ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 3.1
एवम् अन्तर्बहिर्वृत्तिः क्रिया कालक्रमानुगा
मातुर् एव तदन्योन्या -वियुक्ते ज्ञानकर्मणी ॥
किं त्व् आन्तरदशोद्रेकात् सादाख्यं तत्त्वम् आदितः
बहिर्भावपरत्वे तु परतः पारमेश्वरम् ॥
ईश्वरो बहिर् उन्मेषो निमेषो ऽन्तः सदाशिवः
सामानाधिकरण्यं च सद्विद्याहमिदंधियोः ॥
इदंभावोपपन्नानां वेद्यभूमिम् उपेयुषाम्
भावानां बोधसारत्वाद् यथावस्त्ववलोकनात् ॥
अत्रापरत्वम् भावानाम् अनात्मत्वेन भासनात्
परताहन्तयाच्छादात् परापरदशा हि सा ॥
भेदधीर् एव भावेषु कर्तुर् बोधात्मनो ऽपि या
मायाशक्त्य् एव सा विद्येत्य् अन्ये विद्येश्वरा यथा ॥
तस्यैश्वर्यस्वभावस्य पशुभावे प्रकाशिका
विद्याशक्तिः तिरोधान करी मायाभिधा पुनः ॥
भेदे त्व् एकरसे भाते ऽहंतयानात्मनीक्षिते
शून्ये बुद्धे शरीरे वा मायाशक्तिर् विजृम्भते ॥
यश् च प्रमाता शून्यादिः प्रमेये व्यतिरेकिणि
माता स मेयः सन् काला -दिकपञ्चकवेष्टितः ॥
त्रयोविंशतिधा मेयं यत् कार्यकरणात्मकम्
तस्याविभागरूप्य् एकं प्रधानं मूलकारणम् ॥
त्रयोदशविधा चात्र बाह्यान्तःकरणावली
कार्यवर्गश् च दशधा स्थूलसूक्ष्मत्वभेदतः ॥
मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0