तद् यत् कृत्वा श्रेयान् मन्यत इति
यो वा ऋक्सामाभ्याम् आयतनवद्भ्याम् आर्त्विज्यं करोत्य् आयतनवान् भवति। प्रस्ताव एवर्चस् सामन्न् आयतनम्। यद् ऊर्ध्वं प्रस्तावाच् छन्नं गायति तत् साम्न ऋच्य् आयतनम्। प्रतिहार एवर्चस् सामन्न् आयतनम्। यद् ऊर्ध्वं प्रतिहाराच् छन्नं गायति तत् साम्न ऋच्य् आयतनम्। निधनम् एवर्चस् सामन्न् आयतनम्। यन् निधनम् अतिस्वरति तत् साम्न ऋच्य् आयतनम्। स य एवम् एताभ्याम् ऋक्सामाभ्याम् आयतनवद्भ्याम् आर्त्विज्यं करोत्य् आयतनवान् एव भवति॥
तद् वा एतद् द्वयम् एवर्क् च साम च। तयोर् यत् सत्यं प्रजासु भवति जयति तं लोकं यस् सत्येन जेयः। वाग् वा ऋचस् सत्यं मनस् साम्नः। एते ह वा ऋक्सामयोस् सत्ये। सत्यं प्रजासु भवति जयति तं लोकं यस् सत्येन जेयः। ( ऋचस्) सत्येन साम गायात् साम्नास् सत्येनर्चम्। ऋक्साम्ने उ ह वै स्वर्गस्य लोकस्येशाते। तं ह वा एते स्वर्गे लोकं गमयतः। स स्वर्गस्य लोकस्येशे य एने एवं गायति। तस्माद् एवम् एव गेये
रथन्तरेण स्तोष्यमाणः पृथिवीम् अभिमृशति नमो मात्रे पृथिव्यै रथन्तर मा मा हिंसीः इति। अथ महिम्नस् संभरति यस् ते अग्नौ महिमा यस् ते अप्सु रथे यस् ते महिमा स्तनयित्नौ य उ त वाते यस् ते महिमा तेन संभव रथन्तर द्रविणस्वन् न एधि इति। अथ वामदेव्यं पुरस्ताच् छान्तिम् अभिव्याहरंति प्रजापतिर् असि वामदेव्यं ब्रह्मणश् शरण तन् मा पाहि इति। अथैता अमृतव्याहृतीर् अभिव्याहरति भूर् भुवस् स्वः॥ क इदम् उद्गास्यति स इदम् उद्गास्यति इति। प्रजापतिर् वै कः। तम् एवादाव् आर्त्विज्याय वृणीते। स य एवं तद् उद्गायति वाचैवास्य कृतं भवत्य् अनृण आत्मना भवति। अथाभ्यनिति। प्राणे वै शान्तिर् अग्निर् वै बृहद्रथन्तरे। ते प्राणेन शमयति। अथ ये शान्ते बृहद्रथन्तरे गायति ते हैते युवानश् श्रोत्रियाः प्रमीयन्ते स्वयम् उपरिष्टाद् वामदेव्यम्
स यथा घर्मं तप्तं शफाभ्यां परिगृह्य हरेद् एवम् एवैतद् बृहद्रथन्तरे वामदेव्याभ्यां परिगृह्य हरति। ते एनं नोदोषतः। स सर्वम् आयुर् एति य एवं विद्वान् बृहद्रथन्तरे गायति। इयं वै रथन्तरम्। तस्या असौ वत्सो यो ऽसौ तपति। स यत् भा भा इति स्तोब्ध्य् एतम् एव तद् आदित्यं रथन्तरं दुहे यं कामं कामयते॥
श्रीर् वै रथन्तरम्। तस्या इमे स्तोभा यद् अस्यां पृथिव्याम् अधि। सैषा श्रीर् नान्यत्राक्षरेभ्य आप्तव्या। स यद् अक्षरेषु स्तोब्ध्य् एताम् एव तच् छ्रियम् आप्त्वैतस्यां प्रतितिष्ठति। सा हैषैकस्था श्रीर् यद् अक्षरेषु। तस्माद् अक्षरेषु स्तोब्धव्यम्
तद् एतद् अमूलं रथन्तरं यद् अन्यत्राक्षरेभ्यः। एतस्माद् धीदम् आयतनात् प्रच्यवन्ते ये ऽन्यत्राक्षरेभ्यस् स्तोभन्ति। अथ यो ऽक्षरेषु स्तोब्धि स्व एव तद् आयतने प्रतितिष्ठति। तस्माद् अक्षरेष्व् एव स्तोब्धव्यम्॥
देवतागायिनः कुरुपञ्चाला आयतनाद् अच्यवन्तेति ह स्माह शाट्यायनिः। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। तद् यत्र बृहद्रथन्तरे आजिम् ऐतां तद् बृहद् उदजयद् रथन्तरं हीयमानम् अमन्यत। तद् यत् क्षिप्रं रथन्तरं गायति मनश् च वै तद् वाचं च समे करोति। तद् इदं रथन्तरम् ईक्षते यो माम् अनेन समम् अकृद् धन्तायं क्षिप्रे पाप्मानं निजहात्व् इति। स क्षिप्रे पाप्मानं विजहाति य एवं विद्वान् क्षिप्रं रथन्तरं गायति
तत् पूर्णमुखेन प्रधून्वन् क्षिप्रं गायेत्। श्रीर् एषा यद् रथन्तरम्। श्रियम् एतद् आत्मन् धत्ते। अथो अग्निर् एष यद् रथन्तरम्। तस्मात् क्षिप्रं मुमुक्षितव्यम्। यत्र वा अग्निर् उपतिष्ठमानो दहति दूर इव वै तत्रौषधयः प्रजायन्ते। यत्रोपधून्वन्न् एति क्षिप्रं तत्रौषधयः प्रजायन्ते। क्षिप्रं प्रजया पशुभिः प्रजाया इति प्रतिहारेप्रतिहार उद्गाता इळ् इति ब्रूयात्। पशवो वा इळायतनं रथन्तरम्। आयतन एव तद् एतान् पशून् प्रतिष्ठापयति॥
तद् धैतद् एक एकरूपम् एव भा भा इति स्तोभन्ति। असौ वा आदित्यो भा इति। तद् उ होवाच शाट्यायनिर् अमिथुनम् एतद् अप्रजननं यद् एकरूपम्। भगो वा असौ भिद् इयम्। पुमान् वा असौ स्त्रीयम्। यदा वा असौ वर्षत्य् अथेयं प्रजायते। यदो वै पुमान् योषायां रेतस् सिञ्चत्य् अथ सा प्रजायते। तस्मात् अभुभाभिभभेभम इत्य् एवं मिथुनं प्रजननं स्तोब्धव्यम्। यावत् स्तोभेत् तावत् पृथिव्यां हस्तौ स्यातां देवरथस्यानपव्याधाय
षोडशाक्षराणि स्तोभति। षोडशकलो वै पुरुषः। कलाश एव तद् यजमानम् एतस्यां देवयोन्यां सिञ्चति। स एतस्यै देवयोन्यै जायते देवान् अधि। चतुर्दशचतुर्दशोत्तरयोः। ततो यानि दश सा विराड् अन्नं विराट्। अथ यानि चत्वारि त एव चतुष्पादाः पशवः। चतुष्पदः पशून् अवरुन्द्धे॥
षोडणाक्षराणि स्तोभति। ततो यानि पञ्चदश स वज्रः पञ्चदशः। अथ यत् षोडषम् अक्षरं स इन्द्रः। इन्द्रो वज्रस्योद्यन्ता षोडशः। तम् इन्द्रं यजमानम् अकृत्। तद् उद्गाता यजमानस्य पञ्चदशेन वज्रेण द्विषन्तं पाप्मानं भ्रातृव्यं स्तृणाति। चतुर्दश-चतुर्दशोत्तरयोः। स ह स वज्र ऊनो नारम्भणः। तद् उद्गाता यजमानस्य भ्रातृव्यायतने भ्रातृव्यं वितक्ष्णोति भ्रातृव्याययतने भ्रातृव्यं विनाशं नयति। न हास्य कश् चन भ्रातृव्यो भवति य एवं वेद॥
षोडशाक्षराणि स्तोभति। चतुर्दशचतुर्दशोत्तरयोः। तानि चतुश्चत्वारिंशद् अक्षराणि संपद्यन्ते। चतुश्चत्वारिंशदक्षरा त्रिष्टुप्। त्रैष्टुभ इन्द्रः। स ह स इन्द्रश् छन्दसां मध्यत प्रावसितो बहूनि छन्दांसि पुरस्ताद् बहून्य् उपरिष्टात्
छन्दांसि वै सर्वे स्तोमास् सर्वे पशवस् सर्वे देवास् सर्वे लोकास् सर्वे कामाः। तत् सर्वान् स्तोमान् सर्वान् पशून् सर्वान् देवान् सर्वान् लोकान् सर्वान् कामान् आप्नोति॥
अग्निर् एष यद् रथन्तरम्। अग्निर् वै मृत्युः। स यो ऽन्यत्राक्षरेभ्यस् स्तोब्धि स एवोद्गाता यजमानं मृत्योर् आस्ये ऽप्यस्यति। अथो यो ऽक्षरेषु स्तोब्धि-अन्नम् उ वै स्तोभः -स्तोभेनस्तोभेनैव मृत्योर् आस्यम् अपिधायैतं मृत्युम् अतितरति। अथो समुद्र एष यद् रथन्तरम्। अथ यो ऽन्यत्राक्षरेभ्यस् स्तोब्धि स एवैतं समुद्रं प्रविशति। अथ यो ऽक्षरेषु स्तोब्धि यथा नावा वा प्लवेन वा द्वीपाद् द्वीपं संक्रामेद् एवम् एवैतं समुद्रम् अतितरति॥
स्वर्दृशम् इति निराह। यदा वै स्वर् गच्छत्य् अथामृतो भवति। तं सर्वेभ्यो देवेभ्यस् सर्वेभ्यो भूतेभ्यः प्राह स्वर् अयं ब्राह्मणो ऽगन्न् अमृतो ऽभूद् इति। सर्वे देवास् सर्वाणि भूतान्य् अनुवुध्यन्ते
अथैतद् वामदेव्यम्। आ प्रतिहाराद् अनवानं गेयम्। प्राणो हि वामदेव्यम्। प्राणान् नेद् अवच्छिद्या इति॥
नो हान्यस्यानुवर्त्म गेयम्। ईश्वरो होपजीवी भवितोर् यो ऽन्यस्यानुवर्त्म गायति। स्वधूर् एव गेयम्॥
तद् ध स्माह व्रह्मदत्तश्(ब्रह्मदत्तश्) चैकितानेयो रूक्षितम् इवैतद् यद् वामदेव्यं निर्धूतम् इव। सामानि ह्य् अस्मात् सृष्टानि यथा जरत्कोशो वा स्याद् अश्वतरा वा विच्छिद्वहा। पृष्ठंपृष्ठं हि प्रतिवहतीति। तस्मिन् पृष्ठरूपं वा गायेद् एता वा व्याहृतीर् व्याहृत्योद्गायेद् गोश् चाश्वश् चाजा चाविश् च व्रीहिश् च यवश् चेति। गौर् एव रथन्तरम् अश्वो बृहद् अजा वैरूपम् अविर् वैराजं व्रीहयश् शक्वर्यो यवा रेवतयः। तद् ये ऽस्माद् रसात् सृष्टा भवन्ति तान् अस्मिन् दधाति। तद् आप्याययति। तेनास्यापीनेन रसवता स्तुतं भवति॥
स यदि वृष्टिकामस् स्यात् आपो वायुर् आपो वायुः इति पुरस्ताद् व्याहृत्य वामदेव्येन स्तुवीत। तथो हैवास्मै वर्षति॥
अथो पशवो वै वामदेव्यम्। स पशुमान् भवति य एवं विद्वान् वामदेव्येन स्तुते॥
तद् ध वै सुगीतं ब्रह्मसाम्नो यद् एनद् ब्रह्मलोकैस् संपाद्योद्गायति। सप्त कृत्वो ब्रह्मसाम्नः प्ररोहति। सप्तम् उ लोके ब्रह्म। वासो मान्दानो वा इति चतुः प्रारुक्षत् आन्धासा भी वात्सान् नो वा इति त्रिः। तत् सप्त संपद्यते
उपोदको नाम लोको यस्मिन्न् अयम् अग्निर् ऋतधाम यस्मिन् वायुर् अपराजितो यस्मिन्न् आदित्यो ऽभिद्युर् यस्मिन् वरुणः प्रद्युर् यस्मिन् मृत्यू रोचनो यस्मिन् अशया। विष्टप एव सप्तमो ब्रह्मलोको यस्मिन्न् एतद् ब्रह्म। तत् सप्तमेन प्ररोहेण विष्टपे ब्रह्मलोक आत्मानं दध्याद् अथो यजमानम्। अथो हैनद् गमयति। यद् एनत् स्पृशतीव तद् धैनत् प्रियेण धाम्ना समृद्धयति। यद् ध स्म सुचित्तश् शैलन उद्गृह्णाति स्वासाराधिषु धेनो वा इत्य् अभि ब्रह्मलोकम् आरोहयति प्रियेण धाम्ना समृद्धयति। तद् उ हैनत् समृद्धं प्रियेणो एव धाम्ना समृद्धयति। तद् व् इमं लोकम् आगमयति तेनो सर्वम् आयुर् एति
अथैतत् कालेयं विस्तृणन्न् इव व्यवसायन्न् इवासंरुन्धन्न् इव गायेत्। यथा यवाचितं वा स्वाचितं यायान् भाषाचितं वेति ह स्म पुरा कुरूणां ब्राह्मणा मीमांसन्त एवम् एतद् यत् कालेयं तद् विकर्षतेव गेयम् इति॥
तद् धैतद् एतद् एके रथन्तरसाम्न ऊर्ध्वम् इळाम् उपयन्ति नकारिणाम् ओयिळा इति। तद् उ होवाच शाट्यायनिर् उद्धतेवैषेळा प्रच्युतेव निततामेव। इळाम् अन्तत उपयन् बृहत्साम्नो द्वितीयस्यै स्तोत्रियायै धोरो इत्य् उद्गृह्णीयात्। तद् एव बृहतो रूपान् न यन्ति। अथ हैके रथन्तरसाम्नश् चैव बृहत्साम्नश् चोर्ध्वाम् एवेळाम् उपयन्त्य् अनवध्मातैषेळा स्वर्ग्येति। तद् उ होवाच शाट्यायनिर् अग्निर् वै रथन्तरं वायुर् वामदेव्यम् इन्द्रो नौधसं विश्वे देवाः कालेयम्। अथैष स्वर्ग एव लोको विश्व एव देवाः। स्वर्ग एव तल् लोके विश्वेषु देवेषु प्रतितिष्ठति स य एनांस् तथा चक्रुषो ऽअनुव्याहरेद् इति वेति वा भविष्यन्तीति। तथा हैव स्युः। तस्माद् एषा निततैवेळान्तत उपेत्या सर्वायुष्टाया अस्य लोकस्यानुद्धातायेति
अथैतत् संहितं ब्रह्म सवनमुखे क्रियते। तद् एतत् स्वयं प्रशस्तं यद् ब्रह्म। तस्मिन्न् उ प्रशस्त एव सत्य् एषा भूयसी प्रशंसा क्रियते यद् एतद् ओम् इत्य् आदत्ते। असाव् आदित्य एतद् अक्षरम्। तद् एतत् त्रयस्य देवस्यापीळितम् अक्षरम्। स यद् ओम् इत्य् आदत्ते ऽमुम् एवैतद् आदित्यं मुख आधत्ते। स यथा मधुना लाजान् प्रयुयाद् एवम् एवैतेनाक्षरेण सामन् रसं दधाति। तद् आप्यायति। तेनास्यापीनेन रसवता स्तुतं भवति। प्रतिह्रियमाणं सामावसीदतीत्य् आहुः कुरवस् स यद् ऊर्ध्वं प्रतिहाराद् उद् गृह्णाति तद् उत्थापयतीति। सामन्न् उ हैवैतत् सामाभिगीयते। तद् ध वै सुगीतं यत् सामन् सामाभिगायात्। सामन्न एवेदं सामाभिगायामीत्य् एव तद् विद्याच् छ्रेष्ठताम् अनेन स्वानां गमिष्यामीति
अथैते उष्णिक्ककुभाव् आ प्रतिहाराद् अनवानं गेये। संशीर्णम् इवैतच् छन्दः पुरुषछन्दसम् उष्णिक्ककुभौ। तद् ध शमस्तोमी बालाकिस् सायकं जानश्रुतेयम् अन्तेवासिनम् उद्गापयन् स्वयज्ञे ऽनुव्याजहार। तथा न्वा अयं जानश्रुतेयम् सामागासीद् यथास्येदानीं रुधिरम् उत्पतिष्यतीति। अथ हाजिनवासिनो युध्यमानास् सदः प्रपेदुः। तस्य ह दण्डः पतित्वा रुधिरम् उत्पातयांचकार। स होवाचाथ कथं गायेद् इति। तस्मै हैतद् उवाच असृक् इत्य् एव न निर्द्योतयेत् हो इत्य् एव गायेत्। नो ह सर्वं तृतीयसवनं छन्नं गायेत्। यो हैनं छादयन्तं ब्रूयाद् अधक्षन् वा अयम् उद्गातात्मानं च यजमानं चेति तथा हैव स्याद् दृंह्याम् एव निर्द्योतयेद् दृंहीमानीति वै पशन्त्य सन्ति॥
अथैतच् छ्यावाश्वम्। ऐहो वा एहि या इत्य् एवैते गायन्ति। वाग् एषा वाग् अनुष्टुब् वाच्य् एतद् वाचा प्रतितिष्ठामेति। तद् ध तथा गायन्तं ब्रह्मदत्तं चैकितानेयं गळुना आर्क्षाकायणो ऽनुव्याजहार तथा त्वा अयं दाल्भ्यश् श्यावाश्वम् अगासीद् यथैनं स्वः पामाभ्यारोक्ष्यतीति। तद् उ हेतरो ऽनुबुध्योवाच तथो वाव स वामदेव्यम् अगायद् यथा रूक्ष एवापशुश् चरिष्यतीति॥
अथ ह ब्रह्मदत्तं चैकितानेयं ब्रह्मदत्तः प्रासेनजितः -
- कौसल्यो राजा पुरो दधे। तस्य ह पुत्रः प्राच्यवद् बभाषे। स होवाच प्रमेयो वा अयम्। युक्त मे पुनर् यास्यामीति। स ह प्रययौ। अथ हास्य जैमवं सजातं वैळूनय आनिन्यिरे। तेषां ह समितिम् आजगाम। स ह स तृणेभ्यो ऽनूत्तस्थौ। उत्पतति ह स्म पुरा। तं ह बहु प्रदाय बह्नाधेतौ समाजग्मतुः। स होवाचेत्थं चेद् इदम् अभूद् एहीदं संप्रब्रवावहा इति। स होचाच गळुनाश् श्यावाश्वं वा आर्चनानसं समिद्धारं परेतं प्रतिसत्त्रिणो हित्वा स्वर्गं लोकम् आयन्। तं हैनं श्यावाश्वेनैव ऐहो वा एहि या इत्य् उदाह्नयन्। हीन इवैष यत् सजातः। स यत् ऐ हो वा एहि या इति गायति स्वेनैवैनत् तत् पाप्मनाभ्यारोहयत इति। तस्मै हैतद् उवाच ओहोइया इत्य् एव गायेत्। ओहो वै नामेन्द्रः। य एवासौ तपत्य् एष एवेन्द्रः। स उ एव सः। तस्यै सर्वे देवा अनुवर्त्मानः। सर्वे हास्य स्वा अनुवर्त्मानो भवन्ति य एवं विद्वान् श्यावाश्वं गायतीति
अथैतद् आन्धीगवं मध्येनिधनं प्रतिष्ठायै। तद् यद् एवात्र यज्ञस्य दुष्टुतं दुश्शस्तं विधुरं तद् एवैतेनानुवस्ते। अथैतस्य कावस्य पञ्च कृत्वः प्ररोहति। पञ्चदशो वै पंक्तिः पांक्ताः पशवः पशवो जगती। तान् एतान् पशुषु पशून् वितनोति। तत् पशव्यम् इति ह स्माह सुचित्तश् शैलनस् स पशुमान् भवति नास्य तन्तिः कुलाच् छिद्यते य एवं विद्वान् कावं गायतीति। तन्तिर् इति ह स्मैतद् गीतम् आचष्टे ऽथो स्वर्गस्य लोकस्य व्याप्तिर् इति॥
इयं वै गायत्र्य् अन्तरिक्षं त्रिष्टुब् असौ जगती। तत् तृतीयेन प्ररोहेण स्वर्गं लोकम् आरोहति। तत् पशव्यं स्वर्ग्यम् इति ह स्माह। एताव् उभौ कामाव् उपाप्नोति
यौ वै यज्ञस्योधर् वेद प्रत्तं यज्ञं दुहे। यज्ञायज्ञीयं वाव यज्ञस्योधः। तस्यैते स्तना गायत्रं च रथन्तरं च बृहच् च वामदेव्यं च। तद् गायत्रम् इव प्रस्तुयाद् रथन्तरस्येव स्तोभान् स्तोभेद् बृहत इव रोहान् रोहेत्। हिंकारो वामदेव्यं स्वयम् एव यज्ञायज्ञीयम्। एतद् वै यज्ञं यजमानो दुहे। स हेष्ट्वैव श्रेयान् भवति॥
तस्य दश कृत्वः प्ररोहति। षट् कृत्वः पूर्वयोश् चतुर् उत्तमायै। ते दश प्ररोहास् संपद्यन्ते। दशाक्षरा विराड् अन्नं विराट्। य एवासौ तपत्य् एष एव विराट्। एतस्मिन्न् एव तत् स्वर्गे लोके ऽन्ततः प्रतितिष्ठन्ति॥
अथोक्थानि छन्नमिश्राणीव गायेत्। अह्नो ह्य् उक्थानि। अथ रात्रिम् आविर् एव गायेत्। छन्नेवाह्नो रात्रिः। तद् आहुः उद्गातर् अहन् रात्रिम् अगासी रात्र्याम् अहा3ः इति। उभयम् इति ब्रूयात् अहन्न् एव रात्रिम् अगासिषं रात्र्याम् अहः इति। आविर् वा अहः। तस्मिन् यच् छन्नं गायति मिथुनम् एव तत् प्रजननं दधाति। छन्ना वै रात्रिः। तां यद् आविर् गायति यथा तमसि ज्योतिर् दध्यात् तादृक् तत्। तस्माद् रात्र्या एव रूपेणाहर् गायेद् अह्नो रूपेण रत्रिम्
तद् एव सूद्गीतम्। अथो अरोरात्रे एव तद् अन्योन्यस्मिन् प्रतिष्ठापयन् गायति। तद् यद् अहर् आविस् सत् तच् छन्नं गायति तस्माद् असाव् आदित्य इदं सर्वं न प्रदहति। अथ यद रात्रिं छन्नां सतीं ताम् आविर् गायति तस्माद् उ हेदं नक्तं किं च निर्ज्ञायते। यद् ध तां छन्नाम् एव गायेद् अन्धम् एव तमस् स्यात्॥
अथ राजानो ऽग्निष्टोमसामानि राजपुत्रा द्वादशाहीयानि विशश् छन्दस्यानि। तस्माद् एतानि त्रयाणि सामानि संवसरे कार्याणि। यद् वै क्षत्रं विड्वद् राजपुत्रवद् भवति तत् समृद्धम्। स यथा क्षत्रं विड्वद् राजपुत्रवत् स्यात् तादृक् तत्॥
तद् यद् एतानि सामानि संवत्सरे क्रियन्ते ऽथातो ऽग्निष्टोमसाम्नाम् एव गानम्। यथा राज्ञः परिष्कारश् शार्दूलाजिनं मणिहिरण्यं हस्ती निष्को ऽश्वतरीरथो ऽश्वरथो रुक्मः कंसस् त एवम् एष ऐतेषां साम्नां परिष्कारः। तस्माद् अग्निष्टोमसामान्य् एव गानीकृत्य गायेद् यथागीतम् इतराणि यथागीतम् इतराणि
यदि सोमौ संस्तुतौ स्यातां महारात्रे प्रातरनुवाकम् उपाकुर्यात्। पूर्वो वाचं पूर्वो देवताः पूर्वश् छन्दांसि वृंक्ते। छन्दांसि वै सर्वा देवताः। सर्वा एवैषां देवता वृञ्जते। पूर्वो वसतीवरीर् जिग्राहयिषेत्। एता वै सर्वा देवता यद् वसतीवर्यः। सर्वा एवैषां देवता वृञ्जते॥
सुषमिद्धे होतव्यम्। अग्निर् वै सर्वा देवताः। सर्वा एव तद् देवताः पश्यन्तो यजन्ते छन्दोभ्यो ऽभिभूत्यै॥
आग्नीध्रे होतव्यम्। संवेशायोपवेशाय गायत्र्यै छन्दसे ऽभिभूत्यै स्वाहा इति प्रातस्सवने जुहुयात्। संवेशायोपवेशाय त्रिष्टुभे छन्दसे ऽभिभूत्यै स्वाहा इति माध्यंदिने सवने जुहुयात्। संवेशायोपवेशाय जगत्यै छन्दसे ऽभिभूत्यै स्वाहा। इति तृतीयसवने जुहुयात्। छन्दोभिर् वै देवा असुरान् अभ्यभवन्। सपत्नायन्तीवैते ये संसुन्वन्ति। छन्दोभिर् एवैनान् अभिभवन्ति। प्रजापतेर् ऋग्भिर् होतव्यम्। प्रजापतिर् वै सर्वा देवताः। सर्वा एवैषां देवता वृञ्जते
यदि कामयेरन्न् अध्वर्युर् एषां म्रियेतेत्य् अध्वर्युं प्रातस्सवने ब्रूयुः प्रजापतेर् ऋग्भिर् जुहुधि इति। यदि कामयेरन् होतैषां म्रियेतेति होतारं माध्यंदिने सवने ब्रूयुः प्रजापतेर् ऋग्भिर् जुहुधि इति। एवमायतना वा ऋत्विजः। अध्वर्युः प्रथमो युज्यते। तस्य प्रातस्सवनम् आयतनम्। अथ होता। तस्य माध्यंदिनं सवनम् आयतनम्। अथोद्गाता। तस्य तृतीयसवनम् आयतनम्। यथायतनम् एवैनान् स्पृण्वते। यदि कामयेरन् यजमान एषां म्रियेतेति यजमानं ब्रूयुः प्रजापतेर् ऋग्भिर् जुहुधि इति। यदि कामयेरन् सर्व एव म्रियेरन्न् इति सर्व एव सर्वेषु सवनेषु जुहुयुः॥
उभे बृहद्रथन्तरे भवतः। इन्द्रस्य वा एतौ हरी। यद् उभे बृहद्रथन्तरे-यज्ञो देवरथः-इन्द्रस्यैव हरिभ्यां यज्ञेन देवरथेनाजिम् उज्ज्यति। इदं वै रथन्तरम् अदो बृहत्। अस्माद् अमुष्माद् अद्यश्वात् सुमिथुनाद् एवैनान् अन्तर्यन्ति
प्र वो वाजा अभिद्यवः इत्य् आग्नेयम् आज्यं भवति। प्रवत् त्यद् देवतानां रूपम् अभि भूत्यै रूपम्। अभ्य् एवैनान् भवन्ति। आभीकम् अभिनिधनम् अभीवर्तम् आभीशवम् इत्य् एतानि सामानि भवन्ति अभिभूत्यै रूपम्। अभ्य् एवैनान् भवन्ति। विहवीयं सजनीयम् अगस्त्यस्य कयाशुभीयम् इत्य् एतानि शस्त्राणि भवन्ति। ततो यद् विहवीयम् इन्द्रम् एव तेन देवान् आह्वयन्ते। सम् एवैनं सजनीयेन वृञ्जते। अगस्त्यं वै रक्षांसि अन्वसचन्त। सो ऽकामयताप रक्षांसि हनीयेति। स एतत् कयाशुभीयं शस्त्रम् अपश्यत्। तेन रक्षांस्य् अपाघ्नत। रक्षांसीव वा एतान् सचन्ते ये संसुन्वन्ति। कयाशुभीयं शस्त्रं भवति रक्षसाम् एवापहत्यै॥
यदीतरे ऽग्निष्टोमं कुर्वीरन्न् अथात्मनोक्थ्यं कुर्वीरन्। यदीतर उक्थ्यं कुर्वीरन्न् अथात्मना षोडशिनं गृह्णीरन्। यदीतरे षोडशिनं गृह्णीरन्न् अथात्मनातिरात्रं कुर्वीरन्। यदीतरे ऽतिरात्रं कुर्वीरन्न् अथात्मना द्विरात्रं कुर्वीरन्। यदीतरे द्विरात्रं कुर्वीरन्न् अथात्मना त्रिरात्रं कुर्वीरन्न्। भूयांसि स्तोत्राणि भूयांसि शस्त्राणि भूयसीर् देवता उपयन्ति। अभिभूत्यै रूपम्। अभ्य् एवैनान् भवन्ति। यथा ह वा इदं सेनयोस् संतिष्ठानयोर् ऽनु योधा भूयांस आयन्ति तादृक् तत्। तद् उ वा आहुर् इयम् एवाग्रे मनसा यज्ञक्रतुम् आकुवेतम् एवोज्जिगीषेत्। यो वै सह पलायितयोः पूर्वः काष्ठां गच्छति स वाव तयोर् जयति। पूर्व एव संस्थां प्रेप्सेद् इति
यद् दीक्षितानां प्रमीयेत तं दग्ध्वास्थान्य् उपनह्यापभज्य सोमं यो ऽस्य नेदिष्ठतमस् स्यात् तेन सह दीक्षयित्वा याजयेयुः। समानाय वा एते यज्ञाय समानाय सुकृताय समारभ्य दीक्षन्ते। तेनैवैनं निरवदयन्ते। एतद् अन्यत् कुर्युः। अभिषुत्य सोमम् अन्यद् अगृहीत्वा ग्रहान् या दक्षिणास् स्रक्तीस् तद् अस्थानि निधाय मार्जालीये स्तुवीरन्। अर्बुदस्यर्ग्भिस् स्तुवते। अर्वुदो वै सर्पः। एताभिर् मृतां त्वचम् अपाहत। भ्रियन्त इव वा एते ये मृताय कुर्वन्तीति। मृताम् एवैताभिस् त्वचम् अपघ्नते॥
तिसृषु स्तुवन्ति। तृतीयो वा इतः पितृलोकः। पितृलोकम् एवैनं गमयन्ति। पराचीषु स्तुवन्ति। पराञ्चम् एवैनं तद् अमुं लोकं गमयन्ति॥
यामं साम भवति। यमलोकम् एवैनं गमयन्ति। अप्रस्तुतम् अप्रतिहृतं साम भवति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। तद् यद् अप्रस्तुतम् अप्रतिहृतं साम भवत्य् अमुष्मिन्न् एवैनं तल् लोके प्रतिष्ठापयन्ति। स्तुतम् अनुशंसन्त्य् एता ऋचो ऽअनुब्रुवन्तो दक्षिणान् ऊरून् उपाघ्नानाः। त्रिर् अपसलैर् मार्जालीयं पर्यपयन्ति। अमुष्मिन्न् एवैनल् लोके निधुवते। अभ्य् एनम् अमुष्मिन् लोके वायुः पवते। तद् आहुर् यन्ति वा एते पथो ये मृताय कुर्वन्तीति
ऐन्द्रवायवाग्नान् ग्रहान् गृह्णन्ति पुनः पन्थानं पर्यवयन्ति। असंमितं सर्वं स्तोत्रं भवति। असंमिते ह्य् असौ लोकः। अमुम् एवैतेन लोकम् उपसीदन्ति। तद् आहुस् त्रिवृत एव पवमानास् स्युः। सप्तदशान्य् उत्तराणि स्तोत्राणि। प्राणा वै त्रिवृतः। प्राणैर् वा एते व्यृध्यन्ते ये मृताय कुर्वन्तीति। तद् यत् त्रिवृतः पवमाना भवन्ति प्राणैर् एव तत् समृध्यन्ते। सप्तदशान्य् उत्तराणि स्तोत्राणि। प्रजापतिर् वै सप्तदशः प्रजापतिस् स्वर्गस्य लोकस्याभिनेता। स यस् स्वर्गस्य लोकस्याभिनेता स मा स्वर्गं लोकम् अभिनयाद् इति। सप्तदशा उ एवान्यत् पवमानास् स्युः। त्रिवृन्त्य् उत्तराणि स्तोत्राणि। अभिह्वातारं वावमुब्ध ऋच्छन्ति। तद् यथा प्रथमेनैवं ह्य् अर्वाङ् इत्य् अभिह्वयेत तादृक् तत्। त्रिवृन्त्य् उत्तराणि। प्राणा वै त्रिवृतः। प्राणान् एव तद् अभ्युत्क्रामन्तो यन्ति। तद् आहुर् वीव वा एते प्राणापानाभ्याम् ऋध्यन्ते ये मृताय कुर्वन्तीति
मैत्रावरुणाग्रान् ग्रहान् गृह्णन्ति। प्राणापानौ वै मित्रावरुणौ। प्राणापानाभ्याम् एव तत् समृध्यन्ते। तद् आहुर् न पुरा संवत्सराद् अस्थानि याज्यानि। यत् पुरा संवत्सराद् अस्थानि याजयेयुर् वाचं क्रूराम् अरिष्कृताम् ऋच्छेयुः। उपरिष्टाद् एव संवत्सरस्यास्थानि याज्यानि। वाचं क्रूराम् अरिष्कृताम् ऋच्छेयुः। उपरिष्टाद् एव संवत्सरस्यास्थानि याज्यानि। वाचं क्रूराम् अरिष्कृतां नेद् ऋच्छामेति॥
अथो खल्व् आहुर् यत्रैवेतरे ऽवभृथम् अभ्यवेयुस् तद् अस्थान्य् अवहरेयुः। समा हि वा एतेषां युक्तिश् च विमुक्तिश् च। यैवामीषां विमुक्तिस् ताम् एवानुविमुच्यत इति
यदि सामि सत्त्राद् उत्तिष्ठेयुर् विश्वजितातिरात्रेण सर्वपृष्ठेन सर्ववेदसेन यजेरन्। ऋतवो वै पृष्ठानि संवत्सर ऋतवः। तेनैवैषां संवत्सर आप्तो भवति। अथ या दक्षिणा ददति ताभिर् अतिप्रयुञ्जते। अथो खल्व् आहुर् य एवायं वैश्वानरः प्रायणीयो ऽतिरात्रस् तेनैव यजेरन्न् इति। अहोरात्रे वै परिवर्तमाने संवत्सरम् आप्नुतः। तेनैवैषां संवत्सर आप्तो भवति। अथ या दक्षिणा ददति ताभिर् अतिप्रयुञ्जते॥
यद्य् एकस्मिन् पर्याये ऽस्तुते ऽभिव्युच्छेत् पञ्चदशभिर् होत्रे स्तुयुः। पञ्चभिःपञ्चभिर् इतरेभ्यः। यदि द्वयोः पर्याययोर् अस्तुतयोर् अभिव्युच्छेद् धोत्रे च मैत्रावरुणाय च पूर्वे स्तुयुर् ब्रह्मणे चाच्छावाकाय चोत्तरे। यदि सर्वेषु पर्यायेष्व् अस्तुतेष्व् अभिव्युच्छेत् षड्भिर् होत्रे स्तुयुस् तिसृभिस्तिसृभिर् इतरेभ्यः। सर्वेभ्य एतद् अन्यत् कुर्युः। एकादशान् यद् एकर्चान् उपेत्यैन्द्र दशं सर्वं तृचम् एवं ह चक्रे मौञ्जस् साहश्रवसः
तम् उ ह न कपिवनो भौवायन उवाचागवायनीभिर् बत महा साहश्रवसो ऽगाद् उन्मदिष्णुर् अस्य प्रजा भविष्यतीति ब्रह्मवर्चसिनी त्व् एव भविष्यतीति। यन् माम् आमन्त्रयिष्यतेति होवाच। द्वादशैवैतान् एकर्चान् उपेत्यैन्द्र द्वादशम् अग्ने विवस्वद् उषसः इत्य् एतस्मिंस् तृचे राथन्तरं संधिम् अस्तोष्यत्। अग्ने इति तेनाग्नेयाद् रूपान् नैष्यत्। उषसः इत्य् उषस्यात् सजूर् अश्विभ्याम् इत्य् उत हैनम् उवाच। नैतद् अपि प्रस्नान्तम् इव ह्वयन्त्व् इति। तद् वै नानूक्ता इति होवाच। अथ हैके ऽभ्युदिताप्येव निलिल्यिरे। ते हावरां रात्रिं समेत्य तुष्टुवुर् इयं वाव सा या नः पूर्वात्यगाद् इति। ते ह रराधुः। ते य एवं विद्वांसः कुर्वन्ति राध्नुवन्त्य् एव
यदि प्रातस्सवनात् सोमो ऽतिरिच्यते गौर् धयति मरुताम् इति माध्यंदिनस्य पवमानस्य पुरस्तात् स्तुयुः। गायत्रीषु स्तुवन्ति। गायत्राद् धि सवनात् सोमो ऽतिरिच्यते। मरुत्वतीषु स्तुवन्ति। मरुत्वद् धि सवनम् अभि सोमो ऽतिरिच्यते। धयद्वतीषु स्तुवन्ति। मरुताम् एवैनद् गावो धयन्ति। यावद् आज्यानां स्तोत्रं तावत् स्तोत्रं भवति। यत् एवातिरिच्यते तद् एवावकल्पयन्ति॥
यदि माध्यंदिनात् सवनात् सोमम् अतिरिच्यते बण् महं असि सूर्य इत्य् आर्भवस्य पवमानस्य पुरस्तात् स्तुयुः। बृहतीषु स्तुवन्ति। वार्हताद् धि सवनात् सोमो ऽतिरिच्यते। सौरीषु स्तुवन्ति। सौर्ये हि सवनम् अभि सोमो ऽतिरिच्यते। यावत् पृष्ठानां स्तोत्रं तावत् स्तोत्रं भवति। यत एवातिरिच्यते तद् एवावकल्पयन्ति॥
यदि तृतीयसवनात् सोमो ऽतिरिच्यते ऽतो उक्थ्यं कुर्वीरन्। यद्य उक्थ्यम् अतिरिच्यते षोडशिनं गृह्णीरन्। यदि षोडशिनम् अतिरिच्येतातिरात्रं कुर्वीरन्। रात्रिं ह त्वाव नातिरिच्यते स्वकामेन॥
पशुकामः पशून् अभ्यतिरेचयेत्। वैश्यस्य पशुमतः पशून् अभ्यतिरेचयेत्। त्रिष्टुप्सु स्तुवन्ति बृहत्साम। क्षत्रं वै त्रिष्टुप्। क्षत्रिय उ वै पशूनां प्रदाता। स यः पशूनां प्रदाता स नः पशून् प्रयच्छाद् इति
अतिरिक्तम् अनुबुध्यन्ते। अथ ब्रूयान् मानु वषट्कार इति। तान् सर्वाहुतो हुत्वाभ्युत्पूर्यानु वषट्कारे जुहुयात्। यद्य् उ भूयान् एवातिरिच्येत सहैव कलशेन प्रतितिष्ठेत्। यदि राजानम् अववर्षेत् इन्दुर् इन्दुम् अवागात् तस्य त इन्द्व् इन्द्रियावतो मधुमतो विचक्षणस्योपहूतस्योपहूतो भक्षयामि॥ वाग् जुषाणा सोमस्य तृप्यतु इति। तद् आहुः कृत्स्नं वा एतद् अमृतम् अन्नाद्यम् इमं लोकम् आगच्छति यद् आपः। कृत्स्नं वेदम् अमृतम् अन्नाद्याम् इमं लोकम् अगाद् इत्य् एव मन्यमानो भक्षयेत्। सैव तत्र प्रायश्चित्तिः॥
यदि चमसम् अभ्युपाकुर्युस् तम् उत्तरवर्गेणाभिप्रवृत्यासीत। राजा हैतद् ऋचा मिथुनीभवति। तम् अध्वर्युः प्रत्याकीर्य यन् नादायेयाद् यद्य् उ मार्त्विज्यस्याद्य एवैनं संप्रति धिष्ण्यस् स्यात् तं प्रतिसदसो ऽपियुत्य प्रयच्छेत्। तं मार्जयित्वा यद्विधा इतरे चमसास् तद्विधं कुर्युः। सैव तत्र प्रायश्चित्तिः
यदि प्रातस्सवने कलशो दीर्येत विश्वेत् ता विष्णुर् आ भरत् इति वैष्णवीर् बृहतीर् माध्यंदिने कुर्युः। यदि माध्यंदिने सवने कलशो दीर्येत पवस्व वाजसातये इति वैष्णवीर् अनुष्टुभ आर्भवपवमाने कुर्युः। यदि तृतीयसवने कलशो दीर्येतोक्थ्यं कृत्वा यत् सोमम् इन्द्र विष्णवे इत्य् एतासु ब्रह्मसाम कुर्युः। छिद्रं वा एतद् यज्ञस्य यतः कलशो दीर्यते। तद् विष्णुनैव यज्ञेनोपयच्छान्त। तद् ध्य् अस्य सदेवं वषट्कारणिधनं साम भवति। उभौ वा एताव् अग्नी यद् इयं च वषट्कारश् च। साम्नैवास्यां समिद्धे हूयते॥
श्रायन्तीयं ब्रह्मसाम। सम् एवैनत् तच् छ्रीणन्ति। यज्ञायज्ञीयम् अनुष्टुप्सु प्रोहन्ति। वाग् वै यज्ञायज्ञीयं वाग् अनुष्टुप्। वाचैवैनत् तत् समृद्धयन्ति॥
वारवन्तीयम् अग्निष्टोमसाम। इन्द्रियं वै वीर्यं वारवन्तीयम्। इन्द्रियेणैवैनत् तद् वीर्ये समृद्धयन्ति।
दीर्णस्य परिलाप्सेतापि। अथ उपस्थितम् इच्छेत्। स ब्रूयाद् अन्यं कलशम् आहरतेति। तद् उदीचीनदशं पवित्रं वितत्य शल्कम् अस्याथ राजानम् आनयेत्। अथाग्रयणस्य ग्रहस्याश्चोतयेत्। अथैकधनम्। एकं वा द्वौ वा यावद् अलं मन्येत। सैव तत्र प्रायश्चित्तिः
यदि ध्रुवः प्रवर्तेत संलिख्य न्युब्ज्य यच् छुद्धं तेनाभ्युत्पूरयेत्। यद्य आग्रयणो ग्रहः प्रवर्तेतेतरेभ्यो ऽभ्युत्पूरयेत्। आत्मा वा आग्रयणो ग्रहः प्राणा इतरे। प्राणेभ्यो वा आत्मा संभवत्य् आत्मनो वा प्राणाः। स एष सर्वाणि सवनानि परिशये यज्ञस्यैवारिष्टयै॥
यदि पृषदाज्यं प्रवर्तेताभ्युत्पूर्य पुनर् गृह्णीयात्॥
यदि श्वावलिह्याद् अहविष्यं वा स्यात्। तद् उत्तरवेद्यां निनीय मार्जयित्वा स्रुचम् अन्यद् गृह्णीयात्॥
यदि नाराशंसं सन्नं चमसम् अभ्युन्नयेरन् नाह सो ऽहुतो भक्षाय नो भक्षितो होमाय। तम् अन्तरा परिधींश् चमसं च निनयेत् हुतस्य चाहुतस्य हुतस्य च पीतापीतस्य सोमस्येन्द्राग्नी पिबतं सुतं स्वाहा इति यजुषां हैके निनयन्ति। तूष्णीम् एवेति ह स्माह शाट्यायनिः। मार्जयित्वा चमसं येनाध्वर्युर् ग्रहेण प्रतिष्ठेत तस्य लिप्सेत। प्राणं वा एतस्योपदासयन्ति यस्य चमसम् उपदासयन्ति। प्राणो वै ग्रहः। प्राणेनैवैनं तत् समृद्धयन्ति॥
यदि पर्युन्नयेरन् पुनस् समवनयध्वम् इति ब्रूयात्। अथ तम् एवानून्नयेरन्। यद्य् उद्गायेयुर् अपि तेषाम् एव संप्रच्छिन्द्युः। यदि परिभक्षयेयुर् उपहवम् इच्छेत॥
यदि बहिर्वेदि चरन्तम् अभ्य् अस्तम् इयाद् अपि वा श्रावयेयुर् गृहपताव् उपहवम् इच्छेत। प्रजापतिर् वै गृहपतिः। प्रजापतिनैवैनं तद् उपह्वयते॥
यदि ग्रावा विशीर्येत द्युतानस्य मारुतस्य ब्रह्मसाम्ना स्तुवीरन्। यदि वान्यो ग्रावा स्यात् तेनाभिषुणुयुः। यदि तन् न विन्देयुर् औदुम्बरं वा पालाशं वा कृत्वा तेनाभिषुणुयुः। सैव तत्र प्रायश्चित्तिः
यद्य् अक्रीतं राजानम् उपहरेयुर् आं वेत्तोर् इच्छेयुः। अपि गिरिर धावेयुर् यद् दीक्षित एव तावद् आसीत। यदि क्रीतम् अपहरेयुर् यम् एव कं चाधिगत्याभिषुणुयुः। येनैवास्य पूर्वक्रयेण क्रीतो भवति तेनैवास्यायं क्रीतो भवति। सोमविक्रयिणे तु किं चित् कं देयं नेन् नो ऽभिषवो हतो ऽसद् इति॥
यदि तं न विन्देयुर् बभ्रुतूलानि फाल्गुनान्य् अभिषुणुयुः। इन्द्रो वृत्रं वज्रेणाहन्। तस्य यो नस्तस् सोमो निरद्रवत् तान्य् एव बभुतूलानि फाल्गुनान्य् अभवन्। अथ यो वपायाम् उत्खेदनतस् तानि रोहिततूलानि। तस्माद् बभ्रुतूलान्य। एवाभिषुत्यानि मेध्यतराणि॥
असुर्यस् तेनानभिषुत्य इत्य् आहुः। असुरेषु वा इदम् अग्र आसीत्। तद् देवा अभिजित्यात्मन्न् अकुर्वत। तस्माद् अभिषुत्य एवेति॥
यदि तं न विन्देयुर् ऊतीकान् अभिषुणुयुः। इन्द्रो वृत्रं वज्रेणाध्यस्य नास्तृषीति मन्यमानस् स ऊतीकान् एव प्राविशत्। तस्मै त एवोतिम् अविन्दन्। ऊतिर् वा एतस्य नश्यति यस्य राजानम् अपहरन्ति। ऊतिम् एवास्मै विन्दन्ति। यज्ञस्य वै यत्र शिरो ऽछिद्यत तस्य यो रसः प्राणेदत् त एवोतीका अभवन्। तम् उ तद् यज्ञम् एव प्रत्यक्षम् अभिषुण्वन्ति यद् ऊतीकान्॥
यदि तं न विन्देयुः -
- शुक्लाश् शादो ऽभिषुणुयुः। सोमो वै राजा यद् इमं लोकम् आजगाम स शात्स्व् एव तद् उवास। स एवास्य संन्यङ्गः। तम् एव तद् अभिषुण्वन्ति॥
यदि तं न विन्देयुः पर्णम् अभिषुणुयुः। सोमं वै राजानं यत् सुपर्ण आजहार तस्य यत् पर्ण् अपतत् स एव पर्णो ऽभवत् स एवास्य संन्यङ्गः। तम् एव तद् अभिषुण्वन्ति॥
यदि तं न विन्देयुर् य एव काश् चौषधीर अभिषुणुयुः। सोमं वै राजानं यत् सुपर्ण आहरन् समभिनत् तस्य वा विप्रुषो अपतंस् ता एवेमा ओषधयो ऽभवन्। सर्वा उ ह वै सौम्या ओषधयः। स एवास्य संन्यङ्गः। तम् एव तद् अभिषुण्वन्ति॥
प्रतिधुक् प्रातस्सवने ऽवनयेच् छ्रितं माध्यंदिने सवने दधि तृतीयसवने। तम् उ तं सोमम् एव प्रत्यक्षं भक्षयन्ति यत् पयः। ओषधीनां हि स रसः॥
पञ्च दक्षिणा दद्यात्। पांक्तो यज्ञः। यावती यज्ञस्य मात्रा तस्याम् एवैतत् प्रतितिष्ठन्ति। अवभृथाद् उदेत्य पुनर् दीक्षेत। स यावद् दास्यन् स्यात् तद् दद्यात्। सैव तत्र प्रायश्चित्तिः
यद् अर्वाक् स्तुतम् अस्तुतं तत्। यद् अतिष्टुतं दुष्टुतं तत्। यत् संप्रति तत् स्तुतम्। यद् अर्वाक् स्तुयुर् उत्तरे स्तोत्रे तावतीर् वोपप्रस्तुयुर् भूयोक्षरासु वा स्तुवीरन्। न्यून एव तद् अतिरिक्तं दधति मिथुनत्वाय प्रजननाय॥
यद्य् अतिष्टुयुर् उत्तरे स्तोत्रे तावतीभिर् वा न स्तुवीरन् कनीयोक्षरासु वा स्तुवीरन्। अतिरिक्त एव वा तन् न्यूनं दधति न्यूने वातिरिक्तं मिथुनत्वाय प्रजननाय। मिथुनेन जायते य एवं वेद॥
यद् अर्वाक् स्तुयुस् त्रीळम् अग्निष्टोमसाम कुर्युः। द्वे यज्ञस्य छिद्रम् अपिधत्तः। स्व आयत एका भवति। यद्य् अतिष्टुयुस् स्वारम् अग्निष्टोमसाम कुर्युः। न्यूनो वै स्वरः। अत्य् एतद् रेचयन्ति यद् अतिष्टुवन्ति। यद् एकयातिष्टुतं विराट् सा लोमशा। यद् द्वाभ्यां स्तनौ तौ। यत् तिसृभिर् दोहस् सः। दोग्धा ह्य् एव यत् तृतीयः। यच् चतसृभिस् स्तनास् ते। यत् पञ्चभिर् दोहः सः। दोग्धा ह्य् एव पञ्चमः। षष्ठ्या वा त्वै सप्तम्या वातिष्टुतम्
अथ प्रजापतिः प्राजिजनिषत। स तपो ऽतप्यत। स ऐक्षत हन्त नु प्रतिष्ठां जनये ततो याः प्रजास् सृक्ष्ये ताम् एतद् एव प्रतिष्ठास्यन्ति नाप्रतिष्ठिताश् चरन्तीः प्रदर्षिष्यन्त इति। स इमं लोकम् अजनयद् अन्तरिक्षलोकम् अमुं लोकम् इति॥
तान् इमांस् त्रीन् लोकान् जनयित्वाभ्यश्राम्यत्। तान् समतपत्। तेभ्यस् संतप्तेभ्यस् त्रीणि शुक्राण्य् उदायन्न् अग्निः पृथिव्या वायुर् अन्तरिक्षाद् आदित्यो दिवः॥
स एतानि शुक्राणि पुनर् अभ्य् एवातपत्। तेभ्यस् संतप्तेभ्यस् त्रीण्य् एव शुक्राण्य् उदायन्न् ऋग्वेद एवाग्नेर् यजुर्वेद वायोस् सामवेद आदित्यात्॥
स एतानि शुक्राणि पुनर् अभ्य् एवातपत्। तेभ्यस् संतप्तेभ्यस् त्रीण्य् एव शुक्राण्य् उदायन् भूः इत्य् एवर्ग्वेदात् भुवः इति यजुर्वेदात् स्वः इति सामवेदात्। तद् ध वै त्रय्यै विद्यायै शुक्रम्। एतावद् इदं सर्वम्। स यो वै त्रयीं विद्यां विदुषो लोकस् सो ऽस्य लोको भवति य एवं वेद
स वै खलु प्रजापतिर् यज्ञं सृष्ट्वोर्ध्व उदक्रामत्। स देवान् अब्रवीद् एतेन यूयं त्रयेण वेदेन यज्ञं तनुध्वम् इति। ते देवा अनेन त्रयेण वेदेन यजमाना अप पाप्मानम् अघ्नत प्र स्वर्गं लोकम् अजानन्। ते ऽब्रुवन् यन् नु वयम् अनेन त्रयेण वेदेन यजमाना अप पाप्मानम् अवधिष्माभि प्र स्वर्गं लोकम् अज्ञासिष्म। यन् नु नो ऽद्यायं यज्ञो भ्रेषं नीयात् केनैनं भिषज्यामेति। तान् प्रजापतिर् अब्रवीद् यद् वा एतस्य त्रयस्य वेदस्य ते इन्द्रियं वीर्यं रस आसीद् इदं वा अहं तत् समुदयच्छम् इत्य् एता व्याहृतीः प्रयच्छन्न् एताभिर् एनं भिषज्याथेति। स यदि यज्ञ ऋक्तो भ्रेषं नीयात् भूस् स्वाहा इति गार्हपत्ये जुहवाथ। सैव तत्र प्रायश्चित्तिः। अथ यदीष्टिपशुबन्धेषु वा दर्शपूर्णमासयोर् वा भुवस् स्वाहा इत्य् अन्वाहार्यपचने जुहवाथ। सैव तत्र प्रायश्चित्तिः। अथ यद्य् अनुपस्मृतात् कुत इदम् अजनीति भूर् भुवस् स्वस् स्वाहा इत्य् आहवनीये जुहवाथ। सैव तस्य सर्वस्य प्रायश्चित्तिः। तद् यथा शीर्णं तत् पर्वण पर्व संधाय भिषज्येद् एवम् एवैवं विद्वांस् तत् सर्वं भिषज्यति। अथ यस्यैतद् अविद्वान् प्रायश्चित्तिं करोति यथा शीर्णेन शीर्णं संदध्याच् छीर्णे वा भरम् अध्यदध्यात् तादृक् तत्। तस्माद् उ हैवंविदम् एव प्रायश्चित्तिं कारयेत॥
तद् आहुर् यद् ऋचा होतृत्वं क्रियते यजुषाध्वर्यवं साम्नोद्गीथो ऽथ केन ब्रह्मत्वं क्रियत इति। अनया त्रय्या विद्ययेति ह ब्रूयात्। तस्माद् उ यम् एव ब्रह्मिष्ठं मन्येत तं ब्रह्माणं कुर्वीत। स ह वाव ब्रह्मा य एवं वेद
तद् आहुर् यत् पूर्वपक्षं मनुष्यास् सुन्वन्त्य् अपरपक्षं देवा अथ सत्त्रिण उभौ पूर्वपक्षापरपक्षौ सुन्वन्त आसते। यो न्वावैकेन मनुष्येण संसुनोति तं न्व् एव परिचक्षते। अथ किं य उभयैर् देवमनुष्यैः। कथं तेषां तद् असंसुतं भवतीति। स ब्रूयाद् अमुं वै लोकं मनुष्याः पूर्वपक्षे वर्धयन्त्य् अमुम् आप्याययन्त्य् अमुं प्रजनयन्ति। पूर्वपक्षे यजमानो विद्याद् अमुम् इदं लोकं वर्धयाम्य् अमुम् आप्याययाम्य् अमुं प्रजनयामि देवानाम् अनुषेणो ऽस्मीति। यो वै श्रेयसो ऽनुषेणो भवति वै स रिष्यति॥
इमम् उ वै लोकं देवा अपरपक्षे वर्धयन्तीमम् आप्याययन्तीमं प्रजनयन्ति। अपरपक्षे यजमानो विद्याद् इदम् इमं लोकं वर्धयामीमम् आप्याययामीमं प्रजनयामि मनुष्याणाम् अनुषेणो ऽस्मीति। यो वै श्रेयसो ऽनुषेणो भवति न वै स रिष्यति
अथ ह स्माह भाल्लवेय इमं ह वै लोकं देवा अपरपक्षे वर्धयन्तीमम् आप्याययन्तीमं प्रजनयन्ति तस्मात् प्र पूर्वाः प्रजाः पशव ओषधयो वनस्पतयो दर्घ्यं(दप्यन्त्य?) तथापराः कल्याणीतराः प्रतिधीयन्तीति। एतद् धि तद् विद्वान् उवाच। तद् आहुर् यद् रथाह्वयं वा नदीं वा गिरिभिदम् असंसवं मन्यन्ते ऽथ सत्त्रिणस् सामान्यां शालायां बहवस् सुन्वन्त आसते। यदि वै ते मन्यन्ते नानेदं यजामहा इति सं तर्हि सुन्वन्ति। यद्य् उ वै मन्यन्ते गृहपतिम् इदं याजयाम इत्य् अन्तरितास् तर्हि यज्ञाद् भवन्ति॥
कथं तेषां तन् नानेष्टं भवति कथम् असंसुतम् इति स ब्रूयात् --
--प्राणो वै सोमो राजा. तद् यद् धविर्धाने ग्रावभिस् सोमं राजानम् अभिषुत्य नानाग्रहान् गृह्णन्ति नानाप्रवरान् प्रवृणते नाना यजन्ति तेनैवैषां तन् नानेष्टं भवति। अथो यद् एवैषां समाना सता देवता नाना प्रजासु प्रतिष्ठितातो नो असंसुतम् इति। यो ह त्वै संसवे संसवं वेद स हैव संसुन्वतोर् अभिभवति। अयम् एव यो ऽयं पवत एष एव संसवे संसवः। एतं हि सर्वे देवा अनुयन्ति। तस्माद् याम् एव दिशं वाति तां दिशम् ओषधयो वनस्पतयो ऽनुप्रतिहते। स एष वा आपो यदा ह्य् एष ऋच्छति। अथ वर्षास् तिष्ठन्ति। स एव ताव् अन्तरेणावकाशः। सैव सा नदी गिरिभिद् भवत्य् असंसवाय। तस्माद् उ हैव विद्वान् अप्य् उत्काशे दीक्षेत। स हैव संसुन्वतोर् अभिभवति। स एतां देवताम् उपतिष्ठेत शिवो ऽसि प्र त्वापद्ये नमस् ते अस्तु मा मा हिंसीः॥ यो मां द्वेष्टि स आर्तिम् आर्छतु इति। यो हैवैवंविद द्वेष्टि स आर्तिम् आर्छति
तद् आहुः कतिधावकीर्यमाणः प्रविशतीति। चतुर्धेति ब्रूयात्। चतुर्धा ह वा एष प्रविशति यो ऽवकीर्यते। इन्द्रं बलेन मरुतः प्राणेन बृहस्पतिं ब्रह्मवर्चसेनाग्निम् एवेतरेण सर्वेण॥
अथाशुक्रः परिशिष्यते। तस्यैषा प्रायश्चित्तिः। अमावास्यां रात्रिम् अग्निम् उपसमाधाय परिस्तीर्य परिषिच्यैते आहुती जुहुयात् कामावकीर्णो ऽस्म्य् अवकीर्णो ऽस्मि काम कामाय स्वाहा॥ कामाभिद्रुग्धो ऽस्म्य् अभिद्रुग्धो ऽस्मि काम कामाय स्वाहा इति। सो ऽञ्जलिं कृत्वा त्रिर् उपतिष्ठतु
सं मा सिञ्चन्तु मरुतस् सम् इन्द्रस् सं बृहस्पतिः।
सं मायम् अग्निस् सिञ्चत्व् आयुषा च बलेन च।
दीर्घम् आयुः कृणोतु मे॥
इति। स यद् आह सं मा सिञ्चन्तु मरुतः इति मरुत एवास्मै तत् पुनः प्राणं दधति य एवं वेद तस्मै। स यद् आह सम् इन्द्रः इति इन्द्र एवास्मै तत्पुनर् बलं ददाति य एवं वेद तस्मै। स यद् आह सं बृहस्पतिः इति बृहस्पतिर् एवास्मै तद् ब्रह्मवर्चसं ददाति य एवं वेद तस्मै। स यद् आह सम् अग्नि- इत्य् अग्निर् एवैनं तत् सर्वेणेतरेण समृद्धयति येनावकीर्यमाणो व्यृध्यते। स त्रिर् अभिमन्त्रयते। त्रय इमे लोकाः। आप्नोतीमांस् त्रीन् लोकान् सर्वम् आयुर् एत्य् एव पाप्मानं हते गच्छति स्वर्गं लोकम्
अथ ह वै नैमिशीया इति सत्त्रिणस् सोमशुष्मगृहपतयस् सत्त्रं निषेदुः। तेषां महेन्द्रो व्यर्धयिष्यन् मर्कटरूपेण पुरोडाशं प्रममाथ। अथ हैषां शितिबाहुर् ऐषकृतो ऽध्वर्युर् अनूचाना आस। स हैतं त्रय्यै विद्यायै शुक्रं रसं प्रवृढं विदांचकार सर्वस्य प्रायश्चित्तिं भूर् भुवस् स्वः इत्य् एताभिर् व्याहृतिभिः। एता वै व्याहृतयस् सर्वप्रायश्चित्तयः। तद् यथा वा अदस् समुद्रो ऽनन्तो ऽपारो ऽक्षितो द्यावापृथिवी सर्व इमे लोका एवं वा एता व्याहृतयो ऽक्षिताः --
--अदुग्धा अनन्ता अक्षरा इति। तद् यद् वै भूः इति तद् अयं लोको यद् भुवः इति तद् इदम् अन्तरिक्षं यत् स्वः इति तद् असौ लोकः। एता वै व्याहृतयः। एता वै देवता एता व्याहृतय इत्य् एतद् धि तद्विदुषश् शितिबाहोर् ऐषकृतस्य नैमिशे मर्कटः पुरोडाशं प्रममाथ। स होवाच चतुर्गृहीतम् आज्यं गृहीत्वाऽऽ वाहरं जुहोमि वेति। स होवाच तद् अह त्वम् इत्थं चामुथा च यदि त्वम् अनूचिषे मर्कटः पुरोडाशं प्रमथिष्यति तस्य प्रायश्चित्तिम् इति। स होवाच तद् अहाहं वसीयान् भूयासं यद् अहम् अव्वभ्रव्यसमाज्ञातस्य प्रायश्चित्तिम् आ वाहर जुहोमि वेति। आहराणीति होवाच महौषीर् इति। तम् उ हाजहार। तद् यस्यैवं विद्वान् ब्रह्मा भवति दक्षिणतो हास्योदङ् यज्ञः प्रणवो भवति दक्षिणतो हास्योदङ् यज्ञः प्रणवस् संतिष्ठते यस्यैवं विद्वान् ब्रह्मा भवति य उ चैनम् एवं वेद य उ चैनम् एवं वेद
मूल पाठ: jaiminīyaṃ brāhmaṇam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0