भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 2.4

2.4.1

एष चानन्तशक्तित्वाद् एवम् आभासयत्य् अमून्
भावान् इच्छावशाद् एषा क्रिया निर्मातृतास्य सा ॥

2.4.2

जडस्य तु न सा शक्तिः सत्ता यद् असतः सतः
कर्तृकर्मत्वतत्त्वैव कार्यकारणता ततः ॥

2.4.3

यद् असत् तद् असद्युक्ता नासतः सत्स्वरूपता
सतो ऽपि न पुनः सत्ता -लाभेनार्थो ऽथ चोच्यते ॥

2.4.4

कार्यकारणता लोके सान्तर्विपरिवर्तिनः
उभयेन्द्रियवेद्यत्वं तस्य कस्यापि शक्तितः ॥

2.4.5

एवम् एका क्रिया सैषा सक्रमान्तर्बहिःस्थितिः
एकस्यैवोभयाकार सहिष्णोर् अपपादिता ॥

2.4.6

बहिस् तस्यैव तत्कार्यं यद् अन्त यद् अपेक्षया
प्रमात्रपेक्षया चोक्ता द्वयी बाह्यान्तरस्थितिः ॥

2.4.7

मातैव कारणं तेन स चाभासद्वयस्थितौ
कार्यस्य स्थित एवैकस् तद् एकस्य क्रियोदिता ॥

2.4.8

अत एवाङ्कुरे ऽपीष्टो निमित्तं परमेश्वरः
तद् अन्यस्यापि बीजादेर् हेतुता नोपपद्यते ॥

2.4.9

तथा हि कुम्भकारो ऽसाव् ऐश्वर्यैव व्यवस्थया
तत्तन्मृदादिसंस्कार क्रमेण जनयेद् घटम् ॥

2.4.10

योगिनाम् अपि मृद्बीजे विनैवेच्छावशेन तत्
घटादि जायते तत्तत् स्थिरस्वार्थक्रियाकरम् ॥

2.4.11

योगिनिर्माणताभावे प्रमाणान्तरनिश्चिते
कार्यं हेतुः स्वभावो वा -त एवोत्पत्तिमूलजः ॥

2.4.12

भूयस् तत्तत्प्रमात्रेक वह्न्याभासादितो भवेत्
परोक्षाद् अप्य् अधिपतेर् धूमाभासादि नूतनम् ॥

2.4.13

कार्यम् अव्यभिचार्यस्य लिङ्गम् अन्यप्रमातृगात्
तदाभासस् तदाभासाद् एव त्व् अधिपतेः परः ॥

2.4.14

अस्मिन् सतीदम् अस्तीति कार्यकारणतापि या
साप्य् अपेक्षाविहीनानां जाडानां नोपपद्यते ॥

2.4.15

न हि स्वात्मैकनिष्ठानाम् अनुसन्धानवर्जिनाम्
सदसत्तापदे ऽप्य् एष सप्तम्यर्थः प्रकल्प्यते ॥

2.4.16

अत एव विभक्त्यर्थः प्रमात्रेकसमाश्रयः
क्रियाकारकभावाख्यो युक्तो भावसमन्वयः ॥

2.4.17

परस्परस्वभावत्वे कार्यकारणयोर् अपि
एकत्वम् एव भेदे हि नैवान्योन्यस्वरूपता ॥

2.4.18

एकात्मनो विभेदश् च क्रिया कालक्रमानुगा
तथा स्यात् कर्तृतैवैवं तथापरिणमत् तया ॥

2.4.19

न च युक्तं जडस्यैवं भेदाभेदविरोधतः
आभासभेदाद् एकत्र चिदात्मनि तु युज्यते ॥

2.4.20

वास्तवे ऽपि चिदेकत्वे न स्याद् आभासभिन्नयोः
चिकीर्षालक्षणैकत्व परामर्शं विना क्रिया ॥

2.4.21

इत्थं तथा घटपटा -द्याभासजगदात्मना
तिष्ठासोर् एवम् इच्छैव हेतुता कर्तृता क्रिया ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc