भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 2.3

2.3.1

इदम् एतादृगित्येवं यद् वशाद् व्यवतिष्ठते ।
वस्तु प्रमाणं तत् सो ऽपि स्वाभासो ऽभिनवोदयः ॥

2.3.2

सो ऽन्तस् तथाविमर्शात्मा देशकालाद्यभेदिनि ।
एकाभिधानविषये मितिर् वस्तुन्य् अबाधिता ॥

2.3.3

यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते ।
आभासो ऽप्य् अर्थ एकस्मिन्न् अनुसंधानसाधिते ॥

2.3.4

दीर्घवृत्तोर्ध्वपुरुषधूमचान्दनतादिभिः ।
यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥

2.3.5

तथैव सद्घटद्रव्यकाञ्चनोज्ज्वलतादयः ।
आभासभेदा भिन्नार्थकारिणस्ते पदं ध्वनेः ॥

2.3.6

आभासभेदाद्वस्तूनां नियतार्थक्रिया पुनः ।
सामानाधिकरण्येन प्रतिभासादभेदिनाम् ॥

2.3.7

पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा ।
अविरुद्धावभासानाम् एककार्या तथैक्यधीः ॥

2.3.8

तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता ।
तत्तच्छब्दार्थताद्यात्मा प्रमाणाद् एकतो मतः ॥

2.3.9

सा तु देशादिकाध्यक्षान्तरभिन्ने स्वलक्षणे ।
तात्कालिकी प्रवृत्तिः स्याद् अर्थिनः ................................ ॥

2.3.10

दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना ।
बाह्यान्तरतया दोषैर्व्यञ्जकस्यान्यथापि वा ॥

2.3.11

भिन्नावभासच्छायानामपि मुख्यावभासतः ।
एकप्रत्यवमर्शाख्यादेकत्वमनिवारितम् ॥

2.3.12

अर्थक्रियापि सहजा नार्थानामीश्वरेच्छया ।
नियता सा हि तेनास्या नाक्रियातोऽन्यता भवेत् ॥

2.3.13

रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः ।
उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा ॥

2.3.14

गुणैः शब्दादिभिर्भेदो जात्यादिभिरभिन्नता ।
भावानामित्थमेकत्र प्रमातर्युपपद्यते ॥

2.3.15

विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे ।
विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥

2.3.16

प्रमातरि पुराणे तु सर्वदा भातविग्रहे ।
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥

2.3.17

अप्रवर्तितपूर्वोऽत्र केवलं मूढतावशात् ।
शक्तिप्रकाशेनेशादिव्यवहारः प्रवर्त्यते ॥

मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc