ईश्वरप्रत्यभिज्ञाकारिका · अध्याय 1.6
अहंप्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः
नासौ विकल्पः स ह्य् उक्तो द्वयाक्षेपी विनिश्चयः ॥
भिन्नयोर् अवभासो हि स्याद् घटाघटयोर् द्वयोः
प्रकाशस्येव नान्यस्य भेदिनस् त्व् अवभासनम् ॥
तदतत्प्रतिभाभाजा मात्रैवातद्व्यपोहनात्
तन्निश्चयनमुक्तो हि विकल्पो घट इत्य् अयम् ॥
चित्तत्त्वं मायया हित्वा भिन्न एवावभाति यः
देहे बुद्धाव् अथ प्राणे कल्पिते नभसीव वा ॥
प्रमातृत्वेनाहम् इति विमर्शो ऽन्यव्यपोहनात्
विकल्प एव स पर प्रतियोग्य् अवभासजः ॥
कादाचित्कावभासे या पूर्वाभासादियोजना
संस्कारात् कल्पना प्रोक्ता सापि भिन्नावभासिनि ॥
तद् एवं व्यवहारे ऽपि प्रभुर् देहादिम् आविशन्
भान्तम् एवान्त अर्थौघम् इच्छया भासयेद् बहिः ॥
एवं स्मृतौ विकल्पे वाप्य् अपोहनपरायणे
ज्ञाने वाप्य् अन्तराभासः स्थित एवेति निश्चितम् ॥
किं तु नैसर्गिको ज्ञाने बहिराभासनात्मनि
पूर्वानुभवरूपस् तु स्थितः स स्मरणादिषु ॥
स नैसर्गिक एवास्ति विकल्पे स्वैरचारिणि
यथाभिमतसंस्थाना -भासनाद् बुद्धिगोचरे ॥
अत एव यथाभीष्ट समुल्लेखावभासनात्
ज्ञानक्रिये स्फुटे एव सिद्धे सर्वस्य जीवतः ॥
मूल पाठ: Īśvarapratyabhijñākārikā with Vṛtti · Edition: Madhusudan Kaul Shastri, Srinagar 1921. (Kashmir Series of Texts and Studies ; 34); Revised according to the edition by Raffaele Torella, Roma 1994 (Serie Orientale Roma ; 71) · Data entry Somadeva Vasudeva · GRETIL (Göttingen) · CC BY-NC-SA 4.0