ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.7
या चैषा प्रतिभा तत्तत् पदार्थक्रमरूषिता
अक्रमानन्तचिद्रूपः प्रमाता स महेश्वरः ॥
तत्तद्विभिन्नसंवित्ति मुखैर् एकप्रमातरि
प्रतितिष्ठत्सु भावेषु ज्ञातेयम् उपपद्यते ॥
देशकालक्रमजुषाम् अर्थानां स्वसमापिनाम्
सकृदाभाससाध्यो ऽसाव् अन्यथा कः समन्वयः ॥
प्रत्यक्षानुपलम्भानां तत्तद्भिन्नांशपातिनाम्
कार्यकारणतासिद्धि हेतुतैकप्रमातृजा ॥
स्मृतौ यैव स्वसंवित्तिः प्रमाणं स्वात्मसंभवे
पूर्वानुभवसद्भावे साधनं सैव नापरम् ॥
बाध्यबाधकभावो ऽपि स्वात्मनिष्ठाविरोधिनाम्
ज्ञानानाम् उदियाद् एक प्रमातृपरिनिष्ठितेः ॥
विविक्तभूतलज्ञानं घटाभावमतिर् यथा
तथा चेच्छुक्तिकाज्ञानं रूप्यज्ञानाप्रमात्ववित् ॥
नैवं शुद्धस्थलज्ञानात् सिद्ध्येत् तस्याघटात्मना
न तूपलब्धियोग्यस्याप्य् अत्राभावो घटात्मनः ॥
विविक्तं भूतलं शश्वद् भावानां स्वात्मनिष्ठितेः
तत् कथं जातु तज्ज्ञानं भिन्नस्याभावसाधनम् ॥
किम् त्व् आलोकचयो ऽन्धस्य स्पर्शो वोष्णादिको मृदुः
तत्रास्ति साधयेत् तस्य स्वज्ञानम् अघटात्मताम् ॥
पिशाचः स्याद् अनालोको ऽप्य् आलोकाभ्यन्तरे यथा
अदृश्यो भूतलस्यान्त न निषेध्यः स सर्वथा ॥
एवं रूप्यविदाभाव रूपा शुक्तिमतिर् भवेत्
न त्व् आद्यरजतज्ञप्तेः स्याद् अप्रामाण्यवेदिका ॥
धर्म्यसिद्धेर् अपि भवेद् बाधा नैवानुमानतः
स्वसंवेदनसिद्धा तु युक्ता सैकप्रमातृजा ॥
इत्थम् अत्यर्थभिन्नार्था -वभासखचिते विभौ
समलो विमलो वापि व्यवहारो ऽनुभूयते ॥
मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0