ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 2.2
क्रियासंबन्धसामान्य द्रव्यदिक्कालबुद्धयः
सत्याः स्थैर्योपयोगाभ्याम् एकानेकाश्रया मताः ॥
तत्रैकम् आन्तरं तत्त्वं तद् एवेन्द्रियवेद्यताम्
संप्राप्यानेकतां याति देशकालस्वभावतः ॥
तद्द्वयालम्बना एता मनो ऽनुव्यवसायि सत्
करोति मातृव्यापार मयीः कर्मादिकल्पनाः ॥
स्वात्मनिष्ठा विविक्ताभा भावा एकप्रमातरि
अन्योन्यान्वयरूपैक्य युजः संबन्धधीपदम् ॥
जातिद्रव्यावभासानाम् बहिर् अप्य् एकरूपताम्
व्यक्त्येकदेशभेदं चाप्य् आलम्बन्ते विकल्पनाः ॥
क्रियाविमर्शविषयः कारकाणां समन्वयः
अवध्यवधिमद्भावा -न्वयालम्बा दिगादिधीः ॥
एवम् एवर्थसिद्धिः स्यान् मातुर् अर्थक्रियार्थिनः
भेदाभेदवतार्थेन तेन न भ्रान्तिर् ईदृशी ॥
मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0