भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 2.4

2.4.1

एष चानन्तशक्तित्वादेवमाभासयत्यमून् ।
भावानिच्छावशादेषा क्रिया निर्मातृतास्य सा ॥

2.4.3

जडस्य तु न सा शक्तिः सत्ता यदसतः सतः ।
कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥

2.4.4

कार्यकारणता लोके सान्तर्विपरिवर्तिनः ।
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥

2.4.5

एवम् एका क्रिया सैषा सक्रमान्तर्बहिः स्थितिः ।
एकस्यैवोभयाकारसहिष्णोरुपपादिता ॥

2.4.6

बहिस्तस्यैव तत्कार्यं यदन्तर्यदपेक्षया ।
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥

2.4.7

मातैव कारणं तेन स चाभासद्वयस्थितौ ।
कार्यस्य स्थित एवैकस्तदेकस्य क्रियोदिता ॥

2.4.8

अत एवाङ्कुरेऽपीष्टो निमित्तं परमेश्वरः ।
तदन्यस्यापि बीजादेर्हेतुता नोपपद्यते ॥

2.4.9

तथा हि कुम्भकारोऽसावैश्वर्यैव व्यवस्थया ।
तत्तन्मृदादिसंस्कारक्रमेण जनयेद् घटम् ॥

2.4.10

योगिनामपि मृद्बीजे विनैवेच्छावशेन तत् ।
घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ॥

2.4.11

योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते ।
कार्यं हेतुः स्वभावो वात एवोत्पत्तिमूलजः ॥

2.4.12

भूयस्तत्तत्प्रमात्रेकवह्न्याभासादितो भवेत् ।
परोक्षादप्यधिपतेर्धूमाभासादि नूतनम् ॥

2.4.13

कार्यमव्यभिचार्यस्य लिङ्गमन्यप्रमातृगात् ।
तदाभासस्तदाभासादेव त्वधिपतेः परः ॥

2.4.14

अस्मिन् सतीदमस्तीति कार्यकारणतापि या ।
साप्यपेक्षाविहीनानां जाडानां नोपपद्यते ॥

2.4.15

न हि स्वात्मैकनिष्ठानामनुसन्धानवर्जिनाम् ।
सदसत्तापदेऽप्येष सप्तम्यर्थः प्रकल्प्यते ॥

2.4.16

अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः ।
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥

2.4.17

परस्परस्वभावत्वे कार्यकारणयोरपि ।
एकत्वमेव भेदे हि नैवान्योन्यस्वरूपता ॥

2.4.18

एकात्मनो विभेदश्च क्रिया कालक्रमानुगा ।
तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया ॥

2.4.19

न च युक्तं जडस्यैवं भेदाभेदविरोधतः ।
आभासभेदादेकत्र चिदात्मनि तु युज्यते ॥

2.4.20

वास्तवेऽपि चिदेकत्वे न स्यादाभासभिन्नयोः ।
चिकीर्षालक्षणैकत्वपरामर्शं विना क्रिया ॥

2.4.21

इत्थं तथा घटपटाद्याभासजगदात्मना ।
तिष्ठासोरेवमिच्छैव हेतुता कर्तृता क्रिया ॥

मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc