ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 3.2
तत्रैतन् मातृतामात्र स्थितौ रुद्रो ऽधिदैवतम्
भिन्नप्रमेयप्रसरे ब्रह्मविष्णू व्यवस्थितौ ॥
एष प्रमाता मायान्धः संसारी कर्मबन्धनः
विद्याभिज्ञापितैश्वर्यश् चिद्घनो मुक्त उच्यते ॥
स्वाङ्गरूपेषु भावेषु प्रमाता कथ्यते पतिः
मायातो भेदिषु क्लेश कर्मादिकलुषः पशुः ॥
स्वातन्त्र्यहानिर् बोधस्य स्वातन्त्र्यस्याप्य् अबोधता
द्विधाणवं मलम् इदं स्वस्वरूपापहानितः ॥
भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम्
कर्तर्य् अबोधे कार्मं तु मायाशक्त्यैव तत् त्रयम् ॥
शुद्धबोधात्मकत्वे ऽपि येषां नोत्तमकर्तृता
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥
बोधैकलक्षणैक्ये ऽपि तेषाम् अन्योन्यभिन्नता
तथेश्वरेच्छाभेदेन ते च विज्ञानकेवलाः ॥
शून्याद्यबोधरूपास् तु कर्तारः प्रलयाकलाः
तेषां कार्मो मलो ऽप्य् अस्ति मायीयस् तु विकल्पितः ॥
बोधानाम् अपि कर्तृत्व जुषां कार्ममलक्षतौ
भिन्नवेद्यजुषां माया मलो विद्येश्वराश् च ते ॥
देवादीनां च सर्वेषां भविनां त्रिविधं मलम्
तत्रापि कार्मम् एवैकम् मुख्यं संसारकारणम् ॥
कलोद्बलितम् एतच् च चित्तत्त्वं कर्तृतामयम्
अचिद्रूपस्य शून्यादेर् मितं गुणतया स्थितम् ॥
मुख्यत्वं कर्तृतायाश् च बोधस्य च चिदात्मनः
शून्यादौ तद्गुणे ज्ञानं तत्समावेशलक्षणम् ॥
शून्ये बुद्ध्याद्यभावात्मन्य् अहन्ताकर्तृतापदे
अस्फुटारूपसंस्कार मात्रिणि ज्ञेयशून्यता ॥
साक्षाणाम् आन्तरी वृत्तिः प्राणादिप्रेरिका मता
जीवनाख्याथवा प्राणे ऽहन्ता पुर्यष्टकात्मिका ॥
तावन् मात्रस्थितौ प्रोक्तं सौषुप्त[ं] प्रलयोपमम्
सवेद्यम् अपवेद्यं च मायामलयुतायुतम् ॥
मनोमात्रपथे ऽप्य् अक्ष विषयत्वेन विभ्रमात्
स्पष्टावभासा भावानां सृष्टिः स्वप्नपदं मतम् ॥
सर्वाक्षगोचरत्वेन या तु बाह्यतया स्थिरा
सृष्टिः साधारणी सर्व प्रमातॄणां स जागरः ॥
हेया त्रयीयं प्राणादेः प्राधान्यात् कर्तृतागुणे
तद्धानोपचयप्राय सुखदुःखादियोगतः ॥
प्राणापानमयः प्राणः प्रत्येकं सुप्तजाग्रतोः
तच्छेदात्मा समानाख्यः सौषुप्ते विषुवत्स्व् इव ॥
मध्योर्ध्वगाम्युदानाख्यस् तुर्यगो हुतभुङ्मयः
विज्ञानाकलमन्त्रेशो व्यानो विश्वात्मकः परः ॥
मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0