ईश्वरप्रत्यभिज्ञाविमर्शिनी · अध्याय 3.1
एवमन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा ।
मातुरेव तदन्योन्यावियुक्ते ज्ञानकर्मणी ॥
किंत्वान्तरदशोद्रेकात्सादाख्यं तत्त्वमादितः ।
बहिर्भावपरत्वे तु , परतः पारमेश्वरम् ॥
ईश्वरो बहिरुन्मेषो , निमेषोऽन्तः सदाशिवः ।
सामानाधिकरण्यंच , सद्विद्याहमिदंधियोः ॥
इदंभावोपपन्नानां वेद्यभूमिमुपेयुषाम् ।
भावानां बोधसारत्वाद्यथावस्त्ववलोकनात् ॥
अत्रापरत्वं भावानाम् अनात्मत्वेन भासनात् ।
परताहन्तयाच्छादात्परापरदशा हि सा ॥
भेदधीर् एव भावेषु कर्तुर्बोधात्मनोऽपि या ।
मायाशक्त्येव सा विद्येत्यन्ये विद्येश्वरा यथा ॥
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका ।
विद्याशक्तिः ...................................... ॥
भेदे त्वेकरसे भातेऽहंतयानात्मनीक्षिते ।
शून्ये बुद्धे शरीरे वा मायाशक्तिर्विजृम्भते ॥
यश् च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि ।
माता स मेयः सन् कालादिकपञ्चकवेष्टितः ॥
त्रयोविंशतिधा मेयं यत्कार्यकरणात्मकम् ।
तस्याविभागरूप्येकं प्रधानं मूलकारणम् ॥
त्रयोदशविधा चात्र बाह्यान्तःकरणावली ।
कार्यवर्गश्च दशधा स्थूलसूक्ष्मत्वभेदतः ॥
मूल पाठ: Īśvarapratyabhijñāvimarśinī · Edition: Īśvara-pratyabhijñā-Vimarśinī of Abhinavagupta : doctrine of devine recognition, Sanskrit Text with the commentary Bhāskarī. vol.1-2 / edited by K.A. Subramania Iyer and K.C.Pandey. Delhi, etc. : Motilal Banarsidass , 1986 (repr.) (First Edition: The Princess of Wales Saraswati Bahvana , 1938(text no. 70) and 1950 (text no. 83). · Data entry Masahiro Takano · GRETIL (Göttingen) · CC BY-NC-SA 4.0