भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 4

4.1

स्वात्मैव सर्वजन्तूनाम् एक एव महेश्वरः
विश्वरूपो ऽहम् इदम् इत्य् अखण्डामर्शबृंहितः ॥

4.2

तत्र स्वसृष्टेदंभागे बुद्ध्यादिग्राहकात्मना
अहंकारपरामर्श पदम् नीतम् अनेन तत् ॥

4.3

स्वस्वरूपापरिज्ञान मयो ऽनेकः पुमान् मतः
तत्र सृष्टौ क्रियानन्दौ भोगो दुःखसुखात्मकः ॥

4.4

स्वाङ्गरूपेषु भावेषु पत्युर् ज्ञानं क्रिया च या
मायातृतीये ते एव पशोः सत्त्वं रजस् तमः ॥

4.5

भेदस्थितः शाक्तिमतः शक्तित्वं नापदिश्यते
एषां गुणानां करण कार्यत्वपरिणामिनाम् ॥

4.6

सत्तानन्दः क्रिया पत्युस् तदभावो ऽपि सा पशोह्
द्वयात्मा तद् रजो दुःखं श्लेषि सत्त्वतमोमयम् ॥

4.7

ये ऽप्य् असामयिकेदन्ता -परामर्शभुवः प्रभोः
ते विमिश्रा विभिन्नाश् च तथा चित्रावभासिनः ॥

4.8

ते तु भिन्नावभासार्थाः प्रकल्प्याः प्रत्यगात्मनः
तत्तद्विभिन्नसंज्ञाभिः स्मृत्युत्प्रेक्षादिगोचरे ॥

4.9

तस्यासाधारणी सृष्टिर् ईशसृष्ट्युपजीविनी
सैषाप्य् अज्ञतया सत्यै -वेशशाक्त्या तदात्मनः ॥

4.10

स्वविश्रान्त्युपरोधाया -चलया प्राणरूपया
विकल्पक्रियया तत्तद् वर्णवैचित्र्यरूपया ॥

4.11

साधारणो ऽन्यथा चैशः सर्गः स्पष्टावभासनात्
विकल्पहानैकाग्र्यात् क्रमेणेश्वरतापदम् ॥

4.12

सर्वो ममायं विभव इत्येवं परिजानतः
विश्वात्मनो विकल्पानां प्रसरे ऽपि महेशता ॥

4.13

मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते
महेश्वरो यथा बद्धः पुन अत्यन्तभेदवत् ॥

4.14

सर्वथा त्व् अन्तरालीना -नन्ततत्त्वौघनिर्भरः
शिवः चिदानन्दघनः परमाक्षरविग्रहः ॥

4.15

एवम् आत्मानम् एतस्य सम्यग्ज्ञानक्रिये तथा
जानन् यथेप्सितान् पश्यञ् जानाति च करोति च ॥

4.16

इति प्रकटितो मया सुघट एष मार्गो नवो महागुरुभिर् उच्यते स्म शिवदृष्टिशास्त्रे यथा
तद् अत्र निदधत् पदं भुवनकर्तृताम् आत्मनो विभाव्य शिवतामयीम् अनिशम् आविशन् सिद्ध्यति ॥

4.17

तैस् तैर् अप्य् उपयाचितैर् उपनतस् तन्व्याः स्थितो ऽप्य् अन्तिके कान्तो लोकसमान एवम् अपरिज्ञातो न रन्तुं यथा
लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवालं निजवैभवाय तद् इयं तत्प्रत्यभिज्ञोदिता ॥

4.18

जनस्यायत्नसिद्ध्यर्थम् उदयाकरसूनुना
ईश्वरप्रत्यभिज्ञेयम् उत्पलेनोपपादिता ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc