भाषा

ENहिગુ
ग्रंथ पाठ

ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.8

1.8.1

तात्कालिकाक्षसामक्ष्य सापेक्षाः केवलं क्व चित्
आभासा अन्यथान्यत्र त्व् अन्धान्धतमसादिषु ॥

1.8.2

विशेषो ऽर्थावभासस्य सत्तायां न पुनः क्व चित्
विकल्पेषु भवेद् भावि भवद्भूतार्थगामिषु ॥

1.8.3

सुखादिषु च सौख्यादि हेतुष्व् अपि च वस्तुषु
अवभासस्य सद्भावे ऽप्य् अतीतत्वात् तथा स्थितिः ॥

1.8.4

गाढम् उल्लिख्यमाने तु विकल्पेन सुखादिके
तथा स्थितिस् तथैव स्यात् स्फुटम् अस्योपलक्षणात् ॥

1.8.5

भावाभावावभासानां बाह्यतोपाधिर् इष्यते
नात्मा सत्ता ततस् तेषाम् आन्तराणां सतां सदा ॥

1.8.6

आन्तरत्वात् प्रमात्रैक्ये नैषां भेदनिबन्धना
अर्थक्रियापि बाह्यत्वे सा भिन्नाभासभेदतः ॥

1.8.7

चिन्मयत्वे ऽवभासानाम् अन्त एव स्थितिः सदा
मायया भासमानानां बाह्यत्वाद् बहिर् अप्य् असौ ॥

1.8.8

विकल्पे यो ऽयम् उल्लेखः सो ऽपि बाह्यः पृथक्प्रथः
प्रमात्रैकात्म्यम् आन्तर्यं ततो भेदो हि बाह्यता ॥

1.8.9

उल्लेखस्य सुखादेश् च प्रकाशो बहिर् आत्मना
इच्छातो भर्तुर् अध्यक्ष रूपो ऽक्षादिभुवां यथा ॥

1.8.10

तदैक्येन विना न स्यात् संविदां लोकपद्धतिः
प्रकाशैक्यात् तद् एकत्वं मातैकः स इति स्थितम् ॥

1.8.11

स एव विमृशत्त्वेन नियतेन महेश्वरः
विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥

मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc