हेतुबिन्दुटीका · भाग 2140
अपि च -- यदि भावान्तरं प्रध्वंसाभावो य एते ऽनुपजातविकाराः प्रदीपबुद्ध्यादयो ध्वंसन्ते तेषां कतरद् भावान्तरं प्रध्वन्सो(ध्वंसो) व्यवस्थाप्यते? । ते ऽप्य् अव्यक्तताम्[342]आत्मभावं[343]च विकारम् एव ध्वंसं समालम्बन्त इति चेत् । न, प्रदीपादेर् भावरूपाव्यक्तताभावे प्रमाणाभावात् । यदि हि शक्तिरूपतापत्तिर् अव्यक्तता तदा शक्तेः कार्यदर्शनोन्नीयमानरूपत्वात् तदभावे[344]कथं प्रदीपादयः शक्त्यात्मना ऽवस्थिताः कल्पेरन्[345]? । अथोपलब्धियोग्यताविकलात्मतापत्तिर् अव्यक्तिः; अत्रापि तदात्मना ऽवस्थितौ नैव प्रमाणम् अस्ति । न चाप्रमाणकमाद्रियन्ते वचो विपश्चितः । आत्मनश् चासत्त्वात् कथं तद्भावो[346]बुद्ध्यादीनां [स्. 83ब्.] विकारः परिणामश् च? । अन्यत्र विहितप्रतिक्रियत्वात् नेह प्रन्यत इत्य् अलं प्रसङ्गेन ।
स्यान्मतम् -- भावान्तरेणाङ्गारादिना ऽऽवृतत्वात् इन्धनादेस् तथोपलब्ध्यादयो न भवन्तीत्य् अत आह -- नापि इत्यादि । स्वभावान्तरम् अन्यस्ये न्धनादेर् आ वरणम् अपि न {1} युज्येत {2} तदवस्थे अविचलित[त्. 261अ.]रूपे तस्मिन्न् इ न्धनादौ स त्यावरणस्यापि न केवलम् अनुपलब्ध्यादे र् अयोगात् ।
__________नोतेस्__________
[341] -साभाव इष्यते -- श्ल्व्
[342] प्रदीप-
[343] बुद्धिः
[344] कार्य-
[345] कल्प्येरन् -- तिब्.
[346] आत्मता
{प्. 80.1}[ सेच्तिओन्: 13. भावाभावपक्षस्यापि समालोचनम् ।]
न केवलं भावस्वभावो भावान्तरं वा विनाशहेतुना न क्रियते भावाभावो ऽपि न क्रियत इत्य् आह -- नापि इत्यादि । कुतः? इति चेत्, अभावस्य विधिना पर्युदासेन विवक्षिताद् भावाद् अन्य तया कार्यत्वो पगमे क्रियमाणे किम् इन्धनादिरूप एवासौ? अथार्थान्तरम्? इति व्यतिरेकाव्यतिरेकविकल्पानतिक्रमात् । तत्र चोक्त एव दोषः ।
ननु प्रसज्यप्रतिषेधात्मा तुच्छरूपो ऽसाव् अग्न्यादिजन्यो ऽभ्युपेयते । तद्भावे चेन्धनादीनां नैःस्वाभाव्यात् कुतः पूर्वदोषावसरः? । स चावश्यम् अग्न्यादिभावाभावानुविधायितया [स्. 84अ.] तत्कार्यस् तद्भावव्यवहारस्यान्यत्रापि तन्निबन्धनत्वात् । तदुक्तम् --
सन् बोधगोचरप्राप्तस् तद्भावे [347] नोपलभ्यते ।
नश्यन् भावःकथंतस्य [348] न नाशःकार्यतामियात् ॥
प्राग् अभूत्वाभवन् भावो हेतुभ्यो जायते यथा।
भूत्वाऽपि न भवंस् तद्वद्धेतुभ्यो न भवत्य् अयम् [349] ॥
इति ।
अत आह -- भावप्रतिषेधे त्य् आदि । अयम् अभिप्रायः -- यद्य् अनपेक्षितभावान्तरसंसर्ग्गश् च्युतिमात्रम् एव तुच्छरूपं ध्वंसः तदा तत्र कारकव्यापारो नैव सम्भवति भवनधर्मिण्य् एव तत्सम्भवात् । तस्याप्य् [त्. 261ब्.] अभूत्वा भावोपगमात् कार्यता न विरुध्यत इति चेत् । न । भवनधर्मणो भावरूपताप्राप्तेर् अभावत्वहानेः । यतो भवतीति भावो मण्यते, नापरम् अङ्कुरादेर् अपि भावशब्दप्रवृत्तिनिमित्तम् । अर्थक्रियासामर्थ्यम् इति चेत् । सर्वसामर्थ्यविरहिणस्[350]तर्ह्य् अस्य कथं प्रतीतिविषयता? । न ह्य् अकारणं प्रतीतिविषयः, अतिप्रसङ्गात् । तदविषयस्य वा कथं हेतुमत्तावगतिः? वस्तुता वा?, येनोच्यते `तुच्छरूपम् एव तद् वस्तुऽ इति । प्रतीतिजनकत्वे वा कथं न [स्. 84ब्.] सामर्थ्यसम्बन्धिता? । सद् इति प्रत्यया ऽविषयस्य कथं भावतेति चेत् । कार्यता ऽप्य् अस्य कथम्? । स्वहेतुभावे भावात् इति चेत् । कथं तर्हि सत्प्रत्यया ऽविषयता? । {प्. 81.1} तथा हि -- यदि स्वहेतुभावे भवतीति
प्रतीयते सद् इत्यादि प्रतीयेत । यतो ऽस्तीति सद् इति वदन्ति विद्वांसः । न चास्ति, भवति, भावः, 3 सन्निति शब्दानाम्[351]अर्थभेदः परमार्थः कश्चित् । अभावात्मकतयैव भवत्य् असाव् इति चेत् । न । व्याहतत्वात्, यतो न भवतीत्य् अभाव उच्यते स कथं भवतीति व्यपदिश्यते? । प्रतिष्ठितेन केनचिद् रूपेण स्वज्ञानात्मन्य् अप्रतिभासनात् न भाव इति चेत् । अत्यन्तपरोक्षाणां चक्षुरादीनाम् अभावताप्रसङ्गः । न । तेषां ज्ञानहेतुरूपतया प्रतिभासनात् इति चेत् । न । अस्यापि भवितृरूपतया ऽवभासनात् । [त्. 262अ.] सर्वरूपविवेकस्य च कथं भूत्या सम्बन्धः? । केनचिद् रूपेणोन्मज्जनं हि भवनम् । ज्ञानविषयतया ऽस्यापि च तद्धेतुरूपतया ऽवभासनस्य तुल्यत्वात्[352], अहेतोष् च विषयत्वायोगात् । अस्माकं त्व् अभावबुद्धयः स्ववासनापरिपाकान्वया निर्विषया एव । अभावस्य च भवितृत्वे कथं पर्युदासात् प्रसज्यप्रतिषेधो भिद्येत । असद्रूपस्य विधानेन पर्युदासात् [स्. 85अ.] स भिद्यत
इति चेत् । न । असद्रूपस्य भवनविरोधात् । भवतीति हि भूत्या सत्तया ऽभिसम्बध्यते । तत्र कथं सद्रूपस्य विधानम्? । पर्युदास एवैको नञर्थश् च स्यात्, सर्वत्र विधेः प्राधान्यात् । सो ऽपि वा न भवेत् । यदि हि किञ्चित् कुतश्चित्[353]निवर्त्येत तदा तद्व्यतिरेकि[354]संस्पृश्येत तत्पर्युदासेन । तच् च नास्ति । सर्वत्र निवृत्तिर् भवति इत्य् उक्ते वस्त्वन्तरस्यैव कस्यचित् विधानात् । तथा ऽनेन वस्त्वन्तरम् एवोक्तं स्यात्, न तयोर् विवेकः । अविवेके च न पर्युदासः । अप्रस्तुताभिधानं च स्यात् । भावनिवृत्तौ[355]प्रस्तुतायां असदात्मनो वस्त्वन्तरस्यैव विधानात् । न चास्य स्वरूपेणासदात्मकत्वम्, स्वरूपेणाप्य् असतः कार्यत्वविरोधात् । पररूपेण तु सर्वम् एव वस्त्वसदात्मकम् इति नास्य घटादेः कश्चिद् विशेषः [त्. 262ब्.] भवतु वा ऽयम् अभावो ऽग्न्यादिभ्यस् तद्भावे किम् इति नोपलभ्यन्ते काष्ठादयः? । तथा हि -- अग्न्यादीनाम् अन्यक्रियायां चरितार्थत्वाद् अनिवृत्ता एव तेभ्यः {प्. 82.1} [स्. 85ब्.] इन्धनादयः प्राग्वद् उपलभ्येरन् । तदुपमर्द्देन
ध्वंसस्योत्पत्तेः इति चेत्, कथं तदुपमर्द्दः? । न तावत् प्रध्वंसाभावेन, इन्धनसत्ताकाले तस्याभावात् । नाग्न्यादिभिः, ध्वंसाविर्भाव एव तेषां व्यापारोपगमात् । न चोत्पन्नः प्रध्वंसाभाव इन्धनादीन् विहन्ति, यौगपद्यप्रसङ्गात् । ध्वंसेन विनाशने च विकल्पत्रयस्य तदवस्थत्वात् । ततश् चानवस्था । स एव ध्वंस इन्धनादेर् अग्न्यादिजन्मा निवृत्तिः, अतो ऽस्यानुपलब्धिर् इति चेत् । कथम् अन्यो ऽन्यस्य निवृत्तिः?, अतिप्रसङ्गात् । यदि चायं हेतुमांस् तद्भेदाद् आत्मभेदं किं नानुभवति? । शालियवाङ्कुरादयो ऽपि कारणभेदाद् एवात्मभेदम् अत्यन्तविलक्षणम् अनुभवन्तो ऽध्यक्षत एवावसीयन्ते । न त्व् एवम् अनपेक्षितभावान्तरसंसर्ग्गः च्युतिमात्रलक्षणो ध्वंसः । तस्याभिघाताग्निसंयोगादिकारणभेदे ऽपि तुच्छरूपतयैकरूपस्य स्वज्ञानात्मन्य् अवभासनात् । न हि भावशून्यतां विहायापरं तत्र किञ्चिद् रूपम् ईक्सामहे । विस्तरतश् चैतत्क्षणभङ्गसिद्धौ विचारितम्
इत्य् आस्तां तावाद् इह । [स्. 86अ.] तस्माद् अग्न्यादिसंयोगकाले न तस्य किञ्चिद् भवति न भवत्य् एव केवल म् इत्य् एवोपगन्तुं युक्तम् । यतो नायं कस्यचिद् [त्. 263अ.] भावेन नष्टो नाम किन्तु यतः स्वयम् अस्थिररूपतया भूतस् ततो नष्टो नाम । तेन नास्या ऽभवनम् अन्यद् वा किञ्चिद् भवति । तथा च भवनधर्मणः कस्यचिद् अभावाद् भावं भवन्तं कुतश्चिन् न करोतीति क्रियाप्रतिषेध एवाग्निसंयोगादेः स्यात् । एव च सति कर्त्ता अग्निसंयोगादिः न भवति इत्य् अकर्तुर् अहेतुत्वम् इति तस्मा न् न विनाशहेतुःकश्चित् ।
__________नोतेस्__________
[347] अग्निः
[348] अग्न्यादेः
[349] भावः
[350] भावशब्दप्रवृत्तिनिमित्तं अभावस्यापि यदि सामर्थ्यम् अस्ति तदा भावत्वम् अथ नास्ति तत्राह
[351] सन्निति सामान्यशब्दानाम् -- तिब्.
[352] चक्षुरादीभिः
[353] ब्राह्मणादि (प्रथमं टिप्पणम्) क्षत्रिया- (द्वि. टि.)
[354] निवर्त्यव्यतिरेकि
[355] तुच्छरूपायाम्
[ सेच्तिओन्:14. वैयर्थ्याद् अपि विनाशे हेत्वयोगः ।]
न केवलम् असामर्थ्याद् विनाशहेत्वयोगः, किन्तु वैयर्थ्याच् च , तद् एवाह -- यदि स्वभावतो नश्वरो नशनशीलः स्वात्म न्य् अनवस्थायी स्थातुम् अशक्तो यथा सूच्यग्रे सर्षपः तस्य न किञ्चिन्नाशकारणैः । किं कारणम्? । {1} स्वयंनाशात् । {2} तत्स्वभावतयैव अस्थिरस्वभावतयैव । न हि प्रकृत्य् एव स्थातुम् अशक्ते सूच्यग्रे सर्षपे तदस्थितये प्रयासः फलवान् भवेत् ।
{प्. 83.1} अत्रैव व्याप्तिम् आदर्शयति -- यो हि इत्यादि । न पुनःतद्भावे तत्स्वभावत्वे जनकात् [स्. 86ब्.] हेतो र् {1} हेत्वन्तरम् अपेक्षते । {2} न हि प्रकाशादयः इत्यादिना दृष्टान्तविवरणम् । तदात्मताया हेत्वन्तरानपेक्षणेन व्याप्तिं तादात्म्यसाधकेन प्रमाणेन दर्शयति -- तदात्मनो यो यस्य स्वभावः तत्स्वभावस्य तादात्म्याभावे हेत्वन्तरम् अपेक्षमाणस्य स्वहेतोर् निष्पन्नस्यापि तत्स्वभावत्वाभावे नैरात्म्यस्य निःस्वभावतायाः प्रसङ्गात् । तद्वत् प्रकाशादिवत् न पुनः पश्चात् [त्. 263ब्.] तदात्मतायां अस्थितिधर्मात्मतायां हेत्वन्तरम् अपेक्षत इति प्रमाणफलम् । अस्थितिधर्माचेत् नश्वरस्वभावश् चेत् । स्वभावतःस्वहेतुभ्यो निष्पन्नो भाव इति पक्षधर्मोपसंहारः । विरुद्धव्याप्तोपलब्धिश् चेयम्, हेत्वन्तरापेक्षानपेक्षयोः परस्परपरिहारस्थितलक्षणतया
विरोधात्, हेत्वन्तरानपेक्षया च तत्स्वाभावताया व्याप्तत्वात् ।
[ सेच्तिओन्: 15. स्वतो विनश्वरत्वसाधकहेताव् अनेकान्तदोषोद्धारः ।]
अत्र च परस्य वचनाव् अकाशम् आशङ्क्याह -- बीजादिवत् [8.16] इत्यादि । स्याद् एतत् इत्यादिना एतद् एव विभजते केवलान जनयन्ति इति । कुतः? इति चेत्, सलिलक्षित्यादेः स्वहेतुव्यतिरिक्तस्याङ्कुरादिजननस्वभावानाम् अपि [स्. 87अ.] बीजादीनां तदात्मतायाम् अपेक्षणात् । ततश् च न पुनस् तद्भावे हेत्वन्तरम् अपेक्षन्त इत्य् अनेकान्तः । तद्वद् भावो ऽपी न्धनादिः स्वहेतोर् नश्वरात्मा निष्पन्नो ऽपि विनाशे विनश्वरात्मतायां स्याद् इति दार्ष्टान्तिकम् । न बीजादिवद् अनेकान्तः । कुतः? तत्स्वभावस्य अङ्कुरादिजननस्वभावस्य बीजादेर् अङ्कुरादिजननात्, तदात्मतायां हेत्वन्तरानपेक्षणात् । यश् च क्षित्यादिकम् अपेक्षमाणो न जनयति कुशूलाद्यवस्थः तस्य अजनकस्य च अतत्स्वभावत्वात् अङ्कुरादिजननस्वभावत्वाभावात् । तत्र तदात्मतालक्षणो हेतुः न वर्तत एवेति न तेनानेकान्तः ।
[ सेच्तिओन्: 16. प्रत्यक्षेण बाधात् न प्रत्यभिज्ञया स्थिरैकभावसिद्धिः ।]
ननु प्रत्यभिज्ञाप्रत्यक्षत एव बीजादिर् एकस्वभावो लक्ष्यते । तत्र कुतो ऽयं जननस्वभावत्वाजननस्वभावत्वलक्षणो भेदः? {प्. 84.1} यतो ऽनेकान्तो [त्. 264ब्.] न स्यात् । न चाप्रमाणं प्रत्यभिज्ञा, तत्रापूर्वार्थविज्ञानम् इत्यादि प्रमाणलक्षणयोगात्, सत्सम्प्रयोगेणेन्द्रियाणां भावतश् च प्रत्यक्षम् एव प्रत्यभिज्ञानम् । न च प्रत्यक्षाद् गरिष्ठं प्रमाणम् अस्ति, यतस् तद्विषयस्य भेदसिद्ध्या बाधाम् अनुभवद् अप्रमाणम् एतत् [स्. 87ब्.] स्यात् इत्य् आशङ्क्याह -- `अत एवऽ जनकत्वाजनकत्वाद् एव विरुद्धधर्माध्यासात् `तयोर् अवस्थयोःऽ जनकाजनकावस्थयोः बीजादेः वस्तुभेदः स्वभावभेदो निश्चेयः अध्यवसातव्यः । यथा हि शालिबीजं तदङ्कुरजननस्वभावं तद्भावे शाल्यङ्कुरभवदर्शनात् प्रत्यक्षतो ऽवगम्यते, यवबीजं चातज्जननस्वभावम् तद्भवे शाल्यङ्कुरानुपलब्ध्या[356][त्. 265अ.] तद्विविक्तयवबीजग्राहिप्रत्यक्षरूपया
प्रतीयते तथा ऽत्राप्य् अवस्थाद्वये शालिबीजस्य तदङ्कुरविविक्ताविविक्तावस्थाग्राहिप्रत्यक्षबलाद् एव स्वाङ्कुरजनकाजनकस्वभावता किन्न निश्चीयते? । इष्यत एवावस्थयोर् भेदो ऽवस्थावतस् त्व् अभेद इति चेत् । न । तस्यावस्थारूपविवेकिना रूपान्तरेण प्रत्यक्षे प्रतिभासनप्रसङ्गात् । न हि यदनात्मरूपविवेकेन स्वज्ञाने न प्रतिभासते तस्य प्रत्यक्षता युक्ता । अवस्थातद्वतोः स्वभावभेदाभावात् [स्. 88अ.] कथं रूपान्तरेण प्रतिभासनम्? इति चेत् । नन्व् अवस्थाभ्यो ऽनवाप्तरूपभेदस्यावस्थानाम् इवात्मनस् तद्भेदे सत्य् अभेदो न सङ्गच्छते । [त्. 265ब्.] ततश् चास्यावस्थानाम् इवात्मभेदम् अनुभवतः कथम् अवस्थातृत्वम्? । अवस्थाभेदे ऽप्य् अभिन्नरूपस्य तथा व्यवस्थानात् कथञ्चिद्भेदस्यापि भावाद् अदोष इति चेत् । यदि यम् आत्मानं पुरोधय `अयम् अवस्थाता, अवस्थाश् चेमाःऽ इति भण्यते तेनावस्थातद्वतोर् भेदस् तदा भेद एवेति `कथञ्चित्ऽ इत्य् अन्धपदम् एतत् । ततो ऽस्य प्रत्यक्षतायां अनात्मरूपविवेकिना
रूपान्तरेणावभासनप्रसङ्गो न निवर्त्तते । अथ तेनात्मना ऽभेदः[357]। अवस्थावद् भेदप्रसङ्गो ऽवस्थातुः, तद्वद् अवस्थानाम् अभेदस्य वा । तयोर् अपि कथञ्चिद् भेदाभेदाव् इति चेत् । तयोस् तर्ह्य् अवस्थातद्वद् आत्मनोर् भेदवतोः कथञ्चिद् अभेदनिमित्तं रूपान्तरम् इष्टं स्यात् । {प्. 85.1} तथा च तस्यापि ताभ्यां कथञ्चिद्भेदः, अन्यथा तदेकस्वभावाद् अत्यन्तम् अभेदाद् अवस्थातद्वतोः 3 परस्परम् अत्यन्तं भेदाभेदौ प्रसज्येयाताम्[358]। रूपान्तरस्य कथञ्चिद्भेदे [स्. 88ब्.] तन्निबन्धनम् अपरं रूपम्, तथा ऽस्यापि तदन्यद् इत्य् अपरिमितरूपतैवैकैकस्य वस्तुनः समासज्येत । न चापरिमितरूपप्रतिभासि प्रत्यक्षम् अनुभवामः । अननुभवन्तश् च कथं तत्कल्पनया ऽऽत्मनैवात्मानं विप्रलभेमहि? । तस्माद् अवस्थारूपविवेकेनोपलब्धिलक्षणप्राप्तस्यानुपलम्भाद् अपरिमितरूपताप्रसङ्गाच् च कथञ्चिद् भेदाभेदवतो ऽवस्थातुर् असत्त्वम् एव । ताश् चावस्था जनकाजनकस्वभावभेदवत्यः
[त्. 266अ.] प्रत्यक्षत एवावगम्यन्त इति तदेकत्वाध्यव-सायि प्रत्यभिज्ञानं तद्बाधाम्[359]अनुभवत् कथं प्रमाणं स्यात्?, यतो बीजादीनां अङ्कुरादिजननस्वभावानाम् अपि तदात्मतायां हेत्वन्तरापेक्षणात् प्राक्तनस्य[360]हेतोर् अनैकान्तिकता भवेत् ।
भवतु वा ऽवस्थाता कश्चित्, तस्याप्य् एतद्[361]एव भेदं साधयति । तथा हि -- तयोः [त्. 264अ.] जनकाजनकावस्थयोर् इति सप्तमीद्विवचनम् एतत् तदा भवति । तद् अयम् अर्थो -- जनकावस्थायाम् अजनकावस्थायां च वस्तुनः धर्मिलक्षणस्य भेद स्वभावनानात्वम् अत एव [ह्ब्टा 356,24] जनकाजनकस्वभावत्वाद् एव प्रत्यक्षावसितात् निश्चेयः [8,19] निश्चयलक्षणस् तत्र व्यवहारः कर्तव्यः, विषयस्य [स्. 89अ.] विरुद्धधर्माध्यासलक्षणस्य दर्शनाद् इति ।
न च शक्यते वक्तुम् -- अवस्था एवाङ्कुरादिजननस्वभावा नावस्थाता इति । तस्य सर्वसामर्थ्यविरहलक्षणस्यासत्त्वप्रसङ्गात् । [त्. 264ब्.] ततो यद् एकरूपतया प्रत्यभिज्ञानं भवेषु तत् पूर्वोत्तरकालयोर् जनकाजनकस्वभावभेदव्यवस्थापकप्रत्यक्षनिबन्धनाम् अनुभवद्बाधां कथम् इव प्रमाणं स्यात्? । तत्प्रतिभासिनश् चाभिन्नरूपस्यालीकत्वे ऽक्षसमुद्भवाम् अपि वृत्तिम् अनुभवतो ऽस्य सत्सम्प्रयोगजत्वाभावात् तैमिरिकादिधियाम् इव कुतः प्रत्यक्षता? । न {प्. 86.1} चार्थक्रियानिबन्धनं रूपम-पास्य बीजादेर् अपरः परमार्थतः स्वभावो ऽस्ति, यस्याधिगमात् प्रत्यभिज्ञानं प्रमाणं भवेत्, अर्थक्रियासामर्थ्यलक्षणत्वात् परमार्थसतः । तस्मात् सदृशापरभावनिबन्धन एवायं केशकदलीस्तम्बादिष्व् इवाकारसाम्यतामात्रापहृतहृदयानां भ्रान्त [स्. 89ब्.] एव तत्त्वाध्यवसायो मन्तव्यः । ततः सतो ऽपि प्रतिक्षणं भेदस्यानुपलक्षणं
बालानाम् । यदा तु विधुरप्रत्ययोपनिपाताद् विसदृशापरभावप्रसवः तदा ऽस्य तत्त्वाध्यवसायी प्रत्यभिज्ञाप्रत्ययो न भूतिम् अवलम्बते । न च तदेकाकारपरामर्शप्रत्ययजनकत्वाद् अपरं सादृश्यम् । भेदा ऽविशेषे ऽपि च स्वहेतुबलायात् अप्रकृतिवशात् केचिद्[362]एवैकाकारपरामर्शप्रत्ययलक्षणाम् अर्थज्ञानादिलक्षणां वा ऽर्थक्रियां कुर्वन्ति नापर इति विपञ्चितंप्रमाणवार्तिक एवशास्त्रकृतेति नेह प्रपञ्च्यते ।
__________नोतेस्__________
[356] इन् तिब्. थिस् पस्सगे -अनुपलब्ध्या तो तयोः (प्. 85. लिने 15) इस् रेअद् अfतेर् स्वभावः (प्. 86. लिने 22).
[357] तदा
[358] परस्परयात्यन्तं भेदाभेदौ वस्त्वन्तरे प्रसज्ये- -- त्.
[359] प्रत्यक्ष
[360] यो हि यत्स्वभावः इत्यादिना कथितस्य ।
[361] प्रत्यक्षम्
[362] रूपालोकादयः
[ सेच्तिओन्: 17. अनुमानेनापि प्रत्यभिज्ञाया बाधात् न ततः स्थिरभावसिद्धिः ।]
अवश्यं च बीजादेर् जनकाजनकावस्थयोर् वस्तुभेदो यथोक्तो ऽवगन्तव्य इति दर्शयितुम् अनुमानम् अभेदस्य [त्. 265अ.] बाधकम् आह -- भावानां बीजादीनां स्वकार्यजनको यः स्वभावः तस्य तेषु सत्सु अन्यथात्वाभावात् [8,21] कदाचिद् अजनकत्वासम्भवात् [स्. 90अ.] तत्स्वभावस्य अङ्कुरादिजनकस्वभावस्य पश्चाद् इव सलिलादिकारणसन्निधान इव प्राग् अपि कुशूलाद्यवस्थितिकाले ऽपि स्वकार्य जननप्रसङ्गात् । तथ हि -- सलिलादिसन्निधाने ऽपि बीजादिः स्वरूपेणैव कार्यं करोति, न पररूपेण । यश् चास्य तदा [त्. 266अ.] कार्यजनकः स्वभावः, स चेत् प्राग् अप्य् अस्ति, `स एवायम्ऽ इति प्रत्यभिज्ञायां पुरो ऽवस्थायिनो जनकस्वभावस्य प्राच्यरूपाभेदाध्यवसायात्, ततः किम् इति प्राग् अपि तत्कार्यं न कुर्याद् इति? । प्रयोगः -- यद् यदा यज्जननस्वभावं तत् तदा तज्जनयत्य् एव । अजनकस्य जनकत्वस्वभावविरोधात् । अन्यस्यापि वा तत्स्वभावतापत्तेः
। यथा -- तद् एव बीजादिकं सलिलादिसन्निधिकाले । कुशूलाद्यवस्थास्व् अपि चेदं बीजादिकं स्वकार्यजननस्वभावम् {प्. 87.1} एव प्रत्यभिज्ञया व्यवस्थाप्यत इति स्वभावहेतुप्रसङ्गः । न च जनयति । तस्मान् न तज्जननस्वभावम् इति । विपर्ययप्रयोगः -- यद् यदा यज्जननस्वभावं(व) निर्वर्त्त्यं कार्यं न जनयति न तत् तदा तज्जननस्वभावम्, तद् यथा -- शाल्यङ्कुरजननस्वभावनिर्वर्त्यं कार्यम् अजनयत् कोद्रवबीजम् । न जनयति 1 च सलिलादिकारणसन्निधेः[363]प्राक् तत्कार्यजननस्वभावनिर्वर्त्त्यं [स्. 90ब्.] स्वकार्यं बीजादिकम् इति [त्. 266ब्.] व्यापकानुपलब्धिः । ततो ऽनुमानतो ऽपि बाधम् अनुभवत् प्रत्यभिज्ञानं कथं प्रमाणं स्यात्? ।
ननु चानेन[364]बाध्यमानस्यानुमानस्याप्रामाण्यात् कथं बाधकत्वम्? । अनिश्चितप्रमाणभावेन[365]कुतो बाधा? । नापि इतरेतराश्रयत्वम् । न हि प्रत्यभिज्ञानस्याप्रामाण्याद् एतदनुमानं प्रमाणम्, किन्तु स्वसाध्यप्रतिबन्धात् । स च विपर्यये बाधकप्रमाणबलान् निश्चित इति ।
__________नोतेस्__________
[363] च शाल्यादिका- -- त्.
[364] प्रत्यभिज्ञानेन
[365] उत्तरम्
[ सेच्तिओन्: 18. प्रत्यक्षस्यानुमानात् गरीयस्त्वनिरासः ।]
न प्रत्यक्षाद् अन्यद् गरिष्ठं प्रमाणम् इति चेत् । न । प्रत्यभिज्ञायाः प्रत्यक्षत्वासिद्धेः । न हीयम् अनुमानेन प्रत्यक्षात्मिका सती बाध्यत इति ब्रूमहे । किं कृतं च प्रत्यक्षस्य गरीयस्त्वम्? । तद् ध्य् अर्थस्यासम्भवे ऽभावात् प्रमाणम् उच्यते तच् चानुमानस्याप्य् अर्थप्रतिबद्धलिङ्गजन्यतया समानम् इति नास्य कश्चिद् विशेषः । यदि चानुमानविरोधम् अश्नुवानापि प्रत्यभिज्ञा प्रमाणं तदा ऽऽकारस्य साम्यात् तदेकतां प्रतियती नीलेतरकुसुमादेः[366][प्रतीतिः] किं न प्रमाणम्? । न हि कुसुमफलादिकार्यदर्शनोन्नीयमानो भेदः प्रत्यक्षतस् तथाभावम् अनुभवति । विस्तरतश् च प्रत्यभिज्ञाप्रामाण्यनिरासः [स्. 91अ.]क्षणभङ्गसिद्धाव् एव विहित इत्य् आस्तां तावद् इह ।
यतः एवम् उक्तेन प्रकारेण जनकाजनकावस्थयोः बीजादेर् वस्तुभेदः तस्माद् यो ऽन्यो ऽवस्थाविशेषो यदन्तरं अङ्कुरादिकार्यप्रसवः {प्. 88.1} स एवाङ्कुरजननस्वभावः , [त्. 267अ.] कार्यदर्शनोन्नीयमानरूपत्वात् तज्जननस्वभावतायाः ।
यदि तर्हि स एवाङ्कुरजननस्वभावः, पूर्वभाविनाम् अवस्थाभेदानाम् अतज्जननभावत्वात् कथं तेषु तत्कारणव्यपदेशः? अङ्कुरार्थिभिर् वा तदुपादानम्? इत्य् अत आह -- `पूर्वभाविनस् तुऽ कुशूलाद्यवस्थितिकालभाविनस् तु अवस्थाविशेषाअङ्कुरकारणस्या न्त्यस्यावस्थाविशेषस्य कारणानि प्रत्ययान्तरोपधीयमानविशेषेभ्यः परम्परया तेभ्यस् तदुत्पत्तेः । अतस् तेषूपचारतः कारणव्यपदेशो ऽङ्कुरार्थिभिश् चोपादानम् । यतस् तत्स्वभावस्य बीजादेर् जननं न हेत्वन्तरापेक्षम्, यच् चाजनकम् अपेक्षते न तस्य [स्. 91ब्.] तज्जननस्वभावत्वम् इति । तस्मान् नानेकान्तो बीजादिवत् `तत्स्वभावत्वात्ऽ इत्य् अस्य हेतोः इत्य् उपसंहारः ।
तद् एवं यदा तावत् प्रत्यभिज्ञानं प्रत्यक्षप्रमाणतया स्थैर्यसिद्धये परैर् उच्यते बीजादिवद् अनेकान्तं प्रतिपादयितुम्, तदा तस्योक्तेन प्रकारेण प्रत्यक्षानुमानाभ्यां बाध्यमानत्वात् तदात्मता नास्तीति कुतस् तत एकता भावानाम्?, यतो ऽनेकान्तः स्याद् इति प्रतिपादितम् । यदा तु प्रत्यभिज्ञायमानत्वात् पूर्वापरकालयोर् एकस्वभावा बीजादय इति हेतुतयोच्यते परैः, तदा ऽयम् असिद्धो हेतुः । न च स पक्षे क्वचिद् वर्त्तत इत्य् आह -- क्षणिकेषु भावेषु अस्माभिर् इष्यमाणेषु एक्याभावा द् इति सम्बन्धः ।
__________नोतेस्__________
[366] गिरिकान्तका (?)-कन्नि- (?)
[ सेच्तिओन्: 19. तत्स्वभावत्वात् इत्य् अत्र पुनर् अपि अनेकान्तदोषोद्धारः ।]
अथ यस्यापि क्षनिका भावास् तस्यापि बीजादीनां [त्. 267ब्.] प्रतिक्षणम् ऐक्याभावे ऽपि विशेषानुपलक्षणाद् अन्त्यक्षणवत् सर्वेषां जनकस्वभावानाम् अपि तद्भावं प्रति सलिलाद्यपेक्षत्वात् तदवस्थम् अनैकान्तिकत्वम् इत्य् आशङ्क्याह -- अपरापरोत्पत्तेः क्षणिकैर् अपि [स्. 92अ.] नानेकान्तः, अपरेभ्यो ऽपरेभ्यश् च प्रत्ययेभ्यः प्रतिक्षणम् उत्पत्तेः क्षणिकानां भिन्नशक्तित्वाद् अन्त्यक्षणवज् जनकस्वभावताविरहात् कुतस् तैर् अप्य् अनेकान्तः स्यात्? न हि कारणभेदोपधीयमानजन्मनां विशेषानुपलक्षणे ऽप्य् अभिन्नस्वभावता युक्ता, हेतु {प्.89.1} भेदाननुविधाने ऽहेतुकताप्रसङ्गात् । तथा च वक्ष्यति -- `अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः सन्तन्वन्तः संस्कारा यद्य् अपि कुतश्चित् साम्यात् समानरूपाः प्रतीयन्ते तथापि भिन्न एव एषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्ऽ इति ।
यद् उक्तं `तत्स्वभावस्य जननात्ऽ इत्य् अस्यानेकान्तम् उद्भावयन्न् आह परः -- ते बीजक्षित्यादयः अन्त्याः अन्ते भवाः प्रत्येकम् अङ्कुरजनने समर्थाः खण्डशः कारणेभ्यः कार्योत्पादाभावाद् भवद्भिर् इष्यन्त इति किन्न जनयन्ति प्रत्येकम् ? । ततश् चैषाम् एक एव कश्चिद् अङ्कुरं जनयति, तदन्ये तु तत्स्वभावा अपि न जनयन्तीति `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्तः । तद्वत् कुशूलाद्यवस्था अपि बीजादयो ऽङ्कुरादिजननस्वभावा अपि न जनयिष्यन्तीति तैर् अनेकान्तः [स्. 92ब्.] तदवस्थ एवेति मन्यतेपरः।
अत्राह -- इति यद् एवं त्वं मन्यसे । परेण सामान्येनाभिधानात् सामान्येनैवोत्तरम् आह -- {1} जनयन्त्य् एव [त्.268अ.] {2} नात्र स्वकार्यजनने अन्यथाभावः अजनकत्वम् आशङ्कनीयम् । कुतः? स्वभावस्यावैपरीत्यात् । यदि हि न जनयेयुर् जननस्वभावा एव न स्युः । तत्स्वभावाश् चेष्यन्त इत्य् अवश्यं जनयन्ति, तथा च कुतो ऽनैकान्तः? इति भावः ।
[ सेच्तिओन्: 20. एकेनैव समर्थ्येन कार्यजनने परेषाम् अनुपयोगम् आशङ्क्य तदुद्धारः ।]
प्रत्येकम् अन्त्यानां जनकत्वे कार्यस्यैकेन जननाद् अपरेषाम् उपयोगस्य निर्विषयत्वाद् अजननम् एवेति मन्यमान आह परः -- तेषु अन्त्येषु सहकारिषु सह -- युगपत् करणशीलेषु समर्थस्वभावेषु तत्कार्यक्रियायोग्येषु अभ्युपगम्यमानेषु सत्सु कार्यस्यैकेनैव जनितत्वात् को ऽपरस्योपयोगः ? नैव कश्चित् । तत् किम् उच्यते `जनयन्त्य् एवऽ इति? । एतत् परिहरति -- `न वैऽ नैव भावानां बीजादीनां काचित् प्रेक्षापूर्वकारिता बुद्धिपूर्वकारिता, यतः प्रेक्षापूर्वकारित्वात् `अयम् अस्मास्व् अन्यतम् एको ऽपि समर्थः कार्यजनने, किम् अत्रास्माभिः कर्त्तव्यम्?ऽ इत्य् आलोच्य अपरे निवर्तेरन् [स्. 93अ.] {प्. 90.1} औदासीन्यं[367]भजमानास् तत्कार्यजनने न व्याप्रियेरन् । यस्मात् ते बीजादयो भावाः निरभिप्रायव्यापाराः पर्यालोचनाशून्यव्यापारा एकत उत्पद्यमाने कार्ये सर्व एव व्याप्रियन्ते । भवनधर्मणि च कार्ये तेषां प्राग्भाव
एव व्यापारः । तदन्यस्यायोगात्[368]। यदि हि व्यापृताद् अन्य एव व्यापारः [त्. 268ब्.] तदा तत एव कार्योत्पादाद् व्यापारवतः कारकत्वम् एव हीयते ।
तस्यासौ व्यापारः ततस् तस्य कारकत्वम् इति चेत् । नन्व् एवं व्यापारोपयोगस्य कार्यानुपयोगिनि तत्रोपचारात्[369]पारमार्थिकम् अस्य कारकत्वं हीयेत । कश् चास्य[370]व्यापारेण सम्बन्धः? । समवायश् चेत् । न । तस्य प्राग् एव निरस्तत्वात् । समवायाच् च व्यापारवत्त्वे अन्यस्यापि[371]तत्कार्यानुपयोगिनस्[372]तद्भावप्रसङ्गः[373], समवायस्येहेति बुद्धिहेतोर् एकत्वेन सर्वत्र समानत्वात् । अभिमतेनैव व्यापृतेन तद्व्यापारोत्पादनात् नातिप्रसङ्गः इति चेत् । ननु तेन[374]तदुत्पादनं[375]तत्र[376]समवायाद् एवोच्यते । स च [स्. 93ब्.] सर्वत्र समानः । येन च परिश्रमेण व्यापारं जनयति तेन कार्यम् एव किन् नोत्पादयति? येन व्यवधानम् आश्रीयते । यथा च स्वसन्निधिमात्रेणैवायं व्यापारं जनयति न व्यापारान्तरेण, अनवस्थाप्रसङ्गात्, तथा तत 9 एव कार्यम्[377]अपीत्य् उक्तप्रायम् ।
तस्माद् भाविनि कार्ये प्राग्भाव एव कारणस्य व्यापारः । स च सर्वेषां अस्तीति सर्व एव कार्योत्पत्तौ व्याप्रियन्त इति व्यपदिश्यन्ते ।
तद् अपि कार्यंसर्वेभ्य एव जायते सर्वेषां भाव एव तद्भावात् । न हि कार्यस्य कारणाभिमतभाव एव भावम् अन्तरेणापरं जन्म । तथाभावे[378]हि तत्रैव कारणव्यापारात् कार्यक्रियैवैषां न सम्भवेत् । ततश् च सत्स्व् अपि कारणेषु कथम् अस्य भाव उपलब्धिर् वा स्यात्? । तत्सम्बन्धिनो जन्मनः करणात् इति चेत् । न । असता {प्. 91.1} तेन[379]सम्बन्धायोगात् । स्वत एव सत्त्वे वा [त्. 269अ.] जन्मार्थानुपपत्तेः । जन्मकाले चोपलभ्यस्यात्मनः[380]प्राग्[381]अपि भावात् तथोपलब्धिप्रसङ्गः, रूपान्तरेण[382]भावे न [स्. 94अ.] तस्य भावः स्यात्[383]। रूपभेदलक्षणत्वाद् भावभेदस्य[384]। तस्माद् उपलब्ध्यात्मनो[385]जन्मनः प्रागनुपलम्भाद् असत्त्वम् । ततो ऽस्य[386]जन्मसम्बन्धिता कुतः? । तस्मात् कार्यम् एवाभूत्वा हेतुभावे भवतीति भाव एवास्य[387]ततो जन्मेति सर्वेभ्यस् तत् जायते ।
नन्व् एकस्यापि तज्जनने सामर्थ्यात् अपरेषां तत्र सन्निधिलक्षणो व्यापारो व्यर्थ एवेति न तत्रापरेषां भावः सङ्गच्छत इति चेद् आह -- स्वहेतोः क्षितिबीजसलिलादिसामग्रीलक्षणस्य परिणामः कार्योत्पादानुगुणविशेषवतः प्रतिक्षणम् उपधीयमानातिशयस्य क्षणान्तरस्य प्रसवः, ततः उपनिधिः कार्यदेशे सन्निधानं धर्मो येषां ते तथाभवन्तः कार्यदेशे सन्निधीयमानाः नोपालम्भम् अर्हन्ति -- `एकस्याप्य् एतत्कार्यकरणे समर्थत्वात् किम् अत्र भवन्तः सन्निहिताः?ऽ इति न पर्यनुयोगम् अर्हन्ति । न हि तदपरसन्निधिम्[388]अन्तरेण तत्रैकस्यापि[389]भाव उपपद्यते । कुतः? तत्प्रकृते तत्प्रकृतित्वात् इति भावप्रधानो [स्. 94ब्.] निर्द्देशः । क्षितिबीजसलिलादिसामग्रीपरिणामजन्यस्वभावत्वाद् एकैकस्य समर्थस्य तद्भावे[390]कुतः केवलस्य सम्भवः[391]?, सामग्रीशब्दवाच्यैः कारणभेदैः समर्थ-
स्वस्वलक्षणान्तरारम्भात् । ततश्[392]च प्रतिक्षणम् उपधीयमानातिशयस्योत्पादात् केवलानां [त्. 269ब्.] च तज्जननस्वभाववैकल्यात् तदपरप्रत्यययोगजन्यस्वभावत्वात् समर्थजनकस्य हेतोः । एतच् च यथावसरं तत्र तत्र व्यक्तीकरिष्यति । तस्माद् यत्सामग्रीजन्यस्वभावो यो भावः स तत्रैकाभावे ऽपि कारणवैकल्यान् न सम्भवतीत्य् एकसामग्रीजन्मनां सहभावो नियतः । सर्वेषां तेषां भाव एव कार्यस्य भावात् सर्व एव जनयन्तीति `तत्स्वभावस्य जननात्ऽ इत्य् अत्र नानेकान्तः इति ।
{प्. 92.1} येनाभिप्रायेण `ते ऽन्त्याः समर्थाः किन् न जनयन्तिऽ इत्य् उक्तं तं प्रकटयन्न् आह -- समर्थाः इत्यादि । सिद्धान्तवाद्य् अपि `जनयन्त्य् एवऽ इति यदभिप्रायवतोक्तं तम् आदर्शयति -- न, तत्रैव इत्यादि । एतद् एव व्याचष्टे -- तस्यैव इत्यादि । [स्. 95अ.] अयम् अभिप्रायः -- `इदम् अत्र समर्थम्, इदम् असमर्थम्ऽ इति प्रत्यक्षानुपलम्भसाधनाभ्याम् अन्वयव्यतिरेकाभ्यां व्यवह्रियते, अन्यनिमित्ताभावात् । तौ चान्वयव्यतिरेकाव् एकत्रैव कार्ये दृश्येते नापरापरत्रेति तस्यैवैकस्य जनने समर्था गम्यन्त इति नापरापरजननम् । ते तु यदवस्था जनयन्तो दृश्यन्ते -- किं तज्जननस्वभावास् तदैव? आहोस्वित् प्राग् अपि? इत्य् अत्र विवादः । तत्र प्राग् अपि तत्स्वभावत्वे पश्चाद् इव प्राग् अपि जननप्रसङ्ग इति प्रतिक्षणं भेद उच्यत इति ।
__________नोतेस्__________
[367] `निवर्तेरन्ऽ इत्य् एतद् व्याख्याति
[368] क्रियारूपस्य
[369] व्यापारवति कारणे
[370] व्यापृतस्य
[371] घटादेः
[372] अङ्कुर-
[373] अङ्कुरजनन-
[374] बीजा-
[375] व्यापारोत्पाद-
[376] बीजादौ
[377] एव स्वसंनिधिमात्राद् एव का- -- त्.
[378] अपरजन्मसद्भावे
[379] कार्येण
[380] कार्यसम्बन्धिनः
[381] कार्यजन्मनि
[382] अव्यक्तेन
[383] अव्यक्ताद् अव्यक्तम् एव रूपं जातं यतः
[384] अव्यक्तरूपाद् व्यक्तरूपं भिन्नम् एव
[385] कार्यस्य
[386] कार्य-
[387] कार्य-
[388] तदन्यतर-
[389] कार्यदेशे
[390] अपरसन्निधानाभावे
[391] कुतः
[392] नोपालम्भम् अर्हन्ति
[ सेच्तिओन्: 21. कारणभेदात् कार्यभेदं स्वीकुर्वद्भिः क्षपणकजैमिनीयैर् अनेकान्तस्योद्भावनम् ।]
पुनर् अन्यथाक्षपणकजैमिनीयाअनेकान्तम् उद्भावयन्त [त्. 270अ.] आहुः -- भिन्नः परस्परव्यावृत्तः स्वभावो येषां तेभ्यश् चक्षुरादिभ्यः सहकारिभ्यः युगपत्कर्तृभ्यः एकस्य विज्ञानलक्षणस्य कार्यस्योत्पत्तौ सत्याम्, बहूनि भिन्नस्वभावानि कारणानि कार्यं त्व् एकम् अभिन्नस्वभावम् इति न कारणभेदात् कार्यभेदःस्यात् । ततश् चक्षुरादयो न भिन्नेनात्मनैकस्य कार्यस्य जनका एष्टव्याः । किन्त्व् अभिन्नम् एषाम् एककार्यजनकं सामान्यभूतं रूपम् उपेयं येनाभिन्नं कार्यं जनयन्ति । तच् च समग्रावस्थायाम् एव तत्कार्यं जनयति न व्यग्रावस्थायाम् । न चैकैकाभावे तस्याभावः, सामान्यात्मनः [स्. 95ब्.] कदाचिद् अभावविरोधात् । न च तदा ऽस्या ऽजनकस्वभावता, जनकाजनकरूपवतः समग्रेतरावस्थायोर् भेदप्रसङ्गात् । तथा च सामान्यात्मना हानिः । ततो यद् अस्य समग्रेषु चक्षुरादिषु
जनकं रूपं तद् एकैकाभावे ऽपि विद्यते न च जनयतीति `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्त इति ।
[ सेच्तिओन्: 22. सिद्धान्तवादिना दूषणोद्धारः ।]
सिद्धान्तवाद्य् आह -- न, यथास्वम् इत्यादि । एवं मन्यते -- किं पुनर् इदं कारणम् अभिमतं भवतः? । यदि प्रत्येकं चक्षुरादिकम्; {प्. 93.1} तद् अयुक्तम् । सामग्रीजन्यस्वभावत्वात् कार्यस्य, तस्या एव कारणत्वात् । ननु तदवस्थायां प्रत्येकम् एव सामग्रीशब्दवाच्यानां जननस्वभावत्वाभ्युपगमात् प्रत्येकम् एव चक्षुरादिकं कारणम् । [त्. 270ब्.] यद्य् एवं को ऽयं नियमो यदनेकस्माद् भवता ऽनेकेन भवितव्यम् विपर्यये बाधकप्रमाणाभावात्, एकेनैव तत् कार्यं करोतीति कुतो ऽवसितम्? । तद्भावे भावात् इति चेत् । अनेकत्रापि समानम् एतत् । तद् उक्तम् -- तस्यैवैकस्य जनने समर्थाःनान्यस्य इति नापरापरजननम् इति । न चानेकस्माद् भवद् अनेकं प्राप्नोति । यतो नास्माकं भवताम् इव कारणम् एव [स्. 96अ.] कार्यात्मताम् उपैति, यतो ऽनेकपरिणतेर् अनेकरूपत्वात् कार्यस्यानेकता स्यात् । किन्तु अपूर्वम् एव केषुचित् सत्सु भवति । तच् चानेकभाव एव भावात् तत्कार्यम् उच्यते तस्य कुतो
ऽनेकताप्रसङ्गः? । यत् त्व् अभिन्नं रूपं जनकम् उच्यते तस्यैकस्थिताव् अपि भावात् तत्कार्यजननस्वभावाच् च ततः कार्यप्रसवप्रसङ्गः, तदन्यसन्निधौ तस्य विशेषाभावात् तदापि वा न जनयेत् । तस्माद् येषु भावाभाववत्सु कार्यं भावाभाववद् दृश्टं त एव विशेषा जनका इति कुतो ऽनेकान्तः? ।
अथ सामग्रीं कारणम् आश्रित्योच्यते `न कारणभेदात् कार्यभेदः स्याद् इतिऽ, {1} तन् न, {2} यथास्वं यस्याः सामग्र्याः य आत्मीयः स्वभावस् तद्भेदेन तद्विशेषोपयोगतः तस्य -- विज्ञानलक्षणस्य कार्यस्य, विशेषाः -- सामग्रीभेदाद् भिन्नाः स्वभावाः, तेषूपयोगतः [त्. 271अ.] तदुपयोगैः भिन्नसामग्रीव्यापारैः कार्याः ये स्वभावविशेषाः -- कार्याणां विशिष्टाः स्वभावाः [स्. 96ब्.] तेषाम् असङ्करात् परस् परव्यावृत्तरूपत्वात् । सामग्रीभेदाद् भिन्नरूपतैव कार्याणाम् इति कथन् न कारणभेदाद् कार्यभेदः स्यात्? । तथा हि -- एका सामग्री मनस्कारतत्[393]साद्गुण्यादिलक्षणा[394], ततो विकल्पविज्ञानमात्रं[395]जायते; अपरा मनस्कारेन्द्रियमात्रलक्षणा, ततो भ्रान्तेन्द्रियविज्ञानसम्भवः[396]; तदन्या विषयेन्द्रियमनस्कारात्मिका, ततो ऽप्य् अभ्रान्तविज्ञानसम्भूतिर् इति
भिन्नसामग्रीजन्मनां {प्. 94.1} कार्यस्वभावविशेषाणाम् असाङ्कर्याद् अस्त्य् एव सामग्रीलक्षणकारणभेदात् कार्याणां भेद इति ।
ननु यदा विषयेन्द्रियमनस्कारेभ्यो विज्ञानसम्भवः तदा तेषाम् उपयोगविषयस्यैकत्वात् कथम् असाङ्कर्यम्? । तथाविधस्य साङ्कर्यस्येष्टत्वात् अदोषः । तदुक्तम् -- तत्रैवैकत्र सामर्थ्यात् इत्यादि ।
कथं तर्हि तेषां तज्जनकत्वम्?, यदि तद्भेदात् [स्. 97अ.] न भिद्यते कार्यम् । किं नु वै समग्राणाम् अन्यान्यकार्यजननेन जनकत्वम् यतस् तद्भावे तन् न स्यात् । जनकत्वं ह्य् एषां तद्भाव एव कस्यचिद् भावात् । तत्रैकस्यानेकस्य वा भावे तेषाम् एकानेकजनकत्वम् उच्यते ।
__________नोतेस्__________
[393] चारुत्वम्
[394] देशकालादयः
[395] अर्थाभावे ऽप्य् आन्तरो विकल्पः
[396] मरुमरीचिकासु जलज्ञानम्
[ सेच्तिओन्: 23. एकसामग्रीजन्येष्व् अपि कार्येषु भेदोपपादनम् ।]
नन्व् एकस्याः सामग्र्या अनेकस्य भावे सामग्र्यन्तरजन्येभ्यो भवतु भेदः, परस्परतस् तु कथम्? । [त्. 271ब्.] तदतद्रूपहेतुजत्वाद् धि भावास् तदतद्रूपणि इष्यन्ते । तत्र यदा चक्षूरूपमनस्कारेभ्यो विज्ञानजन्म तदा चक्षूरूपक्षणयोर् अपि भावाद् विज्ञानेनाभिन्नहेतुजत्वात् तयोर् विज्ञानात्मता, विज्ञानस्य वा तद्रूपता कथं न प्रसज्येत? । आह च --
तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः।
तद्रूपादि [397] किम् अज्ञानंविज्ञानाभिन्नहेतुजम् ॥ [प्व् 2.251] इति ।
नैष दोषः । तेषां यथास्वं स्वभावभेदेन निमित्तोपादानतया तदुपयोगात् । मनस्कारो हि विज्ञानस्योपादानकारणम् । चक्षुषस् तु स्वविज्ञानजननयोग्यस्य जन्मनि सहकारिकारणम् । एवम् इतरत्रापि यथायोगम् वाच्यम् । ततो ऽन्यादृशी सामग्री चक्षुःक्षणस्य जनिका, अन्यादृशी च विज्ञानदेर् इति तद्वैलक्षण्याद् एव [स्. 97ब्.] कार्याणां वैलक्षण्यम् ।
स्याद् एतत् -- सर्वेषां अन्वयव्यतिरेकाव् अनुविधीयेते तदा चक्षुरादिक्षणैर् इति कुतो ऽयं भेदः -- इहोपादानभावे भेद(-भावेनेद)म् उपयुज्यते, अन्यत्र तु सहकारिभावेनेति? । बोधरूपतादेर्[398]{प्. 95.1} अनुकाराननुकाराभ्यां तद्भावे[399]व्यभिचाराव्यभिचारतश् च । तथा हि -- विज्ञानं मनस्कारस्य बोधरूपताम् अनुकरोति, न चक्षुरादेर् जरा(डा)दिभावम् । एवम् अन्यद् अपि प्रत्येयम् । नियमेन च विज्ञानमात्रभावे समनन्तरप्रत्ययस्य व्यापारो न चक्षुरादेः । चक्षुःक्षणान्तरोदये[400]च पूर्वभाविनश् चक्षुषो[401]न स्वविज्ञानयोग्यताहेतोः [त्. 272अ.] समनन्तरप्रत्ययस्य । एवंरूपस्यापि वाच्यम् । तस्माद् अवस्थाभेदे ऽपि यद् एकाकारपरामर्ष(श)प्रत्ययनिबन्धनतया स्वसन्ततिपतितकार्यप्रसूतिनिमित्तं तद् उपादान-कारणं । यत् सन्तानान्तरे प्रागवस्थापेक्षविशेषोदयनिबन्धनं तत् सहकारिकारणम् । स चेयं भावानां स्वहेतुपरम्परायाता प्रकृतिर्
यया किञ्चित् कार्यं स्वसन्तानव्यवस्थानिबन्धनं जनयन्त्य् अपरं च सन्तानान्तरव्यपदेशनिबन्धनम् इति तस्या एव सामग्र्या अवान्तरविशेषकृतत्वाच् चक्षूरूपविज्ञानक्षणानां परस्परतो [स्. 98अ.] वैलक्षण्यं न विरुध्यते ।
__________नोतेस्__________
[397] तत्सुखादि -- प्व्
[398] उत्तरम् आह
[399] कार्यभावे
[400] -क्षणानन्तरोदये -- त्.
[401] नियमेन व्यापार इति सम्बन्धः
[ सेच्तिओन्: 24. कारणानेकत्वे ऽपि कार्यस्यैकत्वं सामग्रीभेदे च कार्यभेदः ।]
तस्माद् यदि `कारणभेदात्ऽ कारणानेकत्वात् कार्यस्य भेदः अनेकत्वं तदा प्रतिबन्धाभावाद् अनेकान्तः । न च तदभ्युपगम्यत इति न काचित् क्षतिः ।
अथ सामग्रीलक्षणस्य कारणस्य भेदः सामग्र्यन्तराद् वैलक्षण्यं कार्यस्यापि भेदो ऽतत्कारणेभ्यो भिन्नस्वभावतोच्यते । तदा[402]तस्येह[403]भावात् कथं न कारणभेदात् कार्यभेदः स्यात्? इति अभिप्रायवता `नऽ[404]कारणभेदात् कार्यभेदो न स्यात् । कुतः? । यथास्वम् इत्य् आद्य् अभिहितम् ।
उभयं[405]चैतत् कार्येषु प्रमाणपरिदृष्टम् इति दर्शयन्न् आह -- यथा इत्यादि । मृत्पिण्डादिभ्यो हि भवतो घटस्य न कारणानेकत्वे ऽप्य् अनेकरूपता । नाऽपि सामग्र्यन्तरजन्याद् अभिन्नस्वभावतेत्य् उदाहरणार्थः । तत्र [त्. 272ब्.] सामग्र्यन्तरजन्यात् तावद् भेदं दर्शयति -- मृत्पिण्डात् इत्यादि । इह मृत्पिण्डकुलालसूत्राणि {प्. 96.1} व्यग्रस्वभावानि कारणान्तरसहितानि इष्टकादिलक्षणानि तदन्यजन्येभ्यो भिन्नस्वभावानि [स्. 98ब्.] यानि कार्याणि साधयन्ति तेभ्यो विलक्षणम् एव समग्राणि घटात्मकं कार्यं जनयन्ति । तथा हि -- कुलालादिनिरपेक्षो मृत्पिण्डः तदन्यजन्याद् वृक्षादेर् विलक्षणम् एवोपादानभावेन मृदात्मकं कार्यं जनयन् दृष्टः । कुलालादिसहितो ऽपि तदात्मकम् एव घटम् । तत्कारणाहितविशेषश् च केवलमृत्पिण्डाद् भिन्नस्वभावतया तत्कार्याद् अपीष्टकादेर् विलक्षणम् एव करोति । एवं कुलालादिकम्
अपि तदन्योपादानसहितं सहकारिभावेन यत्कार्यम् करोति तद्विलक्षणम् एव मृत्पिण्डसहितं तत्कारनाहितविशेषं घटात्मकं कार्यं जनयतीति समुदायार्थः । तत्र मृत्पिण्डाद् भिन्नः स्वभावो घटस्य ये तदन्योपादानकारणतया मृत्स्वभावा न भवन्ति वृक्षादयस् तेभ्यो भवति । कुलालात् मृत्पिण्डोपादानाहितातिशयात् सहकारिभावेनोपयुज्यमानात् तस्यैव घटस्य मृत्पिण्डोपादानतया मृदात्मनः सतः संस्थानविशेषः पृथुबुध्नोदराद्याकारः तदात्मतया तदन्येभ्यो येषां मृत्पिण्डस् तदन्यनिमित्तसहित [स्. 99अ.] उपादानम् इष्टकादीनां तेभ्यो भिन्नः स्वभावो भवति । सूत्रात् मृत्पिण्डकुलालकारणाहितविशेषात् [त्. 273अ.] तस्यैव घटस्य मृत्संस्थानविशेषात्मनो मृत्पिण्डकुलालयोस् तज्जननस्वभावत्वात् घटस्य तद्रूपयोगात् तयोश्च [406]सूत्रकारणोपहितविशेषयोस् तन्निरपेक्षावस्थातो
भिन्नात्मकतया चक्रादेर् विभक्तो विच्छिन्नः स्वभावो भवति तस्माद् अनु[क्रा]न्तकारणत्रयजन्यो घटः तदन्यस्माद् एकैककार्याद् द्विद्विकार्याच् च भिन्नस्वभाव एव जायत इति सामग्रीभेदाद् भिन्नान्येव कार्याणि परस्परम् असङ्कीर्णस्वभावानि भवन्तीति तदुपयोगकार्यविशेषासङ्करः[407]सिद्धः । तस्य[408]चैकैकतदवस्थाभाविकारणभेदान्वयव्यतिरेकानुविधायितया खण्डशो ऽनुत्पादाच् च । तदेकैकजन्यत्वे ऽपि[409]वस्तुतस् तदेकैकसजातीयकारणान्तरसन्निधावदृष्टस्य विशेषस्येतरसन्निधौ तद्दर्शनात् `तज्जन्यो ऽयम्ऽ[410]इति तत्त्वचिन्तकैर् विवेच्यते । यतः[411]{प्. 97.1} कार्यविशेषार्थिनो ऽनेककारणपरिग्रहं कुर्वन्ति परस्पराहितोपकारकार्यपरम्परया वाञ्छितकार्यजननयोग्यकारणसामग्रीभावार्थम् । यत [स्. 99ब्.] एवं सामग्रीभेदाद् भिन्नान्येवेष्टकाचक्राविभक्तघट तद्विभक्तघटलक्षणानि कार्याणि भवन्ति तत् तस्मात् एवम् उक्तेन प्रकारेण
कुलालात् मृत्पिण्डरहिताद् अन्यसामग्र्यन्तर्भूतात् न मृत्स्वभावता कस्यचित् कार्यस्य, मृत्पिण्डकारणोपकृतात्मन एव तस्य तद्विशेषहेतुत्वात् । न मृदः केवलायाः, तत्सामग्रीबहिर्भूतायाः संस्थान[त्. 273ब्.]विशेषः कुलालोपादानोपकृतताया एव मृत्संस्थानविशेषात्मककार्यहेतुत्वात् ।
__________नोतेस्__________
[402] वैलक्षण्यस्य
[403] सामग्र्याम्
[404] न इति सूत्रांशस्य व्याख्या `कारणऽ इत्यादि
[405] कारणानेकत्वे कार्यस्यैकत्वम्, सामग्रीवैलक्षण्यात् कार्यवैलक्षण्यं च
[406] मृत्पिण्डकुलालयोः
[407] तेषां कारणानाम् उपयोगैः व्यापारैः कार्या ये स्वभावविशेषः तेषाम्
[408] घटस्य
[409] `तज्जन्यो ऽयम्ऽ इति तत्त्वचिन्तकैर् विवेच्यत इति सम्बन्धः
[410] मृदादि-
[411] विवेकात्
[ सेच्तिओन्: 25. सहकार्यनेकत्वे ऽपि कार्यस्य ऐक्यम् ।]
तद् एवं सामग्रीभेदाद् भेदं कारस्योदाहरणे प्रतिपाद्य सहकारिणाम् अनेकत्वे ऽप्य् अनेकात्मताविरहं प्रतिपादयन्न् आह -- न च तयोः मृत्कुलालयोः सहितयोः परस्परोपादानोपकृतात्मनोः यः शक्तिविशेषः प्रत्ययान्तरसहितावस्थातो विशिष्टा योग्यता तद्विषयस्य[412]तदन्यावस्थाविषयाद् भेदे सत्य् अपि यथा तदन्यस्माद् भेदः, एवं {1} स्वभावेन न भेदः । {2} स्वरूपतो ऽपि न नानात्वं नानेकात्मकता कार्यस्य । ताभ्यां जनितो यो विशेषो मृत्संस्थानविशेषात्मकः स एव तदन्यसामग्रीजन्याद् भिद्यत इति भेदो अस्य ।
कथं पुनर् एत[द्] ज्ञायते `तदन्यस्माद् इव [स्. 100अ.] स्वभावतो ऽप्य् अस्य भेदो नास्तिऽ इत्य् अत आह -- मृत्संस्थानयोः इत्यादि । यदि हि मृत्कुलालयोः तदवस्थाभाविनोः शक्तिविशेषविषयो मृत्संस्थानविशेषात्मको भेद स् तदन्यस्माद् इव स्वरूपतो भिद्येत तदा मृत्संस्थानयो र् अपरस्परात्मतया परस्परात्मताविरहेण कारणेन संस्थानविशेषेण मृत् न प्रतिभासेत, न मृत्स्वभावेन च संस्थानविशेषः, यथा तदन्यरूपेण । न[413]हि यो यस्य स्वभावो न भवति स तेनात्मना स्वग्राहिणि ज्ञाने प्रतिभासते, रूपरसवत्; ज्ञानं वा तद्रूपविकलार्थसामर्थ्येनोत्पद्यमानं तद्रूपम् अनुकर्तुं युक्तम्, {प्. 98.1} भ्रान्तताप्रसङ्गेन तद्वशाद् अर्थव्यवस्थानाभावप्रसक्तेः । तस्मात् मृत्संस्थानयोर् एकात्मतैवेति [त्. 274अ.] न कारणानेकत्वात् कार्यस्यानेकात्मकता ऐकान्तिकी, यतो भिन्नस्वभावेभ्यश् चक्षुरादिभ्यः सहकारिभ्यः एककार्योत्पत्तिविरोधाद्
एकरूपतया तेषां साधारणैककार्यक्रिया, भिन्नरूपतया वा साधारणकार्यकरणम् इयेत । [स्. 100ब्.] एतच् चैकसामग्र्यपेक्षयैककार्यकर्तृत्वम् उच्यते । परमार्थतस् तु तत्सामग्र्यन्तर्ग्गतानां सजातीयस्या ऽपि क्षणान्तरस्यारम्भात् सामग्र्यन्तरावयवत्वेन च कार्यान्तरस्यापि यथा एकप्रत्ययजनितं किञ्चिद् एकं नास्ति तथा ऽनेकप्रत्ययजनितम् अपीति कारणानेकत्वात् कार्यानेकत्वोपगमे ऽपि न काचित् क्षतिः । तत एककार्यापेक्षया ऽनेकत्वप्रसञ्जने सन्दिग्धव्यतिरेकता, सामान्येन साधने सिद्धसाध्यतेति च ।
__________नोतेस्__________
[412] शक्तिविशेषविषयस्य
[413] व्यतिरेकी
[ सेच्तिओन्: 26. अह्रीकादिसंमतस्य द्रव्यपर्याययोः भेदाभेदपक्षस्य निरासः ।]
ननु च मृत्संस्थानविशेषयोर् एकस्वभावत्वे ऽप्यह्रीकादिभिः सङ्ख्यादिभेदाद् भेद इष्यते तत् कथम् अनेकप्रत्ययजनितस्यैकत्वे एतद् उदाहरनाम् स्यात्? । सर्वत्रैव हि द्रव्यपर्याययोः सङ्ख्यासंज्ञालक्षणकार्यभेदाद् भेदो देशकालस्वभावाभेदाच् चाभेद इष्यते, यथा घटस्य रूपादीनां च । तथा हि -- एको घटः रूपादयो बहव इति सङ्ख्याभेदः । घतः रूपादयः इति संज्ञाभेदः । अनुवृत्तिलक्षणं द्रव्यवन् नित्यं च, व्यावृत्तिलक्षणा [स्. 101अ.] भेदाः क्षणिकाश् च;जैमिनीयस्य तु [त्. 274ब्.] केचित् कालान्तरस्थायिनो ऽपीति लक्षणभेदः । घटेनोदकाहरणं क्रियते, रूपादिभिः पुनर्वस्तुराग इति कार्यभेदः । एवं सर्वत्र द्रव्यपर्याययोः सङ्ख्यादिभिर् भेदः देशादिभिस् त्व् अभेद इति मृत्संस्थानयोः कथञ्चित् भेदात् मृत्कुलालाभ्यां जनितस्य कार्यस्यानेकता ऽस्त्य् एव । यथा त्व् एकता[414]तथा ताभ्यां[415]तस्य अभिन्नात्मजन्यतैवेति
यद् अनेककारणं तद् अनेकम् एव, यत् पुनर् एकं तत् सहकारिणाम् अभिन्नरूपजन्यतयैककारणम् एवेति न व्यभिचार इति ।
{प्. 99.1} तद् अयुक्तम् । स्वभावतो भेदानभ्युपगमे अन्यथा[416]भेदासिद्धेः अनेकस्माद् एककार्योत्पत्तेर् अभाधनात् । स्वभावतो भेदोपगमे वा ऽपरस्परात्मतया मृत्संस्थानयोः संस्थानमृत्स्वभावविशेषाभ्यां तयोर् अप्रतिभासनं दुर्न्निवारम् । यदि हि स्वभावतो न भेदो धर्मधर्मिणोः, सङ्ख्यादिभेदाद् अपि नैव भेदः । न हि पररूपाः भिद्यमाना अपि सङ्ख्यादय आत्मभूतम् अभेदं बाधितुं समर्थाः ।
सङ्ख्याभेदस् तावद् असमर्थः, एकस्मिन्न् अपि द्रव्ये बहुत्वेन व्यवहारदर्शनात् । यथा गुरव इति । न च बहुवचनस्य नियमेनादर्शनाद् रूपादयो ऽत्र निमित्तम्, रूपादिनिमित्तत्वे हि गुरुः इति न कदाचित् एकवचनं स्यात् । [स्. 101ब्.] सम्भवि धर्मिरूपमात्रम् अभिधेयत्वेन विवक्षितम् इति चेत् । न । तस्यैकत्वेन विवक्षायां कार्त्स्न्यगौरवयोर् अप्रतीतिप्रसङ्गात् । व्रीहय इति च जातिवचने [त्. 275अ.] धर्मिणो रूपादीनां चानभिधानात् न किञ्चिद् उत्तरम् । उभयरूपस्य च वस्तुनो गुरुशब्दवाच्यत्वात् कथं सम्भविनो धर्मिरूपस्यैकत्वेन विवक्षा? । ततश् चैको गुरुर् इति सामानाधिकरण्य् अदर्शनात् पर्याया अप्य् एकसंख्याविषयाः । ते च पर्यायरूपेण भिद्यन्ते । तत् कथं संख्याभेदाद् भेदसिद्धिः? इति ।
संज्ञा ऽपि सङ्केतनिबन्धना । स चेच्छायत्तवृत्तिर् इति कुतस् ततो ऽर्थभेदः? । एकस्मिन्न् अपि संज्ञाभेददृष्टेः कथम् अस्य भेदनिमित्तता? । यथा इन्द्रः शक्रः पुरन्दरः इति । अत्रापि इन्दनात् शकनात् दारणाच् च शक्तिभेदो गम्यत इति चेत् । न । समस्तस्य कार्यकर्तृत्वात् । न हि शक्तिर् एव इन्दति शक्नोति दारयति च । किं तर्हि? । धर्मिरूपम् अपि, तयोर् एकस्वभावोपगमात्, शक्नोत्यादिपदैस् तद्वाचिनां सामानाधिकरण्य् अदर्शनाच् च । न[417]चास्खलद्वूत्तिप्रत्ययविषयत्वाद् उपचारकल्पना युक्तेति । येषां च पर्यायाणां न काचिद् अर्थानुगममात्रा तत्र किं वक्तव्यम्? ।
लक्षणभेदो ऽप्य् अहेतुः असिद्धत्वात् । न ह्य् एको भावः क्वचिद् अप्य् अन्वयी सिद्ध इति । तथा हि -- न कूटस्थनित्यतया नित्यं {प्. 100.1} द्रव्यमह्रीकैर् इष्यते, परिणाम[स्. 102अ.]नित्यतोपगमात् । सा च पूर्वोत्तरक्षणप्रबन्धवृत्त्या । न ह्य् अस्य पर्यायाणाम् इवोच्छेदः तद्रूपेण[418], पर्याया [त्. 275ब्.] एव पर्यायरूपेण निरुध्यन्ते न तु द्रव्यम् इति नित्यम् अभ्युपगम्यते । न 7 चेयं[419]कूटस्थनित्यता वा द्रव्ये सम्भवति[420], पर्यायव्यतिरिक्तस्य द्रव्यस्यासिद्धेः तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकानुपलक्षणात् । पर्यायेष्व् एव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनाम् । न पुनस् तत् ततो विलक्षणम् उपलक्ष्यते ।
कार्यभेदस् त्व् अस्मान् प्रति असिद्ध एव । रूपादीनाम् एव केषाञ्चित् तत्कार्यकर्तृत्वात्[421]। तथाप्य् अभ्युपग्यम्योच्यते -- कार्यं हि द्विविधम् । भिन्नकालम् अभिन्नकालं च । तत्र पूर्वं भवति भेदनिबन्धनम् यदीह सम्भवेत् । तत् तु न सम्भवति धर्मधर्मिणोस् तुल्यकालत्वात् । अभिन्नकालस् तु कार्यभेदे ऽनैकान्तिकः, विभक्तपरिणामेषु पटादिषु सम्भवात् । पटादयो ऽपि हि विभक्तपरिणामा अनेकं कार्यं कुर्वन्तो दृष्टाः । न च धर्मिरूपेण भिद्यन्ते, एकस्यानेककियाविरोधाभावाच् च । न ह्य् अत्र कारणम् एव कार्यात्मताम् उपैति, यत एकस्य कारणात्मनः एककार्यरूपतोपगमे तदन्यरूपाभावात् तदन्यकार्यात्मतोपगतिर् न स्यात् । किन्त्व् अपूर्वम् एव कस्यचिद् भावे प्रागविद्यमानं भवत् तत्कार्यम् । तत्र विषयेन्द्रियमनस्काराणाम् इतरेतरोपादानाहितरूपभेदानां [स्, 102ब्.] सन्निधौ विशिष्टस्वेतरक्षणभावे प्रत्येकं तद्भावाभावानु[त्. 277अ.][422]विधानाद् अनेकक्रियोपगमो
न विरुध्यते । यत एकक्रियायाम् अपि तस्य[423]तद्भावभावितैव निबन्धनम् । सा चानेकक्रियायाम् अपि समानेति ।
ननु च तत्सन्निधौ विज्ञानलक्षणकार्यसम्भवात् तज्जननस्वभावतैवैषाम् अवध्रियते, कार्यस्वभावापेक्षया कारणस्य जनकरूपतावस्थानात् । ततो विज्ञानजननस्वभावेभ्यः प्रत्येकं कतं {प्. 101.1} तदन्यकार्यसम्भवः? । तद्भावे वा तेषां तदन्यजननस्वभावता स्यात् । ततश् च विज्ञानम् एव न कुर्युः, तदन्यजननस्वभावत्वात् ।
नैष दोषः, तेषाम् अनेककार्यक्रियास्वभावत्वात् । तथा हि -- ते तदवस्थायां प्रत्येकं विशिष्टसजातीयेतरक्षाणजननात्मकाः, तेषां तत्सत्तानन्तर्यदर्शनात् । तत्र विज्ञानजननस्वभावतैवेति तस्याजननस्वभावता व्यवच्छिद्यते तस्या एव प्रतियोगित्वात् नान्यजननस्वभवता । न चातस् तेषाम् अनेकात्मता स्यात्, एकस्यैवात्मातिशयस्यानेककार्यहेतुत्वात् । न हि तदन्यापेक्षया विपर्ययव्यावृत्तिम् उपादायानेकेन शब्देनाभिधीयमानं वस्तु अनेकरूपतां प्रतिपद्यते, प्रतिविशिष्टस्यैकस्यैवात्मनस् तथाभिधानात् । यथा [स्. 103अ.] रूपं सनिदर्शनं सप्रतिघम् इति । न ह्य् अत्र स्वभावभेदनिबन्धना ध्वनयः, सामानाधिकरण्याभावप्रसङ्गात् । तन्निमित्तानाम्[424]एकत्र[425]भावात् अदोष इति चेत् । न । तेषां[426]तदेकोपकारानपेक्षिणां तदयोगात्[427]। अपेक्षायां वा कथम् एकम् अनेक[त्. 277ब्.]कार्यं न स्यात्? । अनेकेनैवात्मनोपयोगात् इति चेत् । न ।
सामानाधिकरण्याभावदोषस्य तादवस्थ्यप्रसङ्गात् । न च नीलादीनाम् आत्मभेदम् अध्यक्षम् ईक्षामहे[428]। नापि कार्यभेदाद् एवात्मभेदानुमानम्, प्रतिबन्दाभावात्, तद्ग्राहकप्रमाणाभावात् । प्रत्यक्षतो ऽनेककार्याणाम् अपि भावानाम् एकात्मतयैवोपलक्षणात् प्रदीपादीनाम् । नानुमानतः[429], तत्रापि विपर्यये बाधकप्रमाणाभावात् । एकस्यानेकक्रिया ऽनभ्युपगमे च यो ऽयं रूपरसगन्धस्पर्शविशेषाणां क्वचित् सहभावनियमः प्रमाणपरिदृष्टः स न स्यात् । भिन्ननिमित्तानां सहभावनियमायोगात् । तन्निमित्तानाम्[430]अपि तदेककारणानायत्तजन्मनां [स्. 103ब्.] नियतसाहित्यासम्भवात् । तदेकधर्मिस्वभावतयैकत्र सहभावनियम इति चेत् । न । एकस्यानेकस्वभावताया एव चिन्त्यत्वात् । अनेकेनैकस्वभावतां चानुभवतः तद्वद्[431]अनेकताया दुर्निवारत्वात् अन्यथा धर्मधर्मिणां कथं {प्. 102.1} नैकान्तिको भेदः? । तथा हि -- यम् आत्मानं पुरोधाया ऽयं
धर्मी पर्यायाश् चैते इति व्यवस्थाप्यते, यदि तस्य भेदस् तदा भेद एवेति ।
अनेकस्याप्य्[432]एककार्यता न स्यात्[433]। न हि परस्परोपादानकृतोपकारानपेक्षा विषयेन्द्रियमनस्काराः सहैककार्यारम्भिणो युक्ताः । न चैकम् एव किञ्चित् क्वचित् जनयति । ततश् च सर्वत्र कार्यकारणभाव एवोत्सीदेत्, अनेकस्यैकस्य[434]चैकानेकक्रियाविरहात् प्रकारान्तराभावाच् च ।
नाप्य् अहेतुकम् एव विष्वम्, [त्. 276अ.] देशकालप्रकृतिनियमात्[435]। तस्माद् एकसामग्र्यधीनजन्मनामेव सहभावनियमो भावानाम् एककार्यक्रियानियमो वा । ततश् च स्वसन्तानक्षणम् इतरोपादानं[436]च युगपद् उपकुर्वतः कथम् एकस्यानेककार्यता न स्यात्? । ततः कथं कार्यभेदाद् भेदः कल्प्येत? । द्रव्यपर्यायाणां चैकस्वभावताम् आचक्षाण [स्. 104अ.] एकस्यानेककार्यतां प्रतिक्षिपतीति कथं नोन्मत्तः[437]?, स्वभावस्यैव[438]वस्तुत्वात्, अन्यथा तस्य निःस्वभावताप्रसङ्गात् । एकस्वभावत्वे च द्रव्यपर्यायाणां तत्कार्यभेद[439]एकवस्तुनिबन्धन एवेति कार्यभेदाद् भेदम् अभिदधानः स्फुटम् अह्रीक एवायम् इत्य् उपेक्षाम् अर्हति ।
__________नोतेस्__________
[414] मृत्संस्थानयोर् देशादिभिः
[415] मृत्कुलालाभ्याम्
[416] संख्यादिभिः
[417] शक्त्योर् भेदे ऽपि तदाधारस्यैक्याद् औपचारिकं सामानाधिकरण्यम् इत्य् आशङ्क्याह -- न च इत्यादि ॥
[418] द्रव्यरूपेण
[419] परिणामनित्यता
[420] -यं परिणामिनित्यता कूटस्थनित्यतावत् सम्भ- -- त्.
[421] द्रव्यकार्यकर्तृत्वात्
[422] थे ओर्देर् ओf थे तिब्. fओल्. स्होउल्द् बे 275, 277, 276 अन्द् 278 अच्चोर्दिन्ग् तो थे स्. म्स्स् .
[423] द्रव्यस्य
[424] शब्द-
[425] अवयविनि
[426] निमित्तानाम्
[427] एकत्र समवायायोगात्
[428] यथा भवति
[429] कार्यभेदस्यात्मभेदे प्रतिबन्ध इत्य् अपेक्ष्यते
[430] रूपादिपाश्चात्यक्षणानाम्
[431] रूपादिवत्
[432] प्रकृते दूषणान्तरम् आह
[433] एकस्यानेकक्रिया ऽनभ्युपगमे चेति पूर्वेण योगः
[434] प्रत्येकम् एकानेकक्रियाविरहः
[435] -कृतिप्रतिनिय- -- त्.
[436] इतर उपादानं यस्य
[437] नोत्पन्नः -- त्.
[438] स्वभावस्यैव भेदो वस्तुन इति चेद् आह
[439] द्रव्यपर्यायकार्यभेदः
[ सेच्तिओन्: 27. वैशेषिककृतो ऽप्य् एकस्यानेककार्यकारित्वाक्षेपो न युक्तः ।]
वैशेषिको ऽपि द्रव्यस्यैकस्य द्रव्यगुणकर्मणां समवायिकारणतां ब्रुवाणः कर्मणश् चैकस्य संयोगविभागसंस्कारनिमित्तताम्[440]एकस्यानेककार्यक्रियां प्रतिक्षिपन् स्वकृतान्तकोपेनैव प्रतिहतः । न चात्र शक्तिभेदो निबन्धनम्, यतस् तदेकोपकारनिरपेक्षाः कथम् एताः शक्तयो नियतार्थाधाराः?, न पुनर् अनवयवेन[441]व्यक्तीर् वा ऽश्नुवीरन्? । ततो यत[442]एवास्या[443]ऽऽत्मातिशायाद् अनेकशक्त्युपकार {प्.103.1} तत एवानेककार्यक्रिया ऽपि, इत्य् अलम् अतिविस्तारिण्या कथयेति ।
__________नोतेस्__________
[440] -गविशेषसं- -- त्.
[441] कार्त्स्न्येन
[442] एकस्या- -- त्.
[443] द्रव्यस्य
[ सेच्तिओन्: 28. देशकालस्वभावाभेदस्याभेदसाधकत्वनिरासः ।]
देशकालस्वभावाभेदाद् अभेदस् तु यो ऽभ्युपगम्यते सो ऽप्य् अनुपपन्न एव । तथा हि -- देशकालयोर् अभेदे ऽपि रूपरसगन्धस्पर्शाः पर्यायरूपेण भिद्यन्ते ततः[444]कथम् अभेदसिद्धिः? । स्वभावो ऽपि यदि द्रव्यपर्याययोर् द्वयोर् अपि प्रत्येकम् अनुवृत्तिव्यावृत्तिरूपता; तदा पदार्थद्वयं [त्. 276ब्.] [स्. 104ब्.] स्याद् घटपटवद्, न त्व् एकं द्विरूपम् इति कथन् तस्माद् अभेदसिद्धिः? । न चानुवृत्तिव्यावृत्ती स्वभावो युक्तः, तयोर् अनुवर्त्तमानव्यावर्त्तमानाधीनत्वात् । ततश् चानुवर्त्तमानव्यावर्त्तमानयोः स्वभावो ऽन्यो वक्तव्यः, न तु तयोर् अनुवृत्तिव्यावृत्ती एव स्वभावः, भावत्वेन[445]भवित्रधीनत्वात् । न हि स्मृतिः स्मर्त्तुः स्वभावो भवति । अनुवृत्तिव्यावृत्त्योश् च स्वभावत्वे[446]लक्षणात् स्वभावस्य भेदो वक्तव्यः । मृदादिरूपता स्वभाव इति चेत् । अत्राप्य् अभेद इति यदि सादृश्यम् उच्यते; तद् भेद एव सम्भवति, सादृश्यस्य सदृशाधिकरणत्वात् । ततश् च पदार्थद्वयम्
एव स्यात् न त्व् एकं द्विरूपम् इति । अथैक्यं द्वितीयरूपरहितता ऽभेदो ऽङ्गीक्रियते कथं तर्हि द्विरूपता? । रूपशब्देन ह्य् अत्र स्वभावो ऽभिधीयते । तस्य चैक्ये कथं द्विरूपता? । विप्रतिषिद्धं ह्य् एतत् एकस्वभावता द्विरूपता चेति । अथ पुनः स्वभावत ऐक्यं नोपेयते । कथं तर्हि स एक इत्य् उच्यते अनेकः सन्? । न तावद् एककारणजन्यत्वात्, सर्वत्रोपादाननिमित्तकारणभेदेन हेतुभेदसिद्धेः । नाप्य् एककार्यकर्तृत्वात्, एकस्यापि विभक्तपरिणामाविभक्तपरिणामकार्यभेदा ऽभ्युपगमात् । एकाभिधानाभिधेयत्वाद् अपि नैकत्वम्, एकस्याप्य् अनेकपर्यायसम्भवात् । योग्यत्वाच् च विश्वस्य कृताकृतानाम्[447]एकाभिधानाभिधेयत्वस्य क्वचिद् असम्भवात् शक्तिभेदाच् च विषयभेदं ब्रुवाणं [स्. 105अ.] प्रति अभिहितम्[448]। नाप्य् एकविज्ञानविषयत्वाद् एकम्, एकत्राप्य् अनेकविज्ञानप्रसूतेः । तथा हि -- शशाङ्कोदयं[449]बहवो निरीक्षन्ते [त्. 278अ.] तस्य कथम् {प्. 104.1} एकत्वम् अभ्युपगतम्? । बहूनां चैकविज्ञानविषयत्वसम्भवात्
नीलपीतादीनाम् एकताप्रसङ्गः । सर्वथेदं न कथञ्चिद् अपि सङ्गच्छते यदुत एकस्य द्वैरूप्यम् इति । विज्ञानं तु नीलप्रतिच्छायतयोत्पद्यमानं पीतादिप्रतिभासव्यवच्छेदेन प्रतिविशिष्टम् ख्याप्यते, न पुनर् अस्य भावतो[450]द्वे रूपे स्तः ।
अथ पुनर् द्रव्यपर्याययोः सम्मूर्च्छितत्वात् नरसिंहवद् एकं शबलरूपत्वात् द्विरूपम् उच्यते । तद् अयुक्तम्, नरसिंघ[ह]स्य शबलरूपत्वासिद्धेः । स ह्य् अनेकपरमाणुसङ्घातरूपः, ते च परमाणवः प्रत्येकं नरसिंहरूपा न भवन्ति, ऊर्ध्वभागस् तस्य सिंहरूपः, अघोभागस् तु नररूपः, जात्यन्तरं च स एव नरसिंहाभ्यां स्यात्, न शबलरूपः । विचित्रं हि रूपं शबलम् उच्यते । [स्. 105ब्.]
विचित्रता च नानास्वभावता । नानास्वाभाव्ये चैकत्वं कुतः? इति केवलम् अनेकत्वे ऽपि बहुष्व् एककार्यदर्शनात् सेनादिवद्[451]एकव्यवहारदर्शनकृतो ऽयं विपर्यासो जडमतीनाम् ।
तद् एवं तावत् प्रत्येकम् अहेतुत्वं देशकालस्वभावानाम् एकत्वप्रसाधने । समुदितानाम् अपि व्यभिचारित्वं पर्यायैः । तथा हि -- पर्याया अभिन्नदेशकालस्वभावाश् च पर्यायरूपेण च भिद्यन्ते पूर्वोक्ताच् च धर्मधर्मिणोर् निषेधान्[452]नोभयवादसम्भव इति ।
__________नोतेस्__________
[444] देशकालाभेदात्
[445] क्रियात्वेन
[446] -त्वेन ल- -- त्.
[447] संकेतितासंकेतितानाम्
[448] संज्ञाभेदाद् भेद इत्य् अस्य दूषणावसरे
[449] शशाङ्कादयः -- त्.
[450] भवतो -- त्.
[451] सेनावनादि- -- त्.
[452] स्वभावहेतुव्याख्यायाम्
[ सेच्तिओन्: 29. द्रव्यपर्यायानेकान्तवादखण्डनम् ।]
आह च -
द्रव्यपर्यायरूपत्वात् द्वैरूप्यंवस्तुनःकिल ।
तयोर् एकात्मकत्वे ऽपि भेदःसंज्ञादिभेदतः॥ 1 ॥
इन्द्रियज्ञाननिर्भासि वस्तुरूपंहि गोचरः।
शब्दानांनैव, तत् केन संज्ञाभेदाद् विभिन्नता॥ 2 ॥
`परमार्थैकतानत्वऽ [453] [त्. 278ब्.] इत्यादिवचनात् तथा।
शब्देनाव्यापृताक्षस्य बुद्धाव् [454] अप्रतिभासनात् ॥ 3 ॥
अर्थस्य, दृष्टाव् इव तच्छब्दाःकल्पितगोचराः।
कल्पितस्यैव तद्भेदः [455] संज्ञाभेदाद् भवेद् यदि ॥ 4 ॥
{प्.104.1} व्यावृत्तिभेदःकाश्चित् [456] स्याद्, वस्तुनो न कथंचन [स्. 106अ.] ।
संख्याभेदो ऽपि नैवान्यो मतो वचनभेदतः॥ 5 ॥
ततो [457] ऽपि कल्पितस्यैव कथञ्चित् स्याद् विभिन्नता।
`येषां [458] वस्तुवशावाचऽ [प्व् 3.64] इत्यादेर् न तु वस्तुनः [459]
॥ 6 ॥
भेद एव विशीर्येत तदेकाव्यतिरकतः॥ 19 ॥
{प्. 106.1} अभेदस्यापरित्यागे [466] भेदःस्यात् कल्पनाकृतः।
तस्या [467] ऽवितथभावे वास्याद् अभेदे मृषार्थता॥ 20 ॥
अन्योन्याभावरूपाणाम् अपराभावहेतुकः।
एकभावो यतस् तस्मान् नैकस्य स्याद् द्विरूपता॥ 21 ॥
तस्य भेदो ऽपि ताभ्यांचेद् यदि येनात्मनाच ते ।
धर्मीधर्मस् तदन्यश्च यदि भेदस् तदात्मना॥ 43 ॥
भेद एवाथ तत्रापि तेभ्यो ऽन्यःपरिकल्प्यते ।
तेषाम् अभेदसिद्ध्यर्थंप्रसङ्गःपूर्ववद् भवेत् ॥ 44 ॥
धर्मित्वंतस्य चैवंस्यात् तत्तन्त्रत्वात् तदन्ययोः।
अत्रवैशेषिकमतम् आशङ्क्याह -- अन्यद् एव इत्यादि । संस्थानं ह्य् अवयवसन्निवेश उच्यते । स च संयोगलक्षणत्वाद् गुणरूपः । ततो मृद्द्रव्याद् अस्यान्यत्वं [स्. 108अ.] 1 द्रव्यगुणयोर् असंकीर्णस्वभावत्वात्[473]। तेन यदि मृत्पिण्डस्य मृदात्मतायां व्यापारः कुलालस्य तत्संस्थानविशेषे कथ्यते, तदा तयोर् अत्यन्तभेदात् कारणानेकत्वात् कार्यानेकत्वं प्राप्तम् इति । सिद्धान्तवाद्य् आह -- उक्तम् अत्र इति । मृत्संस्थानयोः स्वभावभेदे दूषणम् उक्तम् {प्. 108.1} मृत्संस्थानयोर् अपरस्परात्मतया इत्यादिकम् इति न संस्थानस्य मृद्द्रव्याद् अन्यत्वम् । ततो मृत्पिण्डोपादानाहितातिशयेन तत्कार्यक्षणसहकारिणा कुलालेन तदुपादानोपकृतात्मना तत्कार्यक्षणसहकारिणा मृत्पिण्डेन च प्रत्येकं सकलम् एव मृत्संस्थानात्मकं कार्यं क्रियत इति न कारणानेकत्वे ऽप्य् अनेकत्वम् अस्य । अत्रैवोपचयहेतुम् आह -- अपि च [त्. 280ब्.]
इत्यादि । यत् तद् घटगतं संस्थानं यदि तत मृदो भिन्नंस्यात् तदा कुलालः पृथग् एव किम् इति न करोति? । न हि भिन्नानाम् आवश्यकम् अपृथक्करणम्, कुलालश् चान्वयव्यतिरेकाभ्यां तस्य संस्थानस्य गुणात्मनः कारणतया गम्यत इति स पृथग् अपि तत् कार्यात् । पर आह -- {1} गुणस्येतिआदि । {2} द्रव्याश्रय्यऽगुणवान् संयोगविभागेष्व् अकारणम् अनपेक्ष [वैसू 1.1.16] इति गुणलक्षणात् सर्वदा [स्. 108ब्.] गुणो द्रव्यप्रतन्त्रः, स कथं कदाचित् पृथक् क्रियेत? ।वैशेषिक एवबौद्धीयंचोद्यम् आशङ्क्याह -- तत्संस्थान इत्यादि । यदि स्वभावेनैव तस्य गुणात्मनः संस्थानस्य क्रियावद् गुणवद् [वैसू 1.1.15] इत्यादिवचनाद् आधारस्वभावं तत् मृद्द्रव्यं, संस्थानं वा तथाविधं कपालाधेयात्मकं तदा किम् इति कुलालव्यापारम् अपेक्षते? । स्वत एव किं न भवति? इति चोदकाभिप्रयः ।
एवं चोद्यम् आशङ्क्यवैशेषिकःपरिहारम् आह -- न, ततः इत्यादि । यत् तत् मृद्द्रव्यं पृथुवुध्नोदराद्याकारं च संस्थानं तयोर् यः सम्बन्ध आधाराधेयलक्षणः तत्र या योग्यता तां द्वयम् अप्य् एतत् कुलालाद् यतः प्रतिलभते तस्मात् कुलालम् अपेक्षते कुलालानपेक्षायां दोषम् आह -- अन्यथा यदि तयोः परस्परसम्बन्धयोग्यतायां कुलालापेक्षा न स्यात् तदा स्वभावत एव मृत्पिण्डस्य [त्. 281अ.] तथाविधसंस्थानसम्बन्धयोग्यत्वं भवेत् । तस्मिंश् च सति वस्तुन एव तत्संस्थानसम्बन्धयोग्यतालक्षणा धर्मता ऽस्तीति कुलालसन्निधेः प्राग् अपि संस्थानविशेषेण सम्बन्धः स्याद् इतिवैशेषिकीयश्चोद्यपरिहारः ।
__________नोतेस्__________
[473] द्रव्यसंस्थानयोर् यथाकार्यस्वभावत्वात् -- त्.
{प्. 109.1}[ सेच्तिओन्: 31. द्रव्यगुणयोर् अभेदस्योपपादनम् ।]
सिद्धान्तवाद्य् आह -- एवम् इत्यादि । यदि [स्. 109अ.] परस्परसम्बन्धयोग्यतायां कुलालम् अपेक्षते एवं तर्हि सायोग्यतामृद्द्रव्यस्य कुलालाद् भवति इति [474]आपन्नम् । न च अनयोः मृद्द्रव्ययोग्यतयोः स्वभावस्य भेदः नानात्वम् । यदि हि स्यात् तदा योग्यतायाः द्रव्यात् पृथक्करणं प्राग्वत् प्रसज्येत । अथ योग्यताया अपि योग्यपारतन्त्र्याद् अपृथक्सिद्धिं ब्रूयात् तदा तस्या अपि वस्तुधर्मतयैव प्राग् अपि समावेशो मा भूद् इति द्रव्येण सह सम्बन्धयोग्यताया अन्या योग्यता कुलालाद् भवतीत्य् एष्टव्या । सा ऽपि पृथक्करणप्रसङ्गा[त्] द्रव्याद् भिन्नस्वभावा नोपगन्तव्या । पृथक्करणप्रसङ्गे वा पुनः स एव परिहारः तदीयः, पुनस् तद् एवोत्तरम्, इत्य् अनवस्थाप्रसङ्गाद् अवश्यम् अभिन्नस्वभावता कपालात्मममृद्द्रव्ययोग्यतयोर् अभ्युपगन्तव्या । किम् एवं सति सिद्धं भवति? इत्य् अत आह -- अस्ति तावत् इत्यादि । मृत्पिण्डकुलालाभ्यां
कपालद्रव्यस्य [स्. 109ब्.] संयोगविशेषसम्बन्धयोग्यस्यारम्भात् यदैकस्वभावत्वे ऽप्य् एकस्यानेकप्रत्ययोपाधेयविशेषता तदा सिद्धः आस्माकीनः पक्षः । ततश् च किम् अस्माकं मृत्संस्थानयोर् एकस्वभावत्वसाधनाय अतिनिर्ब्बन्धनेन? । [त्. 281ब्.] यदि योग्यताम् अप्य् आश्रित्यानेकप्रत्ययजन्यत्वे ऽप्य् एकत्वात् नानात्वप्रसङ्गाभावः सिध्यति कार्यस्य, न किञ्चिद् द्रव्यगुणवादनिराकरणेनेह प्रयोजनम्, अन्यत्रैव तन्निराकरणस्य कृतत्वाद् इत्य् अभिप्रायः । निर्बन्धग्रहणेन च मृत्संस्थानयोर् अपरस्परात्मतया संस्थानमृत्स्वभावविशेषाभ्यां तयोर् अप्रतिभासनप्रसङ्गात् इत्य् अनयोपपत्त्या साधितम् एवानयोर् एकत्वम्, युक्त्यन्तराणां सम्भवे ऽपि तदभिधानलक्षणो निर्ब्बन्धो न क्रियते, प्रकृतसिद्धेर् अन्यथा ऽपि भावाद् इत्य् आचष्टे ।
__________नोतेस्__________
[474] इत्य् उपपन्नम् -- त्.
[ सेच्तिओन्: 32. सामग्रीभेदे कार्यभेदस्य कारणभेदे ऽपि च कार्यस्यैक्यस्योपसंहारः ।]
तद् एवं सामग्रीभेदात् [स्. 110अ.] सामग्र्यन्तरजन्येभ्यो भेदः सहकारिणाम् अनेकत्वे ऽपि च कार्यस्यैकत्वम् अविरुद्धम् इति प्रतिपाद्य {प्. 110.1} उपसंहरन्न् आह -- तेन सहकारिणः इत्यादि । येन -- प्रत्ययान्तरप्रचये तद्विकलसामग्र्याः सामग्र्यन्तरं सम्पद्यते, तच् च पूर्वसामग्रीजन्याद् भिन्नं कार्यान्तरम् एव जनयति; एकसामग्रीव्यपदेशविषयाणां च सह-कारिणाम् अनेकत्वे ऽप्य् अनेकस्यैकक्रियाविरोधाभावात् तदन्वयव्यतिरेकानुविधायिनश् च कार्यस्यैकस्य दर्शनात् स्वभावत एकत्वं साधितम् -- तेन कारणेन सहकरणशीला एकसामग्र्यन्तर्ग्गताः प्रत्ययाः सामग्र्य्-अन्तरैः सह नैकोपयोगविषयाः एक उपयोगस्य विषयो येषां ते न भवन्ति, सामग्र्यन्तरैर् एव सह भिन्नोपयोगाविषयत्वस्य न्यायबलात् प्रतीतेः । अनेन यत् प्राग् विकल्पितं `यदि कारणशब्देन सामग्री भण्यते तदा तद्भेदाद् अस्त्य् एवातत्सामग्रीजन्येभ्यः कार्यस्य भेद इति किम् उच्यते
-- न कारणभेदाद् भेदः [त्. 282अ.] स्यात्ऽ इति एतद् 1 उदाहरणोपदर्शितं निगमितम्[475]। अथ कारणशब्देन सामग्रीव्यपदेशविषयाः सहकारिण उच्यन्ते तदा तद्भेदाद् अनेकत्वलक्षणात् कार्यस्यानेकत्वलक्षणो भेदो नेष्यत एव, अनेकस्यैकक्रियाविरोधाभावात्, एकस्यानेकत उत्पत्तिदर्शनाच् चेति मृत्संस्थानयोर् एकात्मकतोपदर्शितं [स्. 110ब्.] निगमयति -- `कार्यस्वभावस्यऽ मृत्संथानात्मन `एकत्वे ऽपिऽ नानात्वाभावे ऽपि `वस्तुतःऽ परमार्थतः कल्पनाबुद्धौ मृत्संस्थानयोर् भिन्नयोर् इव प्रतिभासने ऽपीति ।
एवम् उदाहरणे सामग्रीभेदात् कार्याणां भेदो नैकसामग्रीविषयप्रत्ययभेदाद् अनेकत्वं कार्यस्येति प्रतिपाद्य प्रकृते चक्षुरादौ योजयन्न् आह -- यथाइहो दाहरणे कारणभेदः सामग्रीभेदः कुलालविकलमृत्पिण्डतत्सहितसूत्राधिकसामग्रीत्रितयलक्षणो `भिन्नेषुऽ नानास्वभावेषु `विशेषेषुऽ[476]इष्टकादिचक्राविभक्तघट तद्विभक्तघटलक्षणेषूपयोगा न् नैककार्यः किन्तु भिन्नकार्य एव, तथा तेनैव प्रकारेण चक्षुरादिभ्यो विज्ञानस्योत्पत्तौ सामग्र्यन्तरात् सामग्रीलक्षणकारणभेदो ऽनेककार्य इत्य् उन्नेयः ।
{प्.111.1} एतद् एव विभजन्न् आह -- तथाहि इत्यादि । या चक्षूर् उपरहिता समनन्तरप्रत्ययाख्यविज्ञानलक्षणा प्रत्ययान्तरसापेक्षा सामग्री, ततो विज्ञानस्य [त्. 282ब्.] विकल्पकस्येतरस्य वा तदुपादेयत्वेन या बोधरूपतोपलब्धा सा चक्षुर्विज्ञानस्यापि भवति । तस्यैव चक्षुर्विज्ञानस्य । किदृशस्य? । उपलम्भात्मनःसतो भवतः जायमानस्य तदैव तदेककार्यप्रतिनियतस्य चक्षुरिन्द्रियस्य सन्निधानात् [स्. 111अ.] समनन्तरप्रत्ययोपादानोपकृतात् ततो रूपग्रहणप्रतिनियमो रूपाकारताप्रतिनियमः, शब्दाद्याकारविवेकवत एवं(व)[477]कार्यस्य चक्षुःसहितसमनन्तरप्रत्ययसामग्र्याः जनकत्वाद् । विषयाद् विषयाधिकात्[478]समनन्तरप्रत्ययाद् इन्द्रियाच् च तेन विषयेण तुल्यरूपता न केवलैव रूपप्रतिभासिता भ्रान्तविज्ञानस्येवेति विषयेन्द्रियमनस्कारलक्षणसामग्रीकार्यम् एवं प्रदर्शितम् । तद् अन्यद् एकद्वयजन्यं तु कार्यं
स्वयम् अभ्यूह्यम् । अत्राभिन्नत्वे ऽपि वस्तुतः कार्यस्य चक्षुर्विज्ञानलक्षणस्य कारणानां विषयेन्द्रियमनस्काराणां भिन्नेभ्यः स्वभावेभ्यः केवलानाम् एषां यः स्वभावस् ततो भिन्ना एवातज्जन्येभ्यो[479]विधिशे(-न्येभ्यो ऽपि विशे)षा बोधरूपतादिलक्षना भवन्ति । अतज्जन्यापेक्षया[480]चैकात्मका अपि बहुत्वेन निर्दिष्टाः । यत एवम् इति तस्मात् न कारणभेदे ऽपि । [स्. 111ब्.] यथैकसामग्र्यन्तर्ग्गतप्रत्ययभेदे ऽप्य् अभेदो नैवं सामग्रीलक्षणकारणभेदे ऽप्य् अभेदः सामग्र्यन्तरस्जन्येभ्यः कार्यविशेषस्य विशिष्टस्य कार्यस्येति ।
तेन यदुच्यते -- [त्. 283अ.] `यदि सहकारिणां भेदे ऽप्य् अभिन्नं कार्यं भवति सामग्रीभेदे ऽप्य् अभिन्नम् अस्तु, अथ सामग्रीभेदाद् भिन्नं भवति सहकारिभेदाद् अपि किम् इति भिन्नं न भवति विशेषाभावात्?ऽ इति तदपास्तं भवति । तथा हि परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् एककार्योद्देशेनेतरेतरसन्तानोपकाराच् च सहकारिणां प्रतिनियतशक्तीनाम् उदयाद् एकं 7 कार्यं समाजायते[481]। {प्. 112.1} सामग्र्यन्तरस्य तु कार्यान्तरप्रभवशक्तिनिबन्धनेभ्यो हेत्वन्तरेभ्यः स्वभावभेदवतो भावाद् भिन्नकार्यप्रसूतिर् इति कुतो विशेषाभावः? ।
__________नोतेस्__________
[475] -णोपदर्शनात् निग- -- त्.
[476] विषयेषु -- त्.
[477] एव -- त्.
[478] -धिकारात् -- त्.
[479] एव तज्ज- -- त्.
[480] अतो जनकापेक्षया -- त्.
[481] कार्यं न जायते -- त्.
[ सेच्तिओन्: 33. जनकत्वम् एवाधारत्वं न तु स्थापकत्वम् ।]
ननु च सर्वं कार्यं साधारं[482]यथा उपादायरूपम् । तद् धि भूतेभ्यो 2 जायमानं तान्य् एवाश्रयत[483]इति भवद्भिर् इष्यते । तथा ऽन्यद् अपि विज्ञानादिकं कार्यम् । अतो ऽनेनापि किञ्चित् कारणम् आश्रयणीयम् । तस्य च कारणस्य पूर्वं जनकत्वं पश्चात् [स्. 112अ.] कार्यं प्रत्याधारभाव एव, न जननम्, ततस् तत्स्वभावस्य जननाद् इत्य् अनेकान्तः तदवस्थ एवेत्य् अत आह -- त एवैते ये ऽनन्तरम् उक्ताः कारणशक्तिभेदाः कारणानां शक्तिविशेषाः । कीदृशाः? यथास्वं येषां कारणशक्तिभेदानां सहकारिलक्षणानां यदात्मीयं सामग्र्यन्तरजन्यात् प्रतिविशिष्टं कार्यं तस्य जनने ऽव्यवधेया व्यवधातुं [त्. 283ब्.] प्रतिबन्धुम् अशक्या शक्तिर् येषां तद्भावस्[484]तया अव्यवधेयशक्तितया अवश्यं कार्यकारिशक्तितया प्रत्युपस्थिताः उद्युक्ताः सन्तः सामग्रीकार्यस्य एकप्रत्ययजनितस्य 4 कस्यचिद्
अभावात्[485]सर्वं सामग्र्या एव कार्यम् इति कृत्वा सामग्रीकार्यस्य स्वभावस्थित्याश्रय इत्य् उच्यन्ते । कस्मात् पुनर् अव्यवधेयशक्तिता? क्षणिकत्वात् । न हि क्षणिकस्य शक्तिः प्रतिबन्धुं शक्यते, 5 स्वभावान्तरोत्पादने यावत्[486]प्रतिबन्धको व्याप्रियते तावत् क्षणिकस्य स्वकार्यं कृत्वैव निरोधात् ।
कथं पुनर् असमानकालं कारणम् आधारो युज्यते?, इत्य् अत आह -- तथाहि इत्यादि । यस्मात् तत् विज्ञानलक्षणं कार्यं तेभ्यः चक्षुरादिभ्यः समस्तभ्यो बोधरूपतया तदन्यस्मात् तदजन्यात् [स्. 112ब्.] प्रतिविशिष्टस्वभावम् एकं खण्डशः कार्यस्यानुत्पादाद् एकैकस्मात् सकलस्यैव भावाद् एकं जातम्, तस्मात् ते आधारा उच्यन्ते । न हि जनकाद् अन्य एवोपकारकः । न चानुपकारक {प्. 113.1} आधारः, अतिप्रसङ्गात् । ततो भिन्नकालस्याधारभावो न विरुध्यते । यद् अपि भूतानाम् उपादायरूपं प्रत्याश्रयत्वम्[487]उच्यते तद् अपि स्वदेशस्यास्य जनकत्वम् एवेति न किञ्चित् प्राग् जनकं भूत्वा पश्चात् 7 स्थापकताम् उपैति[488], यतो ऽनेकान्तः स्याद् इति ।
__________नोतेस्__________
[482] साधनाधारम् -- त्.
[483] -मानम् अन्यम् एवाश्रयते -- त्.
[484] स्वभावस् -- त्.
[485] क्वचिद् अप्य् अभावात् -- त्.
[486] -न्तरम् आश्रित्य या- -- त्.
[487] प्रवृत्तित्वं -- त्.
[488] स्थापनाहेतुर् भवति -- त्.
[ सेच्तिओन्: 34. अतिशयोत्पादनं न सहकारित्वं किन्तु एकार्थकारित्वम् ।]
पुनर् अन्यथा तत्स्वभावस्य जननाद् इत्य् अनेकान्तोद्भावनं परस्याशङ्क्याह -- अप्रतिरोधशक्तिकेषु अविद्यमानः प्रतिरोधः -- प्रतिबन्धो यस्याः शक्तेः सा येषाम् [त्. 284अ.] अप्रतिरोधशक्तिकत्वं चानन्तरकार्यत्वात् । ये ह्य् उत्पन्नाः कालक्षेपेण कार्यं कुर्वन्ति तेषां स्याद् अपि शक्तिप्रतिबन्धो, न तु य उदयानन्तरम् एव कार्यं कुर्वन्ति । अनेन क्षणक्षयिणाम् उपघातकाभावम् आह । अनुग्राहकविरहम् अप्य् आह -- अनाधेयविशेषेषु । तच् चानाधेयविशेषत्वं क्षणिकेषु इत्य् अनेनाह । न हि क्षणिकानां विशेष आधातुं शक्यते, विशेषाधायकेन तत्सहभाविना तदनन्तरं तदुत्पादनात् । तदा [स्. 113अ.] च तस्य निरोधात् । तेष्व् एवंविधेषु प्रत्ययेषु परस्परंकःसहकारार्थः येन सहकारिण उच्यन्ते? । नन्व् अनाधेयविशेषत्वेनैव सहकारित्वाभावः प्रतिपादित इति किम् अर्थम् इदम् अप्रतिरोधशक्तिकेष्व् इति? । न हि शक्तिप्रतिरोधकः
सहकारी भण्यते । सत्यम् । सर्वथा तु तत्राकिञ्चित्करत्वज्ञापनार्थम् एतद् उक्तम् । शक्तिप्रतिबन्धकापनयनेन चोपकारित्वकल्पनां सहकारिणां निरस्यति । तस्माद् अतिशयाधायिनः सहकारिणो ऽसम्भवात् क्षणिकानां स्वहेतुमात्रप्रतिबद्धम् एव जनकत्वम् । तच् चैवं विधं सर्वदा ऽस्ति । न च केवला जनयन्तीति तत्स्वभावस्य जननाद् इत्य् अनेकान्त एवेति मन्यते ।
एतत् परिहरति -- न वै नैव अतिशयोत्पादनं[489]सहक्रिया यतस् तदभावात् सहकारिणो न स्युः । क्व पुनर् अतिशयोत्पादनं 1 सहक्रिया प्रतिययानां न भवति? । सर्वत्र । न हि क्वचिद् अपि सहभाविनाम् अतिशयोत्पादनलक्षणा[490][त्. 284ब्.] सहक्रिया {प्. 114.1} सम्भवति । का तर्हि सहक्रिया? इत्य् आह -- एकार्थकरणम् एककार्यनिष्पादनं यद् {1} बहूनाम् । {2} अपि सम्भावनायाम् । [स्. 113ब्.] न्यायबलाद् एवंविधाम् एव सर्वत्र सहक्रियां सम्भावयामः, नान्याम् इति । अत्रोदाहरणम् -- यथाअन्त्यस्य अनन्तराङ्कुरादिकार्यस्य कारणकलापस्य प्रत्ययसामग्र्या इति ।
__________नोतेस्__________
[489] -योपादानम् -- त्.
[490] -योपादान- -- त्.
[ सेच्तिओन्: 35. एककार्यकारित्वम् एव मुख्यं सहकारित्वम् इतरत् तु गौणम् ।]
स्याद् एतत् -- औपचारिकम् एतत् सहकारित्वम्, अतिशयोत्पादनम् एव तु मुख्यम् इत्य् अत आह -- तद् एव एककार्यकारणलक्षणं मुख्यंसहकारित्वम् नातिशयोत्पादनलक्षणम्, तस्यैव गौणत्वात् । एतच् चोत्तरत्र वक्ष्यते । कुत एतत्? इत्य् आह -- तस्यैव अन्यस्य विवक्षितकार्यं प्रति कारणत्वात् । कारणस्य च सहकारिव्यपदेशः नाकारणस्य । यतः सह -- युगपत् सर्वन्तः सहकारिण उच्यन्ते, अन्त्यश् च कारणकलाप एवंविध इति । यथा चान्त्यस्यैकार्थकारणं सहकारित्वम् एवं पूर्वस्यापि कारणकलापस्योत्तरोत्तरविशिष्टक्षणान्तरारम्भिण इत्य् अवसेयम्, अन्त्यस्योदाहरणतया निर्द्देशात् । तस्मात् सर्वं कार्यम् अङ्कुरादिकं विशेषलक्षणं वा ऽनेकप्रत्ययजन्यम् इति । सर्वत्रैकार्थक्रियैव चोपचीयमानापचीयमानकार्यकारिणः कारणकलापस्य सहकारित्वम्, न विशेषोत्पादनम् इति ।
स्याद् एतत् -- एकार्थकरणम् अपि तत्र [स्. 114अ.] सहकारित्वम् अस्तु अतिशयोत्पादनलक्षणम् अपीत्य् अत आह -- तत्र च क्षणे ऽन्त्ये विशेषस्य कर्त्तुम् अशक्यत्वात् नातिशयोत्पादनम् अपि सहकारित्वम् । कुतो विशेषस्य [त्. 285अ.] कर्त्तुम् अशक्यत्वम्? इत्य् अत आह -- एकस्य अनंशस्य स्वभावस्याविवेकात् । न हि तत्र `अयम् अनाहितातिशयो भागः स्वहेतुभ्यो जातः, अयं तु सहकारिभिर् आहितातिशयःऽ इति विवेको ऽस्ति । यदि नामाविवेकः, विशेषस् तु किम् इति न क्रियते? इत्य् अत आह -- स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः , निर्भागे च कुतः स्वभावान्तरस्य व्यवस्था? ।
स्यान्मतम् -- भिन्नस्वभाव एवान्त्यस्य विशेषो ऽस्तु इत्य् अत आह -- भावान्तर- इत्यादि । यदि भावान्तरलक्षणो विशेषो {प्. 115.1} भवेत् तदा तस्यान्त्यत्वम् एव हीयेत । हीयेनां(हीयतां) को दोषः? इति चेत्; ततश्च अनन्त्यत्वात् न साक्षात् कारणंस्यात् । यत एवं तस्मान् न कारणस्य मुख्यस्य सहकारिभ्यः सकाशाद्[491] विशेषस्योत्पत्तिः इत्य् एकार्थक्रियैव सहकारित्वम् इति ।
नन्व् असत्यां सहकारिभ्यो विशेषोत्पत्तौ कार्यजनने सामर्थ्यम् एषां न युज्यत इत्य् अत [स्. 114ब्.] आह -- ते समर्थाह् इत्यादि । यदि हि ते स्वभावेनासमर्था उत्पद्येरन् तदैषां सहकारिभ्यः सामर्थ्योत्पत्तिर् अभ्युपगम्येत । यावता ते ऽन्त्याःस्वभावेनैव समर्थाःप्रत्ययाःसहिताजायन्ते 2 क्षणमात्रविलम्बिनो । येषा म्[492]एकक्षणनियतत्वात् ततः प्राक् पश्चात् पृथक् त्व् अभावो नास्ति । येभ्यश्चानन्तरम् एव कार्यम् उत्पद्यते न कालान्तरेण तत्र तेष्व् एवंविधेषु एकार्थक्रियैव सहकारित्वम् नातिशयोत्पादनलक्षणम् ।
स्वभावतः सामर्थ्यस्य [त्. 285ब्.] भावविरोधात्, परस्परतश् चानभ्युपगमात् समर्थस्य जन्मैवायुक्तम् इति मन्वानः परः आह -- समर्थःकुतः इत्यादि । सिद्धान्तवाद्य् आह -- स्वकारणेभ्यः इति । परमतापेक्षया तु स्वभावत इत्य् उक्तम् । परो 3 ह्य् अत्यन्तस्य (ह्य् उत्पन्नस्य)[493]कारणस्य सहकारिभ्यः सामर्थ्यम् इच्छतीति तन्निषेधपरं[494]स्वभावत इति वचनम् । न तु स्वभावतः किञ्चिज् जायते, तस्याहेतुकत्वप्रसङ्गात् ।
__________नोतेस्__________
[491] साक्षाद् -- त्.
[492] -लम्बिनो जन्मनस् तेषां -- त्.
[493] ह्य् उत्पाद[क]स्य -- त्.
[494] तन्निषेधाय परं -- त्.
[ सेच्तिओन्: 36. क्षणिकेष्व् एकार्थक्रियानियमस्य यवस्थापनम् ।]
एकार्थक्रियानियम एव क्षणिकानाम् अयुक्तः, केवलानाम् अप्य् अंत्यक्षणसरूपाणां दर्शनात् । तथा हि -- `इदम् एवंरूपं नैवं चऽ इति दर्शनादर्शनाभ्यां [स्. 115अ.] विभज्यते । तत्र यादृशाः क्षित्यादयस् तदन्यप्रत्ययसन्निधाव् उपलभ्यन्ते तादृशा एव केवला अपि । ततस् तदन्यसहिता इव केवला अपि समर्थम् अङ्कुरजनने स्वं स्वं क्षणान्तरम् आरभेरन् । ततः केवलस्याप्य् अङ्कुरादिजननस्वाभाव्याद् अजननाच् च `तत्स्वभावस्य जननात्ऽ इत्य् अनेकान्त एवेति मन्यमानः पर {प्. 116.1} आह -- तानि स्वकारणानि क्षितिबीजादीनि एनं समर्थम् अपरस्य अन्यस्य प्रत्ययस्य सन्निधान एव किं कस्मात् अनयन्ति ? न केवलानि?, सहितानाम् एव सर्वदा सम्भवात् इति चेत् आह -- कदाचित् कस्मिंश्चित् काले अन्यथाऽपि केवला अपि स्युः भवेयुः । तथा हि -- दृश्यन्त एवाध्यातिकबाह्याः क्वचित् कार्ये यादृशा यत्सहिताः तादृशा एव तद्रहिता
अपीति । [त्. 286अ.] जनयन् तु केवला अपि सम्भवन्तः समर्थम्, को दोषः? इति चेद् आह -- ततश्च केवलानाम् अपि समर्थजनकानां सम्भवात् एको ऽपि न केवलम् अनेकः क्वचि द् देशादौ [स्. 115ब्.] समर्थः उत्पन्नः क्षितिबीजादिर् अङ्कुरादिकार्यं जनयेत् यदि तत्स्वभावस्यावश्यं जनकत्वम् । न च केवलो जनयति तत्स्वभावसम्भवे ऽपि ततो ऽनेकान्त इति परः ।
एतत् परिहरन्न् आह -- अपरापर - इत्यादि । अपरैश् चापरैश् च कुशूल तदपनेतृपुरुषप्रयत्नपिटकादिप्रक्षेपक्षेत्रनयनप्रकिरणादिभिः प्रत्ययै र् यो योगः तेन कारणेन प्रतिक्षणंभिन्नशक्तयो न कदाचित् पूर्वापरकालभाविन एकशक्तयः 5 अपरापरप्रत्यययोगलक्षणहेतुभेदे ऽप्य् अभिन्नशक्तितायाम्[495]अहेतुकत्वप्रसङ्गात् । अन्यत्रापि च शालियवबीजादौ शक्तिभेदस्य हेतुभेदनिबन्धनत्वात् ।
संस्काराः समेत्य सम्भूय च प्रत्ययैः क्रियमाणाः सन्तन्वन्तः सन्तानेन भवन्तो यद्य् अपि कुतश्चित् साम्याद् वर्णेन संस्थानेन अन्येन वा केनचित्प्रकारेण सादृश्याद् एकाकारपरामर्शप्रत्ययजननलक्षणात् समानं रूपम् एषाम् इति सरूपाः सदृशाः प्रतीयन्ते प्रत्यभिज्ञायन्ते तथापि कृत्रिमकृत्रिमाणां इव मणिमुक्तादीनाम् अपरापरप्रत्यययोगलक्षणसामग्रीभेदाद् भिन्न एव विसदृश एव न प्रत्यभिज्ञानवशाद् अभिन्नः तुल्यरूप एषां बीजादीनां स्वभावः [त्. 286ब्.] यत एवं तेन भिन्नस्वभावत्वेन भिन्नशक्तितया वा ऽपरापरसामग्रीजन्यत्वेन क्षणानां सिद्धया किञ्चिद् एव क्षितिबीजादिकं कस्यचि द् एव कार्यस्याङ्कुरादेस् {प्. 117.1} तज्जननसमर्थस्य वा कारणम् । न सर्वं सर्वस्य । तथा च व्यग्राणां क्षितिबीजादिनाम् अङ्कुरजननस्वभावता
समर्थक्षणजननस्वभावता वा नास्त्य् एवेति तत्स्वभावस्य जननाद् अजनकस्य चातत्स्वभावत्वाद् इत्य् अत्र नानेकान्तः यतो यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भवे हेत्वन्तरम् अपेक्षत इत्य् अत्रानेकान्तः स्याद् इति । प्रत्यभिज्ञानस्य च सरूपताविषयस्य सामग्रीभेदाद् अनुमितभिन्नशक्तिस्वभावत्वेन बाध्यमानतया प्रामाण्याभावात् न ततः सरूपतासिद्धिः क्षणक्षयिणाम् इति ।
पूर्वं च `अत एवान(एव त)योर् अवस्थयोर् वस्तुभेदो निश्चेयःऽ इत्य्[496]आदिना [स्. 116ब्.] एकत्वाविषयं प्रत्यभिज्ञानं निरस्तम् । अधुना तु तुल्यस्वभावताविषयम् इति भेदः । एतद् अपि तत्र `अपरापरोत्पत्तेःऽ इत्य्[497]अनेनोक्तम् एव । विपञ्चनार्थं[498]तु पुनः इह उपन्यस्तम् ।
__________नोतेस्__________
[495] -भेदेपि भिन्न- -- त्.
[496] प्. 84, 5
[497] प्. 88, 24
[498] विषयनिवेदनार्थम् -- त्.
[ सेच्तिओन्: 37. क्षणिकेषु हेतुफलभावव्यवस्थायाः कथनम् ।]
किञ्चिद् एव कस्यचित् कारणम् इत्य् उक्तम् तत्र किं कस्य कारणम् इति शक्यपरिच्छेदम् अप्य् आध्यात्मिकेषु तावद् दर्शयन्न् आह -- तत्र -- इत्यादि । तत्र तेषु प्रतिक्षणं शक्तिस्वभावेषु क्षणिकेषु भावेषु । व्यवधानं -- व्यवधीयते येन, तदादिर् येषां अतिदूरात्यासन्नत्वादीनां ते ऽविद्यमाना[499]यस्मिन् देशे सो ऽव्यवधानादिः देशो यस्य सो ऽव्यवधानादिदेशः, [त्. 287अ.] रूपम् इन्द्रियं चादी यस्य मनस्कारादेः 5 स रूपेन्द्रियादिः[500]स चासौ कारणकलापश् च सामग्रीलक्षणस् तथोक्तः, अव्यवधानादिदेशश् चासौ रूपेन्द्रियादिकारणकलापश् च स विज्ञानजनने समर्थो हेतुः नान्यः, तद्भाव एव तस्य भावात्, अन्यभावे ऽपि चाभावात्, एतन्मात्रनिबन्धनत्वाच् च समर्थासमर्थव्यवस्थायाः । यस् तेषा म् इन्द्रियादीनां परस्परोपसर्प्पणस्य अन्योन्यढौकनस्य । आदि ग्रहणाद् व्यवधानापनयना ............
[स्. 117अ.] ............................................................................................................... [स्. 117ब्.] ............................................................................................................... [सा]मग्र्यधीनत्वेनासंभवाद् इति ।
{प्. 118.1} इमम् एवंविधं [स्. 118अ.] हेतुफलभावप्रतिनियमं निरवद्यमाध्यात्मकेषु दर्शितम् [त्. 288अ.] अन्यत्राप्य् अतिदिशन्न् आह -- अनेन न्यायेन इत्यादि । यो ऽयम् अनन्तरं हेतुफलभावप्रतिनियमे न्याय उक्तः सो ऽअन्यत्रा ऽपि सर्वत्र द्रष्टव्यः । सर्वत्रेति वचनात् अक्षणिकेष्व् अपि प्रतीतिर् म्मा भूत् इत्य् आह -- प्रतिक्षणम् इत्यादि । याः क्षणे क्षणे ऽन्याश् चान्याश् च स्वभावभेदान्वयिन्यः शक्तयो भवन्ति तत्रायम् एकार्थक्रियाप्रतिनियमः सहकारिणां द्रष्टव्यः । न तु ये स्थिरैकस्वभावा भावाः परैः कल्प्यन्ते तेष्व् अपि । स्थैर्यं सन्तानाश्रयेणापि व्यपदिश्येतेत्य् एकग्रहणम् । क्षणे ऽप्य् एकत्वम् अस्तीति स्थिरग्रहणम् ।
__________नोतेस्__________
[499] अव्यवधीयमाना -- त्.
[500] सत्पे- -- त्.
[ सेच्तिओन्: 38. अक्षणिके एकार्थक्रियाकारित्वस्याभावः ।]
कस्मात् पुनः स्थिरैकस्वभावेषु नेष्यते? इत्य् आह -- स्वभाव - इत्यादि । कामं भावः स्वयं न भवेत् । न तु स्वत एव स्वभावस्यान्यथात्वं सम्भवति । ततश् च स्थिरः पदार्थो यदि कार्योत्पादनसमर्थस्वभावः ततो ऽस्याक्रिया नोपपद्यत इति सर्वदैव कुर्यात् । अथासमर्थस्वभावः, तदापि क्रिया ऽनुपपन्ना, सर्वदैव न कुर्याद् इति भावः । यत् तु कदाचित् करोति कदाचिन् न [स्. 118ब्.] इत्य् एतन् न लभ्यते । ततश् चाक्षणिकानां तत्कार्यक्रियासमर्थस्वभावत्वे सहितासहितावस्थयोर् एकरूपत्वात् केवलानाम् अपि तत्कार्यक्रियाप्रसङ्गेन कुत एकार्थक्रियाप्रतिनियमलक्षणं [त्. 288ब्.] सहकारित्वं सम्भवेत्? ।
अत्र पर आह -- अन्यसहितः इत्यादि । यद्य् अपि केवलस्याप्य् अक्षणिकस्य समर्थः स्वभावः तथापि अन्यसहितः करोति न केवलः । अयम् अपि ह्य् अस्य स्वभावः यद् -- `अन्यसहितेन स्वकार्यं कर्त्तव्यम् न समर्थस्वभावेनापि सता केवलेनऽ इति ।
सिद्धान्तवाद्य् आह -- किंकेवलस्य इत्यादि । अन्यसहितेनैव स्वकार्यं कर्त्तव्यं न केवलेन इत्य् एतत् केवलस्यासमर्थस्वभावत्वे युज्यते नान्यथेति मन्यमानस्य प्रश्नः । परस् त्व् अनवगताभिप्राय आह -- समर्थ इति । केवलस्याप्य् अक्षणिकस्य समर्थ एव {प्. 119.1} स्वभावः अन्यथा ऽस्याक्षणिकतैव हीयेतेति । सिद्धान्तवाद्य् आह -- किन् न करोति इति । न हि समर्थस्याक्रिया, सहितस्यावस्थायाम् इव युज्यत इति सहितस्यैव क्रियाम् इच्छता केवलस्यासमर्थस्वभावतैवोपगन्तव्या ।
अथ मतम् -- केवलस्य यदि शिरश् छिद्यते तथापि न करोतीत्य् अत आह -- अकुर्वन् इत्यादि । कार्यानुमेयं हि सामर्थ्यं न च केवलस्य कदाचिद् अपि कार्यक्रिया ऽस्तीति कथं सामर्थ्यं कल्प्यते? । नायं नियमः यत् समर्थस्वभावेनावश्यम् एव कार्यं कर्त्तव्यम्, अन्यथा ऽपि दर्शनात् इति मन्यमान [स्. 119अ.] आह परः -- कुविन्दादयः इत्यादि । सिद्धान्तवाद्यपसन्न् आह -- क्रीडनशीलः इत्यादि । देवानांप्रियः ऋजुः मूर्खो वा [त्. 289अ.] सुखसंवर्धितत्वात् रमणस्वभावः, क्रीडनं बालधर्मः, तत्साधर्म्येण प्रज्ञावैकल्यं दर्शयति, सुखैधितत्वेन शास्त्रेष्व् अनभियोगम् । यो ह्य् अनभियुक्तो दुर्वुद्धिश् च स कृतम् अपि वस्तु विस्मरणप्रकृतित्वात् पुनः पुनः कारयतीति पुनः प्रतिविधापयति । क्व पुनर् एतत् प्रतिविहितम्? इत्य् आह -- तथाहि -- इत्यादि । `बीजादिवद् अनेकान्तःऽ इत्य्[501]अनेन प्रस्तावेन निर्ल्लोठितम् एवैतत् ।
तद् एवम् अक्षणिकस्य समर्थस्वभावत्वे 2 सहितस्यैव कार्यक्रियास्वभावत्वविरोधात्[502]केवलस्याक्रिया[503]ऽनुपपन्नेति प्रतिपाद्योपसंहरन्न् आह -- तस्मात् तत्स्वभावस्य कार्यक्रियासमर्थस्य अन्यथात्वासम्भा(म्भ)वात् 4 कदाचिद् असमर्थत्वाभावात्[504] तद्धर्मणः कार्यक्रियाधर्मणः तथाभावः कार्यक्रिया अन्त्यावस्थावत् सहितावस्थायाम् इव अनिवार्यः ।{120}
__________नोतेस्__________
[501] प्. 83, 15
[502] -स्यैवैककार्य- -- त्.
[503] -स्य क्रिया- -- त्.
[504] -चिद् अप्य् असम्- -- त्.
[ सेच्तिओन्: 39. मीमांसकसंमतस्य भावस्वभावरूपसामर्थ्यस्य निरासः ।]
स्यान्मतम् -- केवलो ऽयम् अक्षणिको ऽसमर्थ एव । ततः केवलो न [स्. 119ब्.] करोति, सहितावस्थायां त्व् अस्य सामर्थ्यं सहकारिभ्यो जायते । ततः सहित एव करोतीत्य् अत आह -- अन्त्यावस्थायांसामर्थ्योत्पत्तौ कीदृशस्य प्राग् असमर्थस्य सतः तस्य सामर्थ्यस्य यस्य तदुपजायते तत्स्वभावत्वे मीमांसकादिभिर् {120} इष्यमाणे । न हि 5 तेषां समर्थ्यस्य सामर्थ्यस्य[505]च स्वभावभेदो ऽभिमतः । कथञ्चित् तद्भेदे ऽपि तत्स्वभावतयैव प्रतीयमानत्वाद् इति ते मन्यन्ते । अपूर्वोत्पत्तिर् एव सा [त्. 289ब्.] अपूर्वस्यैव वस्तुनः सा उत्पत्तिर् या तत्स्वभावस्य सामर्थ्यस्य । न ह्य् एकस्वभावत्वे सामर्थ्यम् एवापूर्वम् उपजातं न समर्थः इति युक्तम्, तयोः स्वभावभेदप्रसङ्गात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् ।
ननु प्रतीयमाने एव सामर्थ्यतद्वतोर् उत्पत्त्यनुपत्ती एकस्वभावता च कथं निह्नोतुं शक्यते? इति चेत् । न । अप्रमाणेन प्रतीतेः, अन्यथा प्रतीत्यनुसारिणा भवता द्विचन्द्रादयो ऽपि न निह्नोतव्याः । बाधकप्रमाणसम्भवात् ते ऽपह्नूयन्त इति चेत् । इहापि वस्तुन एकस्वभावस्योत्पत्त्यनुपत्ती परस्परविरुद्धे बाधिके किं नेष्येते? । व्यवस्थितस्यैव वज्रोपलादेर् द्धर्मिणः [स्. 120अ.] तत्स्वभावं सामर्थ्यम् उत्पन्नम् इति च पूर्वापरकालयोर् अप्रतिभासमानविवेकः कथं प्रतीयात्? ।
विज्ञानादिकार्यस्यानुत्पत्तियौगपद्योदयप्रसङ्गात् चक्षुरादिसान्निध्ये प्राग् असत् तत् सामर्थ्यम् उत्पन्नं क्रमवच् चेति निश्चय इति चेत् । यद्य् एवम् एकाकारतया पूर्वापरकालयोर् अधि(वि)कृतं प्रत्यभिज्ञानम् उपजायमानम् अपूर्वसामर्थ्यप्रतिभासविविक्तोपलादिग्राह्य्[506]अप्य् अनुमानाद् अर्थापत्तितो वा बाधाम् अनुभवन् न प्रमाणम् इत्य् उपगतं स्यात् । तथा, उत्पत्त्यनुत्पत्त्योर् एकस्वभावतायां विरोधात् समर्थस्यैवापूर्वस्योत्पत्तिः[507]सदृशापभावग्रहकृतश् चार्वाग्दर्शनानाम् एकत्वविभ्रमो लूनपुनर्ज्जातेष्व् इव केशनखादिष्व् इति किं नेष्यते? ।
__________नोतेस्__________
[505] तेषां सामर्थ्यस्यासाम- -- त्.
[506] -रहित-
[507] -स्यैवाननुभूतपूर्व- -- त्.
[ सेच्तिओन्: 40. नैयायिकाभिमतस्य भावास्वभावरूपसामर्थ्यस्य निरासः ।]
अथ सामर्थ्यं सहकारिप्रत्ययसान्निध्यलक्षणम् एवेत्य् अतत्स्वभावम् इति नापूर्वोत्पत्तिप्रसङ्ग [त्. 290अ.] इतिनैयायिकादयो मन्येरन् अत्राह -- अतत्स्वभावत्वे सामर्थ्यस्येष्यमाणे स 3 बीजादिः पदार्थः[508] प्राग् इव तद्रूपापरित्यागात् पश्चाद् अप्य् अकारक एव । {प्. 121.1} कुतः? । सामर्थ्यम् इत्य् आख्या यस्य पदार्थान्तरस्य सहकारिप्रत्ययसान्निध्यलक्षणस्य स एवातिशय[शब्द]वाच्य इतिनैयायिकैर् अभ्युपगमात् । तत एव तद्भावभावित्वेन कार्योत्पत्तेः । ते ऽपि सहकारिणः प्रत्ययाः यद्य् अक्षणिकाः तेष्व् अप्य् एवं [स्. 120ब्.] प्रसङ्गो ऽनिवारित एवेति क्षणिकतैवैकार्थ[क्रिया]प्रतिनियमलक्षणं सहकारित्वम् इच्छतो ऽभ्युपेया ।
पुनर् अप्य् अक्षणिकानाम् एकार्थक्रियाप्रतिनियमं निराकर्तुम् उपचयहेतुम् आह -- अपि च इत्यादि । यो ऽसाव् अक्षणिको भावः सकलेषु सहकारिषु स्वकार्यं करोतीतीष्यते, स तदैव तावत् कस्मात् करोति? । येन हि कारणेन तत्कार्यक्रियास्वभावत्वेन तदा करोति तेने(नै)व स्थिरस्वभावत्वात् प्राग् अपि कुर्यात्, ततः कुतो ऽस्यैकार्थक्रियाप्रतिनियमः? इति भावः ।
काचान्यामृग्यते युक्तिःयथातद् दृश्यते तथा इति सर्वत्रेयम् अप्रतिहता युक्तिर् इति मन्यमानःकुमारिलःप्राह -- कुर्वन् दृष्टः इत्यादि । यतस् 4 तदैव कार्यं कुर्वम्(न्)[509]दृष्टो मया तेन दर्शनबलेन करोतीति ब्रूमः , 5 किम् अत्रान्ययोपपत्त्या [त्. 290ब्.] ऽभिहितया[510]?, प्राक् तत् कुर्वन् न दृष्टः तेन न करोतीत्य् एकार्थ[क्रिया]प्रतिनियमः सिध्यति अक्षणिकानाम् अपीति । भावो हि कार्यं करोति तज्जननस्वभावतया न दर्शनबलेनादृष्टस्यापि स्वकार्यकरणात् अतो नेदम् उत्तरं सम्बध्यत इत्य् उपहसन्न् आह -- अहो महासामर्थ्यम् इत्यादि । महाप्रभावस्य भवतो महासामर्थ्यं दर्शनम्, यस्माद् एतद् भावान् कार्यकरणस्वभावविकलान् अपि -- यदि कार्यकरणस्वभावत्वाद् भावाः कार्यं कुर्युः तदैतद् एवोत्तरं किं नोक्तम्?, यतः [स्. 121अ.] कार्यकरणे दर्शनम् उत्तरीकृतम् इति कृत्वा -- स्वभावमात्रेण आत्मसत्तामात्रेण
नानाप्राकारेषु व्यापारेषु नियुङ्क्ते तत् कथं महासामर्थ्यं न स्यात्? । न चात्र मे काचिद् अक्षमा[511]किन्तु यदि नाम किञ्चित् कारनं कथञ्चिद् अनादृतस्य वा व्याक्षिप्तस्य वा अत्रभवत इति पूजावचनम् {प्. 122.1} दर्शनस्य विषयताम् अतिक्रामेत् तदा हन्त इति दैन्योद्भावनम् एतत्, अप्रसवो धर्मो ऽस्य तद् इदम् -- अप्रसवधर्मकं ततो ऽपेतसन्तानं स्याद् इ ति इयम् अस्माकं चिन्ता चित्तं दुनोति ।
पर आह -- न वै वयम् इत्यादि । नैव वयं कार्यकरणस्वभावरहितानां भावानाम् अस्मद् दर्शनवशात् काऋयक्रियांब्रूमः, किन्तु स्वभावेनैव ते भावाः तत्कार्यकरणस्वभावाः, ततः स्वकार्यं कुर्वन्ति । तान् पश्यन्तः 1 केवलंजानीमहे त[512]एते कारकस्वभावा इति । दर्शनस्य हि यथावस्थितवस्तुविज्ञाने व्यापारः, नाविद्या(द्य)मानस्वभावक्रियायाम् इति।
सिद्धान्तवाद्य् आह -- सत्यम्, इदम् अप्य् अस्ति । किं वयं न्यायानुरागितया न्याय्यं [त्. 291अ.] वचनम् उपलक्षयामः, उत भवान् एव सर्वदा न्याय्यवचनरहितो ऽपि कथञ्चिन् न्याय्यम् उक्तवान् इति सञ्जातपरितोषः पृच्छति -- किं तद्? इत्य् आह -- स्वभावस् तेषां भावानां कार्यक्रियाधर्मा कार्यकरणधर्मा तेन कारणेन समस्ताह् समग्राः प्रत्ययाः सहकारिणो येषां तेषाम् अकृत्वा कार्यं नोपेक्षापत्तिः नौदासीन्य् अप्रतिपत्तिः इति सत्यम् -- इदम् अप्य् अस्ति भवतो न्याय्यं वचनम् इति, किन्तु इदम् असि प्रष्टव्यः -- [स्. 121ब्.] सो [ऽक्षेप]क्रियाधर्मास्वभावःकिंतेषांतदैवान्त्यावसथायां समग्रावस्थायां यदनन्तरं कार्यम् उत्पद्यते तदैव उत्पन्नः ? आहोस्वित् प्राग् अपि परस्परविरहावस्थायाम् अपि आसीत् ? ।
तत्र तदैवोत्पन्ने तत्स्वभावत्वे ऽपूर्वोत्पत्तिर् एव, अतत्स्वभावत्वे सो ऽकारक एवेति प्रागुक्तदोषभयात् पर आह -- आसीत् । कुतः? प्रच्युतश् च उत्पन्नश् च प्रच्युतोत्पन्नः[513], तस्य प्रतिषेधः अप्रच्युतो ऽनुत्पन्नः स्थिर एकः स्वभावो येषां भावानां तेषां कस्मिंश्चित् काले कस्यचित् स्वभावस्य तत्रोपलब्धस्य अभावविरोधात् । क्षणिकेष्व् एव ह्य् एकदा दृष्टः स्वभावो ऽन्यदा न भवेत् तदा तस्यान्यत्वात् । नाप्रच्युतानुत्पन्नपूर्वापररूपेषु स्थिरेषु भावेष्व् इति ।
{प्. 123.1} अत्राह -- तत् किम् इदानीम् इत्यादि । स्यान्मतम् -- नैवेदम् अनेन वाक्येन सदृशम् अस्मद् वाक्यम् इत्य् आह -- को वाऽस्य इत्यादि । यद्य् एतद् अनेन तुल्यं [त्. 291ब्.] न भवति तदा सकलसहकार्यवस्थायाः[514] प्राग् अपि अयम् अक्षेपक्रियास्वभावः अविलम्वितकार्यकरणस्वभावः कार्यंच न करोती त्य् अस्य भाषितस्यार्थो वक्तव्य इति ।
नैयायिकास् तु मन्यन्ते -- भावानां सहकारिसन्निधानासन्निधानापेक्षया कारकाकारकस्वभावव्यवस्था, न स्वभावतः, तेनायम् अप्रच्युतोत्पन्नस्थिरैकस्वभावत्वे ऽपि [स्. 122अ.] न प्राग् अपि स्वकार्यजननस्वभावः, किन्तु सन्निहितसकलसहकारिप्रत्यय एवेति । तन्मतम् आशङ्कमान आह -- सहितः इत्यादि ।
एतन् निरस्यति -- अन्यस् तर्हि इत्यादि । यदि नाम सहितस्य स्वकार्यजननस्वभावता, केवलस्य च तद्विपरीतरूपता, अन्यत्वं तु कस्माद् भवति? इत्य् अत आह -- स्वभावभेद इत्यादि । स्वभावभेद एव हि भावभेदस्य लक्षणम् । स चेत् तत्कार्यजनकाजनकरूपतया भिद्यते, शालियवबीजादीनाम् इव कथं इव भावभेदो न स्यात्? । न हि स्वभावाद् अन्यो भावः यतस् तद्भेदे ऽपि न भिद्येत, निःस्वभावताप्रसङ्गात् ।
ननु चोक्तं स्वतो जनकाजनकस्वभावताविरहात् प्रत्ययान्तरभावाद्यपेक्षत्वात् जनकाजनकरूपतायास् तद्भेदे ऽपि कुतो भावभेदप्रसङ्गः?,[515]तस्यापरापेक्षस्वभावभेदलक्षणत्वात्[516]इत्य् अत आह -- न हि स साहित्ये ऽपि इत्यादि । तदैतद् उत्तरं भावत्कं सम्बध्येत[517]यदि भावो यो ऽसौ परः सहकारित्वाभिमतः [त्. 292अ.] सन्निधीयते तद्रूपेण कर्त्ता स्यात् न स्वरूपेण । न चैतद् अस्ति, तथाभावे हि परमार्थतः स एव परः[518]कर्त्ता स्यात् । तत्र तु कर्तृत्वव्यपदेशः [स्. 122ब्.] कल्पनानिर्मित एव भवेत् । न च कल्पनानुविधायिन् यो ऽर्थक्रियाः । न हि माणवको दहनोपचाराद् आधीयते पाके । ततश् च नास्यानुपकारिणो भावम् अपेक्षेत कार्यम् इति तद्रहितेभ्य एव {प्. 124.1} सहकारिभ्यो भवेत् । यद् वा तेभ्यो ऽपि न भवेत् । तेषाम् अपि पररूपेण कर्तृत्वे स्वयम् अकारकत्वात् । ततः सर्वेषाम् एवं स्वयम् अकारकत्वे पररूपेणाप्य् अकारकत्वात् सर्वथा कारकोछेद एवेति न किञ्चित्
कुतश्चित् जायेत । तस्मात् स्वरूपेणैव भावः स्वकार्यस्य कर्त्ता न पररूपेणेति नास्योत्तरस्यावकाशः । ततो ऽन्यः सहितो ऽन्यश् च केवलः इत्य् एतद् अविचलम् एवेति ।
अथ येन स्वरूपेणायं जनकस् तद् अस्य सहितासहितावस्थयोः सर्वदा ऽस्ति तदा स्वरूपं च स्वकार्यजनकम् अस्य स्थिरस्वभावस्य प्राग् अपि सहितावस्थायास् तद् एव यत्सहितावस्थायाम् अक्षेपक्रियास्वभावम् इति तस्मात् न कथंचित् कार्यक्रियाविरामः । अथवा कदाचित् परो ब्रूयात् स्वहेतुभिर् एवायं प्रत्ययान्तरापेक्षः [त्. 292ब्.] स्वकार्यजननस्वभावो जनित इति केवलो न करोति । न चास्य सहितासहितावस्थयोः स्वभावभेदः, प्रत्ययान्तरापेक्षस्वकार्यजननस्वभावतायाः [स्. 123अ.] सर्वदा भावात् इत्य् अत आह -- न हि स साहित्ये ऽपि इत्यादि । स्वरूपेणैवास्य कर्तृत्वात् तस्य च प्राग् अपि भावात् प्रत्ययान्तरापेक्षायाश् च ततो लभ्यस्यात्मातिशयस्याभावेनायोगात् उपकारलक्षणत्वाद् अस्य, अन्यथा ऽतिप्रसङ्गात्, केवलस्य कार्यकरणम् अनिवार्यम् इति अकुर्वतः कथं सहितावस्थाया न भेदः स्यात्? इति भावः । प्रत्ययान्तरापेक्षस्वकार्यकरणस्वभाव इत्य् अपि पररूपेणाकारस्य
प्रत्ययान्तरसन्निधानोपलक्षितकाले कारकत्वं न प्राग् इत्य् अयम् अर्थः । ततश् च कदाचित् कार्यक्रियास्वभावो न सर्वदा इति ब्रुवता कथं सर्वदा कार्यजननस्वभावता ऽस्योक्ता भवति? । नन्व् एवं स्वभावभेद एवास्य तदतत्कालयोः समर्थितः स्यात् । तस्मान् नाक्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वम् इति स्थितम् ।
परः 2 समानदोषताम् आपादयन्न् आह[519]-- यस्यापि इत्यादि सुबोधम् । यदि नाम क्षणिकस् तथापि किन्न भवति? इत्य् आह -- उक्तंयादृशस्य सहकारिभिर् अपृथग्भाविनः क्रिया । `ते[520]{प्. 125.1} समर्था [स्. 123ब्.] एव स्वभावतो ऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां [त्. 293अ.] प्राक्पश्चात्पृथग्भावो नास्तिऽ इत्य् अत्र । स कथम् एकक्षणभावी एकस्मिन्न् एवान्त्ये क्षणे भवनशिलः अन्यथाभवेत् अन्त्यक्षणात् प्राक् पश्चात् पृथग् वा भवेत्? यश्चा अन्यथा भवति स एवान्त्यक्षणभावी 4 सहकारिसन्तानोपकृतस्वभावो ऽक्षेपक्रियाधर्मा[521] न भवतीति नायम् अक्षणिकपक्षोदितः प्रसङ्गः [522]क्षणिकपक्षे । कुतः? । कारकाकारकयोः इत्यादि । कारको ऽन्त्यः अकारकस् तदन्यः तयोर् यः स्वभावः स भिन्नो ऽपि भेदाविवक्षयैकत्वेनोक्तः । तथा कारकस्य
यो हेतुर् उपान्त्यः, अकारकस्यापि यो हेतुस् तदन्यः स भिन्नो ऽप्य् अभेदविवक्षयैवैकत्वेनोक्तः । तेन कारकाकारकयोर् यौ स्वभावौ तयोर् एकत्र धर्मिणि विरोधात् । तथा तयोः स्वभावयोर् जनकौ यौ हेतू -- एकः कारकस्वभावजनको ऽन्यश् चाकारकस्वभावजनकः -- तयोर् अप्य् एकत्र धर्मिणि विरोधात्, अन्यत्वे सति । अकारकस्वभावजनकहेतोर् उत्पन्नस्याकारकस्य स्वभावस्यान्यत्वात् यश्च भवति स एव न भवतीति नायंप्रसङ्ग इति ।
__________नोतेस्__________
[508] -दिः समर्थः पदा- -- त्.
[509] तद् एवैकम् अर्थं कुर्वन् -- त्.
[510] किम् अत्र न्यायोपपत्त्या दृष्टया -- त्.
[511] अक्षमता -- त्.
[512] केवलं न जनयन्ति । त -- त्.
[513] कर्मधारयो ज्ञेयः ।
[514] -कारिकार्याव- -- त्.
[515] भावभेदस्य
[516] भावभेदस्य अपरापेक्ष[स्वभावत्वे] यः स्वभावभेदः तन्निमित्तत्वात् ।
[517] संवाद्यते -- त्.
[518] परस्य -- त्.
[519] तां विवक्षन्न् आह -- त्.
[520] प्. 115.6
[521] -भावापेक्षक्रि- -- त्.
[522] दोषः -- त्.
[ सेच्तिओन्: 41. कार्यस्यैव सहकार्यपेक्षेति मतस्य निरासः ।]
अपरस् त्व् अन्यथा स्थिररूपेष्व् एकार्थाक्रियाप्रतिनियमं [स्. 124अ.] कल्पितवान् तम् उपन्यस्यति यो ऽपि मन्यत इ त्यादि । भावस्य 1 ह्य् अक्षेपक्रियाधर्मैव[523]सर्वदा स्वभावः[524], न तु [त्. 293ब्.] यथा केचिद् ब्रू(ब्रु)वते -- सहकारिसन्निधानापेक्षा वस्तूनां कारकस्वभावव्यवस्था, न स्वत इति । स्वतो ऽकारकात्वे पररूपेण कारकत्वायोगात् कारकव्यवस्थोच्छेदप्रसङ्गात् । स एवंविधस्वभावो न कदाचित् साहित्यं स्वकार्यकरणे ऽपेक्षते यतो ऽन्यः सहितो ऽन्यश् च केवलः कारकाकारकस्वभावभेदात् स्यात् । स तर्हि सर्वदा तत्स्वभावः कार्यं किन्न करोति? इति चेत् । कार्यस्य प्रत्ययान्तरापेक्षस्वभावतया तस्मिं(स्मिन्) सर्वदा जनकत्वेनावस्थिते ऽपि केवलाद् अभावात्, तेनात्र कार्यम् एवापराध्यति, यत् तस्मिं(स्मिन्) केवले जनकतया ऽवस्थिते ऽपि प्रत्ययान्तराण्य् अपेक्षत इति । ततः {प्. 126.1} तदात्मनः कार्यस्य सहितेभ्य एव भावाद् एकार्थक्रियालक्षणं सहकारित्वम् अक्षणिकानाम्
अप्य् उपपद्यत इति । सिद्धान्तवादी पूर्वदोषानतिक्रमम् अस्य दर्शयन्न् आह -- तस्यापि एवंवादिनाः कथंस नित्याभिमतो भावः केवलःकरोत्य् एव `अक्षेपक्रियाधर्मैव स तस्य स्वभावःऽ इति [स्.124ब्.] वचनात् । कार्यं च सहितेभ्य एव भवति, `सामग्रीजन्यस्वभावत्वात् तस्यऽ इति वचनात् । तस्मात् केवलान् न भवतीति तदवस्थो विरोधो यः पूर्वम् उक्तः. तथा हि -- यद्य् अक्षेपक्रियाधर्मा तदा ऽवश्यम् अनेन कार्यं कर्तव्यम् न चेद् अवश्यं करोति कथम् अक्षेपक्रियास्वभावः ।
अक्षेपेण कार्यदर्शनाद् अक्षेपक्रियास्वभावता ऽवगम्यते [त्. 294अ.] नान्यथा इति पराभिप्रायाशङ्कया ऽऽह -- न केवलः इत्यादि । नैवं मयोक्तं केवलः करोत्य् एवेति किन्त्व् अक्षेपक्रियास्वभाव इति । अत्राह -- कथम् इदानीम् इत्यादि । यदि करोत्य् एवेति नेष्यते कथम् अक्षेपक्रियास्वभाव इति कथ्यते? । अथ तथोच्यते तदा नन्व् एतद् एवानेन वचसापरिदीपितम् अभिहितं भवति । किं तत्? । करोत्य् एवेति । स एव ह्य् अक्षेपक्रियास्वभावो यः करोत्य् एव, यस् तु नावश्यं करोति स कथं तद्रूपः स्यात्? । यद् अप्य् उक्तं `कार्यस्यैवायम् अपराधो यत् तस्मिं(स्मिन्) जनकतया ऽवस्थिते प्रत्ययान्तराण्य् अपेक्षतेऽ इति तद् अप्य् अयुक्तम्, यतः कार्यं चायम् अक्षणिको भावः केवलो ऽपि समर्थःसन् परं प्रत्ययान्तरम् अपेक्षमाणंकथम् उपेक्षेत ? नैव । अनुपेक्षमाणेन किं कर्त्तव्यम्? । आह -- परं प्रत्ययान्तरम् अनादृत्य तिरस्कृत्य एतत् [स्. 125अ.] कार्यं प्रसह्य
हठात् कुर्यात् । क एवं सत्य् अस्य गुणो भवति? इति चेत्, आह -- एवंहि परम् अनादृत्य हठात् स्वकार्यं कुर्वताऽनेन केवलेनापि समर्थेन सता यत् तदात्मनः केवलस्यापि सामर्थ्यं तद् दर्शितं प्रकाशितं भवति । अन्यथा ऽन्यसहितस्यैव करणात् केवलस्य च कदाचिद् अप्य् अकरणात् न `अयं केवलो ऽपि समर्थःऽ इति परेषां बुद्धिः स्यात् । ततो ऽयं तिरस्कृतप्रभाव[525]इव कथं भ्राजेत[526]? । तस्माद् अयुक्तम् उच्यते कार्यं [त्. 294ब्.] प्रत्ययान्तरापेक्षम् इति ।
{प्. 127.1} कार्यापेक्षया ऽपि विरोधस्य तादवस्थ्यं दर्शयन्न् आह -- कार्यंपरम् इत्यादि । कार्यस्य परापेक्षां ब्रुवन् केवलात् कारणाद् अनुत्पत्तिम् अस्य[527]कथयसि, `स केवलो ऽपि समर्थःऽ इतीदं वदंस् ततः केवलाद् उत्पत्तिं कार्यस्य ब्रूषे । एते चैकस्यैव कार्यस्य । तत एवैकस्मात् कारणाद् उत्पत्त्यनुत्पत्ती परस्परविरुद्धे कथम् एकत्र कार्याख्ये धर्मिणि स्याताम् ? विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । एकत्र ते ब्रुवाणो `माता च वन्ध्या चऽ इत्य् अनेन सदृशं ब्रूष इति न [स्. 125ब्.] पूर्वोक्तदोषान् मुच्यसे, यत एवम् अपि ब्रुवाणो विरुद्धम् एव ब्रूते न च लक्षयति तत् तस्मात् अयम् अक्षणिकवादी क्षणिकपक्षस्यानवद्यतया तद्वादिनां निर्द्दोषतासम्पत्सु अमर्षलक्षणेर्ष्या एव शल्यं अन्तर्दुःखहेतुत्वात् तेन वितुद्यमानानि व्यथ्यमानानि मर्माणि यस्य सो यमीर्ष्याशल्यवितुद्यमानमर्मा वराको ऽस्वस्थचित्ततया विरुद्धाभिधानम्
अप्य् अलक्षयन् विक्लवम् आकुलं पूर्वापरासम्बद्धं विक्रोशति विरोदिति इति कृत्वा अस्वस्थचित्तवचनेष्व् अनादरात् तद्दोषोद्भावनस्य सुतरां दुःखोत्पादनेन क्षतक्षारनिषेकतुल्यत्वात् उपेक्षाम् एव विपश्चितानां(-श्चितां) कृपाधनानाम् अर्हतीति ।
तद् एवम् अक्षणिकेषु न कथञ्चिद् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं [त्. 295अ.] सम्भवतीति प्रतिपाद्योपसंहारन्न् आह -- तस्माद् इदम् इत्यादि । येषां हि स्थिररूपतया पृथग् अपि भावः सम्भवति तेषाम् अक्षणिकानां पृथक् केवलानां कार्यकरणसम्भवेन हेतुना सहैव कुर्वन्तीति सहकारित्वनियमायोगाद् इदम् एकार्थक्रियालक्षणं सहकारित्वं [स्. 126अ.] क्षणिकानाम् एव । तेषां स्वहेतुपरिणामोपनिधिधर्माणां परस्परोपादानसहकारिप्रत्ययैकसामग्रीजन्यानां पृथग् असम्भवात् ।
__________नोतेस्__________
[523] अपेक्षक्रिया- -- त्.
[524] धर्मः -- त्.
[525] -प्रसाव -- त्.
[526] भजेत -- त्.
[527] अवश्यं -- त्.
[ सेच्तिओन्: 42. क्षणिकपक्षे एव एकार्थक्रियारूपसहकारित्वस्य व्यवस्था ।]
ननु अतिशयोत्पादनलक्षणम् अपि सहकारित्वं भावेषु दृश्यते तत् कथम् उक्तं प्राक्[528]`सर्वत्र नैवातिशयोत्पादनं सहक्रिया, किं तर्हि बहूनाम् एकार्थकरणम् एवऽ इत्य् अत आह -- यत्र तु सन्तानोपकारेण {प्. 128.1} इत्यादि । एकार्थक्रियालक्षणम् एव सहकारित्वं सर्वत्र न क्वचिद् अतिशयोत्पादनं सम्भवति । यत्र तु सन्तानोपकारेण पूर्वपूर्वप्रत्ययेभ्यो विशिष्टविशिष्टतरोत्तरोत्तरक्षणजननेन भावाः सहकारिणो विवक्षितकार्यस्य हेतुतां प्रतिपद्यन्ते- यथा तण्डुलादिभ्य ओदनादिजन्मनि दहनोदकादयः, बीजादिभ्यश् चाङ्कुरादिजन्मनि पृथिव्यादयः -- तत्र विशेषोत्पादने प्रत्ययानां सहक्रियोच्यते लोके । सन्तानाश्रयेण पूर्वक्षणेभ्यो[529]द्वितीयादिविशिष्टक्षणलक्षणं सन्तानाख्यं कार्यम् आशृ(श्रि)त्य [त्. 295ब्.] पूर्वोत्तरक्षणयोर् एकत्वाध्यवसायेन तस्यैवायम् अतिशय इति न द्रव्याश्रयेण । औपचारिकम् एव न तु पारमार्थिकम्
। पूर्वपूर्वक्षणेभ्यस् तु [स्. 126ब्.] स्वहेतुपरिणामोपनिधिधर्मभ्य उत्तरोत्तरविशेषोत्पत्तौ पूर्वकारणकलापस्यैकार्थक्रियालक्षणम् एव तत्र परमार्थतः सहकारित्वम् इति न काचित् क्षतिर् इति । कस्माद् द्रव्याश्रयेणातिशयोत्पादनं नेष्यते? । क्षणिके द्रव्ये वस्तुनि विशेषस्यानुत्पत्तेः तस्यानन्तरक्षणभावरूपत्वाद् ।
यदि तर्हि क्षणिके तण्डुलादिद्रव्ये विशेषो नोत्पद्यते, अनन्तरम् अप्य् असौ मा भूत् । ततो यथा परस्परतो विशेषमनासादयन्तो ऽपि क्षणिकाः सहिता एव कुर्वन्ति न केवलाः, एवम् अक्षणिका अपि । तेनैषाम् एकार्थक्रियालक्षणम् एव सहकारित्वं भविष्यति । न च शक्यं वक्तुम् -- यो यस्य प्राग् अकारकः स्वभावः स पश्चाद् अपीति । तथा हि -- प्रभास्वराद् अपवरकं प्रविष्टस्येन्द्रियम् अर्थप्रतिपत्तिम् अकुर्वद् अपि पश्चात् कुर्वाणम् उपलभ्यते । तद् उक्तम् --
न हि प्रविष्टमात्राणाम् उष्णाद् गर्भगृहादिषु ।
अर्थान प्रतिभान्तीति गृह्यन्ते नेन्द्रियैःपुनः॥
[श्ल्व् प्रत्यक्ष- 126] इति ।
अत आह -- न हि तण्डुलादी नाम् इत्यादि । विशेषानुत्पत्तौ सन्निधानस्याप्य् असन्निधानतुल्यत्वात् [स्. 127अ.] दहनादिभावे ऽपि तण्डुलादिभ्यो नौदनजन्म स्यात् । [त्. 296अ.] तथा प्रभास्वराद् अपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्यो ऽतिशयं क्रमेण न प्रतिपद्यते तदा प्राग् इव पश्चाद् अप्य् अर्थप्रतिपत्तिं नैव जनयेत् । {प्. 129.1} तस्माद् यद् असम्भवि कार्यं यत्र दृश्यते तस्य ततो ऽन्यत्वम् एव, शालिबीजाद् इव कोद्रवबीजस्येति निरतिशयाद् अन्यत्वम् एव सातिशयतया तत्कार्यकारिण इति । एवं तावद् यत्र सहकारिभ्यः क्रमेण कार्यं भवति तत्रातिशयोत्पादनलक्षणम् औपचारिकं सहकारित्वम् एकार्थक्रियालक्षणम् एव तु मुख्यं तत्रापीति प्रतिपादितम् ।
यत्र त्व् अक्षेपेणैवार्थसन्निधिमात्रेण सहकारिणः कार्यं कुर्वन्ति किं तत्रापि सन्तानाश्रयम् अतिशयोत्पादनम् अस्ति? इत्य् अत आह -- अक्षेपकारिषु इत्यादि । `ये ह्य् अव्यवधानादिदेशा इन्द्रियादयः स्वहेतुभ्यो जातास् तेष्व् अविलम्बितकारिषु न विशेषोत्पत्तिः परस्परतः सम्भवति, क्षणिकत्वात्ऽ इत्य् उक्तं [स्. 127ब्.] प्राक् ।
यदि न विशेषोत्पत्तिः तदा कथं निर्विशेषा ज्ञानस्य कारणी भवन्ति? इत्य् अत आह -- तत्र यथास्वं यस्य ये आत्मीयाः प्रत्ययाः तैः, परस्परोपसर्प्पणव्यवधानादिविरहादेराश्रयभूतैर् ये जाताः योग्यश् चासाव् अत्यासन्नत्वातिविप्रकर्षविरहाद् देशश् च स आदिर् यस्याव्यवहितदेशादेः तत्रावस्थानम् अवस्था येषां ते सह स्वभावनिष्पत्त्या [त्. 296ब्.] स्वभावनिष्पत्तिर् विद्यत[530]इत्य् एव कृत्वा ज्णानहेतुतांप्रतिपद्यन्ते तत्र किं परस्परतो विशेषोत्पत्त्या प्रार्थितया? । यदि हि स्वहेतुभ्य एव परस्परोपसर्प्पणाद्याश्रेभ्यः स्वकार्यजननक्षमा योग्यदेशाद्यवस्थानलक्षणविशेषयोगिनो नोत्पद्येरन्, तदैषां परस्परतो विशेषोत्पत्तिः प्रार्थ्येत, न तु स्वहेतुभ्य एव तथाविधानाम् उत्पत्तौ । यत एवम् इति तस्मात् तत्र तेषु अक्षेपकारिष्व् इन्द्रियादिषु एकार्थक्रियैव मुख्यं सहकारित्वं न सन्तानाश्रयेण
[स्. 128अ.] व्यवस्थाप्यमानम् अतिशयोत्पादनलक्षणं गौणम् इति ।
अथ विशेषोत्पादनलक्षणं सहकारित्वं कथं न व्यवस्थाप्यते? । तद् अपि हि लोके प्रतीतत्वाद् व्यवस्थापनीयम् एवेत्य् अत आह -- यत्र तु कार्ये नाव्यवधानादिदेशोपनिपातमात्रेणैवेन्द्रियादय इव सहकारिणः प्रत्ययतां प्रतिपद्यन्ते, किन्तु {प्. 230.1} विवक्षितकार्योत्पादानुगुणं प्रतिक्षणं प्रकृष्यमाणं विशेषम् उत्पादयन्तः तत्र कालक्षेपभाविनि कार्ये कर्त्तव्ये हेतुसन्तानो ऽपरापरक्षणभावलक्षण आत्मातिशयासादनार्थं सहकारीणि प्रत्ययान्तराण्य् अपेक्षते, न तु तत्समानकालः कारणक्षण इति । तत स् तेभ्यः कारणान्तरेभ्यः स्वभावान्तरस्य कार्योत्पादानुगुणविशेषपरम्परालक्षणस्य प्रतिलभ्यः सन्तानस्यैकत्वेनाधिमुक्तस्योच्यते लोके । परमार्थस् तु तत्रापि पूर्वः पूर्वः प्रत्ययकलाप उत्तरोत्तरकार्योत्पादानुगुणे [त्. 297अ.] विशिष्टक्षणे प्रतिनियत इत्य् एकार्थक्रियालक्षणम् एव सहकारित्वम्
अनुभवति ।
कथाम् पुनः स्वभावान्तरप्रतिलम्भस् तेषाम्?, यतः क्रमेण कार्यं निर्वर्त्तयन्तीत्य् अत आह -- तत्र स्वरसतः इत्यादि । तत्र तस्मिन् हेतुसन्ताने ये हेतव उपादानकारणाख्याः ये च प्रत्ययाः सहकारिसंज्ञितास् तेषां ये पूर्वे [स्. 128ब्.] प्रथम उपनिपातक्षणाः तेषां विनाशहेत्वनपेक्षितया स्वरसतो निवृत्तौ सत्यां तेभ्य एव स्वरसतो निवर्त्तमानेभ्यः प्रथमक्षणेभ्यः कार्योत्पादानुगुणेन विशेषेण विशिष्टस्य क्षणस्योत्पत्तिः तेभ्यो ऽनुगुणतरविशेषवतां तृतीयक्षणानां तेभ्योनुगुणतमविशेषवतां चतुर्थक्षणानाम्; एवं यावद् अत्यन्तातिशयवानन्त्यः कारणकलापो जातः ततः कार्यस्योत्पत्तिः इत्य् एवं सहकारिभ्यः स्वभावान्तरप्रतिलम्भः, क्षेपवती च कार्योत्पत्तिर् इति ।
अत्र परश् चोदयन्न् आह -- सहकारिणः सह करणशीलात् कारणात्, जाताव् एकवचनम्, यत् समुत्पन्नविशेषम् अनन्तरोक्तेन प्रकारेण कारणं अन्त्यसामग्रीक्षणलक्षणं ततो ऽङ्कुरादिकार्योत्पत्तौ इष्यमाणायां तस्यैव विशेषस्याद्यस्य कार्योत्पादनानुगुणस्य यः क्रमेणाभिवर्द्धमानः कार्यस्य जनक इष्यते तस्यैव उत्पत्तिर् न स्यात् प्रथमक्षणोपनिपातिनां [त्. 297ब्.] परस्परतो विशेषानासादनात् क्षणानाम् अविवेकात् अनभ्युपगमाच् च ।
परस्परतो ऽनवाप्तविशेषा एव कार्योत्पादनानुगुणं विशेषम् आरप्स्यन्त इति चेद् आह -- अविशिष्टाद् अविशिष्टेभ्यः परस्परतो {प्. 131.1} विशेषस्य कार्योत्पादानुगुणस्योत्पत्ताव् इष्यमाणायां कार्यस्य अङ्कुरादेः स्यात्, विशेषाभावाद् इत्य् अभिप्रायः । ततश् च परस्परतो विशेषोत्पादानपेक्षिण एव सहकारिणः [स्. 129अ.] कार्यं कुर्वीरन् ।
किम् एवं सति सिद्धं भवति? इति चेत्, आह -- तेन येन क्षणिका अपि परस्परतो विशेषोत्पादा ऽनपेक्षा एव स्वकार्यं कुर्वन्ति एककार्यप्रतिनियमलक्षणं च सहकारित्वं प्रतिपद्यन्ते तेन कारणेन अक्षणिकानाम् अपि कारणतास्यात्, अपेक्षणीयेभ्यःस्वभावातिशयोत्पत्तिश्च न स्यात् इत्य् अक्षणिकवादी क्षणिकपक्षेण[531]स्वपक्षस्य साम्यमापादयति । यद् आह -
__________नोतेस्__________
[528] प्. 113.27
[529] पूर्वपूर्वक्ष- -- त्.
[530] मिद्यते -- त्.
[531] क्षणिकापेक्षणात् -- त्.
कःशोभेत वदन्नेवंयदि न स्याद् अह्नीकता।
अज्ञतावायतःसर्वंक्षणिकेष्व् अपि तत्समम् ॥
विशेषहेतवस् तेषांप्रत्ययान कथञ्चन ।
नित्यानाम् इव युज्यन्ते क्षणानाम् अविवेकतः॥
इति । तत्रैतत् स्यात् प्रथमक्षणे ऽपि क्षितिबीजादयः परस्परतः समुत्पन्नविशेषा एव सन्निधीयन्ते --
येन यस्याभिसम्भन्धो दूरस्थस्यापि तेन सः।
इति न्यायाद् धि दूरदेशवर्त्तिनाम् अपि हेतुफलभावात् इत्य् आशङ्क्याह -- अथ सहकारिणा इत्यादि । सहकारिणः [त्. 298अ.] परस्परसम्पर्क्कविकला अपि वस्तुधर्मतयैवान्योन्यम् उपकुर्वन्तीति सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एव सम्पर्क्ककाल उपतिष्ठेत, एवं [स्. 129ब्.] सत्य् अनवस्था स्यात् । तथा हि -- तद्विशेषोत्पत्ताव् अप्य् अपरः सहकारिकृतो विशेषो ऽभ्युपगन्तव्यः, तथा तदुत्पत्ताव् अप्य् अन्य इति ।
अथ नैवं सहकारिणः परस्परस्य कार्योत्पादानुगुणविशेषनिमित्तम् अपरं विशेषं कुर्वन्ति, स्वभावत एव तत्र तेषां योग्यत्वात् इत्य् अत आह -- न च इत्यादि । नैव हि सहकारिणः क्षितिबीजादयः परस्परस्य कार्योत्पादानुगुणो यो विशेषः तदुत्पादने नित्यं सर्वकालं योग्यावस्था येन योग्यावस्थत्वेन नित्यानुशक्तः नित्यानुबद्धः एषां क्षितिबीजादीनां {प्. 132.1} कार्योत्पादानुगुणविशेषजनको विशेषः स्यात् यतः `अविशिष्ताद् विशेषोत्पत्तौ कार्यस्यापि स्यात्ऽ इत्य् एतद् अपि परिह्रियेत ।
कुत एतद्? इत्य् आह -- तदुपाय इत्यादि । तेषां क्षितिबीजादीनाम् उपाये -- योग्यदेशोपनिपाते कार्यव्यक्तिदर्शनात्[532]अपाये च -- परस्परसम्पर्क्कविरामे कार्यानुत्पत्तिदर्शनात् । यदि हि कार्योत्पादानुगुणविशेषोत्पादने सर्वदा योग्यावस्थाः स्युः तदा सो ऽपि विशेषः सर्वदा [त्. 298ब्.] स्यात् । ततस् तत्परम्पराभावि कार्यम् इति तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्ती न स्याताम् । [स्. 130अ.] तस्मान् न सहकारिणः कार्योत्पादानुगुणविशेषोत्पादने योग्यावस्थाः सर्वदेति । यतः सहकारिणा पृथगवस्थितेनानवस्थाभयात् कृतविशेषो नोपतिष्ठते परस्परतश् च प्रथमसम्पर्क्कक्षणभाविनां नोपेयते[533]युज्यते वा । तेन कारणेनाद्यो विशेषः कार्योत्पादानुगुणः सहकारिभ्यः समानकालतया निरुपकारस्य क्षितिबीजादेः नोत्पद्यते [534], उत्पद्यते चासौ इतीष्यते । तेन समग्रावस्थावत् सर्वेषां व्यग्रावस्थाभाविनाम् अपि क्षणानाम् अविशेषात्
तज्जननस्वभावत्वे ऽप्य् अजननात् समग्रावस्थायाम् एव जननाद् । यथा क्षणिकानाम् एकार्थक्रियाप्रतिनियमलक्षणं सहकारित्वं तथा स्थिरस्वभावानाम् अपि भविष्यतीति क्षीणसर्वोपायो ऽक्षणिकवादी साम्यम् एवातुर इव बहुमन्यमानस् तत्रैव भरं[535]कृतवान् ।
सिद्धान्तवादी भङ्ग्या परम् उपहसन्न् आह -- नास्माकंपुनःपुनः इत्यादि । यदि पुनः पुनर् वचने ऽपि लोकस्य न्यायप्रतीतिर् भवति शतशो ऽपि ब्रूमः । किम् अङ्ग पुनर् द्वौ त्रीन् वा वारान्? । न हि परार्थप्रवृत्तानाम् अस्माकं पुनः पुनर् अभिधाने कश्चिद् उद्वेगो भवति । एवं वादिनश् च शास्त्रकृतः क्वचित् प्रकारान्तरेण[536]तम् एवार्थं [त्. 299अ.] स्फुटीकुर्वतो ये पुनरुक्तापरिहाराय यत् अन्ते स तेषाम् अस्थानपरिश्रम एव । यदि नोद्वेगो हन्त तर्ह्य् उच्यताम् इत्य् अत आह -- न विशेषोत्पादनाद् एव इत्यादि । नैव विशेषोत्पादनात् {प्. 133.1} सहकारिणां सहकारित्वं परमार्थतः क्वचित् [स्. 130ब्.] सम्भवति, यतः प्रथमक्षणभाविनां बीजादीनां तदभावात् कार्योत्पादानुगुणे विशेषे कर्त्तव्ये सहकारिताविरहः स्यात् । किन्त्व् एकार्थक्रियैव सहकारिणां पारमार्थिकं सहकारित्वं पूर्वोक्ताभिर् युक्तिभिः सम्भाव्यते । सा च प्रथमसम्पर्क्कभाजाम् अस्त्य्
एवेति किं न सहकारिणः स्युः? ।
पर आह -- सा ऽप्य् एकार्थक्रिया न भवेत् परस्परतो विशेषरहितानाम् । यदि पुनः परस्परतो विशेषरहितानाम् अपि तदेकार्थक्रिया ऽङ्गीक्रियते तदा प्रत्येकं तदवस्थायां तदुत्पादनसामर्थ्याभ्युपगमात् तदवस्थायाम् इव पृथग् अपि सा भवेत् । तथा हि -- ते तदवस्थायाम् अपि परस्परतो निर्विशेषा एव कुर्वन्ति । तेषां पृथग् अपि तद्विशेषक्रिया कथम् इव न प्रसज्येत? । न ह्य् एषां संहतासंहतावस्थयोः कश्चिद् विशेषो ऽस्तीति । भवतु, को दोषः? इति चेत्; तथाच कार्योत्पादानुगुणविशेषस्य पृथक्करणप्रसङ्गे सति तस्माद् विशेषाद् भवनशीलम् अङ्कुरादि कार्यम् अपि विशेषवत् केवलात् सहकारिणः स्यात् इति चेन् मन्यसे, अत्रापि सर्वम् उक्तम् उत्तरम् । तथा हि -- संहतासंहतावस्थयोर् निर्विशेषा एव क्षणक्षयिणो भावा इति तदुच्यते तत् किं तावद् विशेषमात्रापेक्षया? आहोस्वित् [त्. 299ब्.] कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया?
। यदि प्राच्यो विकल्पः तद् अयुक्तम् । न हि काचिद् विशेषमात्ररहिता ऽवस्था [स्. 131अ.] सम्भवति, सर्वदा ऽपरापरप्रत्यययोगनिबन्धनस्यापरापरविशेषस्य भावात् । न हि कदाचित् किंचिद् एकम् एव, आधारच्छायातपवातशीतादेर् यथासम्भवं भावात् । न च तभावे ऽपि तत् तादृशम् एव, कारणभेदात् । एतावत् तु स्यात् -- कश्चिद् विशेषः क्वचित् कार्ये ऽनुगुणो न सर्वः सर्वत्रेति । एतच् च प्राग् एवोक्तम् इति दर्शयन्न् आह -- प्रतिक्षणम् अपरापरैःप्रत्ययैः इति । `अपरापरप्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्य् अपि कुतश्चित् साम्यात् सरूपाः प्रतीयन्ते, तथापि भिन्न एवैषां स्वभावः, तेन किञ्चिद् एव कस्यचित् कारणम्ऽ[537]इति, `क्षणिकेषु {प्.134.1} भावेष्व् अपरापरोत्पत्तेर् ऐक्याभावात्ऽ[538]इति चात्र संक्षिप्ततरम् उक्तम् । एवं च `नास्माकं पुनः पुनर् वचनऽ इत्य् अत्र द्विः पुनर्ग्रहणं युज्यते । यथा येन प्रकारेण भावसन्ताने विशेषस्योत्पत्तिः [त]द् अप्य् उक्तम्
-- `तत्र स्वरसतः पूर्वक्षणनिरोधे तेभ्य एव विशिष्टक्षणोत्पादाद् विशेषोत्पत्तिःऽ[539]इति । अथ कार्योत्पादानुगुणविशेषजनकविशेषापेक्षया प्राग्वत् प्रथमसम्पर्क्कभाजः परस्परतो निर्विशेषा इत्य् अभिमतं तद् अप्य् अयुक्तम् । यतः कार्योत्पादानुगुणस्य विशेषस्य जनकाः [स्. 131ब्.] क्षितिबीजादयः कीदृशाः ये [त्. 300अ.] व्यवधानादिरहितत्वेनोपनिपातिनः । तद्भाव एव तस्य भावात् एतावन्मात्रनिबन्धनत्वाच् च 4 जनकं व्य(-कव्य)वस्थायाः[540]। ते च तथाविधाः सर्वदा न भवन्ती कथं पृथग् अपि कार्योत्पादानुगुणविशेषारम्भ एषां स्यात्?, यतः केवलानाम् अपि कार्यक्रिया प्रसज्येत तद् दर्शयति -- योग्यो देशो येषां ते योग्यदेशाः, तद्भावो योग्यदेशता, सा आदिर् येषां अव्यवहितदेशत्वादीनाम् अवस्थाभेदानां ते तथोक्ताः, ते च ते अवस्थाभेदाश् च तथोक्ताः । योग्यदेशताअ(-ताद्य)व्यवहितदेशतादयो ये अवस्थाविशेषाः
क्षितिबीजादीनाम् उपजायन्ते ते कार्योत्पादानुगुणविशेषलक्षणकार्यकरणशीलाः, नैवंविधाः सर्वदा बीजादय इति कथम् एषां पृथग् अपि तथाविधविशेषारम्भः स्यात्? । एतद् अपि प्राग् एवोक्तम् `तत्र यो ऽव्यवधानादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुःऽ[541]इति वचनात् । तस्य चोदाहरणमात्रत्वात् । इहापि तत्र यो ऽव्यवधानादिदेशः क्षितिबीजादिकलापः स कार्योत्पादानुगुणविशेषजनने समर्थो हेतुर् इति प्रतीयत एव । स च [स्. 132अ.] तथाविधो विशेषः सर्वदा न भवति, तज्जनकस्य हेतोर् अभावात् । परस्परोपसर्प्पणाद्याश्रयस्यैव [त्. 300ब्.] प्रत्ययविशेषस्य तद्धेतुत्वात् । एतद् अपि पूर्वम् एवोक्तम् इत्य् आह -- तेषां च कार्योत्पादानुगुणविशेष[जनने] विशेषवतां यत उत्पत्तिस् तद् अप्य् उक्तम् असकृद् एव `यस् तेषां परस्परोपसर्प्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थो हेतुःऽ[542]इति । तथा `यथास्वं प्रत्ययैः परस्परोपसर्प्पणाश्रयैर्
ये {प्. 135.1} योग्यदेशाद्यवस्था जातास् ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्तऽ[543]इत्य् अनेन, इहापि गम्यमानत्वात् । ततो यद्य् अप्य् एषां परस्परतो ऽनुपपत्तेर्[544]विशेषो न भवति, स्वहेतुकृतस् तु केन वार्यते? । न च स्वहेतुत एव सञ्जातविशेषाणां भावे परस्परतस् तदाशंसा, यतः परस्परतो विशेषायोगः[545]प्रतिपाद्यमानः शोभेत । तेषां च कार्योत्पादानुगुणविशेषजनकानां प्रत्ययानां प्रत्येकं सामर्थ्ये ऽपि खण्डशः कार्योत्पादायोगात् सकलस्यैव प्रत्येकं करणात् । यथा केवलानाम् अक्रिया कर्तृविशेषस्याव्यवधानादिदेशक्षितिबीजादिकलापस्य पृथग् एकैकस्य समर्थस्य भावस्याभावाद् इत्य् एतद् अप्य् असकृद् एवोक्तम् `तेषां च न पूर्वं न पश्चात् न पृथग्भाव इति समर्थानापि [स्. 132ब्.] पूर्वापरपृथग्भावभाविनो दोषा नोपलीयन्तेऽ इत्यादिवचनात् । ततस् तथाविधविशेषस्य स्वोपादानमात्रनिबन्धनस्यानभ्युपगमेन [त्. 301अ.] केवलानाम्
अप्रसङ्गात् कुतः कार्योत्पादानुगुणविशेषारम्भद्वारकं कार्यम् अपि स्याद् इति? ।
कुतः पुनर् अयं कामचारो लभ्यते यदङ्कुरादिकार्यं सहकारिणः परस्परस्य कार्योत्पादानुगुणां विशेषपरम्परां जनयन्तः कुर्वन्ति, कार्योत्पादानुगुणं तु विशेषं व्यवधानादिरहितदेशोपनिपातमात्रेणेत्य्[546]अत आह -- कार्यद्वैविध्यंच यस्मात् तस्माद् एवंविभज्यते । कथं द्वैविध्यं कार्याणाम् इति? अत आह -- सहकारिभिर् अव्यवधानादिदेशैर् अनन्तरं सञ्जनिताः परस्परस्य प्रागवस्थापेक्षविशिष्टक्षणभावलक्षणा ये विशेषास् तत्परम्परया उत्तरोत्तरविशिष्टविशिष्टतरादिक्षणभावरूपया उत्पत्तिर् द्धर्मो यस्य तदात्मकम् एकं कार्यम् । अन्यच् च तद्विपरीतं यत् सहकारिसन्निधिमात्रेण भवति न परस्परकृतां विशेषपरम्पराम् अपेक्षते । अत्रोदाहरणम् -- अङ्कुरादिवत् , आदिग्रहणाद् 5 ओदनादिवत् । तथा ऽक्षेपेण[547]करणशीलं यदिन्द्रियं [स्. 133अ.] तद्विज्ञानादिवच् च । प्रभास्वराद् अपवरकप्रविष्टेन्द्रियनिरासार्थं
चैतद् विशेषणम् । कुत एतद्? इति चेत् {प्. 136.1} कार्यकारणयोः स्वभावभेदात् । किंचिद् धि कार्यं कारणसामग्रीसन्निधिमात्रजन्यस्वभावम्, तद् अन्यत् तु तत्परिणामापेक्षम् इति । कारणम् अपि किञ्चित् [त्. 301ब्.] स्वसन्निधिमात्रेण कार्यजननस्वभावं स्वकारणेभ्य एव भवति, येन परस्परकृतां विशेषपरम्परां स्वकार्यकरणे नापेक्षते । अन्यत् तु तद्विपरीतस्वभावम् । यथा किञ्चिद् एव शाल्यङ्कुरजननस्वभावम्, तद्विपरीतं चापरम् । शाल्यङ्कुरश् च तद्बीजजन्यस्वभावो न यवादिबीजजन्यस्वभाव इति न भावानां स्वहेतुबलायाताः प्रमाणाधिगताः स्वाभावाः पर्यनुयोज्याः । ये तु यज्जननस्वभावाः प्रमाणतो ऽधिगताः ते किं सर्वदैव तत्स्वभावाः? आहोस्वित् तदैव? इत्य् अत्र चिन्ता प्रवर्त्तते । तत्र सर्वदा तत्स्वभावत्वे पश्चाद् इव प्राग् अपि तत्कार्यक्रियाप्रसङ्गेन पररूपेणाकारकस्य [स्. 133ब्.] भिन्नस्वभावता कारकाकारकावस्थायोः शालियवबीजादीनाम् इव तत्त्वचिन्तकैर्
उच्यते । सदृशापरभावनिबन्धनं चैकतया प्रत्यभिज्ञानं लूनपुनर्जातेष्व् इव केशनखादिषु 6 इत्य् अत्र[548]विरोधाभावाद् इति । यदा च तत्कार्यकारणस्वभावभेदात् कार्यद्वैविध्यम्, तत्रै तस्मिं(स्मिन्) सति सहकारिभ्यः क्षितिबीजादिभ्यस् तेषां परस्परसन्तानोपकारम् अपेक्षते यत् कारणम् अन्त्यवस्थाप्राप्तं तस्य यत् कार्यम् अङ्कुरादिकं तज्जन्मनिमित्तं सहकारिणां प्रथमक्षणानन्तरं विशिष्टद्वितीयक्षणभावरूपो यो [त्. 302अ.] विशेषः कार्योत्पादानुगुणः आद्यो भवति स तेषां सहकारिणां प्रथमसम्पर्क्कभाजां परस्परकृतो यो विशेषस् तज्जन्मा न भवति परस्परोपसर्प्पणाद्याश्रयाद् एव प्रत्ययविशेषात् तस्य भावात् । ततः कार्योत्पादानुगुणाद् आद्याद् विशेषात् प्रथमक्षणोपनिपातिभिः सहकारिभिर् अन्यतः [स्. 134अ.] समासादितविशेषैः जनितात् तत्प्रभृति ये विशेषाः
प्रकृष्यमाणतदुत्तरोत्तरक्षणभावलक्षणा जायन्ते ते तज्जन्मानः सहकारिकृतविशेषजन्मानः । कुतः? तत्प्रकृतित्वात् तस्याद्यस्य विशेषस्य परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् आसादिततदनुकूलविशेषैः सहकारिभिः परस्परोपकारनिरपेक्षैर् जन्यस्वभावत्वात्, तदुत्तरेषां च विशेषाणां {137.1} सहकारिकृतकार्योत्पादानुगुणविशेषजन्यस्वभावत्वात् । यत एवम् इति तस्मात् 1 नानवस्था प्राग्[549]उक्ता । अथ सहकारिणा क्षित्यादिना कुशूलाद्यवस्थो ऽपि बीजादिः तेनापि क्षित्यादिः कृतविशेष एवोपतिष्थेतानवस्थैवं स्यात् इति । तस्य प्रकारस्यानभ्युपब्गमात् पुरुषप्रयत्नादेर् एव [त्. 301ब्.] क्षेत्रप्रकिरणहेतोर् अव्यवहितस्निग्धपृथिवीबीजसम्पर्क्कलक्षणस्य कार्योपादानुगुणविशेषजनकस्य विशेषे ऽस्योपगमात् । तत्र यद् उक्तं परेण `यथा प्रथमसम्पर्त्तभाजः क्षितिबीजादयः परस्परस्य विशेषमनाद्
अधानाह् कार्योत्पादानुगुणं विशेषं जनयन्ति, तथा [स्. 134ब्.] स्थिररूपा अपि भावाः तदेककार्यप्रतिनियताः परस्परकृतविशेषनिरपेक्षा एव भाविष्यन्तिऽ इति, तदभ्युपगच्छन्न् आह -- तथायद्य् अक्षणिको ऽपि इत्यादि । क्षणिकवद् अक्षणिको ऽपि यदि कार्यं करोति करोतु नाम । न कश्चिद् वारयति । किन्तु येन स्वभावेन कार्यं करोति स यदि अविलम्बितकार्यकर्तृधर्मा अपेक्षेण करोतीत्य् एवंशीलो धर्मो यस्य स तथोक्तः, तदा पृथग्भावस्य सम्भवात् केवलो ऽपि न केवलं सहितः तथास्यात् तत्कार्यकारकः स्याद् इत्य् उक्तं बहुशः । अतत्स्वभावस् तु अक्षेपकर्तृस्वभावविकलस् तु तदाऽपि सहितावस्थायाम् अपि प्राग्वत् अकारक एव पररूपेण कर्तृत्वस्य पूर्वम् एव निषेधात् ।
तद् एवम् एकार्थक्रियया विशेषोत्पादनेन चाक्षणिकानां सहकारित्वं निषिध्योपसंहरन्न् आह -- तस्मात् इत्यादि । द्विविधस्यापि सहकारित्वस्यायोगान् नैवाक्षणिकस्य कश्चित् [त्. 303अ.] सहकारीति केवलो ऽपि स्वकार्यं कुर्याद् इति सहकारिप्रत्ययापेक्षस्याक्षणिकस्य हेतुतां ब्रुवाणस्य किं युक्तम् इति [स्. 135अ.] दर्शयन्न् आह -- प्रायस् तु इत्यादि । यो हि स्थिरहेतुवादी तस्य यदि स हेतुः प्रत्ययान्तराण्य् अपेक्ष्य कार्यं करोति तदा व्यक्तम् अवश्यं तस्य स्थिरस्य हेतोः प्रत्ययान्तरापेक्षकारकस्य स्वभावान्तरस्योत्पत्तिर् इति । नाकार्यस्य कार्यताम् अननुभवतो ऽपेक्षेत्य् उच्यते । यतः सहकारिणां यः संघातः सन्निपातः तत्स्थायी तत्र वर्त्तमानो भावसन्तानः प्रायः बाहुल्येन सहकारिप्रत्ययैर् उपजनितविशेषः सन् स्वकार्यंकुर्वन् दृष्टो {प्. 138.1} बीजादिवत् तस्माद् एवं विभज्यते । प्रायोग्रहणं
चाक्षेपकारीन्द्रियादिसङ्घातव्यवच्छेदार्थम् । तत्सम्भविनो न्यायस्याक्षणिकेषु पृथग्भावसम्भवेन कथञ्चिद् अपि कल्पयितुम् अशक्यत्वात् । प्रागकारकस्य पश्चात् कारकस्वभावान्तरोत्पत्तिस् तु न विरुध्यते । तस्यैव ह्य् अकारकस्य तदात्मा कारकः स्वभावो न युज्यते न त्व् अतदात्मा । अत एव स्वभावान्तरग्रहणम् । तत्र केवलम् अकारकस्वभावस्य स्वरसनिरोधितामात्रम् उपेयम् । [त्. 303ब्.] ततः सर्वं सुस्थम् इति ।
अथ मतम् -- कारकस्वभावान्तरोत्पत्तिर् इष्यते यदि स्थिरस्य हेतोः प्राग् अपि कारकस्वभावो [स्. 135ब्.] न स्यात् । तस्य तु प्राग् अपि भावात् प्रत्ययान्तरापेक्षा तदुत्पत्तिर् अप्य् उक्तेति अत आह -- कारकस्य इत्यादि । यदि हि समग्रावस्थायाः प्राग् अपि कारकस्वभावो भवेत् तदा ऽस्याक्रिया न युज्यते, संहतावस्थायाम् अपि तत्स्वभावतयैव करणात्, पररूपेण कर्तृत्वस्य प्राग् एव निषिद्धत्वात् । न च करोति । तस्मात् सो ऽस्य स्वभावः प्राङ् नैवासीत् । यदि च प्रत्ययान्तरैर् अप्य् असौ न क्रियेत तत् 2 किम् इति मुधैव तान्य् अपेक्षते?[550]इति ।
__________नोतेस्__________
[532] कार्योत्पाददर्शनात् -- त्.
[533] नोपायता -- त्.
[534] नोपपद्यते -- त्.
[535] परं -- त्.
[536] पर्यायान्तरेण -- त्.
[537] प्. 116.13
[538] प्. 88.19
[539] प्. 130.11
[540] जनकव्यव- -- त्.
[541] प्. 117.15
[542] प्. 117.24
[543] प्. 129.12
[544] ऽनुत्पत्तेर् -- त्.
[545] विशेषयोग -- त्.
[546] -देशक्रममात्रे- -- त्.
[547] -दि गृह्यते । अक्षे- -- त्.
[548] अत्रापि -- त्.
[549] न घटाभाव इति नानावस्था प्राग् -- त्
[550] किम् इति तथा ऽन्यान्यपेक्षते -- त्.
[ सेच्तिओन्: 43. निर्हेतुकविनाशचर्चाया उप्संहारः ।]
तद् एवं `तत्स्वभावस्य जननात्ऽ[551]इत्य् अस्य `यो यत्स्वभावः स स्वहेतोर् एवोत्पद्यमानः तादृशो भवति न पुनस् तद्भावे हेत्वन्तरम् अपेक्षतेऽ[552]इत्य् अस्यानेकान्तपरिहारायोक्तस्य प्रकारान्तरेणानेकान्ते उद्भाविते तत्परिजिहीर्षया अपरापरप्रत्यययोगेन [553]इत्य् आद्य् अभिहितम् । तत्र येन न्यायेन क्षणिकानां हेतुफलस्वभावः तस्याक्षणिकेष्व् असम्भवं प्रतिपादयितुं प्रासङ्गिकं यद् उपक्रान्तं तत् परिसमापय्य प्रकृतम् अनुबध्नन्न् आह -- तस्माद् यो यदात्मा इत्यादि । यदि स्वभावेनास्थितिधर्मणो भावस्य [स्. 136अ.] न नाशकारणैः प्रयोजनं स्वभावेन स्थितिधर्मणो भविष्यतीत्य् अत आह -- स्थितिधर्मणो ऽपि इत्यादि । स्थितिधर्मणो ऽपि हि नैव नाशकारणैः किञ्चित् प्रयोजनम् । तस्य स्वहेतुभ्यः समुपजातो यः स्थिरः स्वभावः {प्. 139.1} तदन्यथात्वस्यास्थिरात्मतापत्तेः केनचित् कर्त्तुम् अशक्यत्वात् । कामं हि भावाः स्वयं न भवेयुः । न
तु सन्त एव स्वं स्वभावं परित्यजन्ति । अथ स्थितिधर्मणो ऽप्य् अन्यथात्वप्रतिपत्तिर् इष्यते तदा ऽन्यथात्वप्रतिपत्तौ वा तत्स्वभाव एव स्थितिधर्मैव न स्यात् , आत्मभूतस्यास्थितिधर्मणः स्वभावस्य पश्चात् सम्भवे प्राग् अप्य् अभावआयोगात् । न हि तदातमनस् तस्मिं(स्मिन्) सन्निहिते कदाचिदभावो युक्तः, अतत्स्वभावताप्रसङ्गात् `विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्ऽ इत्य् उक्तम् । तथा च सति पूर्व एव विकल्पः स्वभावेनास्थितिधर्मा भाव इति । तत्र च पूर्वविकल्पे प्राग् एवोक्तं दूषणं विनाशहेतोर् वैयर्थ्यम् इति ।
अथासौ स्थिरस्वभाव एव, केवलम् अस्यास्थिरस्वभावता प्राग् असति विनाशहेतोर् उपजायते, अन्यथा निवृत्त्ययोगाद् इत्य् अत आह -- यश्च परस्मात् नाशहेतोः स्थितिधर्मणः [स्. 136ब्.] सतः अन्यथाभावः अस्थितिधर्मतालक्षणो भवति, स पूर्वकात् स्थितिधर्मणः स्वहेतुसमुद्भूतात् स्वभावात् अपरः अन्यः स्वभावस् तस्मिन् निष्पन्ने पश्चा[ज् जन्य]त्वाद् भिन्नहेतुकत्वाच् च कथंतस्य स्वभावः स्यात् ? । तदात्मतया प्रतिभासनाद् इति चेत् । सारूप्याद् अलक्षितविवेकस्य तथा प्रतिभासनं स्यात् यद्य् असौ [त्. 304ब्.] पूर्वस्वभावे सत्य् एवान्यतो भवेत् । अन्यथा विरोधः कथं परिह्रियेत? । भवत्व् अपरः स्वभाव इति चेत् । यश् चापरः स्वभावः स कथं तस्य? । न ह्य् अन्यो ऽन्यस्य स्वभावो युक्तः, अतिप्रसङ्गात् । यो ऽपरः स्वभावः स किम् इति तस्य न भवति? इत्य् अत आह -- स्वभावभेद- इत्यादि । भवतु वस्त्वन्तरम् एव तदपरस्वभावतया को दोषः?
इत्य् अत आह -- तथाच वस्त्वन्तरत्वे सति विनाशहेतोर् उपजायमानस्य स्वभावस्य पूर्वको भावः स्वहेतुभ्यो यः स्थितिधर्मा [स्. 137अ.] जातः सो ऽच्युतिधर्मे स्थितो निवृत्तिभाङ् न भवति, विनाशहेतोर् वस्त्वन्तरोत्पत्तौ व्यापृतत्वाद् इति न तस्य स्थितिधर्मणो ऽन्यथाभावो निवृत्तिः । न हि मुद्गरादेर् वस्त्वन्तरस्य भावे ऽपरस्य निवृत्तिर् युक्ता, अतिप्रसङ्गात् । तदुपमर्द्देन तदुत्पत्तौ च प्राग् एव प्रोक्तम् ।
{प्. 140.1} ननु च दृश्यत एव कठिनादिरूपस्य ताम्रादेर् अग्न्यादेर् विनाशहेतोर् द्रवादिस्वभावान्तरोत्पत्तिः । न च पूर्वकस्य प्रच्युतिधर्मता इत्य् अत आह -- एतेन अनन्तरोक्तेन कठिनादीनाम् आदिशब्दाद् 2 द्रवादीनां ताम्रसुवर्णादीनाम्[554]अग्निशीतवातादिभ्यो द्रवत्वकठिनत्वादिस्वभावान्तरोत्पत्तिर् व्यवस्थितरूपस्य ताम्रादेः प्रत्युक्ता प्रत्याख्याता, तुल्यदूषणत्वात् ।
कथं तर्हि स्वभावान्तरोत्पत्तिः पूर्वस्य चाप्रच्युतिधर्मे स्थितस्याभावो [त्. 305अ.] युक्तः? इत्य् आह -- तत्रापि कठिनादिरूपे ताम्रादौ पूर्वकस्य कठिनद्रवादिरूपस्य स्वरसनिरोधित्वात् विनाशहेत्वयोगेन । विनाशे सति अग्न्यादेः आदिग्रहणाज् जलनिषेकशीतवातादेः । सहकारिणः परस्परोपसर्प्पणाद्याश्रय प्रत्ययविशेषोपजातातिशया द् उपादानाच् च यत् तत् कठिनादिरूपं ताम्रादि स्वरसतो विरुध्यते । तत एव उपादानकारणाद् अग्न्यादिसहकारिकारणोपादानप्रत्ययोपजातविशेषाद् अपर एव अन्य एव द्रवकठिनादिस्वभावो द्रवग्रहणस्योपलक्षणत्वात्, [स्. 137ब्.] उत्पन्नो न तु पूर्वकम् एव कठिनद्रवादिरूपं ताम्रादि व्यवस्थितात्मकं द्रवकठिनादिस्वभावेन परिणतम् इति ।
अत्र पर आह -- केनोक्तं यथा `स्थितिधर्मणः सतो 3 विनाशहेतोर् अस्थितिस्वभावोत्पत्तिस्[555]ततो विनाशःऽ इति, येन `यश् च परस्माद् अन्यथाभावः सो ऽपरः स्वभावःऽ इत्याद्य् उच्यते । किन्तु स स्वयं स्थितिधर्मैव स्वहेतुभिर् जनितो नास्यास्थिरस्वभावता विनाशहेतोर् उपजायते । कथं ज्ञायते यथा `स्वहेतुभिः [त्. 305ब्.] स्वभावेन स्थितिधर्मैव जनितःऽ इति? । विनाशहेतोर् अग्न्यादेर् असम्भवे अवस्थानात् । यदि स्वभावेनास्थितिधर्मा स्वहेतोर् जातः स्यात् तदा तदसम्भवे ऽपि नावतिष्ठेत । तस्य स्वभावेन स्थितिधर्मणः स्वहेतुभिर् एवायम् अपरः स्वभावो नियमितो यदुत परस्मात् विरोधिनो ऽग्न्यादे र् विनाशःस्वयंभवतीति । परस्माद् इति कर्मणि ल्यप्लोपे पञ्चमी परमपेक्ष्य इत्य् अर्थः । स्वहेतुभिर् एवायं {141.1} नियमितस्वभावो जातो यथा त्वया विरोधिनम् अपेक्ष्य स्वयं निर्व(व)र्त्तितव्यम् इति । तद् उक्तम् -
स्वभावो ऽपि स तस्येत्थंयेनापेक्ष्य निवर्त्तते ।
विरोधिनंयथाऽन्येषांप्रवाहो मुद्गरादिकम् ॥ इति ।
ननु यद्य् अस्य विनाशो विरोधिसन्निधाने स्वयम् एव भवत्य् अहेतुकः प्राप्नोति, अहेतोश् च देशकालस्वभावनियमो न युक्त इत्य् अत आह -- न च नैव विनाशो नाम विनंष्टुर् अपरः स्वभावः, यतो ऽयं दोषः स्यात्, किन्तु भावच्युतिर् एव विनाशः । [स्. 138अ.] तस्याश् च निःस्वभावत्वाद् धेतुमत्ता नैव युज्यते । न हि सा तस्य भवति । केवलम् असौ स्वयम् एव न भवति । ततो भवितुर् अभावात् कस्य हेतुमत्तोपगम्यते ? ।
सिद्धान्तवाद्य् आह -- नेदम् अनतरोक्तंविकल्पद्वयम् अतिक्रामति । कीदृशं विकल्पद्वयम्? । `किं नित्यो भावः?ऽ इत्यादि । [त्. 306अ.] ननु च कालान्तरस्थितिधर्मताम् उपगच्छतो नैव नित्यविकल्पस्यावकाशः । न । तदुपगमे ऽपि नित्यतैवोपगता भवति । तथा हि -- यद्य् अयं संवत्सरस्थितिधर्मा स्वहेतुभिर् जनितस् तदा संवत्सरपरिसमाप्तौ यो ऽस्यादाव् उदयकाले संवत्सरस्थितिधर्मा स्वभावो यतो ऽयं संवत्सरं स्थितः स एव तदन्ते ऽपि । ततो ऽपरं संवत्सरम् अवतिष्ठेत । तदन्ते ऽपि प्रथमोत्पन्नसंवत्सरस्थितिधर्मस्वभावापरित्यागाद् अपरापरसंवत्सरस्थितिप्रसङ्गात् कालान्तरस्थितिधर्मतोपगमे ऽपि नित्यतैवोपगता भवतीति नित्यविकल्पो दुर्न्निवारः । विनाशहेतुसन्निधौ स्वयं निवर्त्तत इति चोपगमाद् अनित्यविकल्पो नश्वरात्मताविकल्पः । तथा हि -- विनाशहेत्वभिमतसन्निधौ स्वयं विनश्यतो यो ऽस्य स्वभाव स एव भावस्यैकरूपत्वाद् उत्पन्नमात्रस्येति तदैव विनाशप्रसङ्गात् कथम् अस्य
कालान्तरस्थितिधर्मता सम्भवति? । एवं विकल्पे कृते पाश्चात्यविकल्पोपगमे कालान्तरस्थितिर् एवास्य त्रुट्यतीति नित्यविकल्प एवानेनोपगन्तव्यः । तत्र [स्. 138ब्.] विनाशहेतुसन्निधौ स्वयं नाशोपगमे प्राङ् नित्यो भूत्वा पश्चाद् अनित्यो [त्. 306ब्.] विनश्वरस्वभावो भवतीति ब्रूते । एवंच ब्रुवाणो भावद्वयंचाह । वक्ष्यमाणापेक्षश् चकारः । {प्. 142.1} कीदृशं भावद्वयम्? । नित्यानित्यौ स्वभावौ भेदौ यस्य तथा । यो ऽसौ नित्यः स्वभावः प्राक्तनः तस्य नित्याभिमतस्य स्वयं पश्चान् नाशं ब्रुवाणः सर्वदा प्रतिक्षणम् एव नाशं प्राह । अन्यथा पूर्वोक्तेन न्यायेन पश्चाद् अपि नाशासम्भवात् । अथ प्रतिक्षणम् अस्य नाशो न भवति तदा पश्चाद् अपि तदयोगात् सर्वदैवानाशं प्राहेति कृत्वा पूर्वस्मिन्न् इत्य् आभिमते स्वभावे विनाशहेतुर् असमर्थो ऽकिञ्चित्कर एव ।
ननु च विनाशहेतोर् नैव सामर्थ्यम् उपगतं परेण विरोधिसन्निधिम् अपेक्ष्य स्वयं नाशोपगमात् । न । अत एव तन्निबन्धनत्वप्रसङ्गात् नाशस्य । अन्यथा ह्य् अकिञ्चित्करः किम् इत्य् असाव् अपेक्ष्यते?, हेतुभावस्यापेक्षालक्षणत्वात् । स्वहेतव एवात्रापराध्यन्ति यदकिञ्चित्करे ऽपि तत्रापेक्षायां नियुञ्जत इति चेत् । कः पुनर् अयम् अस्थानाभिनिवेशः तेषां यत् तत्र तथा नियुञ्जते । [स्. 139अ.] तस्माद् उपकार्यपेक्षायाम् 1 एव हेतवो[556]नियुञ्जानाः शोभन्ते । अन्यथा ते ऽपि कार्यात्मानो[557]नैव तन्नियोगमाद्रियेरन्[558]। कथं चाकिञ्चित्करो विरोधी नाम? । न ह्य् अस्याविरोधित्वाभिमताद्[559]विशेषः कश्चिद् इति यत्किञ्चिद् एतत् ।
यद् अप्य् उक्तं `यथा ऽन्येषां क्षणिकवादिनाम् अकिञ्चित्करम् अपि मुद्गरादिकम् अपेक्ष्य [स्. 307अ.] घटादिप्रवाहो निवर्त्तते तथा ऽस्माकम् अपि कालान्तरस्थायी भावःऽ इति तद् अपि परसमयानभिज्ञतयोच्यते । यतो नास्माकं प्रवाहो नाम क्षणव्यतिरिक्तो ऽस्ति यो ऽकिञ्चित्करमुद्गरादिसन्निधौ निवर्त्तेत । क्षणा एव हि केवलं सन्ति । ते च स्वनिवृत्तौ न मुद्गरादिकम् अपेक्षन्ते, स्वरसत एव निरोधात् । या तु तेषां कपालादिवृत्तिलक्षणा पर्युदासवृत्त्या निवृत्तिः यस्यां सत्याम् एकत्वाभिनिवेशिनो लोकस्य सदृशापरभावरूपस्य विभ्रमनिमित्तस्यापगमात् `निवृत्ता घतादयःऽ इति व्यवहारः, तत्राकिञ्चित्करत्वं मुद्गरादीनां नैवास्ति, तद्भाव एव तेषां भावात् । वेगवन् मुद्गरादिसहकारिणो घटक्षणात् परस्परोपसर्प्पणाद्याश्रयात् {प्. 143.1} प्रत्ययविशेषात् [स्. 139ब्.] सञ्जातातिशयात् कपालादेर् भवनधर्मत्वात् तस्य तज्जननस्वभावाद् इति ।
स्वभावद्वयोपगमप्रसङ्गाद् इति परिजिहीर्षया पर आह -- न प्राग् इत्यादि । कुत एतत्? । एकस्वभावत्वात् । सर्वदैकस्वभावस्य सर्वदा नित्यतैव न पश्चाद् अनित्यस्वभावतासम्भव इति ।
सिद्धान्तवाद्य् आह -- स तर्हि भावः [त्. 307ब्.] सर्वदा नित्यस्वभावः स्वभावेन नाशमनाविशन् अप्रतिपद्यमानः 1 कथं नैव नष्टो (कथं नष्टो) नाम[560]? । कुतः? तत्स्वभावविनाशयोः नित्यस्वभावताया, विनाशस्य चानित्यरूपतायाश् च अपरस्पररूपत्वात् परस्परपरिहाररूपत्वात् । उपसंहरन्न् आह -- यत एवं स्थितिधर्मणां विनाशो नैव युज्यते तस्मात् सति अस्य विनाशे यद्य् अवश्यम्भावी कृतकरूपस्य सतो विनाश इष्यते परैस् तदा विनाशस्वभावेन विनश्यति नावतिष्ठत इति विनाशः । कर्त्तरि बहुलवचनाद् घञ् । स स्वभावो यस्य तेन विनाशस्वभावेनास्थितिधर्मणा । तेन कृतकरूपेण सता वस्तुना स्वहेतुभ्यो भवितव्यम् अन्यथा ऽवश्यम्भावितयोपगतस्य कृतकात्मनां सतां विनाशस्यैवायोगात् ।
भवत्व् एवम् इति चेत् । आह -- तथापि स्वयं विनाशस्वभावत्वे ऽपि [स्. 140अ.] न केवलम् अविनश्वरस्वभावत्वे स्वभावान्यथात्वासम्भवाद् व्यर्थो विनाशहेतुर् इति प्रथमविकल्पोपन्यास एवोक्तम् न पुनर् उच्यते । यत एवं तेन इत्यादि सुगमम् ।
तद् एवं विनाशं प्रत्यनपेक्षाम् असामर्थ्य-वैयर्थ्याभ्यां तद्धेत्वयोगेन कृतकलक्षणस्य सत्त्वस्यपूर्वाचार्यदर्शतां प्रतिपाद्य यथा ऽसौ विपर्यये बाधकप्रमाणताम् अनुभवति तद् दर्शयन्न् आह -- तस्माद् विनाश इत्यादि । प्रयोगस् त्व् एवम् -- ये यद्भावं प्रत्यनपेक्षास् ते तद्भावनियताः । [त्. 308अ.] तद् यथा -- अन्त्या कारणसामग्री स्वकार्योत्पादने । अनपेक्षश् च कृतकरूपः सन् भावो विनाशे {प्. 144.1} ऽवश्यम्भाविविनाशतयोगतः परैर् इति स्वभावहेतुप्रसङ्गप्रयोगो विपर्यये बाधकं प्रमाणंपूर्वाचार्यप्रदर्शितम् । ततः तद्भावनियतत्वे, नाशस्याकादाचित्कत्वाद् उदयानन्तरं नाश इति यःसन् कृतकलक्षणो भावः स विनाशी विनश्वरस्वभावो नश्वरतायाः साध्यधर्मस्य निवृत्तौ च कृतकलक्षणसत्त्वनिवृत्तिर् इति कृत्वा कृतकलक्षणस्य सत्त्वस्य क्षणिकतायाम् अन्वयव्यतिरेकसिद्धिः सम्पद्यते
ऽनपेक्षया ऽन्यक्रान्तसत्त्वक्षणिकत्वयोस् तादात्म्यसिद्धेः तन्निबन्धनयोर् अन्वयव्यतिरेकयोर् अपि निश्चयात् ।
तद् एवंपूर्वाचार्यान् प्रति अकृतकस्य सतो ऽभावात् सदकारणवन् नित्यम् [वैसू 4.1.1.] इति नित्यलक्षणविरहाद् एव न तन्नित्यत्वम् । यत् तु [स्. 140ब्.] सद् उत्पत्तिमत् तद् उक्तेन न्यायेनावश्यं नाशितयोपगतं परैः कालान्तरस्थायि न भवतीति प्रति पादितम् ।
__________नोतेस्__________
[551] प्. 83.22
[552] प्. 83.1
[553] प्. 116.13
[554] -नां संग्रहः । ता- -- त्.
[555] विनाशहेतोर् अस्थिरस्वभावत्वात् विनाशहेतोर् अस्थिति- -- त्.
[556] एव स्वहे- -- त्.
[557] कार्याणि ।
[558] हेतु- ।
[559] विरोधिनः ।
[560] कथं नष्टो नाम -- त्ब्.
[ सेच्तिओन्: 44. सामान्येन सत्त्वक्षणिकत्वयोस् तादात्म्यव्याप्तिप्रदर्शनम् ।]
यदा तु यत् सत् तत् क्षणिकम् एवेति सामान्येनोच्यते कृतकाकृतकलक्षणं सतो भेदम् अनपेक्ष्य प्रौढवादितया कृतकस्यापि चावश्यम्भावी विनाश इति परोपगमो [त्. 308ब्.] नापेक्ष्यते, तदा विनाशं प्रत्यनपेक्षत्वम् एव सर्वस्य न सिध्यति । येषां हि विनाशो भवं(वन्) दृष्टो घटादीनां तेषाम् एव तद्धेत्वयोगात् तत्रानपेक्षा युज्यते ।
ये तु देशादिव्यवहिताः पर्वतादयो वा विनाशम् आविशन्तो न दृष्टाः तेषाम् अवश्यं विनाशित्वोपगमनिबन्धनाभावाद् अन्त्ये ऽप्य् अयं विनाशं प्रत्यनपेक्ष एव विनश्यन्न् ऽविशेषाद् आदाव् अपि तद्भावनियत इति वक्तुम् अशक्यत्वात् तत्स्वभावसापेक्षत्वात्[561]। विनाशं प्रत्यनपेक्षत्वासिद्धेर् अकृतकानां चाकाशादीनां विनाशिस्वभावसापेक्षाणाम् इत्य् अनपेक्षया सतो नश्वरस्वभावता ऽसिद्धेः अन्वयव्यतिरेकयोस् तन्निबन्धनयोर् अयोगम् उत्पश्यन्न् अर्थक्रियाविरोधलक्षणम् एव तदा बाधकं प्रमाणं तादात्म्यप्रसाधकम् अभिधानीयम् इति मन्यमानः पूर्वपक्षम् उत्थापयन्न् आह -- स्वभावतो नश्वरत्वे ऽप्य् उक्तेन {प्. 144.1} न्यायेन परिदृश्यमानविनाशानां घटादीनां कश्चिद् देशादिव्यवहितः[562]पर्वतादिर् वा ऽनुपलब्धविनाशः कृतको ऽपि सद्रूप आकाशादिर् वा ऽकृतकः [स्. 141अ.] सन् न ऽतत्स्वभावो ऽपि अविनाशिस्वभावो ऽपि स्यात् । अपिशब्दः
सम्भावनायाम् । तस्य[563]विनाशिस्वभावसंसाधकप्रमाणाभावाद् आशङ्क्यत एतत् । ततश् च विनाशिस्वभावसापेक्षत्वात् तदनपेक्षत्वम् असिद्धम् इति तद्वशात्[564]साध्यस्य [त् 309अ.] क्षणिकत्वस्य सत्त्वस्वभावत्वासिद्धेः तन्निबन्धना नान्वयव्यतिरेकसिद्धिर् इति । किं पुनर् अत्राशङ्कानिमित्तं येन कश्चिद् अतत्स्वभावो ऽप्य् आशङ्क्यत इत्य् आह -- न हि सर्वःसर्वस्य स्वभावः इति । विचित्रस्वभावा हि भावा दृश्यन्ते -- केचित्[565]सप्रतिघाः केचिद्[566]अप्रतिघाः, तथा नीलानीलादिस्वभावाः, तथा केचिद् विनाशिनः अन्ये त्व् अविनाशिस्वभावाः शङ्क्यन्त इति पूर्वपक्षाशङ्का ।
न -- `कश्चिद् अतत्स्वभावो ऽपि स्यात्ऽ -- इति आशङ्कनीयम्, तथाभावे ह्य् अक्षणिकत्वं तस्य स्यात् । तस्मिंश् च सत्य् अवस्तुत्वप्रसङ्गात् कुतो ऽतत्स्वभावताशङ्का? । कथं पुनर् अक्षणिकत्वे ऽवस्तुत्वप्रसङ्गः? । यतः[567]सत्त्वस्य क्षणिकत्वस्वभावतया ऽन्वयव्यतिरेकसिद्धिर् इत्य् अत आह -- शक्तिर् हि इत्यादि ।
__________नोतेस्__________
[561] अनित्य-
[562] विप्रकृष्टः -- त्.
[563] आकाश-
[564] अनपेक्षत्ववशात्
[565] घटपटादयः
[566] विज्ञानादयः
[567] अवस्तुत्वप्रसङ्गत्वात्
[ सेच्तिओन्: 45. अर्थक्रियाकारित्वम् एव सत्त्वं, तच् च क्षणिकानाम् एवेति ।]
एवं मन्यते -- इह तावद् इदम् एव विचारणीयम् [स्. 141ब्.] किं लक्षणम् एतद् भावानां सत्त्वं युक्तम् इति । तत्र न सत्तायोगलक्षणम् अव्याप्तेः, सामान्यादिष्व् अभावात् । वन्ध्यासुतादिष्व् अपि भावाद् अतिव्याप्तेर् वा । वन्ध्यासुतादीनाम् असत्त्वात् कथं सत्तायोगः? इति चेत् । न । इतरेतराश्रयात् । यतस् तेषाम् असत्त्वं सत्तायोगविरहाद् एव [त्. 309ब्.] तद्विरहश् चासत्त्वाद् इति । यदि च सताम् एव सत्तायोगः एवं तर्ह्य् अन्यत् सत्त्वलक्षणम् अभिधानीयम् सत्तायोगस्य च वैयर्थ्यम्, तत एव वस्तुनः सत्त्वात् । सर्वार्थक्रियासामर्थ्यविरहात् {प्. 146.1} सत्तायोगाभावस् तेषाम् इति चेत् । एवं सति यद् एवार्थक्रियासामर्थ्ययुक्तं तस्यैव सत्तायोग इत्य् अर्थक्रियासामर्थ्यम् एव भावलक्षणमायातम् इत्य् अपार्थकः सत्तायोगः । इत्थंच एवम् । अन्यथा सामान्यादीनां कथं स्वरूपं सत्त्वं स्यात्? । अर्थक्रियासामर्थ्यं तु सर्वेषाम् अस्तीति तद् एव भावलक्षणम् ।
उत्पादव्ययध्रौव्ययुक्तंसत् [तत्त्वार्थ- 5.29.] इत्य् एतद् अप्य् अयुक्तम्, ध्रौव्येणोत्पादव्यययोर् विरोधात् एकस्मिं(स्मिन्) धर्मिण्य् अयोगात् । कथञ्चिदुत्पादव्ययौ कथञ्चित् ध्रौव्यम् इति चेत् । यथोत्पादव्ययौ न तथा ध्रौव्यम्, यथा च ध्रौव्यं न तथोत्पादव्ययाव् इति नैकं वस्तु यथोक्तलक्षणं [स्. 142अ.] स्यात् । ततो ऽन्यस्य भावलक्षणस्यायोगात् शक्तेश् चान्तशः स्वज्ञानजनने ऽप्य् उपगमात् परैः, अन्यथा षट्पदार्थादिव्यवस्थानायोगात् सैव भावलक्षणम्, सर्वशक्तिविरहः पुनर्भावलक्षणम् ।
सर्वग्रहणं च सर्वस्य वस्तुनो वस्त्वन्तरशक्तिविरहरूपत्वाद् अभावतानिरासार्थम् । यस्य तु न क्वचिच्छक्तिः स एवैकान्तेनाभाव उच्यते ।
शक्तिलक्षणम् एव सत्त्वम् अक्षणिके स्यात् ततः क्षणिकात्मता [त्. 310अ.] सत्त्वस्य न सिध्यतीति कुतो ऽन्वयव्यतिरेकौ? इति चेत्, आह -- न चैवाक्षणिकस्य क्वचित् कार्ये ऽन्तशो ज्ञानलक्षणे ऽपि शक्तिर् अस्ति तत् कुतस् तस्य तल्लक्षणं सत्त्वम् अतीतादेर् इव भविष्यति?, यतः सत्त्वस्य क्षणिकात्मता न सिध्येत् ।
ननु च शक्तेर् अतीन्द्रियत्वात् कारणानां कार्यारम्भनियमाभावाच् च कथं तद्विरहो ऽक्षणिकस्य भवेत् यतो ऽस्य सर्वशक्तिविरहलक्षणेनासत्त्वेन विरोधिना निराक्रियमाणं सत्त्वं क्षणिकात्मताम् एवानुभवेत् यतो ऽन्वयव्यतिरेकौ स्याताम् इत्य् अत आह -- क्रमयौगपद्याभ्याम् इत्यादि । नैव प्रत्यक्षतः [स्. 142ब्.] कार्यविरहाद् वा सर्वशक्तिविरहो ऽक्षणिकत्वे उच्यते, किन्तु तद्व्यापकविरहात् । तथा हि -- क्रमयौगपद्याभ्यां कार्यक्रिया व्याप्ता प्रकारान्तराभावात् । ततः कार्यक्रियाशक्तिव्यापकयोस् तयोर् अक्षणिकत्वे {प्. 147.} विरोधात् निवृत्तेस् तद्व्याप्तायाः कार्यक्रियाशक्तेर् अपि निवृत्तिर् इति सर्वशक्तिविरहलक्षणम् असत्त्वम् अक्षणिकत्वे व्यापकानुपलब्धिर् आकर्षति, विरुद्धयोर् एकत्रायोगात् । ततो निवृत्तं सत्त्वं क्षणिकेष्व् एवावतिष्ठमानं तदात्मताम् अनुभवतीति -- `यत् सत् तत् क्षणिकम् एवऽ इत्य् अन्वयव्यतिरेकरूपाया व्याप्तेः सिद्धिर् निश्चयो भवति ।
ननु च प्रकारान्तराभावात् कार्यम् अङ्कुरादिकं बीजादिना क्रमयौगपद्याभ्याम् एव क्रियत इत्य् उच्यते स एव तु प्रकारान्तरविरहः [त्. 310ब्.] कार्यात्मनः कुतः सिद्धः? । प्रकारान्तरस्योपलब्धिलक्षणप्राप्तत्वे कथम् अत्यन्तासम्भवः? । केवलं देशादिनिषेधमात्रम् एव स्यात् । 1 अनुपलब्धिलक्षणप्राप्तत्वे ना ऽसत्तानिश्चयो विप्रकर्षिणाम्[568]इति कुतस् तदभावसिद्धिः? । ततः प्रकारान्तरेणार्थक्रियासम्भवात् क्रमयौगपद्यनिवृत्ताव् अपि नार्थक्रियासामर्त्थ्यनिवृत्तिर् इति कुतो ऽक्षणिकत्वे सति सर्वसामर्थ्यविरहलक्षणम् असत्त्वम्?, यतः सत्त्वस्य क्षणिकात्मतया ऽन्वयव्यतिरेकौ स्याताम्? । न । उभयथा ऽप्य् अदोषात् । [स्. 143अ.] तथा हि -- क्रमो नाम परिपाटिः कार्यान्तरासाहित्यं कैवल्यम् अङ्कुरादेः, यौगपद्यम् अपि तस्यापरैर् ब्बीजादिकार्यैः साहित्यं । प्रकारान्तरं चाङ्कुरादेः तदुभयावस्थाविरहे ऽप्य् अन्यथाभवनम् । तस्य चाङ्कुरादिस्वभावस्यान्यसहितस्य
केवलस्य वा ऽभावे प्रत्यक्षबोधगम्यमाने सत्य् उपलब्धिलक्षणप्राप्त एव स्वभावः क्रमयौगपद्यभावबहिर्भूतो नोपलभ्यते । वस्तुनः उपलभ्यस्यान्यसाहित्ये कैवल्ये चापनीते तद्विविक्तदेशादिप्रतिभासिनः[569]प्रत्यक्षस्योदयात् स्वभावानुपलम्भत एवाभावनिश्चयादिलक्षणव्यवहारवृत्तेः । तस्य चाङ्कुरादिभावस्यावस्थाद्वयबहिर्भावनिषेधे कयोश्चिद्देशकालयोः देशान्तरादौ क्रमेणाङ्कुरादिभाववतीतरस्मिन् वा भावे ऽपि न काचित् क्षतिः । ततः प्रत्यक्षत एव [त्. 311अ.] प्रकारान्तराभावसिद्धेः कथं क्रमयौगपद्याभ्याम् अर्थक्रियाशक्तिर् अव्याप्ता स्यात्? ।शास्त्रकारस् तु यथा प्रत्यक्षता एव प्रकारान्तराभावसिद्धिः तथा स्वयम् एतेन क्रमाक्रमादयो ऽपी ति अतिदिशन् वक्ष्यति ।
{प्. 148.1} अनुपलब्धिलक्षणप्राप्तत्वे ऽपि प्रकारान्तरस्य क्रमयौगपद्ययोर् अन्यो ऽन्यव्य[स्.143ब्.]वच्छेदरूपत्वाद् एवाश्रयसि(-द् एवाभावसि)द्धिः तथा हि -- अन्योन्यव्यवच्छेदरूपाणाम् एकनिषेधेनापरविधानात् तस्या[570]ऽप्रतिषेधे विधिप्रतिषेधयोर् विरोधाद् उभयप्रतिषेधात्मनः प्रकारान्तरस्य कुतः सम्भवः? । अत्र प्रयोगः -- यत्र यत्प्रकारव्यवच्छेदेन यदितरप्रकारव्यवस्थानं न तत्र प्रकारान्तरसम्भवः, तद् यथा -- नीलप्रकारव्यवच्छेदेनानीलप्रकारान्तरव्यवस्थायां पीते । अस्ति च क्रमयौगपद्ययोर् अन्यतरप्रकारव्यवच्छेदेन तदितरप्रकारव्यवस्थानम् व्यवच्छिद्यमानप्रकाराविषयीकृते सर्वत्र कार्यकारणरूपे[571]वस्तुनीति विरुद्धोपलब्धिः व्यवच्छिद्यमानप्रकारेतरव्यवस्थानं च, प्रकारान्तरसम्भवश्[572], [573] च ततो बहिर्भावलक्षण इत्य् अनयोस् तत्त्वा ऽन्यत्वरूपयोर् अन्योन्यपरिहारस्थितलक्षणत्वात् । न चात्रापि बाधकान्तराशङ्कया ऽनवस्थानम्
आशङ्कनीयम्, पूर्वप्रसिद्धस्य [त्. 311ब्.] [स्. 144अ.] विरोधस्य स्मरणमात्रत्वात् । विरुद्धोपलब्धिषु बहिर्द्धर्मिणि हेतोः सद्भावम् उपदर्श्य विरोधसाधनम् एव बाधकम्, तच् चेहास्ति । ततो विरुद्धयोर् एकत्रासम्भवात् प्रतियोग्यभावनिश्चयः शीतोष्णस्पर्शयोर् इव भावाभावयोर् इव वेति कुतो ऽनवस्था? ।
तत्र न क्रमेणाक्षणिकः कार्याणि करोत्य् अविशेषाद् अकारकावस्थायाम् इव । सहकार्यपेक्षा च द्विविधस्यापि सहकारित्वस्यायोगाद् अनुपन्यसनीया । सर्वेषां चैकक्रियाकाल एव क्रियाप्रसक्तेः, तत्कारकस्य स्वभावस्य तदैव भावात् । नापि युगपत्, प्रत्यक्षादिविरोधात्[574]पुनस् तत्क्रियाप्रसङ्गाच् च । कृतत्वान् नेति चेत्, न, सामर्थ्यानपायात् । अन्यथा प्राग् अप्य् अकारकरूपाविशेषाद् क्रिया स्यात् । कृतस्य कर्त्तुम् अशक्यत्वाद् इति चेत् । शक्ताशक्ततया तर्ह्य् एकत्रैव कार्ये भेदप्रसङ्गः शालिकोद्रवबीजादेर् इव । नित्यश् च यदा युगपत् करोति ततः प्राग् अपि भावात् तदैव तत्क्रियाप्रसङ्गः पुनस् ततो ऽपि पूर्वतरम् इत्य् एवं [स्. 144ब्.] न कदाचिद् युगपत् क्रिया स्यात् । पूर्वोत्तरकालयोश् चैकदा युगपत् कारिणो ऽन्यदा {प्. 149.1} सर्वार्थक्रियासामर्थ्यविरहलक्षणम् असत्त्वं स्याद् इति कथं न क्षणिकता? । क्रियोपगमे वा क्रमपक्ष एव । तत्र चोक्तो दोषः । एवम् अक्षणिकत्वे [त्. 312अ.] सति चक्षुराद्याय-
तनानामसत्त्वप्रसङ्गात्[575]क्षणिकतायाम् एव सत्त्वम् इति यत् सत् तत् क्षणिकम् एवेति सतो नश्वरात्मतासिद्धेः अन्वयव्यतिरेकरूपव्याप्तिसिद्धिर् इति ॥[576]
{प्. 150.1} [ 3. कार्यहेतुनिरूपणम् ।]
__________नोतेस्__________
[568] -त्वेन सत्तानिश्चयो न, वि- -- त्.
[569] प्रकारान्तर- ।
[570] विहितस्य ।
[571] -णभूते -- त्.
[572] व्यवच्छिद्यमानप्रकारेणेतरव्यवस्थानात् ।
[573] -रान्तरास- -- त्.
[574] प्रत्यक्षविरोधात् -- त्.
[575] -द्यायत्तानाम- -- त्.
[576] त्. अद्द्स् हेरे ब्राह्मणाचतविरचिते विवरणे स्वभावहेत्वधिकारः प्रथमः ।
[ सेच्तिओन्: 1. कार्यकारणभावव्यवस्था ।]
तद् एवं स्वभावहेतौ तादात्म्यसिद्धिनिबन्धनम् अन्वयव्यतिरेकनिश्चयं प्रतिपाद्य कार्यहेतौ कार्यकारणभावसिद्धिनिमित्तत्वात् तयोस् तस्याश् च प्रत्यक्षानुपलम्भनिबन्धनायाः प्राग् एव दर्शितत्वात् तद्गतम् अपरम् अपि परेषां भ्रान्तिकारणम् अपनेतुं तद्विषयं दर्शयन्न् आह -- अर्थान्तरे हेतोर् व्यतिरिक्ते वस्तुनि गम्ये कार्यंहेतुः । अनर्थान्तरे तु स्वभावो हेतुर् इत्य् उक्तम् । कस्मात् [स्. 145अ.] पुनर् अर्थान्तरे कार्यम् एव हेतुर् इत्य् आह -- अव्यभिचारात् इति कार्यम् एव ह्य् अर्थान्तरं न व्यभिचरति नान्यत् यथोक्तं प्राक् ततः कार्यम् एवार्थान्तरे गम्ये हेतुर् उच्यते संयोगवशाद् गमकत्वे ।
न च केनचित् इत्य्[577] 7 आदिना यः[578]सर्वथा गम्यगमकभावप्रसङ्गआचार्येणोक्तः परस्य, तम् इहापि कार्यहेतौ परः कदाचित् प्रसञ्जयेद् इत्य् आशङ्कमान आह -- कार्यकारण- इत्यादि [त्. 312ब्.] यदि हि कार्यं हेतुर् उच्यते तदा कार्यकारणभावेन कारणेनास्य गमकत्वम् । तथा च सति सर्वथा गम्यगमकभावः प्राप्नोति । अग्नेः सामान्यधर्मवद् विशेषधर्मा अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि विशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्मा गमका भवेयुः । कुतः? सर्वथाजन्यजनकभावात् । जन्यजनकभावो हि कार्यकारणभाव उच्यते । स च नाग्निधूमयोर् अंशेन अपि तु सर्वेण प्रकारेण । तथा हि -- यथा अग्निर् अग्नित्वद्रव्यत्वसत्वादिभिः सामान्यधर्मैर् जनकः तथा तार्णपार्णत्वादिभिर् विशेषधर्मैर् अपि, यथा च धूमो धूमत्वपाण्डुत्वादिभिः स्वनियतैर् विशेषधर्मैर् जन्यः तथा [स्. 145ब्.]
सामान्यधर्मैर् अपि सत्त्वद्रव्यत्वादिभिः । ततश् च यथा तयोः कार्यकारणभावः तथैव गम्यगमकभावः प्राप्नोति, तस्यैव तन्निबन्धनत्वाद् इति पूर्वपक्षाशङ्का । अत्राह -- न सर्वथाजन्यजनकभावः ततश् च कुतस् तथा गम्यगमकभावः स्यात्? । कस्मात्? इति चेत्, {प्. 151.1} तद्भावे तेषां तार्णपार्णत्वादीनां विशेषधर्माणाम् अभावे भवतो धूममात्रस्य तेभ्य एव विशेषधर्मेभ्यो भवतीति एवम् आत्मनः तदुत्पत्तिनियमस्याभावात् । तथा तदभावे अग्न्यभावे भवतो द्रव्यत्वादेः [त्. 313अ.] सामान्यधर्मस्याग्नेर् एवायं भवतीत्य् एवंरूपस्य तदुत्पत्तिनियमस्याभावात् कुतः सर्वथा जन्यजनकभावः?, यतः सर्वथा गम्यगमकभावः स्यात् । न ह्य् असति तदुत्पत्तिनियमे जन्यजनकभावो व्यवस्थापयितुं युक्तः[579]। यत एवं तस्मात् कार्यं धूमादिकं स्वभावैर् यावद्भि र् धूमत्वादिभिः स्वगतैः । इत्थम्भूतलक्षणा
च तृतीया । अविनाभावि विना न भवति । कैर् विना न भवति? । `कारणे यावद्भिः स्वभावैःऽ इत्य् अत्रापि सम्बध्यते । कारणाश्रितैर् यावद्भिः [स्. 146अ.] स्वभावैर् विना ते कार्यगताः स्वभावा न भवन्ति हेतुः तैस् तेषाम् इति गम्यते । क्व अविनाभावि? । कारणे कारणविषये अपरो ऽर्थः कारणे आधारसप्तमी । इदानीं कारणस्थैः स्वभावैर् यावद्भिर् अग्नित्वद्रव्यत्वादिभिर् अविनाभावि तेषां कारणगतानां सामान्यधर्माणां हेतुः कार्यं गमकम् । कस्मात्? इत्य् आह -- तत्कार्यत्वनियमात् तेषाम् एव कारणगतानां सामान्यधर्माणां तत् कार्यम् इत्य् एवंरूपस्य नियमस्य सद्भावात् । न हि तान् सामान्यधर्मान् कदाचिद् अपि कार्यं व्यभिचरति ।
एवंकारणगतम् अंशं पाश्चात्येनार्थेन[580]निरूप्य प्राक्तनेनार्थेन 2 कार्यगतम् अंशं निरूपयन्न् आह -- तैर् एव च इत्यादि । कार्यम् अपि तैर् एव धर्मैः [त्. 313ब्.] स्वगतैः कारणगतानां धर्माणां गमकम् यथा ऽन्तरा सम्भविनो धूमत्वपाण्डुपार्णत्वादयो[581]विशेषरूपास्तैः कारणगतैः सामान्यधर्मैर् विना न भवन्ति । अत्रापि `तत्कार्यत्वनियमात्ऽ इत्य् अपेक्ष्यते । तेषाम् एव कार्यगतानां विशेषधर्माणां कारणगतसामान्यधर्मापेक्षया कार्यत्वनियमात् । न हि ते विशेषधर्माः कार्यगताः [स्. 146ब्.] कारणस्थसामान्यधर्मैर् विना कदाचिद् अपि भवन्ति । ततस् तेषाम् एव कार्यत्वनियमः, नान्येषां {प्. 152.1} द्रव्यत्वादीनां कारणस्थसामान्यधर्मैर् विना भवताम् । तद् एवं कारणस्य सामान्यधर्मा एव गम्या न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव गमका न सामान्यधर्माः, तत्कार्यत्वनियमात् । ये तु कारणस्य
विशेषधर्मा यैस् तत्कार्यत्वनियमः कार्यमात्रस्य नास्तीति न ते गम्याः । ये च कार्यस्य सामान्यधर्मा द्रव्यत्वादयस् तेषाम् अपि तत्कार्यत्वनियमाभावाद् एव गमकत्वं नास्तीति कार्यकारणभावेन गमकत्वे कुतः सर्वथा गम्यगमकभावः परेषाम् इव प्रसज्येत? ।
__________नोतेस्__________
[577] प्. 18.21
[578] -ना प्राक् यः -- त्.
[579] शक्यः -- त्.
[580] -नार्थिना -- त्.
[581] पाण्डुत्वपार्ण -- त्.
[ सेच्तिओन्: 2. जन्यजनकभावस्य सर्वथा सत्त्वे ऽपि गम्यगमकभावस्य न तथात्वम् ।]
परस्यानिष्टापादनम् आशङ्क्याह -- अंशेन इत्यादि । यदि हि कारणस्य सामान्यधर्मा एव गम्याः कार्यस्यापि विशेषधर्मा एव गमकाः तत्कार्यत्वनियमाद् इष्यन्ते, हन्त तर्ह्य् अंशेन जन्यजनकभावः प्राप्तः । कारणस्य सामान्यधर्मा एव जनका न विशेषधर्माः, कार्यस्यापि विशेषधर्मा एव जन्या न सामान्यधर्मा इति स्यात् । सर्वथा च जन्यजनकभावो ऽभिमत [त्. 314अ.] इत्य् अभ्युपगमविरोधः । एतत् परिहरति -- नांशेन जन्यजनकभावप्रसङ्गः, निरंशत्वेन वस्तुनः सर्वात्मना तदभ्युपगमात्, गम्यगमकभावस्यापि सर्वथा ऽभिमतत्वात् । तद् आह -- तज्जन्य -- इत्यादि । यदि हि कार्यस्य तैः कारणगतैर् विशेषधर्मैर् जन्यो यो विशेषः स ग्रहीतुं शक्यते, तदा तज्जन्यविशेषग्रहणे ऽभिमतत्वात् [स्. 147अ.] कारणगतविशेषधर्माणां गम्यत्वस्य । तथा लिङ्गविशेषो धूमत्वादिः उपाधिर् विशेषणं येषां द्रव्यत्वादीनां सामान्यानां कार्यगतानां
तेषां चाभिमतत्वाद् गमकत्वस्य । तथा हि -- अगुरुधूमग्रहणे भवत्य् एव तदग्नेर् अनुमानं धूमत्वविशेषणेन च द्रव्यत्वादिना ऽग्नेर् अनुमानम् । न हि सर्वथा जन्यजनकभावो ऽस्तीत्य् एव तथैव गम्यगमकभावो भवति, तस्य ज्ञानापेक्षत्वात् । तथा हि -- न सत्तामात्रेण लिङ्गस्य गमकत्वम्, तस्य ज्ञापकत्वात्[582]। ज्ञापको हि स्वनिश्चयापेक्षो ज्ञाप्यम् अर्थं ज्ञापयति, नान्यथा । कथं {प्. 153.1} तर्ह्य् उक्तं 2 तदभावे बवतःतदुत्पत्तिनियम(मा)भावात् [583]इति? । सर्वथा जन्यजनकभावाभ्युपगमे [त्. 314ब्.] तदभावे भावस्यैवाभावाद् इत्य् अत[ह्13]आह -- अविशिष्त इत्यादि । यदि हि तज्जन्यविशेषग्रहणरहितम् अविशिष्टं कार्यमात्रम् उपादीयते लिङ्गविशेषोपाधिरहितं वा द्रव्यादिकं तदा अविशिष्टसामान्यविवक्षायां कारणगतविशेषाभावे ऽपि धूममात्रस्य भावात् तदविशिष्टस्य च द्रव्यत्वादेर् अग्न्यभावे ऽपि भावाद् व्यभिचार इति सर्वथा [स्.
147ब्.] जन्यजनकभावो नेष्यते, तदभावाद् गम्यगमकभावश् च । न तु विशेषविवक्षायाम्, तत्र व्यभिचाराभावात् । तथा हि -- यदि नाम धूममात्रं तार्णपार्णादिविशेषाभावे भवति, न तु तज्जन्यो विशेषः, स यदि ग्रहीतुं शक्यते, तदा विशेषस्य गम्यत्वम् अस्त्य् एव, निश्चितस्यैव लिङ्गत्वात् । तथा यद्य् अपि द्रव्यत्वसत्त्वमात्रम् अग्न्यभावे ऽपि भवति न तु धूमात्मकम् इति तद्विशिष्टस्याव्यभिचाराद् गमकत्वम् अपि न वार्यत इति ।
__________नोतेस्__________
[582] ज्ञापकापेक्षत्वात् -- त्.
[583] प्. 151.1.
[ सेच्तिओन्: 3. कार्यकारणभावप्रतीतेर् अतिदुर्लभत्वाशङ्काया निरासः ।]
अत्र परस्य वचनावकाशम् आशङ्क्याह -- कस्यचित् धूमादेः कदाचित् कस्मिंश्चित् काले कुतश्चित् अग्न्यादेः भावे ऽपि सति सर्वो धूमादिः तादृशो यादृश एकदा ऽग्न्यादेर् भवन् दृष्टः तज्जातीयः, तथाविधजन्मा यथाविधात् स एको भवन् दृष्टः तादृशाद् एव जन्म यस्य स । तथाविधजन्मेत्य् एतत् कुतः प्रमाणाद् अवसितम्? येनोच्यते [त्. 315अ.] `कार्यहेतौ कार्यकारणभावसिद्धिनिबन्धनाव् अन्वयव्यतिरेकौऽ इति । तथा हि -- यदि नाम प्रत्यक्षानुपलम्भाभ्यां कस्यचिद्धूमस्याग्न्यादिसामग्रीकार्यत्वम् अवगतं किम् एतावता ऽन्यस्यापि [स्. 148अ.] तादृशस्य तादृशकार्यता सिध्यति, तत्र तन्निबन्धनयोः[584]प्रत्यक्षानुपलम्भयोर् अव्यापारात् । तत्रैव हि तयोर् व्यापारस् तस्यैव तत्कार्यता भवतु, तद् अन्यस्य तु किम् आयातम्? येन तथाविधाद् अस्य जन्म स्यात् । एवं हि कस्याश्चिद्धूमव्यक्तेर् अग्न्यादिजन्यता दृष्टेति किन्न घटादेर्
अपि सा ऽभ्युपगम्यते? {प्. 154.1} अन्यत्वेन विशेषाभावात् । क एवं सति दोषः? इति चेत्; तथा च प्रमाणाभावेन तथाविधजन्मत्वानिश्चयाद् अतादृशाद् अपि जन्माशङ्कायां तादृशस्य धूमादेर् अग्न्यादिना ऽन्वयव्यतिरेकौ न निश्चिताव् इति कुतः कार्यहेतोर् ग्गमकत्वम्? । न हि यो ऽस्माव् एको देशकालावस्थानियतो ऽग्निविशेषहेतुको धूमो ऽधिगतः प्रत्यक्षानुपलम्भाभ्यां तस्यैवान्वयव्यतिरेकौ प्रतिपत्तव्यौ । तस्य देशान्तरादाव् असम्भवात् । किं तर्हि? । तादृशस्य सामान्यात्मन एव लिङ्गत्वात् तस्य चातथाविधाद् अपि जन्माशङ्कायां कुतस् तथाविधेनान्वयो व्यतिरेको वा? । तद् उक्तम् -
अवस्थादेशकालानांभेदाद् भिन्नासुशक्तिषु । [त्. 315ब्.]
भावानाम् अनुमानेन प्रतीतिर् [585] अतिदुर्ल्लभा॥ [वाक्य- 1.32] इति[586]।
सिद्धान्तवाद्य् आह -- न, अतद्भाविनः इत्यादि । एवं मन्यते -- इहैकदा धूमादेर् अग्न्यादिसामग्रीजन्यतया [स्. 148ब्.] प्रत्यक्षानुपलम्भाभ्यां निश्चितरूपत्वे ऽपि तादृशस्यातादृशाद् अपि भावः समाशङ्क्यते यथापरिदृष्टाद् अन्यत्वेन । तत्र यो ऽसाव् अग्न्यादिसामग्रीजन्यो धूमविशेष एकदा निश्चितस् तदपेक्षया यथा ऽन्यो धूमविशेषस् तादृशो यो ऽन्यादृशाद् अपि -- भावानां विचित्रशक्तितया -- भवेद् इति शङ्क्यते, तथा सो ऽप्य् एकदा ऽग्न्यादिसामग्रीजन्यतया निश्चितस् तदन्यापेक्षया तादृश एव । तत्र यदि तद् अन्यस्य तादृशस्यातादृशाज् जन्म स्यात् 3 तदा तादृशस्य[587]स्वभावस्य 4 नाग्न्यादिसामग्रीजन्यस्वभावतेति परिदृष्टस्यापि[588]धूमस्य ना ऽग्न्यादिसामग्री कारणम् इत्य् आयातम् । तादृशस्य स्वभावस्या ऽग्न्यादिसामग्रीविलक्षणकारणजन्यस्वभावत्वात् । ततश् चाग्न्यादिसामग्र्या अकारणत्वात् यो मयैकदा
ततो भवन् दृष्टो धूमः सो ऽपि न भवेत् । न हि यद् यस्य कारणं न भवति तत् ततः सकृद् अपि जायते, तस्याहेतुकत्वप्रसङ्गाद् इति । अतद्भाविनः इति तच्छब्देन विवक्षितम् अग्न्यादिकारणं परिगृह्यते, न तत् अतत्, तद्विलक्षणं अतादृशं शक्रमूर्द्धादिकम्, अतस्माद्[589]भवितुं [त्. 316अ.] शीलं {प्. 155.1} यस्य तस्यातद्भाविनस् तादृशस्य तल्लक्षणस्य धूमवस्तुनः सकृद् अपि एकदा ऽपि [स्. 149अ.] ततः अग्न्यादेः अभावाद् भावविरोधात् । भवति च तादृशो ऽग्न्यादिसामग्रीतः ततस् तादृशस्य स्वभावस्य तादृशम् एव कारणम् इत्य् अवगम्यते सकृत्प्रवृत्ताभ्याम् एव प्रत्यक्षानुपलम्भाभ्याम् इति कुतो व्यभिचाराशङ्का? । तेन यादृशो धूमो ऽग्न्यादिसामग्र्या भवन् दृष्टः सकृत् तादृशस्य तस्य तज्जन्यस्वभावतया तादृशाद् एव भावात् `यत्र धूमस् तत्राग्न्यादिसामग्रीऽ इत्य् अन्वयव्यतिरेकनिश्चयः ।
अथवा ऽन्यथा व्याख्यायते -- इह प्रत्यक्षानुपलम्भनिबन्धना कार्यकारणभावसिद्धिः प्रागुक्ता तन्निबन्धनाव् अन्वयव्यतिरेकौ 6 प्रतिपादयितुम्, तच् चायुक्तम्[590]। तथा हि -- कस्यचित् धूमस्याग्न्यादिसामग्र्यनन्तरभाविन आद्यस्य कदाचित् प्रथमोत्पादकाले कुतश्चिद् अग्न्यादिसामग्र्याः भावे ऽपि उत्पादे ऽपि सर्वस् 7 तादृशो यादृशः[591]प्रथमक्षणभावी धूमो द्वितीयादिक्षणेष्व् अपि तादृशः प्रत्यक्षत एव तस्य पूर्वक्षणाविलक्षणतया प्रतीतेः । तथाविधजन्मा इति यथाविधाद् अग्नीन्धनसामग्रीलक्षणात् कारणाद् आद्यो धूमक्षण उत्पन्नस् तथाविधाज् जन्म यस्य स तथाविधजन्मेत्य् एतत् कुतः नैव तस्य धूमादेर् अभावात् [त्. 316ब्.] । एवं च यद्यतो दृष्टं तस्यान्यतो ऽपि भावस्य दर्शनात् सर्वत्रानाश्वास [स्. 149ब्.] इति अन्यमान आह -- तथाच अनग्नितो धूमाद् अपि धूमस्य
भावे शक्रमूर्द्धादेर् अपि तस्य भावाविरोधाद् अग्निना धूमस्य नान्वयव्यतिरेकाव् इति चेन् मन्यस इति पूर्वपक्षाशङ्का ।
तदुक्तम् -
क्षणिकत्वे कथंभावाःक्वचिदायत्तवृत्तयः।
प्रथमधूमक्षणजनितो धूमक्षणस् तादृशो ऽपरप्रथमधूमक्षणजनित एव द्वितीयो धूमक्षणो न तृतीयादिः । एवं तृतीयक्षणादिष्व् अप्य् अङ्कुरादिषु च सर्वत्र वाच्यम् । कुतः पुनर् अयं विभागः? इति चेत्, आह -- अतद्भाविनः अतस्माद् -- अनग्नीन्धनादिरूपाद् धूमाद् [त्. 317अ.] भवनशीलस्य प्रथमक्षणाविलक्षणस्य धूमस्य सकृद् अपि [स्. 150अ.] एकदापि ततः अग्न्यादिसामग्र्याः अभावाद् अ भावायोगाद् । यथा हि प्रथमक्षणापेक्षया द्वितीयस् तादृशस् तथा तदपेक्षया प्रथमो ऽपीति तादृशत्वाविशेषात् तादृशस्यानग्नितो भावे तादृशो नाग्निजन्यस्वभावः इति सकृद् अपि ततो न भवेत् । भवन् वा तज्जन्यस्वभावताम् आत्मनस् तादृशः ख्यापयतीति कुतो ऽन्यादृशाद् भवेत्? तस्माद् अन्यादृशाद् भवन्न् अन्यादृश एव ततो न व्यभिचारः ।
__________नोतेस्__________
[584] कार्यकारणभावनि-
[585] प्रसिद्धि- -- वाक्य-
[586] इति चेत् -- त्.
[587] तदा ऽतादृ- -- त्.
[588] -तेत्य् अप- -- त्.
[589] तस्मात् -- त्.
[590] -तुम् इष्टौ त- -- त्.
[591] -शो न यादृ- -- त्.
[592] कारणशक्तिभेदेन स्वयं -- त्.
[ सेच्तिओन्: 4. भिन्नकारणजन्यानां धूमानां अतादृशत्वे ऽपि सादृश्यात् तादृशत्वाभिमानः ।]
ननु सर्वेषां 2 धूमक्षणानां कण्ठक्षणनाक्षिस्रुतिकालीकरणादिकायाम्[593]अर्थक्रियायाम् उपयोगात् कथं तादृशस्वभावता न स्यात्? । न, तस्या अप्य् अर्थक्रियायाः क्षणभेदोपधीयमानरूपायाः तादृशत्वाभावात् तत्रापि तुल्यदोषत्वात् । कथं तर्हि लोके सर्वत्र धूमव्यवहारः इति चेत्; सदृशापरभावनिबन्धनैकत्वाध्यवसायवशात् क्षणैर् व्यवहारायोगाच्[594]च । सादृश्ये सति कथं न तादृशता? इति चेत् । तादृशाद् अन्यत्वात् सदृशस्य । तथा हि -- गोसदृशो भवति गवयः न तु तादृशः, गोर् एवापरस्य तादृशत्वात् । परमार्थेनातादृशे ऽपि तादृशाभिमानो [स्. 150ब्.] मन्दमतीनां भवन् कथं निवार्येत? । तथा हि -- तत्त्वाध्यवसायो ऽपि तावद् -- अतस्मिन्न् अर्वाग्दृशां [त्. 317ब्.] विनिवारयितुं न पार्यते, किम् अङ्ग पुनस् तादृशत्वाध्यवसायः? यथोक्तम् -
{प्. 157.1.} समानवर्णसंस्थाने सन्ताने ऽन्यत्र जायते ।
अतस्मिंस् तन्मतिःपुंसांकिम् उतैकत्र संततौ ॥ इति ।
तत्त्वचिन्तकास् तु तादृशातादृशकारणभेदात् तादृशातादृशतां भावानां अनुमन्यन्ते न तादृशताम् । तद् यद्य् अतादृशाद् अपि तादृशो भवेत् तदा तस्य तज्जन्यः स्वभाव इत्य् अतद्भाविनः सकृद् अपि ततो भावो न स्यात् । अमुम् एवार्थं समर्थयमान आह -- परस्परापेक्षया इत्यादि । कारणापेक्षया हि जन्यस्वभावं कार्यम्, कार्यापेक्षया च जनकस्वभावं कारणम् । यतो हि कारणाद् यद् भवद् दृष्टम् तस्य तज्जन्यस्वभावः, इतरस्य च तज्जनक इति प्रतीयते । अन्यथा तस्य ततो भावायोगात्, इतरस्य च तज्जननायोगात् । यदि नामैवं ततः प्रकृते किं सिद्धम्? इत्य् अत आह तत्र एवस्मिन् न्याये सति यदि धूमो यादृश आद्यो ऽग्न्यादिसामग्रीजनितस् तादृशो द्वितीयादिक्षणभावी अग्न्यादिसामग्र्या [स्. 151अ.] अग्नीन्धनादिकारणकलापात् तज्जनकस्वभावतया निर्द्धारिता द् [595] अन्यतो ऽग्नीन्धनादिसामग्रीजनिताद्
आद्याद् धूमक्षणाद् भ-वेत् । तदा तस्य तादृशस्य धूमस्वभावस्य तज्जन्यो ऽग्न्यादिसामग्रीजन्यः स्वभावो न भवति किन्तु धूमजन्य एवेति कृत्वा सकृद् अपि ततो ऽग्न्यादिसामग्रीतो न भवेत् । तादृशस्य हि [त्. 318अ.] स्वभावस्यान्यतो भावे तज्जन्यस्वभावता, नाग्न्यादिजन्यस्वभावतेति कुतः सकृद् अपि ततो 1 भावो युज्यते[596]। अत्र दृष्टान्तः अर्थान्तरवद् इति । यथा ह्य् अर्थान्तरम्[597]अतज्जन्याभिमतम् अन्यतो भवत् न तज्जन्यस्वभावं नाग्न्यादिसामग्रीजन्यस्वभावम् इति सकृद् अपि ततो न भवति तद्वत् तादृशो धूमो ऽपीति ततो भवन्न् अन्यादृश एवासाव् इति गम्यते ।
स्यान्मतम् -- अग्न्यादिसामग्र्या ऽसाव् अतज्जन्यस्वभावो ऽपि तादृशो बलाज् जन्यते कस् तस्य तपस्विनो ऽपराधः? इत्य् अत आह -- नापि न केवलं स्वयम् अतज्जन्यस्वभावतया ततो न भवेत्, किन्त्व् अग्न्यादिसामग्र्य् अपि तं तादृशं धूमं -- यादृशो द्वितीयादिक्षणभावी {प्. 158.1} -- न जनयेत् । कुतः ? । अतज्जननस्वभावत्वात् । तादृशस्य ह्य् अन्यतो भावे स एव तज्जननस्वभावो नाग्न्यादिसामग्रीति तज्जननस्वभावविकला कथं तं जनयेत् ? । अत्राप्य् उदाहरणम् -- सामग्र्यन्तरवद् इति । यथा सामग्र्यन्तरम् अतज्जननस्वभावाभिमतं [स्. 151ब्.] न जनयति तद्वद् अग्न्यादिसामग्र्य् अपि । तथा हि -- सा आत्मीयं स्वभावम् अनुसृत्यैव प्रवर्त्तते, ततः कुतो ऽसौ सामग्रीबलाज् जायेत ? ।
__________नोतेस्__________
[593] -नां वर्णकालीकरणादि- -- त्.
[594] -हारयो- -- त्.
[595] निवारिता- -- त्.
[596] भावो न यु- -- त्.
[597] अङ्कुराद्यर्था- -- त्.
[ सेच्तिओन्: 5. त्[ह्14]आदृशातादृशजन्यत्वे कार्यस्यापि तादृशातादृशत्वम् ।]
स्यान्मतम् -- अग्न्यादिसामग्रीजन्यस्वभावो ऽपि तादृशो 3 धूमो धूमजन्यस्वभावो[598]ऽपि यथा स एव धूम इन्धनजन्यस्वभावो ऽग्निजन्यस्वभावश् चोभयतो [त्. 318ब्.] भवति । तथा तादृशो ऽपि धूम उभयसामग्रीजन्यस्वभावतयोभयतो भविष्यतीत्य् अत आह -- न च नैव धूमस्य तादृशस्य तदतज्जन्यः अग्न्यादिसामग्रीजन्यो धूमजन्यश् च स्वभावो युक्तः युक्त्या सङ्गताः । कुतः ? एकस्वभावत्वात् । तादृशस्य धूमरूपस्य भेदाभावात् । न हि तस्य कालभेदे ऽपि तादृग्रूपता भिद्यते ।भेदे ह्य् अन्यादृशस्यान्यादृशाद् भावे विवादायोगात् । तस्य यदि तादृशातादृशकारणजन्यता स्यात् ततस् तादृशातादृशस्वभावतैव स्यात् । तद् एव दर्शयन्न् आह -- धूमाऽधूम इत्यादि । धूमशब्देन यादृशो ऽग्न्यादिसामग्रीजन्यस् तादृशः स्वभावो ऽभिप्रेतः, अधूमशब्देनान्यादृशकारणजन्यो धूमजनितो
ऽन्यदृशः । तयोश् च तादृशातादृशकारणजन्यतयैव तादृशातादृशस्वभावता ऽवगन्तव्या वक्ष्यमाणनीत्या । तेनाग्निधूमलक्षणात् धूमाधूमजननस्वभावात् [599]तादृशातादृशजननस्वभावात् [स्. 152अ.] तादृशातादृशतया ऽस्य भवतो धूमाधूम[स्वभाव]स् तादृशातादृशस्वभावः स्यात् कुतस् तादृश एव? । कुत एतत्? इत्य् आह -- कार्यस्वभावानाम् इत्यादि । कार्याणां हि ये स्वभावाः परस्परासंभविनः ते परस्परविलक्षणकारणसामग्रीस्वभावकृता न स्वाभाविका अहेतुकत्वप्रसङ्गात् । [त्. 319अ.] ततस् तादृशातादृशाद् भवतो धूमस्य 5 तादृशातादृशस्वभावतैव स्यात्[600]।
{प्. 159.1.} स्यान्मतम् -- नैव तादृशातादृशस्वभावतायां तादृशातादृशकारणापेक्षा, कार्याणाम् उत्पत्तिमात्र एव 6 कारणापेक्षणाद् इत्य् अत[601]आह -- अकारणापेक्षणे च तादृशातादृशरूपतायां तादृशातादृशकारणानपेक्षणे च तादृशातादृशतायाः अहेतुकत्वप्रसङ्गात् । न हि तादृशातादृशस्वभावयोर् अभूत्वा भावव्यतिरेकेणान्या काचिदुत्पत्तिः यत्र[602]तादृशातादृशस्वभावकारणनिरपेक्षाणाम् अपि तदपेक्षा स्यात् । तस्माद् उत्पत्तिशब्देन तादृशातादृशस्वभावतैवोच्यत इति । [स्. 152ब्.] तत्र कारणापेक्षोपगमे कथं तादृशातादृशतायां कारणापेक्षा न स्यात् । तस्मात् सामग्रीणां तादृशातादृशत्वाद् एव कार्याणां तादृशातादृशस्वभावविभाग इति कुतो ऽन्यादृशात् तादृशसम्भवः? इति ।
यत् तूक्तं `यथैको धूमो ऽग्नीन्धनाभ्यां विलक्षणाभ्यां जन्यते तथैकलक्षणम् अपि कार्यं विलक्षणाद् अपि सामग्र्यन्तराद् भविष्यतिऽ इति । तद् अयुक्तम् । यतो नास्माभिर् विलक्षणानां जनकत्वं वार्यते जनयन्त्य् एव परस्परविलक्षणा अपि स्वहेतुपरिणामोपनिधिधर्माणस् तदवस्थानियताः तद् एकं कार्यं, तस्य तु तेषां च परस्परापेक्षया [त्. 319ब्.] जन्यजनकस्वभावतानियमात् तादृशस्य तादृशाद् एव जन्मोच्यते नान्यादृशात्, तस्यातज्जननस्वभावत्वात्, तदभावे ऽप्य् अन्यतो भवतस् तदुत्पत्तिनियमाभावात् । अनियमे च [स्. 153अ.] कार्यकारणभावायोगात् । यदि त्व् अग्निर् इवेन्धनोपादानोपकृतस् तदुपादानोपाकृतं चेन्धनम् इव तदवस्थानियतम् अतादृशम् अपि 2 धूमादिकं तादृशं[603]धूमं जनयेत् प्रत्यक्षानुपलम्भाभ्यां च तथा ऽवगम्येत तदा ऽग्न्यादिवत् सो ऽपि तज्जननस्वभावतानियमात् तादृशजनकः केन नानुमन्येत । तदभावे[604]ऽपि
तु तादृशस्य भावे तयोर् जन्यजनकस्वभावतानियमाभावात् कुतः कार्यकारणतेत्य् अहेतुतैव तादृशस्यान्यादृशाद् भवतः स्यात् । यत एवं तस्मात् सो ऽग्नीन्धनादिसामग्रीविशेषो मन्तव्यो यः आद्य धूमजननो नान्यः स धूम आद्यो यः अग्न्यादिसामग्रीविशेषेण जनितो नान्य {प्. 160.1} इति कृत्वा कार्यकारणयोर् एवं यथोक्तेन न्यायेन जन्यजनकरूपस्य स्वभावस्य 4 नियमाद् यादृशं यस्य[605]करणम् एकदा प्रत्यक्षानुपलम्भाभ्याम् एवावधारितं तद्विजातीयात् ततो ऽन्यादृशात् कारणात् उत्पत्तिः तादृशस्य [स्. 153ब्.] कार्यस्य न भवति अन्यादृशस्य एव न वार्यत इति ।
तद् एवं तादृशातादृशकारणकृतकत्वं तादृशातादृशकार्यस्वभावस्य प्रतिपाद्योपसंहरन्न् आह -- तत् तस्मात् यादृशं [त्. 320अ.] कार्यं यादृशात् कारणात् दृष्टं प्रत्यक्षानुपलम्भाभ्यां निश्चितम् एकदा तत् त न् न व्यभिचरति तादृशम् अन्यादृशान् न भवति । यनैवं तेन कारणेन सिद्धे कार्यकारणभावे तादृशस्य कार्यस्य तादृशम् एव कारणम् इति निश्चये सति यथोदितेन न्यायेन कार्यस्य कारणेन व्याप्तिर् अन्वयव्यतिरेकरूपा सिद्धाभवति ।
न विजातीयाद् उत्पत्तिर् इति दृष्टकारणविजातीयात् कारणाद् अन्यादृशान् नोत्पत्तिर् इत्य् अमुम् अर्थम् अप्रतिपद्यमानः कार्यस्य {न (? स्. प्. xxxव्) } विजातीयात् कारणान् नोत्पत्तिर् इत्य् अयम् अत्रार्थो ऽभिमत इति मन्वानः परश् चोदयन्न् आह -- ननु स्वतो विजातीयाद् अपि कारणात् किञ्चित् कार्यं भवद् दृष्टं तत् [स्. 154अ.] कथं न विजातीयाद् उत्पत्तिर् इत्य् अस्य न दृष्टविरोधः स्यात् । कथं यथा[606]इत्य् आह -- तद् यथागोमयादेः आदिग्रहणात् शृङ्गचन्द्रकान्तादेः शालूकादि आदिग्रहणाच् छरोदकादि । तथा हि -- गोमयाच् छालूकस्य भावः शृङ्गाच् छरस्य चन्द्रकान्तादपाम् । न च गोमयादिकं शालूकादेर् न विजातीयम् तत् किम् उच्यते न विजातीयाद् उत्पत्तिः इति । सिद्धान्तवादी परस्य भ्रांततां दर्शयन्न् आह -- न विजातीयाद् उत्पत्तिः इति । यतो हि कारणाद् यद् भवद् दृष्टं तत् ततो ऽन्यादृश्यान् न भवति इत्य् अयम्
अत्रार्थो विवक्षितः, न तु कार्यविजातीयाद् इति । न च तस्य[607]व्यभिचारः । तद् आह -- तथाविधम् एव हि गोमयादिरूपं तादृशां शाल{ऊ}कादीनाम्[608]आ दिनिमित्तं शालूकादिप्रबन्धस्य 7 य आदिः प्रथम आरम्भक्षणः तस्य कारणम् इति कृत्वा शालूकादिपबन्धस्यादेर् 7 न {प्. 161अ.} कारणभेदो ऽन्यादृशाद् उत्पत्तिः [त्. 320ब्.] सर्वस्य तदा ऽऽदेर् ग्गोमयादिनिमित्तत्वात् । यदा तु प्रबन्धेन पूर्वक्षणनिमित्तानाम् उत्तरोत्तरक्षणानां सन्तानेनोत्पत्तिलक्षणा वृत्तिर् भवति शरस्य तदा 1 शराद् भावः[609]। तद् एवं यस्य प्रबन्धादेः शृङ्गादिभ्यो भावो न तादृशस्य शरादेः यस्य च [स्. 154ब्.] शरादेस् तदुत्तरोत्तरस्य भावो न तादृशस्य 2 शृङ्गादेर् इति[610]न दृष्टकारणविजातीयात् कारणात् तादृशस्य सम्भव इति कार्यहेतोर् अन्वयव्यतिरेकनिश्चयः ।
यदा ऽपि शालूकादयः पूर्वपूर्वस्वजातिनिबन्धना[611]अनादिसन्तानप्रवृत्ता इष्यन्ते तदा ऽपि गोमयादिभ्यः केषाञ्चिद्भावे ऽपि तादृशत्वाभावान् न व्यभिचार इति दर्शयन्न् आह -- अस्ति च इत्यादि । यस्य शालूकसन्तानस्य गोमयादि कारणं यस्य च सर्वदा स्वजातिनिमित्तत्वं तयोर् गोमयेतरजन्मनोः शालूकयोर् अस्त्य् एव स्वभावभेदः परस्परम् अन्यादृशत्वं रूपस्याभेदे ऽपि सति । तुल्याकारत्वे सति कथम् अन्यादृशत्वम्? इति चेत्,[ह्15]आह -- न हि इत्यादि । यस्मान् नाकारतुल्यतैव भावानां तत्त्वे तादृशत्वे निमित्तम् यतो गोमयेतरजन्मनोः शालूकयोर् आकारसाम्यात् तादृशत्वम् एव स्यान् न जातिभेदः । कुत एतत् ? इत्य् आह -- अभिन्नाकाराणाम् अपि इत्यादि । येषाम् अपि हि समानाकारता [स्. 155अ.] केषाञ्चिद् भावानां तेषाम् अपि यत आकाराद् अन्यतो [त्. 321अ.] विशेषाज् जातिभेदो दृश्यते ततो नाकारसाम्यम् एव जात्य् एकत्वे निबन्धनम् । तथा हि -- आकारसाम्ये
ऽपि क्वचित् पुष्पाद् भेदो दृश्यते नीलेतरकुसुमयोर् इव सूर्ययोः, क्वचित् फलात् वन्ध्येतरयोर् इव कर्क्कोटक्योः, क्वचिद् रसाद् वन्{ध्}येतरयोर् इव त्रपुषयोः, क्वचिद् गन्धाद् वृक्षेतरप्रभवयोर् इव चम्पकयोः, क्वचित् प्रभावात् स्पर्शोपयोगस्रंसिन्योर् इव हरितक्योर् इति । तस्माद् आकारसाम्यनिबन्धनं यद्य् अपि `तद् एवेदम्ऽ इति प्रत्यभिज्ञानं सजातीयतां गोमयेतरजन्मनोः शालूकयोर् उपकल्पयति तथापि विलक्षणसामग्रीजन्यतया तयोर् जातिभेद एवावगन्तव्यः, नैकजातिता । तत एव प्रत्यभिज्ञानस्य भ्रान्ततया तत्कल्पितस्य तादृशत्वस्यालीकत्वात् ।
__________नोतेस्__________
[598] धूमो ऽधूम- -- त्.
[599] -माद् धूमज- -- त्.
[600] -व न स्यात् -- त्.
[601] -पेक्षणम् अभिमतम् इत्य् अत -- त्.
[602] उत्पत्तौ
[603] -कं अतादृ- -- त्.
[604] धूमव्यतिरिक्तसामग्र्यभावे
[605] नियमदर्शनात् यस्य -- त्.
[606] दृष्टान्तः -- त्.
[607] तत्र -- त्.
[608] उत्पला- -- त्.
[609] शरोद्भवः -- त्.
[610] शृङ्गादेर् अन्यादृशस्य भाव इति -- त्.
[611] सजात्यनुबन्धना -- त्.
{प्. 162.1}[ सेच्तिओन्: 6. विलक्षणसामग्र्या अविलक्षणकार्यजनकत्वे दोषाः ।]
यदि पुनर् गोमयेतरादिजन्मनः शालूकादेर् अग्निधूमादिजन्मनो वा धूमादेः प्रत्यभिज्ञावशाद् विलक्षणसामग्रीनिबन्धनत्वे ऽपि समानस्वभावतैव स्यात् को दोषः स्यात्? इत्य् अत आह -- अन्यथा हि इत्यादि । यदि [स्. 155ब्.] हि या स्वजाति[लक्षणप्रत्ययान्तरसहिता सामग्री या च] स्वजातिनिरपेक्षा गोमयादिरूपा शालूकादेः, धूमस्य वा या ऽग्नीन्धनादिलक्षणा [त्. 321ब्.] या च शक्रमूर्द्धादिस्वभावा धूमाद्यात्मिका अवि(-का तस्याः वि)लक्षणाया अपि सामग्र्या अविलक्षणम् तादृशम् एव कार्यं धूमशालूकादिकम् उत्पद्येत तदा न ` कारणस्य ऽ सामग्रीरूपस्य भेदाभेदाभ्यां वैलक्षण्यावैलक्षण्याभ्यां कार्यस्य भेदाभेदौ वैलक्षण्यावैलक्षण्ये तज्जातीयविजातीयात्मके स्याताम् इति कृत्वा विश्वस्य सकलस्य पदार्थराशेः अहेतुकौ भेदाभेदौ सजातीयविजातीयत्वे स्याताम् । तस्माद् यत्र विलक्षणा
सामग्री तत्र कुतश्चित् साम्यात् सरूपत्वे ऽपि विजातीयतैव कार्यस्येति ।
ननु धूमेन्धनादिसामग्रीभेदे ऽपि धूमस्य न जातिभेदमामन्ति विद्वांसः, अतद्रूपपरावृत्तेर् उभयत्र समान्तत्वात्, नैष दोषः, क्षणभेदाश्रयसूक्ष्मावान्तरजातिभेदे ऽपि स्थूलसन्तानाश्रयविजातीयव्यावृत्तेः समानत्वात् । शाबलेयाद्यवान्तरजातिभेदेप्य् अगोव्यावृत्तिनिबन्धनगोजातिवद् गवां [स्. 156अ.] सर्वधूमानाम् एकसन्तानव्यवस्थाव्यु(प्य् उ)पादानकारणक्षणभेदे[612]ऽप्य् एकाकारप्रत्ययनिबन्धनतया समानत्वात् । आद्यस्येन्धनप्रभवस्य कथम्? इति चेत् । न । इन्धनजात्यनुविधानात्[613]सर्वधूमानाम् । तथा हि -- अगुरुकर्पूरचन्दनादिजातिभेदम् अनुकुर्वन्त्य् एव [त्. 322अ.] तद्धूमाः, कास् अश्वासादिहरद्रव्यनिर्मितवर्त्तिभेदं च तद्धूमाः, तद्रसवीर्यविपाकानुविधानात्[614]। न चाकारान्यतया[615]विजातीयत्वम्, यतो नाकारा ऽभेदभेदनिबन्धने सजातीयविजातीयत्वे । न हि {प्. 163.1} शाल्यङ्कुरादयः तद्वीजाद्याकारम् अनुकुर्वते । न च तज्जातीयतामशाल्यादि-
व्यावृत्तिनिबन्धनां नानुभवन्ति । तस्माद् इन्धनम् एव तस्योपादानकारणम् अग्न्यादिसहकारिप्रत्ययाहितविशेषं तथाविधं धूमकार्यमङ्गारादि भिन्नाकृति जन्यतीत्य् अलम् अतिप्रसङ्गेन ।
ननु च यदि नाम सामग्रीभेदे ऽपि कार्यस्य भेदो न जातः तदा कारणभेदे सत्य् अपि तस्याभावात् तस्याहेतुकता ऽस्तु, अभेदस्य तु किम् आयातम्? येनोभयोर् अहेतुकत्वम् उच्यत इत्य् अत आह -- तथाहि इत्यादि । यदा हि सामग्रीभेदे [स्. 156ब्.] सत्य् अपि कार्यस्य भेदो न जात इति तस्याहेतुकत्वम् -- न हि हेतौ सत्य् अभवतः कथञ्चिद् अपि हेतुमत्तोपपद्यते -- तदा यो ऽप्य् असाव् 5 अभेदः कार्यस्य[616]सो 6 ऽपि सामग्र्योः[617] 7 भिन्नत्वाद् असत्य् अभेदे[618]जात इति कुतस् तस्यापि हेतुमत्ता? । यथा हि हेतौ सत्य् अभवतो न हेतुमत्ता तथा हेताव् असत्य् अपि भवतो हेतुमत्ता कुतः स्यात्? । हेतुभेदस्यैवा ऽभेदनिबन्धनत्वात् न इति चेत्; न तर्ह्य् अयं भेदः क्वचित् पदम् आबध्नीयात्, शालीकोद्रवादेर् अपि [त्. 322ब्.] हेतुभेदस्याभेदहेतुत्वान् निमित्तम् अन्तरेण कल्पनायां विशेषाभावात् । प्रतिभासाभेदस्य च कुतश्चिद् भ्रान्तिनिमित्तात् परमार्थतो भेदे ऽप्य् उपलक्षणात् । स्याद् एतत् -- यो ह्य् अतादृशाद् अपि तादृशोद्भवम्
इच्छति तस्य भेदाभेदयोर् अहेतुकत्वम् इष्टम् एव भावा एव केवलं हेतुमन्त इत्य् अत आह -- तद्व्यतिरिक्तश्च इत्यादि । न हि भेदाभेदव्यतिरिक्तः कश्चिद् भावानां स्वभावो ऽस्ति यस् तयोर् अहेतुकत्वे ऽपि हेतुमान् स्यात् । तस्य ताभ्याम् अन्यत्वे `अस्येमौ भेदाभेदौऽ इति[619][स्. 157अ.] सम्बन्धाभावप्रसङ्गात्, तदन्यसम्बन्धकल्पनायाम् अनवस्थादोषात्, अनन्यत्वे ऽपि भेदाभेदयोर् भावस्वभावस्य च स्वात्मन्येवावस्थानात् अनुपकाराच् च कुतः सम्बन्धिता? । उपकारकल्पनायां च यदि भावस्वभावः स्वहेतुभ्य[620]एव न कुतश्चिद् भिन्नो ऽभिन्नो वा समुत्पन्न इतीष्यते, तदा तद्भावे[621]ऽपि स्वभावान्यथात्वाभावात् कुतो भिन्नाभिन्नता भावस्वभावस्य स्यात्? । अथा {प्. 164.1} व्यतिरिक्तभेदाभेदवशाद् भेदाभेदौ स्वभावः प्रतिपद्येत, ताव् अपि यदि भिन्नौ तदा भावस्वभावस् तदवस्थ एवेति न तस्य कुतश्चित् स्वरूपतो भेदो ऽभेदो वा स्यात् । पुनस् तद्वशाद् भेदाभेदकल्पनायां भावस्वभावस्य तदवस्थं तादवस्थ्यम्
अनवस्था [त्. 323अ.] च भेदाभेदयोः । अथाभिन्नौ तदा भावस्वभाव एव भेदाभेदाभ्यां क्रियत इति स्यात्, तस्य रूपान्तरेण करणासम्भा(भ)वात्; तस्य च हेत्वन्तरात् पश्चाद् भवतस् ततो ऽन्यत्वापत्तेः । न च भावस्वभावः क्रियते, तस्य स्वहेतोर् एव निर्वृत्तेः । स्वहेतुभ्य एव भावस्वभावस्य कुतश्चिद् भिन्नाभिन्नात्मन उत्पत्तिकल्पनायां वा भेदाभेदयोर् व्यतिरेकवतोः वयर्थ्यम्; [स्. 157ब्.] भेदाभेदबुद्धेर् अपि तत एव सिद्धेः । तस्माद्वैशेषिकादिकल्पितयोर् भेदाभेदयोर् विशेषसामान्यात्मनोर्[622]अयोगात् भावस्वभाव एव भेदाभेदशब्दवाच्यः तयोर्[623]अहेतुकत्वे भावस्वभावस्यैवाहेतुकत्वम् आपतितम् । ततो भावानाम् अहेतुकत्वान् नित्यं सत्त्वम् असत्त्वं वा स्यात् । अहेतुकत्वे हि भावानां यदि कदाचित् सत्त्वं सर्वदैव स्यात् । अथ कदाचिद् असत्त्वं तद् अपि सर्वदा स्यात् । कादाचित्कत्वं तु सत्त्वस्यायुक्तम् । किं कारणम्? । अपेक्ष्यस्याहेतुकत्वे सति कस्यचिद्[624]अभावात् । यस्मा द् अपेक्षयाहि तस्यापेक्षणीयस्य
हेतोर् भावे भवन्तो ऽभावे च न भवन्तः कादाचित्काः कदाचिद् भवा युज्यन्ते, नान्यथेति । तस्मान् न विलक्षणात् कारणात् अविलक्षणस्य कार्यस्योत्पत्तिर् अभ्युपगन्तव्या, यथोक्तेन न्यायेनाहेतुकत्वादिप्रसङ्गात् ।
पुनर् अपि विलक्षणायाः सामग्र्याः [त्. 323ब्.] अविलक्षणस्य कार्यस्योत्पत्तौ दोषान्तरम् आह -- व्यवस्थावांश्च प्रतिनियतः साध्येषु घटपटादिषु साधनानां मृत्तन्त्वादीनां लोके यो नियोगो घटार्थी मृत्पिण्डम् एव तत्र नियुङ्क्ते न तन्तून्, पटार्थी च तन्तून् एव न मृत्पिण्डम् इत्यादिकः स न [स्. 158अ.] स्यात् । कस्मात्? इत्य् आह -- कारणानां -- सामग्रीणां याः शक्तयः -- आत्मातिशयलक्षणास् तासां प्रतिनियमे काचिद् एव सामग्री {प्. 165.1} क्वचिद् एव कार्ये उपयुज्यते नान्या ऽन्यत्रेत्य् एवंरूपे हि यस्मात् किञ्चिद् एव मृदादिकं कस्यचिद् एव घटादेः साधनायोपादीयते नापरं तद्विलक्षणं तन्त्वादिकम् कस्माद् एवम्? इति चेत्? तस्यैव मृदादेः तत्र घटादौ शक्ते र् योग्यत्वात् अन्यस्य तन्त्वादेस् तत्राशक्तेः । कस्मात् तस्यैव तत्र शक्तिर् नान्यस्य
इत्य् अत आह तयोः मृदादेस् तन्त्वादेश् च तज्जननस्वभावत्वेन घटादिजननस्वभावत्वेन इतरस्वभावत्वेन च घटाद्यजननस्वभावेन च भेदात् अन्यत्वभावात् । न हि मृत्तन्त्वादिरूपतातो ऽन्यद् एव तज्जननेतरस्वभावत्वं नाम । यदा तु सामग्रीणां परस्परविलक्षणानाम् अपि शक्तिप्रतिनियमो नेष्यते विलक्षणाद् अपि अविलक्षणकार्योपगमात् [त्. 324अ.] तदा तज्जननस्वभावविलक्षणाद् अपि धूमादिजननस्वभावं यत् कारणम् अग्नीन्धनादिसामग्रीलक्षणं तद्विलक्षणाद् अपि शक्रमूर्द्धादेः क्षणाश्रयेण वा धूमादेस् तस्याग्नीन्धनादिसामग्रीजन्यस्य धूमस्य तत्लक्षणस्य चोत्पत्ताव् इष्यमाणायां न तज्जननशक्तेःप्रतिनियमो विवक्षितधूमादिकार्यजननशक्तिप्रतिनियमः । इति तस्माद् यत् किञ्चित् कार्यं यतःकुतश्चित् कारणात् स्यात् उत्पद्येत, न 4 यथादृष्टम् एव यथादृष्टात्[625]।
सर्वं [स्. 158ब्.] सर्वतो जायेतेति यावत् । तस्माच् छक्तिप्रतिनियमः कारणानाम् अभ्युपगन्तव्यः । ततो विलक्षणसामग्रीजन्मनः कार्यस्य कुतश्चित् साम्यात् सरूपस्योपलक्षणे ऽप्य् अन्यादृशतैवेति सर्वस् तादृशस् तथाविधजन्मेति सिद्धम् ।
स्यान्मतम् -- विलक्षणाया अपि सामग्र्यास् तल्लक्षणकार्यजननशक्तिः समानेति तल्लक्षणं कार्यं भविष्यति कस्याश्चिद् एव च तथाभावान् न यथोदितदोषावसर इत्य् अत आह तज्जननशक्तिसाम्ये तु इत्यादि । उक्तम् एव तावद् अत्र पूर्वपक्षे `न च धूमस्य तदतज्जन्यस्वभावःऽ इत्यादिकं दूषणम् । अभ्युपगम्यापीदम् आह -- यादृशीह्य् अग्निसहकारिणः तदाधीयमानविकारस्ये न्धनस्य 5 स्वभेदेन धूमभेदहेतोः[626][त्. 324ब्.] शक्तिः आत्मातिशयस् तादृश्येव शक्रमूर्द्ध्नो[627]{प्. 166.1} धूमस्य वा यदि तत्सामग्रीजन्यधूमाविलक्षणकार्यजननशक्तिर् आत्मातिशयलक्षणा तदा तच्छक्तिसाम्ये तदेवाग्नीन्धनादिकम् एवार्थान् नामान्तरेणोक्तं स्यात्, तद्विलक्षणस्य तद्विलक्षणात्मातिशयासम्भवात् । स एव ह्य् अग्निर् य इन्धनविकारमादधानो धूमं जनयति, तच् चेन्धनं यदग्निना ऽऽधीयमानविकारं धूमं
स्वजातिम् अनुकारयति । यदि [स्. 159अ.] च शक्रमूर्द्धादेर् अपि एवं भवता ऽभ्युपगम्यते तदा केवलं नाम्नि विवादः स्यात्, अर्थाभेदम् अभ्युपगम्य तथाभिधानात् यत एवम् इति तस्मात् कार्यं धूमादिकं दृष्ट म् एकदा प्रत्यक्षानुपलम्भाभ्यां निश्चितम् अतद्रूपव्यावृत्तेनात्मना कारण म् इन्धनादिकं सन्तानापेक्षया क्षणापेक्षया वा न व्यभिचरति तद्विलक्षणाद् अन्यतो न भवतीति कार्यहेताव् अन्वयव्यतिरेकनिश्चयः सिध्यतीति ।[628]
{प्. 167.1} [ 4. अनुपलब्धिहेतुनिरूपणम् ।]
[ सेच्तिओन्: 1. विप्रतिपत्तिप्रदर्शनपूर्वकम् अनुपलब्धेस् स्वरूपनम् ।]
__________नोतेस्__________
[612] एकजातिव्य- -- त्.
[613] एकसन्तानरा(-नव्य)वस्थेति सम्बन्धः
[614] तद्रसकार्यवि- -- त्.
[615] च कारणजन्यतया -- त्.
[616] -दः सर्वस्य -- त्.
[617] ऽपि कारणस्य -- त्.
[618] -द् अभेदे -- त्.
[619] इत्य् आकार -- त्.
[620] स्वात्मना -- त्.
[621] भेदाभेद-
[622] भेदाभेद-
[623] भेदाभेदयोः
[624] कदाचिद् -- त्.
[625] यथादृष्टायथादृष्टयोः -- त्.
[626] स्वभावभेदहे- -- त्.
[627] शक्रमूर्ध्नादेर् वा -- त्.
[628] त्. अद्द्स् ब्राह्मणाचतेन विरचिते हेतुबिन्दुप्रकरणे कार्यहेत्वधिकारो द्वितीयः ।
तद् एवं कार्यहेतौ यतो यद्भवदृऋष्टंसकृत् प्रत्यक्षानुपलम्भाभ्यांतादृशस्य सर्वस्य तथाविधाद् एव जन्म न तद्विजातीयाद् इत्य् एकस्या [त्. 325अ.] अपि कार्यव्यक्तेः कुतश्चिद् भावदर्शने व्याप्त्याऽन्वयव्यतिरेकसिद्धिर् इति प्रतिपादितम् । अनुपलब्धौ तु यथोक्तायां निमित्तान्तराभावोपदर्शननिबन्धनयोर् नान्वयव्यतिरेकयोर् विप्रतिपत्तिः । स्वरूप एव तु परे विप्रतिपद्यन्ते । तथाहि केचिद् उपलब्ध्यभावमात्रम् अनुपलब्धिम् अभावस्य [स्. 159ब्.] प्रसज्यप्रतिषेधात्मनः प्रमाणान्तरत्वेन गमिकाम् इच्छन्तिईश्वरसेनप्रभृतयः, अपरे तु प्रतिषेध्यविषयज्ञानरूपेणापरिणामम् [ : प्रतिषेध्यविषयज्ञानविषयरूपेणापरिणामस् ह्ब्टा 380.28f.] आत्मनः तदन्यवस्तुविषयं विज्ञानम् एव वा ऽभावस्य गमकं प्रत्यक्षानुमानाभ्यं प्रमाणान्तरम् आहुर्म्मीमांसकाः। न ह्य् अन्यवस्तुविषयं ज्ञानं प्रत्यक्षानुमानात्मकम्
अभावं प्रतिपद्यते, तस्य भावांशविषयत्वात्, अभावांशस्य च ततो ऽन्यत्वात् । अभावांशे [ : भावांश (अभावांशे) जनयद् इति ह्ब्टा 381.3] तु नास्तीति ज्ञानं जनयत् तदभावप्रमाणाख्यं लभते, यथेन्द्रियं स्वविषयप्रतिपत्तिजनकत्वेन प्रत्यक्षाख्याम् । तथाऽन्ये अन्यभावलक्षणां तज्ज्ञानलक्षणाम्[629]वा ऽनुपलब्धिम् अभावस्यैव साधनम् आहुर् नाभावव्यवहारस्य, अनुपलब्धेर् लिङ्गाद् अभावसिद्धौ स्वयम् एव तद्व्यवहारप्रवृत्तेः ।नैयायिकास् तु नास्तीति ज्ञानम् एव केवलप्रदेशादिग्राहिज्ञानानन्तरभाविप्रत्यक्षं न प्रमाणान्तरम् अभावस्य तुच्छरूपस्य परिच्छेदात्मकम् आचक्षते तद् एवास्य [त्. 325ब्.] घटादेः प्रतिषेध्यस्यानुपलब्धिशब्देन यद्य् उच्यते न कश्चिद् विरोधः इति । तद् एवम् अनुपलब्धौ भेदं गता बुद्धयः प्रतिवादिनाम् इति [स्. 160अ.] तन्निरासार्थम् अनुपलब्धिस्वरूपं तावद् उपदर्शयन्न् आह उपलब्धिलक्षणप्राप्तस्य इत्यादि । `उपलब्धिलक्षणप्राप्तिःऽ
-- `उपलम्भप्रत्ययान्तराणां[630]समनन्तराधिपतिप्रत्ययसंज्ञितानां साकल्यम्, आलम्बनप्रत्ययस्य स्वभावविशेषश् च । यः स्वभावः सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवतीऽत्य् एवंरूपाशास्त्रकृताऽन्यत्र {प्. 168.1} व्याख्यातानैयायिकविप्रतिपत्तिनिरासार्थम् । ते ह्य् अनुपलब्धिलक्षणप्राप्तिशब्देन महत्त्वानेकद्रव्यवत्त्वरूपाणि द्रव्याणाम् आहुः । महत्त्वाद् [ : महतीति ह्ब्टा 382.7] अनेकद्रव्यवत्त्वाद् रूपाच् चोपलब्धिः [वैसू इव्.1.6.] इति वचनात् [ : एवं वचनाद् इत्य् ह्ब्टा 382.8] । एवंचोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सत्य् अपि वस्तुनि सम्भवतीत्य् असद्व्यवहारसिद्धाव् अनैकान्तिकीत्य् आचक्षते । न हि चाक्षुषस्यापि रश्मेर् महत्त्वानेकद्रव्यवत्त्वरूपाण्य् उपलम्भकानि भवन्ति । न च तावता ऽनुपलम्भ ऽप्य् असद्व्यवहारस् तत्र शक्यते कर्त्तुम् । यद् आहभाष्यकारः[631]`नानुमानत उपलभ्यमानस्य
प्रत्यक्षतो ऽनुपलब्धिर् अभावे हेतुःऽ[632] [ दुर्वेक: भाष्यकार इस् न्यायभाष्यकार पक्षिलस्वामी (ह्ब्टा 382.23)] इति । इन्द्रियत्वात् त्वगादिवत् किल प्राप्यकारि चक्षुर् इत्य् अनुमानतश् चाक्षुषो रश्मिर् उपलभ्यते तस्य [स्. 160ब्.] प्रत्यक्षतो ऽनुपलब्धिः कथम् अभावव्यवहारं साधयेत्? इति । तद् एवम् उपलब्धिलक्षणप्राप्तस्यानुपलब्धिम् असद्व्यवहारे ऽनैकान्तिकीम् आहुर्नैयायिकाः[त्. 326अ.] तन्निरासम् [ : तन्निरासार्थम् ह्ब्टा 383.3] उपलब्धिलक्षणप्राप्तेर् अविपरीतरूपोपदर्शनेनशास्त्रकारो ऽभ्यधात् । यदाह्य् उपलम्भप्रत्ययान्तरसाकल्यं स्वभावविशेषश् च यथोक्त उपलब्धिलक्षणप्राप्तिर् उच्यते न महत्त्वादिकं तदा कुतो व्यभिचारावकाशः?, सति वस्तुनि तस्याअसम्भवात् । महत्त्वादिकंत्व् असम्भवाद् एव नोपलब्धिलक्षणप्राप्तिशब्देन वाच्यम् । न हि रूपादिव्यतिरिक्तं द्रव्यं तत्प्रतिभासविवेकिना ऽऽकारान्तरेण स्वज्ञाने प्रतिभासते । न चाप्रतिभासमानम् अनात्मरूपविवेकिना
रूपेण प्रत्यक्षताम् अनुभवत्य् अतिप्रसङ्गात् । तत् कुतो ऽस्या ऽसतो महत्त्वादिसम्भवः? । न च स्वरूपेणामहतः तत्सम्बन्धे ऽप्य् अस्य महत्तासम्भवः । अपररूपेण[633]वा ग्रहणे कथंतद्ग्राहिज्ञानम्[634]अभ्रान्तम्? । ततो न महत्त्वं द्रव्यस्योपलम्भकंरूपं वा । तस्यापि स्वरूपेण ग्रहणे द्रव्यात्मनो ऽत्यन्तपरोक्षत्वात् । द्रव्यरूपस्य च [स्. 161अ.] तद्विवेकेनानुपलक्षणान् न तथाग्राहकत्वम् । न च महत्त्वं रूपं वा द्रव्योदयकाले ऽभ्युपगम्यते, यतो द्रव्यं गुणस्य समवायिकारणम् इष्यते । तच् च प्रतिलब्धात्मकम् एव तथाताम् अनुभवतीति प्रथमे क्षणे द्रव्यं निर्गुणम् एव । न चास्य [ अस्य : स्वस्य ह्ब्टा 382.13] द्वितीये क्षणे प्राक्तनरूपत्यागो ऽस्ति रूपान्तरं वा ऽऽविर्भवति यतः{प्. 169.1} प्रागप्रतिपन्नाधारभावं महत्त्वादिगुणप्रतिबन्धाद् आधारतां यायात् । न चाजनक आधारः । जनकत्वे च [त्. 326ब्.] क्षणिकता, अर्थक्रियाविरोधाद् अक्षणिकस्य । ततः
कुतः समवायिकारणस्य सम्भवः?, यतःस्वोत्कलितंकार्यं जनयत् तथा व्यपदिश्यते । न चैतत् क्षणिकत्वे सम्भवति अक्षणिकत्वे वा प्राग् ऽनाधारस्य पश्चादाधाराभावः। समवायिकारणासम्भवाद् एवानेकद्रव्यवत्त्वम् अप्य् असम्भवि यस्माद् अनेकं द्रव्यम् आरम्भकं समवायिकारणात्मना यस्य विद्यते तद् एवंव्यपदिश्यते । द्रव्याभावाच् च नानेकद्रव्यवत्त्वं । सत्त्वे ऽपि महत्त्वादेर् नेयम् उपलब्धिलक्षणप्राप्तिर् अस्माकम् अभिमता । 4 या त्व् अभिमा(म)ता[635]न तयोपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् असद्व्यवहारसिद्धाव् अनैकान्तिकीति शास्त्रकारो दर्शयाम् बभूव [स्. 161ब्.] उपलब्धिलक्षणप्राप्तस्य या अनुपलब्धिः कारणस्य व्यापकस्य वा प्रतिषेध्याद् अन्यस्य सा अभावहेतुः कार्यस्य व्याप्यस्य च अभावव्यवहारहेतुश्च । यातु प्रतिषेध्यस्यैवोपलब्धिलक्षणप्राप्तस्यानुपलब्धिः सा ऽभावव्यवहारहेतुर् एवेति वाशब्देन दर्शयति । या त्व्
अनुपलब्धिलक्षणप्राप्तस्यानुपलब्धिः प्रत्यक्षानुमाननिवृत्तिलक्षणा सा संशयहेतुः प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः, निमित्ताभावात् तु सद्व्यवहारप्रतिषेधहेतुर् इत्य् अवगन्तव्यम् ।
__________नोतेस्__________
[629] तदज्ञा- -- त्.
[630] आलोक-मनस्कार-चक्षुषाम्
[631] न्यायसूत्रभाष्यकृच् चान्वयः
[632] अत्र न्यायसूत्रम् -- नानुमीयमानस्य प्रत्यक्षतो ऽनुपलब्धिर् अभावहेतुः॥ [न्सू 3.1.36] इत्य् एवरूपं भाष्यकारवचनत्वेनोद्धृतम् -- सम्पादकः । लभ्यते
[633] महत्त्वेन
[634] प्रच्य-
[635] -भिमता भवताम् अप्य् अभिमता -- त्.
[ सेच्तिओन्: 2. स्वेष्टाम् अनुपलब्धिं स्पष्टयितुम् ईश्वरसेनकुमारिलादीनां निरासः ।]
तत्र ये तावद् उपलब्ध्यभावमात्रम् अनुपलब्धिम् इच्छन्ति, विज्ञानंवाऽन्यवस्तुनि [श्ल्व् अभावपरिच्छेद 11द्.] इति वचनात् तदन्यवस्तुविज्ञानम् एव वा, तन्निरासार्थं [त्. 327अ.] ज्ञातृ-ज्ञेयधर्मलक्षणाम् अनुपलब्धिं दर्शयितुम् उपलब्धिम् एव तावद् द्विविधाम् दर्शयन्न् आह -- अत्र अनुपलब्धिवाक्ये योपलब्धिः श्रूयते क्रियारूपा सा यदा कर्तृस्थतया ऽपेक्ष्यते तदा तस्या उपलभमानस्य कर्तुः धर्मत्वे अपेक्ष्यमाणे तज्ज्ञानम् उपलभमानस्य यज्ज्ञानं तद् उपलब्धिर् उच्यते । उपलभमानश् च बुद्धीन्द्रियदेहकलाप एव च पूर्वक्षणसङ्गृहीत[636]उपलब्धिजनक उच्यते । तथा हि -- उपलब्धेर् जनक आश्रयो वा कर्त्ता परैर् उच्यते । न {प्. 170.1} चेन्द्रियादेर् अन्यस्य जनकत्वं [स्. 162अ.] सम्भवति यतो ऽन्वयव्यतिरेकनिबन्धनः कार्यकारणभावव्यवहारः, तौ चान्वयव्यतिरेकौ नेन्द्रियादेर् अन्यस्य सम्भवतः सत्स्व् इन्द्रियादिषु नियमेनोपलब्धेर् भावात् । यदि
हीन्द्रियादिषु सत्स्व् अपि कदाचिद् उपलब्धिर् नोपजायते तदा सत्स्व् अप्य् अन्येषु सकलेषु हेतुषु कार्यानुत्पत्तिः कारणान्तरवैकल्यं सूचयतीति तद्व्यतिरिक्तकारणान्तरं परिकल्प्येत । न चैतद् अस्ति, तत् कथम् आत्मनस् तदुत्पत्तौ निमित्तभावो[637]ऽभ्युपगम्येत? अतिप्रसङ्गात् । यद् आह -
3 यस्मिन् सति भवत्य् एव यत् ततो ऽन्यस्य कल्पने ।
तद्धेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः[638]॥ [प्व् इ 26] इति ।
आश्रयत्वम् अपि जनकस्यैवेति तद् अप्य् आत्मनो न सम्भवति । स्थापकत्वाद् आश्रय इति चेत्; न, क्षाणिकत्वे स्थितेर् अभावाद् उपलब्धेर् अक्षणिकत्वे ऽपि स्वयम् एवाविनाशाद् अवस्थानात् । तथा हि -- उपलब्धेर् अविनाश एव स्थितिर् उच्यते न पाताभावः [त्. 327ब्.] तस्या गुरुत्वाभावात् संयोगाभावेन गुरुत्वात् पतनम् [व्सू व्.1.7.] इति चपरेषांकृतान्तः । समवायाद्[639]आश्रय इति चेत्; ननु सो ऽपि आधार्याधारभूतानाम् एवेष्यते । न चापतनधर्मिकाया उपलब्धेर् आधारेण किंचित्, [स्. 162ब्.] समवायाच् चाश्रयत्वे ऽन्यस्यापि तद्भावप्रसङ्गः, तस्य सर्वात्मसु समानत्वात्, एकत्वेनास्योपगमात् । क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधाच् च नास्यात्मनः सत्त्वम्, ततो ऽस्य कुतो जनकत्वम्? आश्रयत्वं वा? इत्य् अलं क्षुण्णक्षोदीकरणेनेति ।
एवम् उपलब्धिम् आदर्श्यानुपलब्धिम् आदर्शयन्न् आह -- तस्माद् उपलब्धिज्ञानाद् अन्या वस्त्वन्तरविषया उपलब्धिः ज्ञानात्मिका अनुपलब्धिः । कथं पुनर् उपलब्धिर् एवानुपलभ्दिर् उच्यते? इत्य् आह -- विवक्षितेत्यादि । यथा भक्ष्याभक्ष्यप्रकरणे विवक्षिताद् भक्ष्याद् अन्यत्वाद् `अभक्ष्यो ग्राम्यकुक्कुटःऽ -- भक्ष्यो ऽपि सन् तदन्यस्य -- उच्यते । यथा च स्पर्शनीयास्पर्शनीयाधिकारे विवक्षितात् स्पर्शनीयाद् अन्यत्वाद् `अस्पर्शनीयश् चाण्डालादिःऽ -- तदन्यस्य स्पर्शनीयो ऽपि सन् -- उच्यते । {प्. 171.1} तद्वद् उपलब्धिर् एवानुपलब्धिर् म्मन्तव्या । नञः प्रतिषेधविषयत्वात् कथं भावविषयता? इति चेत्, आह -- पर्युदासवृत्त्येति । पर्युदासेन प्रतिषेध्यस्यार्थस्य वर्जनेन या विशिष्टे ऽर्थे वृत्तिस् तया, नञः आगृहीतप्रतिषेधस्य[640]भावविषयता । यत्र विधेः [स्. 163अ.] प्राधान्यं प्रतिषेधो ऽर्थगृहीतः विधिभाक् स्वपदेन नोच्यते एकवाक्यता च तत्र पर्युदासवृत्तिता
। विधेश् च प्राधान्यं `विवक्षितोपलब्धेर् अन्योपलब्धिर् भवतिऽ इत्य् एवं वाक्येनान्योपलब्धेर् विधानात् [त्. 328अ.] अन्योपलब्धिसामर्थ्याद् एव विवक्षितोपलब्धेः प्रतिषेधः प्रतीयते । विवक्षितोपलब्धेर् अनिवर्त्तने तदपेक्षया ऽन्यस्या विधानायोगात् स्वपदेन नञा विधिभाङ् नोच्यते । किं तर्हि? । अन्यशब्देन पर्युदासाश्रयेणा ऽन्यशब्दस्यैव वाक्ये प्रयोगात् अन्या उपलब्धिर् अनुपलब्धिर् इति । नञश् च सुबन्तेन सामर्थ्यं न तिङन्तेन इत्य् एकवाक्यत्वं `न उपलब्धिर् अनुपलब्धिःऽ इति । प्रसज्यप्रतिषेधः पुनर् एतद्विपरीतो मन्तव्यः । तत्र हि प्रतिषेधस्य प्राधान्यं विधिर् अर्थाद् गम्यते वाक्यभेदः स्वपदेन नञा प्रतिषेधभाक् सम्बध्यते ।
तद् एवं ज्ञातृधर्मलक्षणाम् अनुपलब्धिं व्याख्याय ज्ञेयधर्मलक्षणां प्रतिपादयन्न् आह -- उपलभ्यमानधर्मत्व इ त्यादि । यदा कर्मस्थक्रियापेक्षयोपलभ्यमानस्य वस्तुनो धर्म उपलब्धिर् विवक्ष्यते तदा विषयस्वभाव उपलब्धिर् मन्तव्या । कीदृशो [स्. 163ब्.] विषयस्वभावः? इत्य् आह -- स्वविषये त्यादि । प्रतिषेध्यस्य घटादेर् यदात्मविषयं विज्ञानं तज्जनने या योग्यता तल्लक्षणो विषयस्वभाव उपलब्धिशब्देनोच्यते । यदि विषयस्वभाव उपलब्धिः कथं योग्यतालक्षणः? । तथा हि योग्यता धर्मः, धर्मधर्मिणोश् च भेद एव इत्य् अत आह -- योग्यतायाः इत्यादि । योग्यता हि परमार्थतो [त्. 328ब्.] भावरूपैव न वस्तुस्वरूपाद् भिद्यते, अन्यथा भावो योग्य एव न स्यात् । योग्यता ऽस्येति च सम्बन्धो भावतो न स्यात् । सम्बन्धकल्पनायाम् अनवस्थेत्य् उक्तप्रायम् ।
तद् एवम् उपलब्धेर् विषयधर्मतां प्रतिपाद्यानुपलब्धेर् अपि प्रतिपादयन्न् आह तस्माद् अन्यः इत्यादि । तस्मात् प्रतिषेध्याद् घटादेः {प्. 172.1} स्वविषयज्ञानजननयोग्याद्[641]यो ऽन्य उपलम्भजननयोग्य एव न तद्विपरीतः स्वभावो घटविविक्तप्रदेशरूपः स एव चात्रानुपलब्धिशब्देनोच्यते । प्राक्तनम् एव न्यायम् अत्रादिशन्न्[642]आह पूर्ववद् इति । विवक्षितोपलब्धेर् अन्यत्वाद् अभक्ष्यास्पर्शनीयवत् पर्युदासवृत्त्येति । कथं पुनर् अयं नञ् अन्यार्थवृत्तिः सामान्यशब्दः सन् घटविविक्तप्रदेशस्य [स्. 164अ.] तज्ज्ञानस्यैव 3 वा घटविविक्तस्यानुपलब्धित्वं[643]पर्युदासवृत्त्या प्रकल्पयति, न पुनर् अविशेषेण सर्वेषाम् एवान्यशब्दवाच्यानाम्? इत्य् अत आह -- यत्र यस्मिन् इत्यादि । यत्र देशे काल ऽवस्थायां वा ऽव्यवधानादिलक्षणायाम्, यस्मिन् प्रदेशरूपादौ उपलभ्यमाने नियमेन अवश्यंतया यस्यान्यस्य
पदार्थस्य घट्ररूपादेर् उपलब्धिर् भवति स घटरूपादिः पदार्थः तत्संसृष्टः तेन प्रदेशरूपादिना संसृष्टः । कथम् एकस्मिन्न् उपलभ्यमाने परस्यापि नियमोपलब्धिः? इति चेत्, योग्यताया अविशेषात् । [त्. 329अ.] प्रदेशघटयोर् हि स्वविषयविज्ञानजनने योग्यता तुल्या । यदा हि प्रदेशरूपं व्यवधानविप्रकर्षादिरहितं विज्ञाने स्वाकारं समर्प्पयति तदा घटरूपम् अपि तत्र[644]तथाविधं स्वाकारं समर्प्पयत्य् एव । यदि नाम योग्यता तस्य तेन तुल्या स्वस्वभावव्यवस्थितेस् तु कथं तत्संसृष्टता? इत्य् अत आह -- एकज्ञानसंसर्ग्गाद् इ ति । एकत्र हि ज्ञाने द्वाव् अपि तौ स्वाकारद्वारेण संसृष्टौ न साक्षात्, तद्विज्ञानं पदार्थद्वयाकारम् आजायमानं तयोर् आत्मनि संसर्ग्गं दर्शयति । किम् इति पुनस् तत् ज्ञानं पदार्थद्वयाकारम् अवश्यं [स्. 164ब्.] भवति यतस् तयोर् ज्ञानद्वारकः संसर्ग्गः? इत्य् अत आह -- तयोःसतोः इत्यादि
। याव् एतौ तुल्ययोग्यतारूपौ तौ यदि सन्तौ भवतस् तदा नैवैकाकारनियता प्रतिपत्तिर् भवति । कस्मात्? असम्भवात् । न ह्य् एष सम्भवो ऽस्ति -- यत् तुल्ययोग्यतारूपयोर् एक एव प्रतिभासेत नापर इति । तथा हि -- अविशिष्टत्वाद् योग्यतायाः कस् तत्र स्वाकारं न समर्प्पयेत्? । अनुभवसिद्धिं च युगपद् अनेकप्रतिभासनम् । न चानुभवविरुद्धम् आचक्षणा विदुषाम् अवधेयवचसो भवन्ति । लघुवृत्तित्वाद् यौगपद्याभिमान इति चेत्; न, {प्. 173.1} बाधकप्रत्ययविरहेण भ्रान्तिकल्पनानुपपत्तेः [त्. 329ब्.] सर्वत्र तथाभावप्रसङ्गात् । करणधर्म एवायं यद् एकस्मिन्न् एव कर्मणि क्रियां निष्पादयति नानेकत्र, करणं चेन्द्रियं ततो नानेकप्रतिपत्तिहेतुर् इति चेत्, कथं प्रदीपादिर् अनेकत्र बहूनां प्रतिपत्तिजनकः? । कर्तृभेदाद् अदोष इति चेत्; कर्त्त्रेकत्वात् तर्हि क्रियैकत्र कर्माणीति कथं `करणधर्मःऽ इत्यादि वचो न प्लवते? । न च प्रतिक्षणविशरारुषु भावेषु परमार्थतः कर्तृकरणादिभावो [स्. 165अ.] युक्तः
क्रिया वा काचित् । न च सर्र्वकारकान्वयव्यतिरेकानुविधायिनि कार्ये कस्यचिद् अतिशयो ऽस्ति येनायं कर्त्ता का(क)रणं चेदम् इत्यादि परिकल्प्येत । तस्माद् अविशिष्टयोग्यतयोः कुत एकरूपनियतायाः प्रतिपत्तेः सम्भवः? इति सिद्ध एकज्ञानसंसर्ग्गः । तुल्ययोग्यतारूपत्वस्य चैतद्[645]एव लिङ्गम् । न ह्य् असति तुल्ययोग्यतारूपत्वे युगपद् एकेन्द्रियजनितज्ञानप्रतिभासिता रूपरसवत् सम्भवतीति ।
तत्र येषांसौगतानाम् इदं दर्शनं `एकायतनसङ्गृहीते ऽनेकत्राप्य् एकम् एवेन्द्रियज्ञानम् आजायतेऽ इति तेषां मुख्य एवैकज्ञानसंसर्ग्गः । ये तु `तत्रापि प्रत्यर्थं भिन्नान्य् एवैकेन्द्रियनिमित्तान्य् एककालानि तद्विषयाणां युगपत् सन्निहितानां स्वज्ञानेषु सामर्थ्याविशेषात्, अत[646]एवैकतया लोके ऽध्यवसीयमानानि ज्ञानान्य् उपजायन्ते` इति वर्णयन्ति [त्. 330अ.] तेषाम् एकेन्द्रियजत्वेनैकायतनविषयत्वेन चैककालेष्व् 3 एकत्वव्यपदेशो लोके[647]तथाध्यवसायाद् औपचारिकः ।
यदि नामैकज्ञानसंसर्ग्गात् तत्संसृष्टस्यापि [स्. 165ब्.] सामान्येन सर्वम् अन्यम् अयं नञ् किन् न प्रतिपादयति? इति अत आह -- तस्मात् इत्यादि । यस्माद् अविशिष्टत्वाद् योग्यताया यथोक्तेन प्रकारेणैकत्र ज्ञाने द्वयोर् अपि संसर्ग्गः तस्माद् अविशिष्टं योग्यतारूपं ययोः तत एवैकज्ञानसंसर्ग्गिणौ तौ तस्मात् तयोर् एवंरूपयोः परस्परापेक्षम् एव न सर्वान्यपदार्थापेक्षम् अन्यत्वम् इह अनुपलब्ध्यधिकारे अभिप्रेतम् । लोके तु यद्य् अविशेषपदार्थान्तरापेक्षम् अन्यत्वं नञा क्वचिद् उच्यते व्याप्तिन्यायसमाश्रयात्, तथापि तद् इह न गृह्यते, {प्. 174.1} प्रत्यासत्तेराश्रयणात् एकज्ञानसंसर्ग्गलक्षणा प्रत्त्यासत्तिर् आश्रीयते ना ऽन्या प्रमाणचिन्ताधिकारात् अन्यथा ऽनुपलब्धिर् अनैकान्तिक्येव स्यात् । तस्मात् तत्त्वचिन्तकैस् तथाविधम् अन्यत्वम् आश्रयणीयम् यद् अनुपलब्धेर् अव्यभिचारनिबन्धनम् । तच् च यथोक्तम् एवेत्य् अभिप्रायः ।
तद् एवम् एकज्ञानसंसर्ग्गापेक्षया ऽन्यत्वं प्रतिपाद्यानुपलब्धिं दर्शयन्न् आह -- स केवलः इत्यादि । स एव यदा केवलः प्रदेशो यथोक्तघटापेक्षया तस्माद् अन्य उच्यते [स्. 166अ.] तदा घटविविक्तप्रदेशज्ञानं [त्. 330ब्.] वा ऽनुपलब्धिः, न तु यथेश्वरसेनो मन्यते उपलब्ध्यभावमात्रम् अनुपलब्धिर् इति, वक्ष्यमाणदोषात्; घटविविक्तप्रदेशस्वभावो वा; न तु तद्विविक्तज्ञानम् एव यथाहकुमारिलः विज्ञानंवान्यवस्तुनि [श्ल्व् अभावपरिच्छेद 11द्.] इति । यथा ह्य् अन्यवस्तुविषयं ज्ञानम् अनुभूयमानं प्रतियोगिस्मरणापेक्षं तदभावव्यवहारनिबन्धनं तथा तद्विविक्तः प्रदेशो ऽपि । तथा हि -- कस्यचित् प्रतिपत्तुः `यतः केवलप्रदेशाकारम् एव ज्ञानं मया संवेद्यते न तु घटाकारम् अपि तस्माद् अत्र घटो नास्ति` इति एवं नास्तिताज्ञानम् उत्पद्यते; कस्यचित् तु `यतः केवलः प्रदेशो ऽयं दृश्यते न तु घटसहितः तस्मान् नास्त्य् अत्र घटः` इत्य्
एवम् । तस्माद् उभयोर् नास्तिताज्ञानजन्मनि तुल्यं सामर्थ्यम् इति द्वयोर् अपि अनुपलब्धिव्यवस्था युक्तेति । तत्र यदा तज्ज्ञानं तदा ज्ञातृधर्मलक्षणा ऽनुपलब्धिः कर्तृस्थक्रिया ऽपेक्षया यदा तत्स्वभावस् तदा ज्ञेयधर्मलक्षणा कर्मस्थक्रियापेक्षयेति ।
एवम् अनुपलब्धिं [स्. 166ब्.] पर्युदासवृत्त्या व्यवस्थाप्य साध्यम् अस्या दर्शयन्न् आह -- साअभावम् इत्यादि । सर्वान्योपलब्धिलक्षणप्राप्तविविक्ते ऽपि [त्. 331अ.] प्रदेशादौ दृश्यमाने यत्र घटादौ प्रतियोगिन्य् अर्थित्वादिभिः स्मृतिर् अस्य भवति तस्याभावं साधयति, अभावव्यवहारं वा । कारणव्यापकानुपलब्धी अभावम् अभावव्यवहारं च साधयतः । स्वभावानुपलब्धिस् तु अभावव्यवहारम् एव । अभावव्यवहारश् च ज्ञानभिधानप्रवृत्तिलक्षणः । तत्र `नास्त्य् अत्र घटः` इत्य् एवम् आकारं ज्ञानम्, एवंविधवस्त्वभिधायकं चाभिधानं निःशङ्कस्य च तत्र प्रदेशे गमनागमनलक्षणा प्रवृत्तिर् इति ।
{प्. 175.1} अत्रेश्वरसेनकुमारिलयोर् वचनावकाशम् आशङ्क्य सिद्धान्तव्यवस्थाम् एव कुर्वता तन्मते निरस्ते ऽप्याहत्य तन्मतनिरासार्थम् आह -- कथम् अन्यभाव इत्यादि ।ईश्वरसेनो हि मन्यते -- कार्य-स्वभावहेतुभ्यां भावरूपाभ्यां अनुपलब्धेः पृथक्करणाद् अवश्यम् अभावरूपत्वम् अस्याः, अन्यथा पृथक्करणम् अनर्थकम् एव स्यात् । त्वया [स्. 167अ.] चान्यस्य प्रतिषेध्यविविक्तस्य प्रदेशादेस् तज्ज्ञानस्य वा भावरूपानुपलब्धिर् आख्यायते तन्नूनम् अन्यभावस् तदभावो येनैवम् अभिधीयते । न चैतद् युज्यते, भावाभावयोर् विरोधाद् एकात्मतानुपपत्तेर् इति ।
कुमारिलो ऽप्य् एवं मन्यते -- येयं ज्ञातृ-ज्ञेयधर्मलक्षणा द्विधा ऽनुपलब्धिर् अभावरूपा त्वयोच्यते तस्या भवतु नास्तिताज्ञानं प्रति साधनभावः । किन्तु स एवान्यस्य प्रतिषेध्यविविक्तस्य वस्तुनः [त्. 331ब्.] प्रतिषेध्यज्ञानाद् अन्यस्य वा तज्ज्ञानस्य यो भावो भावांशः स कथम् अभावः? प्रतिषेध्यस्य तज्ज्ञानस्य वा कथम् अभावांशः? । नैव युज्यते, धर्मरूपतया भावाभावांशयोर् भेदात् । सत्य् अपि धर्मिरूपेणाभेदे तयोश् चोद्भवाभिभवाभ्यां ग्रहणाग्रहणव्यवस्थेति । यद् आह --
धर्मयोर् भेद इष्टो हि धर्म्यभेदे ऽपि नःस्थिते ।
उद्भवाभिभवात्मत्वाद् ग्रहणंचावतिष्ठते[648]॥ [श्ल्व् अभाव 20.]
इति ।
उक्तोत्तरताम् अस्य दर्शयन्न् आह -- उक्तम् उत्तरम् अत्र चोद्ये यथा पर्युदासवृत्त्याअपेक्षातः । `प्रतिषेध्यं तज्ज्ञानं वा अपेक्ष्य तद्विविक्तो ऽर्थस् तज्ज्ञानं [स्. 167ब्.] वा ऽभावो ऽनुपलब्धिश् चोच्यते` इतिईश्वरसेनस्य प्रतिवचनम् । न हि प्रसज्यप्रतिषेध एवैको नञर्थः किन् तु पर्युदासो ऽपि । ततो ऽन्यभावस्याभावरूपता न विरुध्यते, प्रसज्यप्रतिषेधरूपता ऽप्य् अन्यभावस्य यथा तथोत्तरत्र वक्ष्यते । स्वभावहेतोस् त्व् अनुपलब्धेः पृथक्करणं प्रतिपत्त्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्व् अभावप्रतिपत्त्य् अध्यवसायी । परमार्थतस् तु प्रतिषेध्याभावव्यवहारयोग्यता {प्. 176.1} वस्तुभूतैव प्रदेशस्य साध्यत इति न स्वभावहेतोः स्वभावानुपलब्धिर् भिद्यत[649]इति ।
यत् तु `अनपेक्षितार्थान्तरसंसर्ग्गं प्रतिषेधमात्रम् अनुपलब्धिः` इतीश्वरसेनो मन्यते तन्निराकुर्वन्न् आह -- न प्रतिषेधमात्रम् इत्यादि । कस्मात्? इत्य् आह -- तस्य साधनासिद्धेः इत्यादि । [त्. 332अ.] न ह्य् अभावस्य सर्वसामर्थ्यविरहलक्षणस्य साधनत्वं सिद्धिहेतुत्वं सिध्यति, सर्वसामर्थ्यविरहरूपस्य तदयोगात्[650]। हेतुत्वे वा कथं न सामर्थ्ययोगिता? भावरूपता वा?, सामर्थ्यलक्षणत्वाद् वस्तुनः । अभावस्य [स्. 168अ.] चानपेक्षितसहकारिणो अनाधेयातिशयतया नास्तीति ज्ञानजनने नित्यं तज्जननप्रसङ्गः । ततश् च साधकत्वायोगाद् अभावव्यवहार एव न सिध्येत् । अथवा तस्य प्रसज्यप्रतिषेधात्मन उपलब्ध्यभावस्य साधनम् एव किञ्चिन् न सिध्यतीति । स ह्य् अभावत्वाद् अपरेणोपलब्ध्यभावेन साध्यः स्यात्, सो ऽप्य् अपरेणेत्य् अनवस्थानम् । न चेन्द्रियवद् अज्ञातस्य प्रतिषेधज्ञानहेतुता, सदा सन्निहितत्वेनानपेक्षितसहकारिणो नित्यं तदुदयप्रसङ्गात्
। इदं चार्थद्वयं `कथम् अभावः कस्यचित्, प्रतिपत्तिः प्रतिपत्तिहेतुर् वा? । तस्यापि कथं प्रतिपत्तिः` इत्य् 4 अत्रान्तरे स्वयम् एव विपञ्चयिष्यति[651]।
कुमारिलस्याप्य् उत्तरम् आह -- तस्य अन्यस्य प्रतियोगिना वस्त्वन्तरेणासंसृष्टरूपस्य । न ह्य् असौ वस्त्वन्तरैः संसृष्टस्वभाव एकरूपः । तथात्वे ह्य् अभावांशो ऽपि न क्वचित् सिध्येत् । तस्यैवंविधस्य भावसिद्धिर् एव भावांशसिद्धिर् एव अपरस्य प्रतियोगिनो वस्त्वन्तरस्याभावसिद्धिर् अभावांशस्य त्वदभिमतस्य सिद्धिर् अस्तु भावांशस्यैवाभावांशरूपतोपपत्तेर् इति मन्यते । तथा हि -- अभावांशो ऽपि पररूपासंसृष्टतयैवाभाव इति व्यपदिश्यते, अन्यथा [स्. 168ब्.] तदयोगात् । सा च भावांशस्यापि समानेति स एवाभावो ऽस्तु तन्निमित्तस्य समानत्वात् किम् अन्येनाभावांशोपगतेन? । अत [त्. 332ब्.] एवासंसृष्टरूपस्येति विशेषणम् । यत {प्. 177.1} एवम् इति तस्माद् अन्यभावो ऽपि अन्यस्य वस्तुनो भावो ऽपि त्वदभिमतो भावांशो ऽपि न केवलम् अभावांशस् त्वन्मत्या ऽभाव इति व्यपदिश्यते ऽस्माभिः । ततो भावांशस्याभावरूपता सङ्गतैवेति
न किञ्चिद् विरुध्यत इति ।
यद् उक्तं `ज्ञातृ-ज्ञेयधर्मलक्षणया स्वभावानुपलब्ध्या अभावव्यवहार एव साध्यते नाभावः`[652]इति तत् परो विघटयितुं, यच् चोक्तं `न प्रतिषेधमात्रम् अनुपलब्धिः, तस्य साधनासिद्धेः`[653]इति द्वितीये व्याख्याने[654]प्रतिषेधमात्रस्यानुपलब्धि[र् इ]त्य् 4 एतस्य साधनं[655]दर्शयितुम् आह -- अन्यभावलक्षण इत्यादि । एवं मन्यते -- लोको हि केवलप्रदेशदर्शनात् घटाभावम् एव प्रथमं प्रतिपद्यते केवलप्रदेशज्ञानसंवेदनद्वारेण घटज्ञानाभावप्रतिपत्त्या वा ततो घटाभावस्य व्यवहारम् । तेन लोकप्रतीत्यनुसारेण प्रतिषेध्याद् अन्यस्य प्रदेशस्य प्रतिषेध्यज्ञानाद् वा तज्ज्ञानस्य यो भावस् तल्लक्षणो ऽभावः स्वयं प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धो ऽलं [स्. 169अ.] घटाभावं साक्षात् पारम्पर्येण च यथाक्रमं साधयितुम्, स च घटाभावव्यवहारम् इत्य् एवं व्यवस्थापयितुं
युक्तम् । न चैवम् अपि व्यवस्थापने [अस्म]त्पक्षस्य काचित् क्षतिः । तथा हि -- पारम्पर्येणापि यद् अनुपलब्धेः त्वदभ्युपगतायाः सिद्धं तत् तत् एव सिद्धं भवतीति [त्. 333अ.] प्रतिषेधमात्रस्यानुपलब्धित्वे तत्साधनप्रतिपादने ऽपि । अयम् अभिप्रायः -- यथा भवतो ज्ञातृ-ज्ञेयधर्मलक्षणा भावरूपा द्विविधा ऽनुपलब्धिस् तथा ममापि ज्ञातृ-ज्ञेयधर्मलक्षणोपलब्ध्यभावो ऽप्य् अनुपलब्धिसंज्ञितो द्विविधो भविष्यति । तत्र ज्ञेयधर्मलक्षणेनान्यभावेन प्रत्यक्षसिद्धेन प्रतिषेध्याभावो ज्ञेयधर्मलक्षणोपलब्ध्यभावरूप ऽनुपलब्धिसंज्ञितः सेत्स्यति । ज्ञातृधर्मलक्षणेन चान्यभावेन केवलप्रदेशज्ञानात्मना स्वसंवेदनसिद्धेन ज्ञातृधर्मः प्रतिषेध्यज्ञानाभावरूपो ऽनुपलब्धिसमाख्यातः सेत्स्यति । ततश् च कुतो ऽनवस्था येन साधनासिद्धिः स्याद् इति । तत्र[656] अन्यभावलक्षण इति प्रतिषेध्यात् तज्ज्ञानाच् च यो ऽन्यो भावः प्रतिषेध्यविविक्तः प्रदेशः
तज्ज्ञानं च तदात्मको ऽभावः विवक्षिताद् भावात् प्रतिषेध्याद् भावात् तज्ज्ञानाच् चान्यत्वाद् {प्. 178.1} अनुपलब्धित्वेन भवतो ऽभिमतः स्वयं स्वरूपेण प्रमाणेनेन्द्रियप्रत्यक्षेण स्वसंवेदनप्रत्यक्षेण च सिद्धः संस् तस्य [स्. 169ब्.] प्रतिषेध्यस्याभावव्यवहारं ज्ञानाभिधानप्रवृत्तिलक्षणं साधयेत् तत्सिद्धिसिद्धो वा तस्यान्यभावलक्षणस्याभावस्य यथोक्तस्य सिद्ध्या सिद्धो वा तदभावस् तस्य प्रतिषेध्यस्य तज्ज्ञानस्य[657]वा ऽभाव इति एवम् अपीष्यमाणे न कश्चिद् विशेषः त्वदभिमतानुपलब्धितो ऽस्मदभिमतानुपलब्धेः [त्. 333ब्.] ततो ऽस्मद् दर्शनं किम् इति प्रतिक्षिप्यते? । नन्व् अस्त्य् एवैवम् इष्यमाणे विशेषो ऽन्यभावलक्षणानुपलब्धिर् इतरया[658]व्यवहिता तदभावव्यवहारं साधयेद् इतरा तु साक्षाद् इत्य् आह -- स विशेषो नास्ति येन विशेषेणानुपलब्ध्या ऽभावरूपया वस्तुसंस्पर्शरहितया ऽस्मदभिमतया ऽभावव्यवहारसिद्धेः विरोधः
स्यात् । अन्यस्य तु विशेषस्य सतो ऽप्य् अबाधकत्वाद् असत्समत्वम् एव । यद् अप्य् उक्तं -- `तस्य साधनाभावद् अभावव्यवहारासिद्धिप्रसङ्गः`[659]इति, तद् अप्य् असत्, यतः स एव त्वदभिमतो ऽन्यभावः प्रतिषेध्यविविक्तभूतलात्मकस् तद्विषया चोपलब्धिर् अनुपलब्धित्वेनेष्टा भवतस् तदभावस्यानुपलब्धित्वेनास्मन्मतस्य प्रतिषेध्याभावस्य तदुपलब्ध्यभावस्य च किं कस्मात् न साधनं लिङ्गम् इष्यते? । तथा हि सति लोकप्रतीतिर् अनुसृता भवति । किंपुनः कस्मात् पुनः अभावस्य द्विविधस्य सिद्धिर् एव तदभावसिद्धिः न तत्साध्या काचिद् अन्या [स्. 170अ] विद्यत इत्य् अस्मन्मतनिषेधार्थं लोकातिक्रान्तम् इष्यत इति पूर्वपक्षः ।
अत्राह -- अपृथक्सिद्धेर् अन्यभावात् तदभावस्य पृथक्सिद्धेर् अभावात् कुतो लिङ्गलिङ्गिता । तथा सम्बन्धाभावाच् च अन्यभावतदभावयोर् न लिङ्गलिङ्गितेति । प्रथमं तावत् कारणं [त्. 334अ.] विवृण्वन्न् आह अन्यभावस् तद्विविक्तप्रदेशात्मकस् तावन् न साधनं लिङ्गं प्रतिषेध्याभावस्य, `तदुपलब्धिर् अपि तदभावस्य न साधनम्` इति पश्चाद् वक्ष्यते । तदर्थम् एव तावच्छब्दः । कस्माद् अन्यभावो न साधनम्? इत्य् आह -- यत्सिद्धौ यस्य वस्तुनः सिद्धौ प्रतीतौ यस्य अपरस्य {प्. 179.1} वस्तुनो न सिद्धि र् न प्रतीतिः तद् वस्तु तस्य वस्तुनो लिङ्गं भवतीत्य् अयं लिङ्गलिङ्गिनोर् न्यायः । तत्रोदाहरणम् -- धूमाग्निवद् इति । यथा -- यदा धूमप्रतीतौ नाग्निः प्रतीयते तदा तयोर् ल्लिङ्गलिङ्गिभावो भवति, न तु धूमप्रतीतिकाल एव प्रतीयमाने ऽग्नौ । यदि नामैवं ततः किम्? इत्य् अत आह -- अन्यस्य वस्तुनो यो भावः स्वभावः तत्सिद्ध्यैव
तत्प्रतीत्यैव तदभावः तस्य [स्. 170ब्.] प्रतिषेध्यस्याभावः प्रसिध्यति प्रतीयते अन्यभावस्यैव तदभावात्मकत्वात् तत्सिद्धेर् एव तत्सिद्धिलक्षणत्वात् ।
नैयायिकास् तु मन्यन्ते -- प्रतिषेध्याभावो हि प्रसज्यप्रतिषेधात्मकस् तुच्छरूपस् तस्य कथं तदन्यभावरूपता?, भावाभावयोर् विरोधात् । ततः कथं तदन्यभावसिद्ध्यैव तदभावसिद्धिः स्यात्? इत्य् अत आह -- तस्य तदन्यभावस्य प्रदेशलक्षणस्य तस्माद् अन्येन प्रतिषेध्येन घटादिना असंसृष्टरूपस्य रहितात्मनः केवलस्य प्रतिषेध्येन शून्यात्मनः । अनेन केवलप्रदेशस्यापि प्रसज्यप्रतिषेधात्मकताम् आह । कथं भावस्य तुच्छरूपता स्वभावः, विरोधात्?, इति चेत्; न, पररूपेण तस्यापि तुच्छरूपत्वात् । [त्. 334ब्.] यथा ह्य् अनपेक्षितभावान्तरसंसर्गः प्रसज्यप्रतिषेधः शून्यविकल्पप्रतिभासी प्रतिषेध्येन तुच्छरूपः तद्रूपविरहात्, तथा तदन्यभावो ऽपि प्रतिषेध्यासंसृष्टरूपः । ततः कथम् अस्य प्रतिषेध्येन तुच्छरूपता [स्. 171अ.] विरुध्येत? । स्वरूपेण 2 ह्य् अयम् अतुच्छरूपः[660]स्यान् न पररूपेण,
अन्यथा कथम् अस्यान्यभावत्वं परस्य वा तत्राभावः स्यात्? । यो हि यदभावरूपो न भवति स एवासौ भवति, तत्स्वरूपवत् । ततः सर्वस्य जगतः परस्परात्मताप्रसङ्गः । तस्मात् सर्वभावाः पररूपेण निःस्वभावः स्वरूपेण रूपवत्त्वे ऽपीत्य् अनवद्यम् ।
कस् तर्हि प्रसज्यप्रतिषेधात् पर्युदासस्य भेदः? । न कश्चित्, केवलम् अनपेक्षितरूपान्तरम् अभावमात्रं प्रसज्यप्रतिषेध इति लोके कथ्यते । रूपान्तरं तु पररूपशून्यं पर्युदास इति । न तु रूपान्तरं पररूपतुच्छात्मकं न भवति । अनुभूयत एव च रूपान्तरं {प्. 180.1} तद्रूपशून्यतया, कथं तस्य प्रसज्यप्रतिषेधात्मता न स्यात् पररूपेण? । सामर्थ्यात् ततस्[661]तत्प्रतीतिर्[662]इति चेत्; न अकारणप्रतीतौ[663]सामर्थ्यासम्भवात्[664]। तादात्म्याभावे हि प्रसज्यप्रतिषेधस्य पर्युदस्तात् [स्. 171ब्.] प्रतीतौ तत्कारणत्वे सति स्यात् प्रतिपत्तिः नान्यथा । तस्य तदन्यासंसृष्टरूपस्य यत् तत्त्वं तस्य प्रतिषेध्यतुच्छरूपताया व्यवस्थापकं प्रमाणं प्रत्यक्षरूपम् तत् एव -- न तदुत्तरकालभाविनो [त्. 335अ.] `नास्तीह घटः` इति विकल्पात्, तस्य गृहीतग्राहितया स्मृतित्वेनाप्रमाणत्वात् -- अन्यस्य घटादेस् तत्रासतो व्यवच्छेदस्याभावस्य सिद्धेस् तदभावात्मकस्यैव
प्रदेशस्य तेन ग्रहणात् । द्विविधो ह्य् अयं प्रदेशो घटासंसृष्टरूपस् तद्व्यावृत्तरूपतया ततो ऽन्यो घटवान् अपि, केवलश् च घटं प्रति अप्रतिपन्नाधारभावः[665]। 4 तस्य तद्विवेकेन[666]प्रत्यक्षेण ग्रहणे घटाद् अन्यत्वं घटविरहश् च गृहीत एव भवतीति न वस्त्वसंकरसिद्ध्यर्थं, `इहेदं नास्ति` इत्य् एवम् अर्थं च प्रमाणान्तरम् अन्वेषणीयम् । विस्तरश् चैतद् उत्तरत्र वक्ष्यत इति आस्तां तावत् । यतश् चान्यभावसिद्ध्यैव तदभाव उक्तेन न्यायेन सिद्ध्यति ततो नान्यभावः प्रतिषेध्याभावस्य लिङ्गम् ।
द्वितीयं कारणं व्याचक्षाण आह -- सम्बन्धाभावाच् च इति । अन्यभावतदभावयोर् न [स्. 172अ.] कश्चित् सम्बन्धो ऽस्ति ततः कुतो लिङ्गलिङ्गिभावः इति । एतच् च कदोच्यते? । यदा तदभावरूपता 5 ऽन्यभावस्य परानभ्युपगता[667]ऽपेक्ष्यते । तदन्यभावात्[668]पृथग् एव तदभावस् तुच्छरूप इष्यते परैः । अन्यथोक्तेन न्यायेनान्यभावस्यैव तदभावरूपत्वे तादात्म्यात् कथं सम्बन्धाभावः? । प्रत्यक्षसिद्धता च[669]तदैव[670], न पक्षान्तरेण[671]अभिहिता । तच् च तस्य इत्याद्यस्यैव विवरणं व्यतिरेकमुखेन एकार्थसमवाय इति[672][त्. 335ब्.] परदर्शनेनोक्तं । परेषां हिनैयायिकादीनांव्यतिरिक्ताव् एव कृतकानित्यत्वाख्यौ धर्माव् एकस्मिन्न् एव धर्मिणि समवेताव् इति कृतकस्यानित्यत्वेनैकस्मिन्न् अर्थे धर्मिणि समवायः सम्बन्धः धूमस्य वेति {प्. 181.1} सम्बन्ध एवोदाहरणान्तरम् । अत्रैकर्थसमवाय इति संयोगः स एव समवायशब्देनोक्तः
। संयोगसमवाययोः कल्पितत्वाद् भेदेन व्यपदेशे ऽनादरात् । परेषां त्व् अग्निधूमौ स्वावयवेष्व् एव समवेताव् इति न तयोर् एकार्थसमवाय आधाराधेयभावो वेति धूमस्याग्नेर् उपरि दर्शनाल् लौकिकः सम्बन्ध उक्तः । जन्यजनकभावो वा इति पारमार्थिकः सम्बन्धो ऽभिहितः, परमार्थतो ऽग्नेर् जनकत्वात् इतरस्य च जन्यत्वाद् इति ।
ननु चेश्वरसेनेन सह विचारः प्रक्रान्तः तत् किम् इतिनैयायिकाभिमतस्यापि सम्बन्धस्यान्यभावतदभावयोर् अभाव उच्यते । सत्यम्, [स्. 172ब्.] प्रसङ्गेन तु तन्मतस्यापि निषेधार्थम् उक्तम् । पूर्वं ह्य् अन्यभावग्राहिप्रत्यक्षसिद्धत्वात् प्रतिषेध्याभावस्य न तदर्थं प्रत्यक्षान्तरं `नास्तीह घटः` इत्य् एवमाकारं कल्पनीयम् इति प्रसङ्गतः कथितम् । अधुना तु प्रसङ्गाद् इदम् उच्यते -- यदान्यभावग्राहिप्रत्यक्षसिद्धो ऽयं तदभावो न भवति तदा प्रत्यक्षान्तरं `नास्ति इह घटः` इत्य् एवम् आकरं विशेषणविशेष्यभावलक्षणात् 11 सन्निकर्षाद् इष्टं भवता[673]। न चासति सम्बन्धे ऽन्यभावतदभावयोर् विशेषणविशेष्यभावो युक्तः, अतिप्रसङ्गात् । ततः [त्. 336अ.] कुतस् तल्लक्षणात् सन्निकर्षात् तदभावे[674]प्रत्यक्षं भवेद् इति ।
एवं सम्बन्धस्वरूपम् आख्याय तस्येहासम्भवम् आह -- नैवम् , यथा कृतकत्वानित्यत्वयोर् अग्निधूमयोर् वैकार्थसमवायादिलक्षणः सम्बन्धो नैवं कश्चिद् भावाभावयोः सम्बन्धो येन अस्य तदभावस्यान्यभावः साधनं स्यात् । याव् एकत्रार्थे धर्मिरूपे प्रवर्त्तेते तयोर् एकार्थसमवायो भवति । अन्यभावश् च प्रदेशाख्यः स्वावयवेषु येषु वर्त्तते न तत्र घटाभावः । एवं हि प्रदेशावयवेषु घटो नास्तीति स्यात् न प्रदेशे । न चास्य प्रदेशवयवैर् आरम्भः । ते हि द्रव्यात्मानो द्रव्यान्तरम् एवारम्भन्ते । न च घटाभावो द्रव्यम् । नवैव हि द्रव्याणीष्यन्ते । न च क्रियावदादिकं द्रव्यलक्षणं [स्. 173अ.] तत्रास्ति । न च गुणरूपतया तत्र वर्त्तते । चतुर्विशतिर् एव हि {प्. 182.1} गुणा इष्यन्ते । न चायं तेषाम् अन्यतमः । नापि कर्मरूपतयपञ्चसु कर्मस्वनन्तर्भावात्[675]तल्लक्षणविरहाच् च । एकद्रव्यम् [वैसू इ.1.15.] इत्य् आदिकं
हि तल्लक्षणम् । न चैतद् अभावे सम्भवतीति । नापि सामान्यादिरूपतया, तद्रूपविरहाद् एव । नाप्य् अन्यभावतदभावयोः संयोगो ऽग्निधूमयोर् इव, द्रव्ययोर् एव तदभ्युपगमात् । न च तदभावो द्रव्यम् इत्य् उक्तम् । नाप्य् आधार(रा)धेयभावो, यतः सो ऽपि संयोगनिमित्त उच्यते `इह कुण्डे बदराणि` इति । समवायनिमित्तो वा, `इह तन्तुषु [त्. 336ब्.] पटः` इति । न चाभावस्याद्रव्यात्मनः संयोगः समस्ति[676]। नापि समवायः, पञ्चानाम् एव हि द्रव्यादीनां पदार्थानां समवायित्वम् इष्यते; न चाभावः पञ्चस्व् अन्तर्भवतीति । न च तदात्मानुपकारे सत्य् आधारव्यपदेशः सम्भवति । उपकारे वा जन्यजनकभावः । न च तदभावो जन्यः; कार्यताप्रसङ्गात् । कार्यता चास्यासम्भविनी[677], [स्. 173ब्.] यतः स्वकारणसमवायः, सत्तासमवायो वा कार्यतोच्यते भवद्भिः । अन्यभावस् तु प्रदेशाख्यो ऽस्य न कारणम्, त्रयाणाम् एव हि द्रव्यगुणकर्मणां द्रव्यं कारणम् इष्टम् । न चाभावो
द्रव्यादिलक्षणः इति । सत्तासमवाये ऽपि सत्प्रत्ययविषयता तदभावस्य स्यात्, नाभावप्रत्ययविषयता । प्रदेशाभावे ऽपि च घटाभावसम्भवात् कुतस् तत्कार्यता । न चास्य प्रतिविषयं भेदः, एकाकारज्ञानविषयत्वात् । सम्बन्धिभेदाद् भेदे वा सामान्यादिष्व् अपि तत्प्रसङ्गः । समवायोप्य् अस्यानन्तरम् एव निरस्त इति कुतः स्वकारणसत्तासमवायरूपा कार्यता तदभावस्य स्यात्? । एतेन जन्यजनकभावः प्रत्युक्तः । ततः सर्वथा सम्बन्धाभावान् नान्यभावः तदभावस्य साधनम् इति ।
परः सम्बन्धान्तरं दर्शयन्न् आह -- अस्ति विषये त्य् आदि । यथा हि अर्थो विषयः शब्दो विषयीति तयोर् विषयविषयिभावः सम्बन्धः, [स्. 174अ.] एवम् अन्यभावतदभावयोर् विषयविषयिभावः सम्बन्धो भविष्यति [त्. 337अ.] प्रदेशाख्येनान्यभावेन घटाभावस्य प्रत्यायनाद् इति पूर्वपक्षाशङ्का । शब्दार्थयोः सम्बन्धः {प्. 183.1} स्याद् इत्य् अभिसम्बन्धः । किं रूपः? । कार्यकारणलक्षणः । कथं पुनर् अर्थकार्यता शब्दस्य? । तत्प्रतिपादनाभिप्राये सति अर्थप्रतिपादनविवक्षायां सत्यां तत्प्रयोगाच् छब्दोच्चारणात् । तेनार्थेन विवक्षाविपरिवर्त्तिना शब्दस्य कार्यकारणलक्षणः सम्बन्धः स्यात् । यद्य् अपि च शब्दार्थयोः बुद्धिपरिकल्पितसामान्यरूपता तथाप्य् अर्थप्रतिभासिन्या विवक्षया शब्दसामान्योत्प्रेक्षानिबन्धनस्य शब्दस्वलक्षणस्योत्थापनात् तन्मुखेन कार्यकारणभाव उच्यते । अविनाभावलक्षणो
वा इति परप्रसिद्ध्योच्यते । परो ह्य् अविनाभावलक्षणः शब्दार्थयोः सम्बन्ध इति व्यवहरति । ततः सम्बन्धनिबन्धनः प्रतिपाद्यप्रतिपादकरूपो[678]विषयविषयिभावो युक्तः । तदभावान्यभावयोर् अप्य् एवं भविष्यतीति चेत्, आह -- अयंच अनन्तरोक्तप्रकारः अत्र तदभावान्यभावयोः न सम्भवति । न हि घटाभावप्रतिपादनाभिप्राये [स्. 174ब्.] सति अन्यभावस्य प्रदेशलक्षणस्य प्रयोगो[679]निष्पत्तिर् भवति, घटाभावप्रतिपादनाभिप्रायात् प्राग् अपि प्रदेशस्य स्वहेतुभ्य एव निष्पत्तेः । सत्य् अपि तदभिप्राये ऽन्यभावस्याभावाच् च । ततश् च कथं तयोः कार्यकारणभावः? तद्द्वारको ऽविनाभावो वा स्यात्? यतो [त्. 337ब्.] विषयविषयिभावः कल्प्येत ।
स्यान् मतम् -- यथा शब्दार्थयोः साध्यसाधनभावनिमित्तो विषयविषयिभावः तथा अन्यभावतदभावयोर् अपि इत्य् एतावन्मात्रेण शब्दार्थयोर् दृष्टान्ततेत्य् अत आह -- सिद्धे हि इत्यादि । शब्दार्थयोर् हि कार्यकारणभावनिबन्धनः साध्यसाधनभावः अन्यथा ऽर्थान्तरत्वे तदयोगात् तथेहापि यदि तदभावान्यभावयोः साध्यसाधनभावः सिध्येत् तदा तन्मुखेन साध्यसाधनभावद्वारेण विषयविषयिभावः स्यात् । यावता स एव साध्यसाधनभावो ऽसति सम्बन्धे 3 कार्यकारणभावादिके न सिध्यति[680], सर्वस्य साध्यसाधनाप्रसक्तेः ।
कथम् इन्द्रियं स्वविषयसिद्धिनिबन्धनम् इति चेत्; परस्परोपसर्प्पणाद्याश्रयात् प्रत्ययविशेषाद् इन्द्रियविषययोर् एकविज्ञानोत्पादनयोर् {प्. 184.1} उदयात् तथा व्यपदेशः, नैवम् इह, अन्यभावतदभावयोस् तदयोगात् । लिङ्गलिङ्गिभावलक्षणस्य [स्. 175अ.] च साध्यसाधनभावस्य प्रकृतत्वात्, तस्य च सम्बन्धम् अन्तरेणायोगात् ।
नैव सम्बन्धान्तरनिबन्धनो ऽन्यभावतदभावयोः साध्यसाधनभावो ऽपि तु विषयविषयिभावनिमित्त एवेति चेत्; आह -- अन्यथा यदि [त्. 338अ.] सम्बन्धान्तरं नेष्यते किन् तु विषयविषयिभावात् साध्यसाधनभावः तस्माच् च विषयविषयिभावः, तत इतरेतराश्रयम् इदं स्यात् । तथा चैकासिद्धौ द्वयोर् अप्य् असिद्धिर् भवेद् इति । किञ्चान्यभावाच् च लिङ्गभूताद् अभावस्य लिङ्गिनः सिद्धाव् अनुमिताव् 4 इष्यमाणायां असमुदायश्[681]च साध्यः स्यात्, अन्यभावेन तदभावस्य केवलस्यैव साधनात् न केवलसम्बन्धाभावात् साध्यसाधनभावायोगः । समुदायश् च विशेषणविशेष्यभावापन्नो धर्मधर्मिलक्षणः साध्यो य इष्टस् तदभावदोषश् चेति `च` शब्दः ।
सर्वत्र समुदायस्य साध्यता नैवेष्टेति चेत्, आह -- तथा च धर्ममात्रस्यापि स्वतन्त्रस्य साध्यतोपगमे `घटाभावस् तदन्यभावात्` इत्य् एवंरूपे प्रयोगे घटस्य सर्वत्र देशे सर्वदा चाभावः प्रसज्येत । धर्मिणि हि क्वचिद्धर्मस्य गुणभूतस्य साधने तत्रैव तत्काल एव च भावो युक्तो नान्यदेति सर्वत्र समुदाय एव साध्यो ऽभ्युपगन्तव्यः न केवलो धर्म इति ।
अत्राह परः -- नासमुदायस्य [स्. 175ब्.] साध्यता 5 अन्यभावतदभावयोर् असम्बन्धो[682]वा । कुतः? । प्रदेशादि इत्यादि । `इह प्रदेशे घटो नास्ति` इत्य् एवं घटाभावेन प्रदेशादिर् धर्मी विशेष्यते सघटात् [त्. 338.ब्.] प्रदेशादेर् भेदेनावस्थाप्यत इति तद्विशेषणत्वं प्राप्तः साध्यते न तु घटो नास्तीत्य् एवं केवलो धर्मिणः कस्यचिद्गुणभावमनापन्नः । ततो नासमुदायस्य साध्यतेति कुतस् तद्भावी दोषः? । न च नैवास्मिन्पक्षे लिङ्गस्या न्यभावात्मनो लिङ्गिनश्च प्रदेशादिधर्मिलक्षणस्य असम्बन्धदोषःप्रसज्यते । कुत? । अन्यभावस्य घटविविक्तप्रदेशादिलक्षणस्य प्रदेशादिना {प्. 185.1} धर्मिणा सम्बन्धात् तादात्म्यसद्भावाद् इति । तथा हि -- शब्दादिधर्मिणा कृतकत्वादेस् तादात्म्यलक्षण एव सम्बन्ध इष्यते भवता । स इहास्तीत्य् अभिप्रायः । ततश् च `सम्बन्धाभावाच्
च` इत्य् अयुक्तम् इति मन्यते ।
सिद्धान्तवादी तु साध्यधर्मलक्षणस्य लिङ्गिनो घटाभावाख्यस्यान्यभावेन लिङ्गेन सम्बन्धाभावः प्राग् उक्तो न धर्मिणा ततः क्वदम् उत्तरं संबध्यत इति मन्यमानो धर्मिणा ऽप्य् अन्यभावाख्यस्य लिङ्गस्य सम्बन्धाभावं दर्शयन्न् आह -- न लिङ्गलिङ्गिनोर् असम्बन्धो न चेति सम्बध्यते । तथा नासमुदायसाधनम् इति । किन् तु लिङ्गलिङ्गिनोर् असम्बन्ध एवासमुदायसाधनम् एव च एवम् अपि ब्रुवतः । कुतः? । प्रदेशादेर् एव धर्मितया ऽवस्थाप्यमानस्यान्यभावत्वाद् अन्यभावलक्षणलिङ्गत्वात् । एतद् एव [स्. 176ब्.] दर्शयति -- यत्रैव हि प्रदेशादौ धर्मितया त्वया कल्प्यमाने यद् [त्. 339अ.] घटादिकं नास्तीत्य् उच्यते लोकेन स एव प्रदेशादिस् तेन घटादिना ऽसंसृष्टस् संसर्गरहितः अन्यभावो लिङ्गतयेष्टो नापरः कश्चित् यतः तद्दर्शनाद् एव घटासंसृष्टप्रदेशादिदर्शनाद् एवास्य प्रतिपत्तुः `घटो नास्ति` इति विकल्पो लिङ्गिज्ञानतयोपगतो
भवति । ततः स एवान्यभावः । यद् एव हि दृश्यमानं लिङ्गिज्ञानं जनयति तद् एव लिङ्गम् उच्यते । घटासंसृष्टश् च प्रदेशादिर् एवम् । तस्मात् तदेवान्यभावलक्षणं लिङ्गम् उपेयम् । ततः कथं तस्यैवान्यभावस्य व्यावृत्तितो ऽपि भेदम् अननुभवतो लिङ्गलिङ्गिभावो लिङ्गत्वं लिङ्गित्वं वा? । न हि लिङ्गम् एव धर्मी भवितुम् अर्हति, धर्मिप्रतिपत्ताव् एव साध्यप्रतिपत्तेर् अन्वयाद्यनुसरणायोगात् । ततश् चान्यस्य धर्मिणो ऽभावात् कथम् अन्यभावात्मनो लिङ्गस्य तत्सम्बन्धः, समुदायसाध्यता वा? । शब्दकृतकत्वयोस् तु परमार्थतस् तादात्म्ये ऽपि व्यावृत्तिभेदनिबन्धनो ऽस्त्य् एव भेदः । ततः शब्दादिधर्मिप्रतिपत्ताव् अप्य् अनित्यत्वाद्यप्रतीतौ कृतकत्वादिना तत् साध्यत इति युक्तम् ।
स्यान् मतम् -- सामान्यविशेषकल्पनया [स्. 176ब्.] लिङ्गलिङ्गितैकस्यापि भविष्यतीत्य् अत आह -- न चात्र प्रकृते ऽन्यभावे सामान्यविशेषभावकल्पनासम्भवति , येन [त्. 339ब्.] सामान्यविशेषविकल्पेन सामान्यं हेतुर् भवेद् विशेषो धर्मी, यतः {प्. 186.1} समुदायसाध्यता लिङ्गलिङ्गिनोः सम्बन्धो वा स्यात् । कुतो न सम्भवतीत्य् आह -- तद्विशेषप्रतिपत्तेर् एव घटविविक्तप्रदेशविशेषप्रतिपत्तेर् एव तदभावस्य घटाभावस्य प्रतीतेः । यतश् च विशेष एव घटाभावप्रतीतिनिबन्धनं ततः किं तत्र सामान्यकल्पनया क्रियत इति । स एव विशेषो ऽन्यत्र वर्त्तमानः सामान्यरूपतां प्रतिपत्स्यत इति चेत्, आह -- तस्य घटविविक्तप्रदेशविशेषस्य अन्यत्र सजातीये अन्वयस्य अनुवृत्तेर् अभावात् कुतः सामान्यात्मता? । न ह्य् असौ देशकालावस्थानियतो विशेषो ऽन्यम् अन्वेतीति । अत्रैवोपचयहेतुम् आह -- प्रतिज्ञार्थे त्यादि । यदि हि घटविविक्त
एव प्रदेशविशेषो धर्मी, तस्यैव च हेतुतेष्यते, तदा प्रतिज्ञाया यो ऽर्थो धर्मधर्मिसमुदायस् तदेकदेश एव धर्मिलक्षणो हेतुः स्यात्, प्रतिज्ञार्थैकदेशस्य च व्यावृत्तितो ऽपि भेदम् अनु(न)नुभवतो हेतुत्वम् असिद्धम् इति । अथ मा भूत् [स्. 177अ.] एष दोष इति न घटविविक्त एव प्रदेशविशेषो हेतुर् इष्यते, किन् तु प्रदेशमात्रं घटविविक्तताविशेषरहितम् इत्य् अत आह -- न च यत्र प्रदेशमात्रंतत्र घटाभावः । सघटे ऽपि प्रदेशे प्रदेशमात्रस्य भावाद् अनैकान्तिको हेतुः स्यात् ।
परो ऽन्यथा सामान्यविशेषभावं [त्. 340अ.] दर्शयन्न् आह -- तादृशौ(शे) यादृशो घटविविक्तः केवलः प्रदेशो ऽग्रतः स्थितस् तादृशे सर्वत्र प्रदेशे घटस्याभाव इति कुतो ऽनेकान्तः? । तथाविधप्रदेशविशेषप्रतीतिर् एव घटाभावप्रतीतिस् ततो ऽन्यभावतदभावयोः लिङ्गलिङ्गिता ऽनुपपन्नेत्य् उपदर्शयन्न् आह -- ननु तस्यैव इत्यादि । यो ऽसौ केवलः प्रदेशविशेषो धर्मितया ऽवस्थापितस् तस्यैव यत् कैवल्यं केवल इत्य् अनेन विशेषणेनोच्यते भवता, तद् एव घटविरहो घटाभाव इति कथ्यते । स च घटविरहो लिङ्गभूतस्य केवलस्य प्रदेशस्य 1 प्रतिपत्ताव् एव[683]सिद्धो न तूत्तरकालं ततो ऽन्य एव आकारान्तरेण धूमादिवाग्निः[684]सिध्यति । ततः कस्येदानीं तत्प्रतिपत्ताव् एव साध्यप्रतीतौ सत्यां तल्लिङ्गम्[685]? । न {प्. 187.1} कस्यचित् । जिज्ञासितस्य घटाभावस्य सिद्धेर् अन्यस्य कस्यचिद् अजिज्ञासितत्वात् । केवलप्रदेशप्रतिपत्ताव् एव घटविरहप्रतीतौ
च यद् एतद् उत्तरकालं `यत्र यत्र केवलः प्रदेशस् तत्र तत्र घटविरहः` इति [स्. 177ब्.] अन्वयस्यानुगमामनु(गमनम् अनु)सरणम्, तच् च निरर्थकम् आदाव् एव साध्यप्रतीतेः । यत एवं तस्माद् अन्यभावः केवलप्रदेशलक्षणः साध्यसाधनयोर् भेदाभावान् न साधनम् अभावस्येति स्थितम् । तद् एवं [त्. 340ब्.] समुदायसाध्यतां 3 लिङ्गस्य च धर्मिणा सम्बन्धं[686]प्रतिपादयितुं यद् उक्तं परेण -- `प्रदेशादिधर्मिविशेषणस्याभावस्य साधनात्`[687]इति तदपृथक्सिद्धिदूषणेनैव निराकृतम् ।
विषयविषयिभावेन तु सम्बन्धप्रतिपादने निरस्ते परो ऽन्यथा सम्बन्धं साध्यसाधनयोर् दर्शयन्न् आह -- अस्त्य् अन्यभावतदभावयोः सम्बन्धो विरोधाख्यः । ततः सम्बन्धसद्भावाद् अन्यभावाद् अभावस्य सिद्धिर् भविष्यतीति । सिद्धान्तवादी तु साध्यसाधनयोर् विरोधम् एवासम्भावयन् पृच्छति -- केन कस्य विरोधः इति । न ह्य् अत्र साध्यसाधनयोर् विरोधः संभवतीत्य् अभिप्रायः । परो विरोधम् अभिप्रायानभिज्ञातया दर्शयति -- अन्यभावेन केवलप्रदेशात्मना प्रतियोगिनो यस्याभावः प्रमातुम् इष्टो घटादेस् तस्येति ।
परस्यैवंवादिनो असम्बन्धाभिधायिताम् आदर्शयन्न् आह -- किंनु वै प्रतियोगी घटादिः प्रमातुम् इष्टो येन प्रतियोगिनाः प्रमेयत्वेन लिङ्गलिङ्गिनोर् विरोधः सम्बन्धो ऽभिधीयते? । नैव प्रतियोगी प्रमातुम् इष्टः किन् तु तदभाव इति चेत्, आह -- अभावस् तु प्रतियोगिनो यः साध्यः [स्. 178अ.] ................................................................................................................ [स्. 178ब्.] ........................................................................................................................
[कुमारिलस् तु मन्यते भावांशाद् भिन्नो ऽ] [स्. 179अ.] यम् अभावांशस् ततो नान्यभाव एव तदभाव इति कथं तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति । तथा ह्य् अयम् अभावः {प्. 188.1} प्रागभावादिभेदभिन्नः, न चावस्तुनो भेदः सम्भवति अतो ऽयं वस्तुरूप एव । यद् आह --
न चावस्तुन एते स्युर् भेदास् तेनास्य वस्तुता॥ [श्ल्व् अभाव 8अब्.] इति । न च भावांश एवाभावांशो युक्तः, तस्येन्द्रियसंयोगबलेन प्रतीतेः, इतरप्रतीतेश् च तदसंयोगहेतुकत्वात् । यद् आह --
तत्संयोगे सद् इत्य् एवंसद्रूपत्वंप्रतीयते ।
नास्त्य् अत्रेदम् इतीत्थंतु तदसंयोगहेतुकम् ॥ [श्ल्व् अभाव 26.] इति । तत् कथं तत्प्रतिपत्तिर् एवापरस्य व्यवच्छेदनम् इति तन्निरासार्थम् आह । तस्या न्यस्य प्रदेशस्य [त्. 342अ.] केवलस्य यत् तत् कैवल्य म् एकाकित्वम् असहायता तद् एव अपरस्य प्रतियोगिनो घटादेः वैकल्यम् अभाव इति तस्मात् तदन्यभाव एव भावांश एव त्वद् अभिमतः तदभावः प्रतियोग्यभावांशो न ततः पृथग्भूतं धर्मान्तरम् इत्य् उच्यतेसुगतसुतैः। ततश् च तत्प्रतिपत्तिर् एव च तस्यान्यभावस्य प्रतिपत्तिर् एव 5 च तदप्रतिपत्तिः[688] तस्य प्रतियोगिनो ऽप्रतिपत्तिर् अभावप्रतिपत्तिर् इति यावत् । एवं मन्यते -- यो ऽयम् अभावांशो भावांशात् पृथग्भूतो वस्तुनो धर्मः परिकल्प्यते स घटाद्यभावात्मकतां [स्. 179अ.] तद्रूपवैकल्याद् एवानुभवति नान्यथा । तच् च तद्रूपवैकल्यम् अन्यवस्तुनो भावांशस्यापि
विद्यत एव । तदभावे हि तस्यान्यवस्तुतैव हीयेत । न हि यद् यद्रूपविकलं न भवति तत् ततो ऽन्यत्वम् अनुभवति, यथा तस्यैव स्वरूपम्, तथा चाभावांशो ऽपि तस्य न सिध्येत्, सर्वं च विश्वम् एकं द्रव्यं प्रसज्येत, ततश् च सहोत्पत्त्यादिप्रसङ्गः, सर्वस्य च सर्वत्रोपयोगः स्याद् इत्य् अवश्यम् अन्यवस्तुनो भावरूपता तदन्याभावात्मिकैव । तथा च तत्प्रतिपत्तिर् एव तदन्याभावप्रतिपत्तिः[689]। तत्संयोग एव चेन्द्रियस्य तदन्यभावाभावसंयोग [त्. 342ब्.] इति किम् उच्यते --
नास्त्य् अत्रेदम् इतीत्थंतु तदसंयोगहेतुकम् । [श्ल्व् अभाव 26च्द्]
इति? । विकल्पापेक्षयोक्तम् इति चेत्, तदेतदबाधकम् एव । प्रत्यक्षेण तदाकारोत्पत्त्या तदन्याभावात्मके[690]एव वस्तुरूपे प्रतिपन्ने पाश्चात् यस्य {प्. 189.1} यथागृहीताभिलापिनो विकल्पस्योपगमात् । विस्तरतश् चायम् अभावविचारःप्रमाणद्वित्वसिद्धाव् अभावं प्रमेयं प्रमाणं च विचारयता विहित इति तत एवावधार्य इति ।
अवश्यं च तदन्यभावप्रतिपत्तिर् एव तदभावप्रतिपत्तिः । ततो न वस्त्वसङ्करसिध्यर्थं, `नास्त्य् अत्रेदम्` इत्य् अभावव्यवहारार्थं [स्. 180अ.] चाभावप्रमाणपरिकल्पना युक्तेति दर्शयन्न् आह -- अन्यथा यदि तत्प्रतिपत्तिर् एव तदभावप्रतिपत्तिर् इति नेष्यते[691]तदा तस्य अन्यवस्तुनः स्वरूपपरिच्छेदेन ततो ऽन्यस्यातद्रूपस्य अव्यवच्छेदे अनिराकरणे तदभावाप्रतिपत्तौ तत्परिच्छेद एव न स्यात् -- तस्य तदन्यवस्तुनः स्वरूपप्रतिपत्तिर् एव न स्यात् । किं कारणम्? तदतद्रूपयोः तस्य तदन्यवस्तुनो यद्रूपं प्रतिनियतं सकलत्रैलोक्यविलक्षणं यच् चातद्रूपं तद्रूपं न भवति पररूपं तयोः अविवेकाद् अविवेचनाद् विवेकेनाव्यवस्थापनाद् असाङ्कर्येणाप्रसाधनात् । सकलपररूपासङ्कीर्णं हि तद्रूपम् तच् चेत् [त्. 343अ.] तत्सामर्थ्यभाविना प्रत्यक्षेण तथा नानुकृतं केवलं सम्मुग्धाकारम्[692]एव तदुत्पन्नं तदा कथन् तेन तत्परिच्छेदः
स्यात्? । न हि यद्रूपं यद्वस्तु तद्रूपाननुकारिणा ज्ञानेन तत्परिच्छेदो युक्तो यथा -- शुक्लशङ्खरूपाननुकारिणा कामलिनः पीतशङ्खावभासिना ज्ञानेनेति । प्रतिनियतरूपानुकारे वा तत्परिच्छेदस्य कथम् अन्या ऽव्यवच्छेदो नाम? । ततः प्रतिनियतरूपाननुकाराद् एव तदन्याव्यवच्छेदः । तथा च तत्परिच्छेदाभाव इति ।
भवत्व् एवं ततः को दोषः? इत्य् अत आह -- य एष व्यवहारः सर्वजनप्रतीतः कस्यचिद् अग्न्यादेर् वस्तुनो दर्शनात् क्वचिद्देशे तत्सम्बन्धिनि [स्. 180ब्.] प्राप्त्यर्थो दृष्टस्यादृष्टस्य च परिहारार्थः प्रवृत्तिनिवृत्तिलक्षणः स न स्यात् । किं कारणम्? । न हि यस्माद् अयं प्रतिपत्ता अनलंपश्यन्न् अपि सङ्कीर्णतदतद्रूपप्रतिभासिना प्रत्यक्षेण, अन्यथा ऽस्य दर्शनरूपताहानेः, तथा हि -- असङ्कीर्णस्यादर्शने सङ्कीर्णम् अपि यदि न पश्येत् तदा लोष्टादिप्रख्यं कथं कस्यचिद् एतद्दर्शनं स्यात्? । स एवंभूतः सङ्कीर्णदर्शनवान् {प्. 190.1} प्रतिपत्ता कथम् अनलम् एव पश्यति न सलिलादिकम्? । किन् तु सङ्कीर्णरूपवस्तुप्रतिभासिज्ञानतया सलिलादिकम् अपि पश्यति । ततः कथं सलिलार्थीतत्र अग्निमति प्रदेशे न प्रवर्तेत ? ।
परस्य वचनावकाशम् आशङ्क्याह -- [त्. 343ब्.] अनुपलम्भेन इत्यादि । अनलप्रतिभासिना हि ज्ञानेनानलस्वरूपन् एव प्रतीयते । यस् तु सलिलाभावः स तत्र सलिलस्यानुपलम्भेन । ततो ज्ञानद्वयेन तदतद्रूपयोर् विवेकाल् लोके प्रवृत्तिनिवृत्तिलक्षणः प्रतिनियतो व्यवहारः सिध्यतीति । सिद्धान्तवाद्य् आह -- को ऽयम् अनुपलम्भो नाम इति । कदाचित् परो ब्रूयात् सलिलोपलम्भविरहमात्रम् इत्य् अत आह -- यदि सलिल इत्य् आदि ।कुमारिलस्य तु सलिलोपलम्भनिवृत्तिमात्रं तुच्छरूपम् अभावप्रमाणतया नाभिमतम् एव ।
प्रत्यक्षादेर् अनुत्पत्तिःप्रमाणाभाव उच्यते । [स्. 181अ.]
सात्मनो ऽपरिणामो वाविज्ञानंवाऽन्यवस्तुनि ॥ [श्ल्व् अभाव 11]
इति वचनात् । किन् तु यो ऽभावात्मनः प्रतिषेध्यवस्तुप्रतिभासिज्ञानात्मना ऽपरिणामः स तदन्यवस्तुप्रतिभासिज्ञानसहचरितो ऽभ्युपगन्तव्यो न केवल इति परम् अभ्युपगमयितुम् अस्योपन्यासः । तथा चान्यवस्तुविज्ञानम् एवाभावप्रमाणम् अस्तु, किम् अप्रमाणकस्यात्मनो ऽपरिणामाख्येन धर्मेण परिकल्पितेन? । न च तदन्यवस्तुविज्ञानपरिणामाद् अन्य एव तस्यापरिणामो नाम भवतो ऽभिमतो भावान्तरस्यैवाभावत्वेनोपगतत्वात् । तुल्ययोग्यतारूपस्यैकज्ञानसंसर्ग्गिण एव चान्यवस्तुनो विज्ञानं तथोपेयं नान्यस्य, तज्ज्ञानात् प्रतियोग्यभावसिद्धेः । न हि रूपज्ञानाद् रसाद्यभावप्रतीतिर् युक्तमती [त्. 344अ.] देशादिविप्रकर्षवतो वा । अन्यवस्तुविज्ञानं च प्रतिनियतरूपप्रतिभास्येव । रूपान्तरावभासित्वे हि तस्य सलिलोपलम्भाभाव एव न सिध्येत् । एवं च प्रतियोग्यभावः प्रत्यक्षावभासित[693]एव । तदभावव्यवहारे त्व् अस्मदभिमतैवानुपलब्धिर् आयातेति प्रतिपादयितुम् अस्योपन्यासः । तत्र यदि सलिलोपलम्भाभावः
[स्. 181ब्.] तुच्छरूपो ऽनुपलम्भस् तदा कथम् {प्. 191.1} अभावः कस्यचित् प्रतिपत्तिः परिच्छेद इति यावत्, परिच्छेदस्य ज्ञानधर्मत्वात् । अथ न तस्य प्रतिपत्तिरूपतेष्यते किन् तु तद्धेतुभाव इत्य् आह -- प्रतिपत्तिहेतुर् वा इति । न हि सर्वसामर्थ्यविरहलक्षणस्याभावस्य प्रतिपत्तिं प्रति हेतुभावो युक्तः । हेतुभावे वा तस्यानपेक्षितसहकारिणो नित्यं तज्ज्ञानजननाद् अभावज्ञानम् एवैकं प्रतिपत्तुः स्यात्, ज्ञानान्तरस्यावकाश एव न भवेत् ।
न चाज्ञातस्यास्य नास्तिताज्ञानजननं युक्तम् इत्य् आह -- तस्यापि सलिलोपलम्भाभावस्य कथं प्रतिपत्तिः? । अथायं सलिलोपलम्भाभावः स्वयम् अप्रतीत एव सलिलाभावप्रतीतिं जनयति तदा कस्यचिद् अपि । तद् एवाह -- तस्य सलिलोपलम्भाभावस्य ततो वा सलिलाद् अन्यस्यानलादेः `विज्ञानं वा ऽन्यवस्तुनि` इत्य् अत आत्मनो ऽपरिणामस्य पृथग् अवस्थापनात्, तत्रापि तदङ्गीकरणे चात्मनो ऽपरिणामस्य [त्. 344ब्.] तदात्मकत्वान् न ततो भेदेन व्यवस्थाप्येत । ततश् च कस्यचिद् अपि [स्. 182अ.] तस्य तदन्यस्य वा ऽप्रतिपत्ताव् अपि यद्य् अभावः सलिलादेः प्रतीयते तदा स्वापाद्यवस्थास्व् अपि सलिलाद्यभावः किं न प्रतीयते? । तदापि तदभावः प्रतीयेतेत्य् एतद्विचारितम्प्रमाणविनिश्चये, तत एवावधारणीयम् । व्यवधानादिग्रहणेन चैतद्दर्शयत्य् अन्यवस्तुनो ऽपि अन्यत्वं तत्तुल्ययोग्यतारूपापेक्षम् एव, न तदनपेक्षम् उपेयम् । तथा चास्मद् उपवर्णितानुपलब्धिसिद्धिर् इति । यदा चैवम् उक्तेन
प्रकारेणानुपलम्भेन सलिलाभावप्रतीतिर् न युज्यते ऽनलप्रतिभासिनश् च ज्ञानस्य प्रतिनियताकारता नाभ्युपगम्यते तस्माद् अयम् अनलदर्शी प्रतिपत्ता ऽनलं पश्यन्न् अपि सङ्कीर्णरूपप्रतिभासिना ज्ञानेन `अनलो ऽयं न सलिलम्` इति नाध्यवस्यति अनध्यवस्यंश् च सलिलरूपस्यापि प्रतिभासनात् तदर्थी न तिष्ठेत् प्रवर्तेत नापि प्रतिष्ठेत सलिलार्थी न प्रवर्तेत । तथा हि -- सलिलं नाम तद् उच्यते यत् सर्वोदन्यासन्तापाद्यपनयनक्षमं[694]सकलतदन्यरूपासङ्कीर्णप्रतिनियताकारज्ञानावभासि । इदं त्व् अन्यद् एव शबलरूपं किम् अप्य् अवभासत इति । {प्. 192.1} ततश्च प्रवृत्तिनिवृत्तियोर् विरुद्धयोर् युगपद् अनुष्ठातुम् अशक्यत्वात् दुस्तरंव्यसनंप्रतिपत्तुःस्यात् ।
अत्र परस्य [स्. 182ब्.] वचनावकाशम् आशङ्क्याह -- तत एव इत्यादि । न मया [त्. 345अ.] सलिलोपलम्भनिवृत्तिमात्रात् तुच्छरूपात् तदभावगतिर् उच्यते, यथोक्तदोषप्रसङ्गात् । किन् तु यद् एतद् एकस्य केवलस्यानलस्य दर्शनं तत एवान्यस्य तत्राप्रतिभासमानस्य सलिलस्याभावगतिर् भवति `विज्ञानं वा ऽन्यवस्तुनि` इति वचनात् ।
सिद्धान्तवाद्य् आह -- कथम् एकम् इत्यादि । केन पुनः सामर्थ्येन तदेकदर्शनम् अन्याभावंप्रत्याययति? । तथा हि -- तस्मिन् दृश्यमाने तदेवास्तीत्य् अवगच्छतु, तदन्यत् तु नास्तीति किम् इति प्रत्येतीति । तस्यैव परिदृश्यमानस्यानलादेः केवलस्य सलिलासंसृष्टरूपस्य दर्शनाद् अनलज्ञाने प्रतिभासनात् `सलिलं नास्ति` इति निश्चयः सञ्जायते । तथा हि -- अनल इव सलिलम् अपि यदि तत्राभाविष्यत् तदप्य् अनलवद् दर्शने प्रत्यभासिष्यत तयोः स्वज्ञानं प्रत्यविशिष्टत्वाद् योग्यताया नैकस्य प्रतिभासो युक्तः । तस्माद् एकप्रतिभासनम् अन्याभावनान्तरीयकं इत्य् अन्याभावे ततो ज्ञानम् उत्पद्यते अन्यवस्तुनि च विज्ञानं नास्तीति ज्ञानं जनयति । तथा ऽन्यद् वस्तु पररूपासंकीर्णस्वभावतयैव तथोच्यते । तद्रूपतयैव[695]च तज्ज्ञानम् अन्यत्[696]प्रतियद् एवं व्यपदिश्यते ऽन्यथा[697]तदयोगाद्[698]इत्य् अन्यप्रतिपत्तिर् एव तदभावविकल्पहेतुर् इति सिद्धान्तवाद्य् आह
-- इदम् एव इत्यादि । नन्व् अस्माभिर् इदम् एव प्राग् अभिहितं तयोःसतोःनैकरूपनियताप्रतिपत्तिः असम्भवात्[699] इत्य् आदिभिर् वचनैः । ततो यद् एवान्यासंसर्ग्गिणः केवलस्य [त्. 345ब्.] प्रतिभासनं तद् एव तदन्याभावस्यापि, तस्यैव केवलस्य तदन्याभावात्मकत्वाद् अन्यस्य चाभावांशस्य निरस्तत्वात् । ततः प्रत्यक्षावभासितत्वात् तदभावस्य तद्बलात् पाश्चात्यं व्यवहारप्रवर्तनरूपं नास्तिताज्ञानं {प्. 193.1} विकल्पकम् आजायते । न तु तेनाप्रतिपन्नं किञ्चिद् अवगम्यते, यतस् तदन्यवस्तुनि विज्ञानं प्रत्यक्षात्मकम् अप्य् अनवगते तदन्याभावे ज्ञानं जनयत् पृथग् अभावप्रमाणतया व्यवस्थाप्येत । तथा हि -- तदन्याकारशून्य एव तदेकज्ञानाकारः संवेद्यते । ततस् तत्संवेदनम् एव तदभावसंवेदनम् । न हि विकल्पज्ञानस्यापि तदाकारशून्यरूपसंवेदनाद् अन्यत् तदभावसंवेदनं नाम । केवलम् अस्य विकल्परूपतैवातिरिच्यते । ततो यथा निर्विकल्पज्ञानावसिते क्वचिद्
अनले `अनलो ऽत्रास्ति` इति पाश्चात्यो विकल्पो व्यवहारप्रवर्तनमात्रं न ततः पृथक् प्रमाणं यथोक्तं प्राक्, तथा नास्तिताज्ञानम् अपि विकल्पकं तत्फलद्वारेण वा ऽन्यवस्तुविज्ञानं न प्रत्यक्षात् पृथग् अभावाख्यं [स्. 183ब्.] प्रमाणम् इति । तस्माद् यद् एवास्माभिर् अभिहितं तदन्याभावप्रतीतिं प्रति, तद् एव त्वया ऽप्य् अभिधीयत इति कस्मात् पुरुषम् इवाभाति यतस् तदनभ्युपगमेन पृथगभावाख्यं प्रमाणम् अभ्युपगतम् इत्य् उपहसति । तथा ह्य् अगत्य् एदानीं त्वयोच्यते न मध्यस्थतया अन्यथेदम् एव किं न पूर्वम् एवाभिहितम्?, यत आलजालाभिधानेन ऽऽत्मा परिक्लेशित [त्. 346अ.] इत्य् उपसंहरन्न् आह -- तस्मात् तीरादर्शिनेव इत्यादि । यथा किल वहनारूढैर् वणिग्भिः शकुनिर्मुच्यते अपि नाम तीरं द्रक्ष्यतीति । स यदा सर्वतः पर्यटंस्तीरं नासादयति तदा वहनम् एवागच्छति तद्वद् एतद् अपि द्रष्टव्यम् । यतश् चावश्याभ्युपगमनीयो ऽयं पक्षस् तस्मान् न किञ्चिद् अनया ऽविद्यमानप्रतिष्ठानया
दिशः प्रतिपत्त्या प्रयोजनम् ।
तद् एवं परस्यान्यभावतदभावयोर् लिङ्गलिङ्गिभावम् इच्छतः सम्बन्धाभावाद्[700]असाव् अयुक्तः इति प्रतिपादिते परेण `असति सम्बन्धे ऽन्यभावगत्या ऽपि तदभावगतिर् न स्यात्` इति चोदिते `न वै कुतश्चित् सम्बन्धाद्` इत्य् आद्य् अभिहितम् । ततः `अन्यभाव एव तदभावो ऽन्यभावगतिर् एव च तदभावगतिः` इति प्रसाधयताकुमारिलपरिकल्पितः कस्यचिद् अभावनिश्चयार्थम् अभावप्रमाणवादः प्रसङ्गतो निरस्तः सम्प्रति तु --
{प्. 194.1} वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता
[श्ल्व् अभाव 2च्द्.]
इत्य् एतद् आहत्य निराकर्तुं [स्. 184अ.] पूर्वपक्षम् उत्थापयन्न् आह -- यद्य् एकपरिच्छेदाद् एव इत्यादि । यदि हि एकस्य केवलस्य परिच्छेदाद् अन्यस्य व्यवच्छेदः प्रतिषेधः सिध्यति तदा सर्वस्या अ(-स्या)न्यस्या ऽविशेषेणैव तत्र देशे यत्रासाव् एकः परिदृश्यते तत्राभावसिद्धिर् भवेत्, न तु विशेषपरिग्रहेण [त्. 346ब्.] तुल्या स्वज्ञानजननं प्रति योग्यावस्था यस्य तस्यैवेति । तथा हि -- असौ यथा तुल्ययोग्यतारूपपदार्थविविक्तरूप उपलभ्यते, तदेकाकारप्रतिनियमात् तज्ज्ञानस्य, तथा तदतुल्ययोग्यतारूपपदार्थविविक्तात्मको ऽपि । ततश् च तद्विविक्ताकारतया तदन्याभावसाधने विशेषाभावात् प्रदेशरूपज्ञानं घटाभावम् इव रसाद्यभावम् अपि साधयेत्, न वा घटाभावम् अपीति ।
किञ् च, यद् एतद् `उपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् अभावसाधनी` इति विशेषणम् उक्तं तच् च न वक्तव्यम् । किं कारणम्? यतो ये ऽप्य् अनुपलब्धिलक्षणप्राप्तास् तेषाम् अपि तत्र देशे तदेकाकारतया ज्ञानस्य व्यवच्छेदो भवत्य् एव । तथा हि -- यथोपलब्धिलक्षणप्राप्तास् तदेकाकारवति ज्ञाने न प्रतिभासन्ते ततश् च व्यवच्छिद्यन्ते [स्. 184ब्.] तथा ऽनुपलब्धिलक्षणप्राप्ता अपीति किम् उपलब्धिलक्षणप्राप्तस्य इत्य् अनेन विशेषणेनेति । एवं पूर्वपक्षे व्यवस्थिते यदि तदन्यव्यवच्छेदः -- ततः पृथक्करणम् अन्यत्वेन व्यवस्थापनम् अभिमतं तदभ्युपगम्यत एव । अथ तद्देशकालयोर् अभावः, तद् अयुक्तम्, येन हि सामर्थ्येन तुल्ययोग्यतारूपस्योपलब्धिलक्षणप्राप्तस्य चाभावं साधयति न तत्सामर्थ्यम् अतुल्ययोग्यतारूपे ऽनुपलब्धिलक्षणप्राप्ते वा सम्भवति । `तयोः सतोर् नैकरूपनियता प्रतिपत्तिः असम्भवात्`[701]इत्य् एवं हि तदभावसाधनम् । न [त्. 347अ.] चैतद्
अन्यत्र सम्भवतीति प्रतिपादयितुम् एकात्मपरिच्छेदात् इत्य् आदिनोपक्रमते । यत् पुरो ऽवस्थितं प्रत्यक्षे ऽवभासते तस्यैकस्यात्मनः प्रतिनियतस्य रूपस्य परिच्छेदात् तदाकारोत्पत्त्या विधिविकल्पोत्पादनेन च यः तदन्यः ततो ऽन्यस् तद्व्यतिरिक्तस् तस्य सर्वस्य य आत्मा {प्. 195.1} स्वभावस् ततो व्यवच्छेदो भेदनं पृथक्करणम् अन्यत्वसाधनम् असङ्कीर्णरूपताप्रत्यायनं भवति । कथं पुनर् एकात्मपरिच्छेदाद् एव तस्य[702]तदन्यात्मनो व्यवच्छेदः प्रत्यक्षेण क्रियते?, यावता प्रत्यक्षं पुरो ऽव्स्थितपदार्थसामर्थ्यभावि [स्. 185अ.] तद्रूपम् एव प्रतिपद्यताम् । यत् तु तद्व्यतिरिक्तम् अशेषपदार्थजातं तदात्मनस् तस्य पुरो ऽवस्थितस्य कथं तद्व्यवच्छेदकम्? अतः तद्व्यवच्छेदार्थम् अभावप्रमाणम् अभ्युपेयम्, यतो --
वस्त्वसङ्करसिद्धिश्च तत्प्रामाण्यसमाश्रिता [श्ल्व् अभाव 2च्द्.]
इति ।
अत आह -- तदात्मनियतप्रतिभासज्ञानाद् इति । यतः पुरो ऽवस्थितस्यैकस्य वस्तुनः पररूपासङ्कीर्ण आत्मा, सर्वभावानां स्वभावत एव स्वस्वभावव्यवस्थितेः पररूपेणासङ्कीर्णस्वभावत्वात् । अन्यथा कथम् अभावप्रमाणतो ऽप्य् असांकर्यम् एषां सिध्येत्? । संकीर्णरूपाणाम् असाङ्कर्यसाधने तस्य [त्. 347ब्.] भ्रान्तताप्रसङ्गात् । तस्मिन् पररूपासंकीर्णे स्वभावत एव तदात्मनियतो यः प्रतिभासः पररूपप्रतिभासासंकीर्णः तदेकपदार्थसामर्थ्यभाविनि प्रत्यक्षे पररूपप्रतिभासायोगात् तस्य भ्रान्ततापत्त्या प्रत्यक्षताहानेः । तद् उक्तम् -- तद् ध्य् अर्थसामर्थ्येनोत्पद्यमानंतद्रूपम् एवानुकुर्यात् [प्विन् इ 40.12f.: गङ् गि फ्यिर् दे दोन् ग्यि नुस् प लस् स्क्येस् प न दे ऽइ रङ् ब्ःzइन् खो नऽइ र्जेस् सु ब्येद् पऽइ फ्यिर् रो ॥ ] इति । तस्य तदात्मनियतप्रतिभासस्य ज्ञानात् प्रत्यक्षेण स्वसंवित्त्या संवेदनात् । तत्संवेदनम् एव [स्. 185ब्.] हि प्रत्यक्षस्यातद्रूपाद्
व्यवच्छेदनं पृथक्करणं तद्बलेनैव च पाश्चात्यः `अन्यात्मकम् एतन् न भवति` इत्य् असांकर्यव्यवस्थाप्रत्ययो विकल्पकः संजायते गृहीतग्राही । न तेनापूर्वं किञ्चित् प्रतीयते, पररूपासंकीर्णस्यात्मनः प्रत्यक्षेणैव तदाकारानुकारिणा परिच्छेदाद् इति ।
यदि नाम तदात्मनियतप्रतिभासज्ञानं तथापि कथम् अन्यात्मनः तस्य पृथक्करणम्? इत्य् अत आह -- न हि तदात्म इत्यादि । यस्मात् तस्य वस्तुनो य आत्मा पररूपासंकीऋण्नः स तदन्यस्य शेषस्य वस्तुन आत्मा न भवति, सर्वस्य ततो ऽन्यस्वभावत्वात्, अन्यथा तदन्यत्वहानेर् इति । तस्मात् {प्. 196.1} तदात्मनियतप्रतिभासज्ञानम् एव तदन्येभ्यो निवर्त्तनम् । न हि ज्ञानेनार्थो हस्ते गृहीत्वा ऽन्यतो निवर्त्तनीयः । केवलम् अन्यरूपासंकीर्णस्यैकसात्मनो ऽनुकरणम् एवास्यान्यतो [त्. 248अ.] निवर्त्तनम् उच्यत इति । अथान्यात्मनः स्वविषयं न निवर्त्तयेत्, तदा ऽस्य विषयस्यान्यात्मनः सकाशाद् अव्यवच्छेदे पृथग् अव्यवस्थापने परात्मनो ऽपि तत्र परिच्छेदः स्यात्, अन्यथा[703]तदपरिच्छेदस्यैवैकात्म[704]परिच्छेदात्मनस् तन्निवर्त्तनरूपता[705][स्. 186अ.] स्यात् । ततश् चाव्यवच्छेदे ऽन्यात्मनस् तत्परिच्छेदप्रसङ्गात् प्रवृत्तिनिवृत्त्योर् अभाव इति पूर्वः प्रसङ्गो `न ह्य् अयम् अनलं पश्यन्न्
अपि`[706]इत्य् आदिकः ।
न केवलम् अन्यात्मनस् तन्निवर्त्तयति तदात्मनो ऽप्य् अशेषम् अन्यद् इति दर्शयन्न् आह -- तंच अग्रतः स्थितं देशाकालस्वभावावस्थानियतं तदन्यदेशादिभ्यो व्यावृत्तात्मनः स्वहेतुभ्यः एवास्य भावात्, तदात्मना देशादिनियतेनात्मना तथाविधस्वभावस्यैवानुकाराद् उपलभमाना बुद्धिः तथात्वप्रच्युतिम्[707] अन्यदेशकालस्वभावावस्थताम् अस्य स्वविषयस्य व्यवच्छिनत्ति ततः पृथक्करोति । कस्मात् पुनर् अन्यदेशादितां ततः पृथगवस्थापयति इत्य् अत आह -- एवंहि यस्माद् अन्यदेशतादेस् ततः पृथक्करणे सति तद्देशादिनियतः पदार्थः [त्. 348ब्.] परिच्छिन्नो भवति, तद्रूपस्यैवानुकाराद् । यद्य् अन्यथाभावो ऽन्यदेशादिता तद्रूपाननुकाराद् व्यवच्छिन्नः -- भवति तथात्वं च तद्देशादिनियतत्वं च, तदा तस्यैव दृश्यमानस्य भवति नान्यस्यान्यदेशादिमतः । यत एवम् इति तस्माद् अन्यथाभूताद् अन्यदेशादिमतस् तथाभूतं
तद्देशादिमंतं व्यवच्छिन्दत्य् एव [स्. 186ब्.] निवर्त्तयन्त्य् एव तत् परिच्छिनत्तीति पूर्वकस्योपसंहारः । तथा तथाभूताद् अन्यथाभूतंव्यवच्छिन्दत्य् एव इति द्वितीयस्योपसंहारः कार्य इति । एवम् उक्तेन न्यायेन एकस्य प्रमाणस्य प्रत्यक्षस्यानुमानस्य वा तस्याप्य् एवम् एव स्वविषयपरिच्छेदाद् वृत्तिः प्रवृत्तिः सर्वभावान् द्वैराश्ये तत्त्वे ऽन्यत्वे च व्यवस्थापयति । ततस् तत्परिच्छेदकप्रमाणबलेनैवासाङ्कर्यसिद्धिः । किं तदर्थिकया ऽप्य् अभावकल्पनयेति? ।
{प्. 197.1} ननु च विकल्पव्यापार एष `इदम् अन्यात्मकं न भवति अन्यथैतद् आत्मकम्` इति । प्रत्यक्षं च निर्विकल्पकम् इष्यते तत् कथम् असांकर्यसिद्धिस् ततः? इत्य् अत आह -- तस्यान्वये त्यादि । तद् धि प्रत्यक्षं विधिप्रतिषेधविकल्पौ यदा स्वविषये जनयति तदैवास्य साफल्यम्, तदैव च प्रमाणम् इष्यते [त्. 349.अ] नान्यदा । अत एवैकस्यार्थस्वभावस्याप्रतिपन्नांशाभावात्[708]सर्वात्मना परिच्छेदे ऽपि भ्रान्तिकारणसद्भावात् क्षाणिकतादावन्वयव्यतिरेकबुद्धी जनयितुम् असामर्थ्यात् तत्रास्य प्रामाण्यं नेष्यत इति ।
स्यान् मतम् -- द्वैराश्यसाधने ऽप्य् असांकर्यसिद्ध्यर्था मा भूद् अभावप्रमाणकल्पना किन् तु प्रकारान्तराभावसिद्ध्यर्था भविष्यति । न हि तदभावसिद्धौ प्रत्यक्षस्य कश्चिद् व्यापारः [स्. 187अ.] प्रतिपादित इति अत आह -- तद्व्यतिरिक्ते त्यादि । तस्मात् परिदृश्यमानाद् व्यतिरिक्तस्याशेषस्य वस्तुनो व्यवच्छेदेन ततः पृथक्करणेनान्यत्वेन या व्याप्तिस् तत्साधनाद् एव प्रकारान्तरस्य तत्त्वान्यत्वबहिर्भूतस्याभावः सिध्यति । ततस् तदर्थम् अपि नाभावप्रमाणकल्पना युक्तेति ।
अथ मतम् -- सर्वस्यापरिदृष्टस्य दृश्यमानाद् अन्यतया व्याप्तिं नैव प्रत्यक्षं साधयति तत् कुतस् तृतीयराश्यभावः प्रत्यक्षत एव स्यात्, यतो ऽभावप्रामाण्यकल्पना व्यर्था भवेद् इत्य् अत आह -- तस्य तृतीयराशितया कल्प्यमानस्य ततो दृष्टाद् अन्यतया व्यप्त्यभावे तेन प्रत्यक्षेण ततो[709] ऽर्थात् स्वविषयस्य अव्यवच्छेदा द् अपृथक्करणात्, तदर्थस्य च राश्यन्तरत्वेन कल्प्यमानस्य स्वविषयाद् अव्यवच्छेदात् अपृथक्करणात् पुनर् अपि भावस्य स्वविषयस्यापरिच्छेदप्रसङ्गात् । [त्. 349ब्.] स हि तद्विषयः सकलपररूपासंकीर्णात्मा यदि तेनात्मना न परिच्छिन्नः कथं तेन तस्य परिच्छेदः? । तेनात्मना परिच्छेदे वा कथं सर्वस्य तदन्यतया व्याप्त्यसाधनम्? अन्यथाइकस्यापि तदन्यत्वं न स्यात्, निमित्तस्य समानत्वाद् इति । यत एवं तस्मात् क्वचिद् वस्तुनि प्रमाणं {प्. 198.1} प्रत्यक्षादिकं [स्. 187ब्.] प्रवृत्तं तद्वस्तु
प्रतिनियतेनात्मना परिच्छिनत्ति, ततो ऽन्यत् तद्रूपविकलं व्यवच्छिनत्ति, तदन्यत्वेन व्यवस्थापनात् । तृतीयस्य च तत्त्वान्यत्वबहिर्भूतस्य प्रकारस्याभावं सूचयति, सर्वस्यान्यतया व्याप्तिसाधनात्, तद्विरुद्धस्य[710]वा सर्ववस्तुनो द्वैविध्यस्य साधनाद् इति ।
एवम् एकस्य प्रमाणस्य व्यापार एषो ऽनन्तरोक्त इति तम् एवोपसंहृत्य सुखप्रतिपत्तये दर्शयन्नाह -- तथाहि क्वचिद् वस्तुनि प्रमाणं प्रत्यक्षादि प्रवृत्तं तद् एव वस्तु तदन्यस्मात् पररूपाद् व्यवच्छिनत्ति ततः पृथक्करोति तदसंकीर्णरूपतया प्रतिपद्यते, परमार्थतस् तस्य तद्रूपत्वात् यथावस्तु च प्रत्यक्षेण रूपानुकारात् । किम् इति पररूपाद् व्यवच्छिनत्ति? । तस्यैव पररूपविकलस्यैकरूपस्य परिच्छेदात् । तथा तद् अन्यद् एव च तस्माद् दृश्यमानाद् अन्यद् एव च व्यवच्छिनत्ति । कुतः? । तस्मात् [त्. 350अ.] स्वविषयात् । न केवलं स्वविषयं परतो व्यवच्छिनत्ति, परम् अपि स्वविषयाद् इति । कुत एतद्? । अन्यस्य पररूपस्य तत्र स्वालम्बने ऽपरिच्छेदाद् अवश्यम् एवापरिच्छिन्नस्य [स्. 188अ.] परिच्छिन्नाद् अन्यत्वं भवति । यत एवम् अतः तद् एव प्रमाणम् एकवस्तुपरिच्छेदकं प्रकारान्तराभावं साधयति, नाभावाख्यम् । कुत एतत्? । तस्मिं दृश्यमाने
वस्तुनि दृष्टतदन्यत्वेन तस्यान्यस्य तत्रापरिच्छिद्यमानस्यान्यत्वं तदन्यत्वं दृष्टात् तदन्यत्वं दृष्टतदन्यत्वं तेन सर्वस्य तद्व्यतिरिक्तस्य व्यवस्थापनान् न अ(-पनेन अ)तद् अन्यस्यैव च यद् अन्यन् न भवति पुरो ऽवस्थितं सकलपरभावव्यावृत्तं तस्यैव तत्त्वेन दृश्यमानप्रकारतया व्यवस्थापनाद् इति ।
अमुम् एव न्यायम् अन्यत्राप्य् अतिदिशन्न् आह -- एतेन क्रमाक्रमादयः इत्यादि । एतेन अनन्तरोक्तेन न्यायेन प्रतिनियतैकपदार्थरूपानुकारिणी बुद्धिर् उपजायमाना तद्विपरीतरूपं सर्वं स्वविषयाद् व्यवच्छिन्दती द्वैराश्यं तृतीयप्रकाराभावं च साधयतीति[711]ये केचिद् अन्योन्यव्यवच्छेदरूपाः क्रमाक्रमनित्यानित्यादयः ते व्याख्याताः । {प्. 199.1} तथा हि -- कार्यस्य क्रममनन्यसहायतां प्रतियत्य् एव बुद्धिस् तस्याक्रमं कार्यान्तरसाहित्यं [त्. 350ब्.] ततः पृथक्करोति । ततः क्रमाक्रमतया द्वैतसिद्धेः तृतीयस्य प्रकारस्य सम्भवो निरस्तो भवति । क्रमभावव्यतिरेकिणः सर्वस्य कार्यजन्मनः तदन्यतया द्वितीयप्रकारतया ऽवस्थानात् । एवम् उदयानन्तरध्वंसिता [स्. 188ब्.] क्षणिकतोच्यत इति प्रतीयती व्यवस्थापनाकाल एव बुद्धिस् तद्विपरीतरूपतायाः स्वविषयाद् अपाकरणात् ततो ऽन्यत्वेन प्रकारान्तरे ऽवस्थापनाद् राश्यन्तराभाव[712]इति ।
तद् एवम् एकप्रमाणनिबन्धनाम् असाङ्कर्यसिद्धिं प्रतिपाद्योपसंहरयन्न् आह -- तद् एवम् उक्तेन न्यायेन एकस्य प्रतिनियतात्मन उपलम्भात् तस्योपलभ्यमानस्य यस् ततो ऽन्यस् तत्तुल्ययोग्यतारूपस् तद्विपरीतो वा तद्रूपविकलस् तदात्मनो व्यवच्छेदः पृथक्करणं तस्योपलभ्यमानस्यानुपलभ्यमानस्वभावाद् रूपान्तरेण प्रतिभासनात् । तथा तस्य स्वविषयस्य तदन्यात्मताया भावप्रधानत्वान् निर्देशस्य व्यवच्छेदो भवति असाङ्कर्यं सिध्यति ।
तद् यद्य् एतद् अविशेषणान्यस्य सर्वस्य तत्राभावसिद्धिः स्याद् इत्य् अत्राभिमतं तदा सिद्धसाधनम्, यतः सर्वम् अविशेषेणैव तद् एकाकारया बुध्या तद्रूपविकलं स्वविषयाद् अवच्छिद्यते, सर्वस्यान्यरूपस्य तत्राप्रति-भासनात् । अथ तद्देशकालयोर् अभावः सर्वस्य [त्. 351अ.][स्. 189अ.] तद्विपरीतरूपस्य व्यवच्छेदो ऽभिमतः स न युक्त इति दर्शयति -- न तद्देशकालयोः यत्रासौ प्रतिनियतात्मा सकलत्रैलोक्यविलक्षणः पदार्थ उपलभ्यते तत्र सर्वस्यान्यस्य भावस्य तत्तुल्ययोग्यतारूपस्येतरस्य वा व्यवच्छेदः प्रतिषेधः । येन हि कारणेन तत्तुल्ययोग्यतारूपस्य तत्राप्रतिभासमानस्य प्रतिषेधस् तस्मिन् सति तद् एकरूपनियतायाः प्रतिपत्तेर् असंभवात् तद्[713]अभावनान्तरीयिका 3 सा भवन्ती तत्प्रतिषेधं[714]गमयतीति तत्कारणम् अनुपलब्धिलक्षणप्राप्ते तदतुल्ययोग्यतारूपे च न सम्भवतीति कथं तदभावः सिध्येत् ।
{प्. 200.1} एतद् एवोपसंहरन्न् आह -- तस्माद् अतदात्मा च सर्वस् तद्विपरीतरूपस् तदेकाकारया बुद्ध्या प्रसाधितः स्यात् तद्देशकालश्च तस्य प्रतिभासमानस्य यौ देशकालौ तौ यस्य, स च स्यात् । किंवत्? । रसरूपादिवद् इति । न हि रूपप्रतिभासिना ज्ञानेन तद्रूपविकलस्य रसस्य स्वविषयात् पृथक्करणे ऽपि तद् असांकर्यसाधने ऽपि तद्देशकालयोर् अभावः [स्. 189ब्.] सिध्यति । ततश् च कथं सर्वस्यातुल्ययोग्यावस्थस्यापि तत्राभावः स्यात्?, उपलब्धिलक्षणप्राप्तस्येति विशेषणं वा नोच्येत । यत एवं तस्मात् क्वचित् कदाचित् कस्यचिद् अभावसिद्धिर् यथोक्ताद् एवानुपलम्भाद् उपलब्धिलक्षणप्राप्तस्य [त्. 351ब्.] तत्तुल्ययोग्यतारूपोपलम्भात्मनश् चेत्य् एवंरूपात्, न तु सामान्येन यथा ऽऽहुःपरे --
प्रमाणपञ्चकंयत्र वस्तुरूपे न जायते ।
वस्तुसत्तावबोधार्थे तत्राभावप्रमाणता॥
[श्ल्व् अभाव 1; त्स् 1647.] इति ।
न ह्य् अनुपलब्धिलक्षणप्राप्ते प्रमाणपञ्चकाप्रवृत्ताव् अपि तदभावः सिध्यति, सत्य् अपि तस्मिन् स्वभावादिविप्रकर्षेण प्रमाणपञ्चकाप्रवृत्तिसम्भवाद् इति ।
तद् एवं प्रासङ्गिकं परिसमापय्य यद् उक्तंपरेण `स एवान्यभावस् तद्विषया चोपलब्धिः तदभावस्य किं न साधनम्`[715]इति तत्रान्यभावस्य तदभावं प्रति लिङ्गत्वे निरस्ते तद्विषयाया उपलब्धेर् निराकुर्वन्न् आह -- अन्यभावविषये त्यादि । यत् पुनर् उक्तम् -- अन्यभावविषयोपलब्धिस् तदभावस्य किन्न साधनम्`[716]इति सा तदभावस्य साधिकेष्टैवास्माकम्, [स्. 190अ.] न तु लिङ्गत्वेन यथोक्तवानसि । किं कारणम्? । यतः तत्राप्य् अन्यभावविषयायाम्[717]उपलब्धाव् ऽभावस्य पृथग् अन्यभावात् साध्यत्वे कल्प्यमाने सम्बन्धाभावस्य तदभावेन तुल्यत्वात् । न हि तस्या अपि अन्यभावरूपायाः तदभावेन कश्चिद् एकार्थसमवायादिरूपः सम्बन्धो ऽस्तीति ।
अपृथक् सिद्धेर् इत्य् अस्यापि तुल्यतां दर्शयन्न् -- आह लिङ्गाविर्भावे त्यादि । येयम् अन्यभावविषया उपलब्धिर् ल्लिङ्गतयोच्यते तस्यास् {प्. 201.1} तद्विविक्तप्रदेशाकाराया [त्. 352अ.] आविर्भावकाल एव 2 जन्मकाले प्रतीतिकाल एव[718]वा तदभावसिद्धेश् च । तथा हि -- तत्प्रतिभासविविक्तान्यभावप्रतिभासबुद्धिसंवेदनम् एव तदभावसंवेदनम् इति । तद् एव साधयति -- न ह्य् अन्यस्य तद्विविक्तस्य भावं प्रतिपद्य प्रतिपत्ता पुनर् उत्तरकालं तत्प्रतिपत्तेर् अन्यभावप्रतिपत्तेस् तदभावेनान्यव्यतिरेकौ प्रसाध्य प्रतिबिन्धसाधकेन प्रमाणेन तदभावं प्रतिपद्यते । किं तर्हि? । तदन्यं तद्विविक्तरूपं प्रतिपद्यमान एव तस्य 3 प्रतियोगिनो ऽभावं[719]प्रतिपद्यते, तस्यैव तदभावात्मकत्वात् । तथा हि -- सघटप्रदेशासंकीर्णरूपस्य [स्. 190ब्.] केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् । न हि `घटो ऽत्र नास्ति` `घटवानयं न भवति` `सघटाद् अन्यः` इत्य् अर्थभेदः
कश्चित् । ततः सघटाद् अन्यतया केवलप्रदेशस्य दर्शनम् एव घटाभावदर्शनम् इति । `घटो ऽत्र नास्ती`ति ज्ञानं गृहीतग्राहितया स्मृतिर् एवेति । कथं ज्ञायत इति चेत् । दर्शनानन्तरम् अन्वयव्यतिरेकसाधनलक्षणेन व्यवधानेन विना `इदम् घटविविक्तं प्रदेशवस्त्व् अस्ति` `इदं तु घटवस्तु नास्ति` इति पाश्चात्येन विकल्पद्वयेन व्यवस्थापनात्[720]। ततो नान्वयव्यतिरेकानुसरणम् अत्रास्तीति [त्. 352ब्.] ।
किञ् च -- दृष्टान्तरासिद्धे स्वात्मन्यभावविषयोपलब्धिस् 5 तदभावस्य साधनं[721]। तद् एव व्यतिरेकमुखेन दर्शयति -- तच् च तस्य इत्यादि । इहाप्य् अस्त्य् एवान्वय इति चेत्, आह -- न ह्य् एवंशक्यम् इत्यादि । कस्मान् न शक्यं दर्शयितुम्? । तद् एकोपलब्धेः तस्यैकस्यानन्यसंसर्ग्गिणो योपलब्धिर् विशेषरूपा तस्याः क्वचिद् अप्य् अन्यत्राभावात् । अथ तद्विविक्तोपलब्धिसामान्यं हेतुर् उच्यते -- यत्र यत्र घटविविक्तभूतलोपलब्धिस् तत्र [स्. 191अ.] तत्र घटाभावो यथा पूर्वानुभूते घटविविक्ते प्रदेश इत्य् आह -- सामान्येन प्रदर्शने क्रियमाणे दृष्टान्ते ऽपि पूर्वानुभूतघटविविक्ते प्रदेशे घटाभावस्य प्रसाधकं प्रत्यक्षादिकं प्रमाणान्तरम् अन्यभावविषयोपलब्धेर् नास्ति, किं तु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य तदभावलक्षणस्य {प्. 202.1} साधिका । सा च यथा साध्यधर्मिणि तदभावसिद्धये दृष्टान्तम् अपेक्षते तथा
दृष्टान्ते ऽपि । तथा, तत्रापि तदन्यत्रापीत्यनवस्था दृष्टान्तानाम् इति । अनवस्थायां चाप्रतिपत्तिः सर्वत्र तदभावस्य । यत एवं तस्मान् न कुतश्चिल् ल्लिङ्गात् तदन्यभावात् तदुपलब्धेर् वा तदभावसिद्धिर् इति । यदि तदन्यभावस् तदभावं न साधयति, किं 6 पुनर् ल्लिङ्गतया [त्. 353अ.] साधयति[722]?, इत्य् अत आह -- सो ऽन्यभावः प्रत्यक्षलक्षणेन -- प्रत्यक्षस्यैव विवक्षितोपलम्भाद् अन्यत्वेनानुपलम्भत्वात् । तल्लक्षणेनानुपलम्भेन सिद्धः सन्न् अभावव्यवहारं साधयेत्,[723]कर्मस्थक्रियापेक्षायां[724]तदन्यभावस्यानुपलब्धिरूपत्वात् । क्व पुनर् असाव् अभावव्यवहारं साधयेत्? । मूढप्रतिपत्तौ साध्यायां । यस् त्व् अमूढो [स्. 191ब्.] विषयप्रतिपत्तौ विषयिणं स्मरत्य् एव तस्याभावव्यवहारः प्रत्यक्षनिबन्धन एवेति न तत्रानुपलब्धेर् लिङ्गतेति सुचर्च्चितम् एवान्यत्रेतीहालं प्रसङ्गेनेति ।
__________नोतेस्__________
[636] पूर्वक्षणेनैवयेनाध्यवसीयमानः
[637] निमित्ताभावो -- त्.
[638] येषु सत्सु भवत्य् एव यत् तेभ्यो अन्यस्य कल्पने ॥ तद्धेतुत्वेन सर्वत्र हेतूनाम् अनवस्थितिः ॥ [प्व् इइ 24]
[639] संयोगाद् -- त्.
[640] अगृहीत- -- त्.
[641] स्वविषयविज्ञाने जननयोगाद् -- त्.
[642] अत्रातिदिशन् -- त्.
[643] वा प्रदेशस्य घटविविक्तस्यानुपलब्धित्वं -- त्.
[644] ज्ञाने
[645] एकज्ञानसंसर्ग्गित्वम्
[646] एककालत्वाद् एव
[647] व्यवहार लोके -- त्.
[648] चकाराद् अग्रहणं च
[649] वेद्यते -- त्.
[650] हेतुत्वा-
[651] अत्रान्तरे ग्रन्थे स्वयम् एवाचार्यो विप- -- त्.
[652] प्. 174,27
[653] प्. 176,4
[654] प्. 176,11
[655] एतस्यासा- -- त्.
[656] अतो ग्रन्थव्याख्या
[657] प्रत्यभिज्ञानस्य -- त्.
[658] घटाभावरूपया घटाज्ञानभावाख्याया वा (प्रथमं टिप्पनं) उपलब्ध्य् ऽभावरूपया (द्वि. टि.)
[659] प्. 176,11
[660] हि यस् तुच्छ- -- त्.
मूल पाठ: Hetubinduṭīkā (commentary on Dharmakīrti's Hetubindu) · Edition: Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0