भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 2.3

2.3.1

इदम् एतादृगित्येवं यद् वशाद् व्यवतिष्ठते
वस्तु प्रमाणं तत् सो ऽपि स्वाभासो ऽभिनवोदयः ॥

2.3.2

सो ऽन्तस् तथाविमर्शात्मा देशकालाद्यभेदिनि
एकाभिधानविषये मितिर् वस्तुन्य् अबाधिता ॥

2.3.3

यथारुचि यथार्थित्वं यथाव्युत्पत्ति भिद्यते
आभासो ऽप्य् अर्थ एकस्मिन्न् अनुसंधानसाधिते ॥

2.3.4

दीर्घवृत्तोर्ध्वपुरुष धूमचान्दनतादिभिः
यथाभासा विभिद्यन्ते देशकालाविभेदिनः ॥

2.3.5

तथैव सद्घटद्रव्य काञ्चनोज्ज्वलतादयः
आभासभेदा भिन्नार्थ कारिणस् ते पदं ध्वनेः ॥

2.3.6

आभासभेदाद् वस्तूनां नियतार्थक्रिया पुनः
सामानाधिकरण्येन प्रतिभासाद् अभेदिनाम् ॥

2.3.7

पृथग्दीपप्रकाशानां स्रोतसां सागरे यथा
अविरुद्धावभासानाम् एककार्या तथैक्यधीः ॥

2.3.8

तत्राविशिष्टे वह्न्यादौ कार्यकारणतोष्णता
तत्तच्छब्दार्थताद्यात्मा प्रमाणाद् एकतो मतः ॥

2.3.9

सा तु देशादिकाध्यक्ष -न्तरभिन्ने स्वलक्षणे
तात्कालिकी प्रवृत्तिः स्याद् अर्थिनो ऽप्य् अनुमानतः ॥

2.3.10

दूरान्तिकतयार्थानां परोक्षाध्यक्षतात्मना
बाह्यान्तरतया दोषैर् व्यञ्जकस्यान्यथापि वा ॥

2.3.11

भिन्नावभासच्छायानाम् अपि मुख्यावभासतः
एकप्रत्यवमर्शाख्याद् एकत्वम् अनिवारितम् ॥

2.3.12

अर्थक्रियापि सहजा नार्थानाम् ईश्वरेच्छया
नियता सा हि तेनास्या नाक्रियातो ऽन्यता भवेत् ॥

2.3.13

रजतैकविमर्शे ऽपि शुक्तौ न रजतस्थितिः
उपाधिदेशासंवादाद् द्विचन्द्रे ऽपि नभो ऽन्यथा ॥

2.3.14

गुणैः शब्दादिभिर् भेदो जात्यादिभिर् अभिन्नता
भावानाम् इत्थम् एकत्र प्रमातर्य् उपपद्यते ॥

2.3.15

विश्ववैचित्र्यचित्रस्य समभित्तितलोपमे
विरुद्धाभावसंस्पर्शे परमार्थसतीश्वरे ॥

2.3.16

प्रमातरि पुराणे तु सर्वदा भातविग्रहे
किं प्रमाणं नवाभासः सर्वप्रमितिभागिनि ॥

2.3.17

अप्रवर्तितपूर्वो ऽत्र केवलं मूढतावशात्
शक्तिप्रकाशेनेशादि व्यवहारः प्रवर्त्यते ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc