हेतुबिन्दुटीका · भाग 120
श्रीमदर्चटविरचिता
॥ हेतुबिन्दुटीका
॥ नमः सर्वज्ञाय ॥
[जिननमस्कारेण मङ्गलम् ।]
यः सञ्जातमहाकृपो व्यसनिनं त्रातुं समग्रं जनम्,
पुण्यज्ञानमयं[1]प्रचित्य विपुलं हेतुं विधूतश्रमः ।
कृत्स्नज्ञेयविसर्प्पि[निर्मलतरप्रज्ञोद]याद्रिं श्रितो
लोके हार्द्दतमोपहो जिनरविर्मूर्ध्ना नमस्यामि तम् ॥ 1 ॥
__________नोतेस्__________
[1] पुण्य- : प्रस्तुत-
[धर्मकीर्तिवचसां सरसतमत्वख्यापनम् । ]
वरं हिधार्मकीर्त्तेषु [.1]2 चर्वितेष्व् अपि चर्वणम्[2]।
निष्पीडिताऽपि मृद्वी[का माधुर्यं हि जहा]ति किम् ? ॥ 2 ॥
__________नोतेस्__________
[2] चर्चितेष्वपि चर्वनम् -- त्.
[स्वलाघवं प्रख्याप्य ग्रन्थविवरणप्रतिज्ञा । ]
न्यायमार्ग्गतुलारूढं जगद् एकत्र यन्मतिः ।
जयेत् तस्य क्व गम्भीरा गिरो ऽहं जडधीः क्व च ? ॥ 3 ॥
तथापि मन्दमतयः सन्ति मत्तो [ऽपि केचन ।
यानुद्दिश्य] मयाप्य् एष हेतुबिन्दुर् विभज्यते ॥ 4 ॥[आदिवाक्यस्य प्रयोजनप्रकटनम् । ]
परोक्षे -- [त्त्. 355ब्.] त्य् आदिना प्रकरणारम्भे प्रयोजनम् आह । तच् च[3]श्रोतृजनप्रवृत्त्य् अर्थम् इतिकेचित् ।
तद् उक्त[म् --
सर्वस्यैव हिशा]स्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत् प्रयोजनंनोक्तंतावत् तत् केन गृह्यताम् ॥ [श्ल्सू 1.12.]
इति । तद् अयुक्तम्[4]। यतो ऽस्य प्रकरणस्येदं प्रयोजनम् इति [प्रदर्शने प्रयो]जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्यानुपाये
{प्. 2.1} प्रवृत्त्यसम्भवात् प्रेक्षावतां तदर्थितया[5]प्र[करणश्रवणादौ प्रवृत्तिः] [स्. 2अ] स्याद् इति तदभिधानस्यार्थवत्ता[6]वर्ण्यते । न चैतद्[7]युक्तम् । यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये[8]तद्भावनिश्चयात्[9]। यथा कृषीव[लादीनां सस्या]द्य् उपाये बीजादावऽबीजादिविवेकेनाऽवधृतबीजादिभावानाम् । अन्यथा ह्य् अनिश्चितोपायानाम् उपेयार्थनां [त्. 206ब्.] प्रवृत्तौ प्रेक्षावत्तैव हीयेत । उपेये तु [भाविनि प्रमा]णव्यापारासम्भवाद् अनिश्चये ऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोर् असम्भवे `योग्यम् एतद् विवक्षितं कार्यं निष्पादयितुम्ऽ इति सं[भावनया प्रवृत्तौ] प्रेक्षावत् तातो न हीयेरन् ।
निश्चयश् च प्रमाणाद् एव । न च प्रयोजनवाक्यस्य प्रामाण्यम् अस्ति, शब्दानां बहिरर्थे प्रतिबन्धाभावात् । विवक्षायां [तस्य प्रामाण्ये ऽपि यथा]वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविसे(शे)षं प्रति उपायतानिश्चयः समस्ति । न हि ये यथा [स्. 2ब्.] यम् अर्थं विवक्षन्ति ते तथैव तम् अनु[तिष्ठन्ति वि]संवादनाभिप्रायाणाम् अन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल् लोके सर्वत्रानाश्वासात् ।
प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता[विषयः संशयः ज]न्यते ततस्[10]तद्भावनिर्धारणाय[11]कृषीवलादेर् इव बीजाद् अवधृतये प्रवृत्तिर् युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा[नात् प्राग् अपि] भावात् । तत्साधकबाधकप्रमाणाभावे तस्य[12]न्यायप्राप्तत्वात् । अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किम् अस्यानुमा[नव्युत्पादनं प्र]योजनम् अन्यद् वा, न वा किञ्चिद् अपीत्य् एवं रूपश् च संशयः प्राक् प्रवर्त्तमानः केन निवार्येत । अपि च किम् इदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अस्मद् अभिम]तेन वा प्रयोजनेन तद्वद् इति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः । [स्. 3अ.]
तस्माद् `यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा । तद्यथा [त्. 207अ.]
{प्. 3.1} दशदाडिमादिवाक्यं काकदन्त[परीक्षा च । निष्प्रयोजनं चेदं] प्रकरणं तदर्थो वाऽ इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थम् आदौ प्रयोजनवाक्योपन्यासः ।[प्रकरणतदभिधेययोः प्रयोजनचिन्ता ।]
तत्र तद्व्युत्पादनार्थम् इति वाक्येन स्वयम् अस्य प्रकरणस्य प्रयोजनम् आह । यथास्वम् अभिधेयप्रतीतिर् हि वाक्यस्य प्रयोजनम् । तच् चेहास्ति पदानाम् अवान्तरवाक्यानां च परस्परसंसर्गात् समासार्थप्रतीतेः । तथा हि -- अनुमानमत्र प्रकरणे व्युत्पाद्यत इति तद् अभिधेयम् । तस्यैव तच्छब्देन सम्बन्धात् । यद्य् अपि परोक्षार्थप्रतिपत्तौ गु[णीभूतम् अनु]मानं तथापि वक्तुर् अभिप्रायानुविधायितया शब्दवृत्तेः तच्छब्देन परामृश्यते । अन्यथा प्रधानसंस्पर्सो(शो)पि कथं स्यात्? । शब्दानां स्व[भावतः] सम्भद्धा(न्धा)योगात् । पक्षधर्म इत्यादिना चानुमानस्यैव व्युत्पादनात् । तस्य [स्. 3ब्.] व्युत्पत्ति[र् अविपरीतस्वरू]पप्रतीतिर् अस्य प्रकरणस्य प्रयोजनम्, तस्माध्यत्वात् । अत एव चानुमानव्युत्पत्तिविषयं प्रकरण[व्यापारं दर्ष]यितुं णिचा निर्दिशति -- तद्व्युत्पादनार्थम् इति । ततश् च प्रकरणप्रयोजनयोः साध्यसाधनलक्षणः[13]सम्बन्धो
ऽप्य् उक्तो भवति । यद्य् अपि शब्दवृत्तेना[नुमानव्युत्पत्तिवि]षयस्य[14]प्रकरणव्यापारस्य प्राधान्यं तथापि वस्तुवृत्तेन व्युत्पत्तेर् एव प्रधानता तस्यास् तत्साध्यत्वात्[15]। इतरस्य[16]च तदुपायत्वेनाप्रधानत्वात् । तस्माद् अनुमानव्युत्पत्तिर् [त्. 207ब्.] एव प्रयोजनतया प्रतीयते न प्रकरणव्यापार इति ।
परोक्षार्थप्रति[पत्तेः अनुमानाश्रय]त्वात् इत्य् अनेन तु प्रकरणार्थस्यानुमानलक्षणस्य प्रयोजनम् आह । न हि वाक्यस्य स्वार्थप्रतीतिलक्षणं फलम्[17]अस्तीत्य् एता[व् अतैव प्रेक्षावान् प्रव]र्त्तते ऽपि तु तदभिधेयार्थस्य पुरुषार्थोपयोगित्वे सति । तच् चेहास्ति यतः परोक्षार्थस्य या प्रतिपत्तिः -- निश्चयः -- तस्या अनुमा[नं -- त्रिरूपलिङ्गम्] [स्. 4अ.] कारणे कार्योपचारात् । अनन्योपायसाध्यतां दर्शयितुं
{प्. 4.1} परमतनिरासार्थम् आश्रयः -- कारणम्, अनुमानम् आश्रयो यस्येति सामान्येन विगृह्य । [तदनु च] कस्यानुमानाश्रयत्वाद् इति विशेषापेक्षायाम् -- यद्य् अपि परोक्षार्थप्रतिपत्तिशब्दसम्भन्धे स्त्रीत्वं गम्यते तथापि तत्[18]पदसंस्कारवेलायां बुद्ध्यसंनिहितत्वात् बहिरङ्गम् इति न स्त्रीप्रत्ययनिमित्तं यथाभूतम् इयं ब्राह्मणी, आवपनम् इयम् उष्ट्रिकेति ।
__________नोतेस्__________
[3] प्रयोजनाभिधानम्
[4] श्रोतृजनप्रवृत्त्यर्थत्वम्
[5] प्रयोजनार्थितया
[6] प्रयोजनाभिधानस्य
[7] आदिवाक्यस्य निश्चायकत्वसंवर्णनम्
[8] प्रयोजन-
[9] उपाय-
[10] संशयात्
[11] प्रयोजनविशेषोपायत्वस्य
[12] संशयस्य
[13] तद्व्युत्पत्ति-
[14] शाब्दन्यायेन
[15] प्रकरणव्यापार-
[16] प्रकरण-
[17] प्रयोजनम् -- त्.
[18] स्त्रीत्वम्
[सर्वपरोक्षप्रतीतेर् लिङ्गजत्वाद् एवानुमानत्वसूचनम् ।]
अनेन च सर्वा परोक्षा[र्थ]प्रतिपत्तिः प्रमाणभूता, अन्यस्मात् तत्प्रतिपत्त्य् अयोगात्, त्रिरूपलिङ्गाश्रयैवेत्य् उक्तं भवति [स्. 4ब्.] अनुमानाश्रयत्वाद् एवेति अवधारणात् । [ततश् च शब्दादी]नां सति प्रामाण्ये ऽनुमानता, अन्यथा[19]तेषाम् अपि व्युत्पाद्यताप्रसङ्गो निमित्तस्य[20]समानत्वात् ।
तथा हि -- सर्वा परोक्षार्थप्रतिपत्तिः प्र[माणभूता], न स्वतन्त्रा भवति । तस्याः[21]स्वार्थप्रतिबन्धाभावेन नियमेन तत्संवादायोगात्[22]। अविसंवादलक्षणत्वाच् च प्रमाणस्य । अन्यतो ऽपि [असम्बद्धाद् यदि स्या]त् [त्. 208अ.] सर्वतः सर्वप्रतिपत्तिप्रसङ्गात् धर्म्यसम्बन्धे ऽपि सर्वत्र प्रतीतिं जनयेत्, प्रत्यासत्तिविप्रकर्षाभावात् । 6 एवम्भूतश् च[23]त्रिरूप[लिङ्गम् एवार्थो भव]तीति सर्वा परोक्षार्थप्रतिपत्तिस् त्रिरूपलिङ्गजत्वेनानुमानात् न भिद्यत इति । एष चार्थः पक्षधर्मस् तदंशेन व्याप्तो हेतुः , कस्य?, परोक्षा[र्थप्रतिपत्ते]र् इति [स्. 5.अ] प्रकृतेन संबन्धाद् दर्शितः, पक्षधर्म एव तदंशेन व्याप्त एव च परोक्षार्थप्रतिपत्तेर् हेतुर् इत्य् अवधारणात् ।
__________नोतेस्__________
[19] अवधारणाभावे
[20] परोक्षार्थप्रतिपत्तिकारणत्वस्य
[21] स्वतन्त्रप्रतिपत्तेः
[22] स्वार्थ-
[23] प्रतिबद्धं पक्षसंबद्धं च
[स्वलक्षणस्यैव वस्तुत्वं न सामान्यस्येति स्थापनम् ।]
अर्थग्रहणं तु परोक्षार्थप्रतिपत्तेर् इत्य् अ[नुमा]नस्यापि स्वलक्षणविषयं प्रामाण्यं दर्शयितुम् । अर्थक्रियासमर्थो ह्य् अर्थः, स्वलक्षणं चैवमात्मकम् । अत एव -- वस्त्व् अधिष्ठानत्वात् प्रमाणव्यवस्थायाः -- [इति व]क्ष्यति । अन्यथाऽनुमानात् तत्र प्रवृत्तिर् न स्याद् अर्थक्रियार्थिनः ।
{प्. 5.1} सामान्यस्यावस्तुत्वे ऽपि ज्ञानमात्रलक्षणत्वात् तदर्थक्रियायाः तस्याश् च तदु[त्पाद्य]त्वेन सिद्धत्वात् । न हि जातिर् दाहपाकादाव् उपयुज्यते, स्वलक्षणस्यैव तत्रोपयोगात्[24]। तत्सम्बन्धात् तत्र प्रवृत्तिर् इति चेत्; न, नित्यस्यानुपकार[कत्वेन] केनचित् सम्भन्धाभावात् । सत्य् अपि च सम्बन्धे कथम् अन्यप्रतिपत्ताव् अन्यत्र प्रवृत्तिः, अतिप्रसङ्गात् । [स्. 5ब्.] समवायस्य सूक्ष्मत्वेनानवसितविवेकस्यावसायाद् भ्रान्त्या तत्र प्रवृत्तिर् इति चेत्; [त्. 208ब्.] एवं तर्हि भ्रान्तिमात्रम् एवास्तु, किम् अन्तर्गडुना सामान्येन? । निर्ब्बीजभ्रान्त्ययोगाद् इति चेत्; ता एव व्यक्तयस् तदेकका[र्यकारिण्यो भ्रान्तेर् बीजम्] । वर्णाकृतिसमानाकारं हि सामान्यज्ञानम् । न च सामान्यं तद्रूपम्, तत् कथं तद् भ्रान्तेर् ब्बीजम् । सादृश्यनिबन्धना हि भ्रान्तिर् इष्यते परैः । व्यक्त्य एव चा[समानजा]तीयव्यावृत्ताः सामान्याकारज्ञानस्वरूपास् ततस् ता एव भ्रान्तिबीजम्, अतद्रूपव्यावृत्तेस् तासु भावात् । वस्तुभूतस्य तु सामान्यस्य सम्भन्ध्[आसंभवे]न
तासु भावायोगाच् च ।
यैस्[25]तु व्यक्त्यात्मकम् एव सामान्यं कल्पितं तैः स्वलक्षणविषयम् अनुमानस्य प्रामाण्यम् अभ्युपगतम् एव भवति । स्वलक्षणात्मकं तु सामान्यं कथम् अनुमाने[26]प्रतिभासते, वैशेषिकदर्शनोपगमप्रसङ्गात् । .............................................................................................................. ................................................................................................................................[स्.6अ अन्द् स्. 6ब्.]................................................................................................... ...............................................................................................................................................................................................................................................................
{प्. 6.1} [ 1. हेतोः सामान्यनिरूपणम् ।]
[सेच्तिओन्: 1. हेतोस् त्रित्वेन व्याप्तिः कथं फलितेति चर्चा ।]
__________नोतेस्__________
[24] वर्णाकृत्ययोगाच् च
[25] सांख्यैः
[26] स्वलक्षणाप्रतिभासे
[स्. 7अ.] ............ हि कथितम् । तत्र कार्यस्वभावयोर् विधिसाधनत्वान् न प्रतिषेधे साध्ये व्यापारः । अनुपलब्धितो ऽपि न हेत्वन्तराभावनिश्चयो यतः सा चतुर्द्धाऽवस्थिता स्वभाव[कारण]व्यापकानुपलब्धयो विरुद्ध[त्. 209ब्.]विद्धिश् चेति[27]। तुल्ययोग्यतारूपस्यैकज्ञानसंसर्गिणः स्वभावानुपलब्धिर् अन्योपलब्धिरूपा अभावव्यवहारहेतुर् इष्यते । न [च हेत्वन्]तरम् अत्यन्ताभावतयोपगतम् अनुक्रान्तरूपम्[28], यदि हि स्याद्देशादिनिषेध एवास्य स्यात् नात्यन्ताभावः । कारणव्यापकानुपलब्धी तु सिद्धे कार्य[कारण]व्याप्यव्यापकभावे भवतः । न च हेत्वन्तरे ऽत्यन्तासत्तयाङ्गीकृते प्रकारो ऽयं सम्भवति । तत् कथं ते तदभावं गमयिष्यतः । विरोधो ऽप्य् अविकल[कारणस्य] भवतो ऽन्यभावे ऽभावाद् अवगम्यत इति विरुद्धोपलब्धिर् अप्य् असम्भविनी । सम्भवे वा कारणानुपलब्ध्य् आदीनां कथम् अत्यन्तनिषेधः? इत्य् आशङ्क्याह -- हेत्वाभासास् ततो ऽपर इ ति । ततः
त्रिविद्धाद् धेतोः अपरे अन्ये हेत्वाभासाः यतस् ततस् त्रिधैव स इति ।
एवं मन्यते -- इह यद्[29]यत्र नियम्यते [तद्वि]पर्ययेण [स्. 7ब्.] तद्विपक्षस्य व्याप्तौ स नियमः सिद्ध्यति । यथा यत् सत् तत् क्षणिकम् एवेति सत्त्वस्य क्षणिकेषु नियम उच्यमानः सत्त्वविपर्ययेणा[स]त्त्वेन क्षणिकविपक्षस्याक्षणिकस्य व्याप्तौ सिद्ध्यति । एवम् इहापि त्रित्वे हेतुर् नियम्यमानो हेतुविपर्ययेण हेत्वाभासत्वेन त्रिसंख्याबा[ह्यस्यार्थ]स्य व्याप्तौ त्रिसांख्यायाम् एव नियतो भवति । ततस् त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतां दर्शयति । तेन स्वभावविरुद्धोपलब्ध्या [कार्य-स्व]भावानुपलम्भव्यतिरिक्तानाम् अर्थानां हेतुत्वाभाव[त्. 210अ.]निश्चय इति । हेतुतदाभासयोश् च परस्परपरिहारस्थितलक्षणतयैव विरोधो
{प्. 7.1} [हेतुल]क्षणप्रतीतिकाल एव प्रतिपन्नः । तदात्मनियतप्रतिभासज्ञानाद्[30]एव तद्विपरीतस्यान्यतया तदाभासताप्रतीतेः, परस्परम् इतरेतररूपाभाव[निश्च]यात् । तत्र त्रिविधहेतुव्यतिरिक्तेष्व् अर्थेषु हेत्वाभासत्वम् उपलभ्यमानं स्वविरुद्धं हेतुत्वं निराकरोति । ते च हेतुत्रयबाह्या अर्था नात्यन्तासत्त[योप][स्. 8अ.]गता नापि हेतुत्वं तेषु निषिध्यमानं, केवलं व्यामोहात् हेतुत्वम् अन्यत्र प्रसिद्धम् एव तत्रा ऽऽरोपितम् आशङ्कितं वा तद्विरुद्धोपलम्भाद् अपसार्यते । तत् किम् उच्यते -- [अत्यन्तासंभ]विनः कथंविरोधः इति । न च सहानवस्थानलक्षण एव विरोधो येन तन् न्यायः[31]सर्वत्रोपवर्ण्येत । नापि यद् यत्र प्रतिषिध्यते तस्य तत्रैव विरो[धः प्रति]पत्तव्यो येन कथम् असतः केनचिद् विरोधगतिः? इति चोद्येत । न हि नात्र शीतस्पर्शो ऽग्नेर् इति साध्यधर्मिण्य् एव शीतस्पर्शस्याग्निना विरोधो ऽपि तु सर्वत्र यथा[32]तु अस्यान्यत्र[33]प्रतीतविरोधस्याग्निना साध्यधर्मिणि निषेधः
तथा हेत्वाभासत्वोपलम्भाद् हेतुत्रयबाह्येष्व् अर्थेषु हेतुत्वनिरासः । [अत्यन्तास]तो ऽपि च लाक्षणिको विरोधः प्रतीयते यथा क्षणिकत्वेनाक्षणिकत्वस्य तस्य वस्तुनि क्वचिद् अप्य् असम्भवात्, भावेन वा यद्वदभावस्य सर्व[शक्तिविरहल]क्षणस्येत्य् अलं दुर्मतिविस्पन्दितेष्व् अत्यादरेणेति स्थितम् एतत् -- त्रित्वे हेतुत्वं नियम्यमानं [तद्विपर्ययस्या][स्. 8ब्.][त्. 210ब्.] ऽपि च व्याप्तौ सत्यां तत्र[34]नियतं भवतीत्य् अभिप्रायवता विपर्ययव्याप्तिं प्रदर्शयितुम् इदम् उक्तम् -- हेत्वाभास(सा)स्ततो ऽपर इ ति ।
__________नोतेस्__________
[27] -चेति । तत्र तुल्य- -- त्.
[28] एकज्ञानसंसर्गिव[स्त्वन्तरम्]
[29] हेतुत्वम्
[30] हेतु-
[31] भवतो ऽन्य्भावे ऽभावलक्षणः
[32] यथाप्रतीतस्यैवास्य -- त्.
[33] शीतस्पर्शस्य
[34] त्रित्वे
[सेच्तिओन्: 2. त्रिविधबाह्यार्थानां हेत्वाभासत्वेन व्याप्तेश् चर्चा]
तत्रैतत् स्यात् -- क्षणिकविपक्ष[स्य सत्त्व]विपर्ययेण व्याप्तिर् बाधकप्रमाणवशाद् अवसिता इह तु त्रिसङ्ख्याबाह्यानाम् अर्थानां हेत्वाभासत्वेन व्याप्तिः कतरेण प्रमाणेनावसितेत्य् अ[त्राह] -- अविनाभावनियमात् इति । त्रिविधहेतुव्यतिरिक्ते लिङ्गतयोपगते शङ्ख्यमाने वा वस्तुनि पक्षधर्मतासद्भावे ऽप्य् अविनाभावाभावा[द्
{प्. 8.1} इत्य् अर्थः] । तथा च वक्ष्यति -- न स त्रिविधाद् धेतोर् अन्यत्रास्तीत्य् अत्रैव नियत उच्यत इ ति । अविनाभाववैकल्यं च हेत्वाभासत्वेनासिद्धविरुद्धानैकान्तिकसामान्य[धर्मे]ण व्याप्तं प्रमेयत्वादौ निश्चितम् इति हेत्वाभासत्वे साध्ये ऽविनाभाववैकल्यं स्वभावहेतुः ।
अवीनाभाववैकल्यं च त्रिविधहेतुव्यतिरिक्तत्वाद् एव [तदन्येषां] [स्. 9अ.] [व्याप]कानुपलब्धितः सिद्धम् । तथा हि -- तादात्म्यतदुत्पत्तिभ्याम् अविनाभावो व्याप्तः, तयोस् तत्रावश्यं[35]भावात् । तस्य च तयोर् एव भावाद् अतत्स्वभावस्यातदुत्पत्तेश् च [तदनायत्तत]या तदव्यभिचारनियमाभावात् । तदुक्तम् --
कार्यकारणभावाद् वा स्वभावाद्[36] वा नियामकात् ।
अविनाभाव[37]नियमो[38] ऽदर्शनान्[39] न दर्शनात्[40]॥
[अवश्यं भाव]नियमः कः [41]परस्यान्यथा[42] परैः[43] ।
अन(अर्था)न्तरनिमित्ते[44] वा धर्मे[45] वाससि [त्. 211अ.] रागवत् ॥[प्व् इ 33-34 xए "प्व् इ 33-34"]
इति ।
रूपादिना ऽपि हि रसादेर् अविनाभावो न स्व[तः किन्तु स्वकार]णाव्यभिचारद्वारक इति तत्कारणोत्पत्तिर् एवाविनाभावनिबन्धनम् । अन्यथा[46]तदनायत्तस्य[47]तत्प्रकारणानायत्तस्य[48]वा तेना[विनाभावकल्प]नायां सर्वस्य सर्वार्थैर् अविनाभावः स्यात्, अविशेषात् । एकार्थसमवायनिमित्तो रूपरसादेर् अविनाभाव इति चेत् । ननु समवायो ऽप्य् आधार्या[धार]भूतानाम् उपवर्ण्यते । स चाधाराधेयभावस् तदात्मानुपकारे[49]ऽति प्रसङ्गतो न सिध्यतीत्य् एकसामग्र्यधीनतैवैकार्थसमवायो[ ऽवसे]यः । [स्. 9ब्.] अन्यो वा वस्तुभूतः संबन्धो ऽसम्भवी तथासम्बन्धपरीक्षायांविस्तरतःशास्त्रकृताप्रतिपादितम् एवेति तत एवावधार्यम् । अस _ _ न वा
{प्. 9.1} ज(नन्वसत्य् अपि ज)न्यजनकभावे, तादात्म्ये वा, तेनैवाविनाभावो नान्येनेत्य् अत्र वस्तुस्वभावैर् एवोत्तरं वाच्यम् ये एवं भवन्ति नास्माभिः, के[वलं वयं द्रष्टार] इति चेत्; आकस्मिकस् तर्हि स वस्तूनां स्वभाव इति न कस्यचिन् न स्यात् । न ह्य् अहेतोर् द्देशकालद्रव्यनियमो युक्तः । [तद् धि किञ्चित् क्वचिद् उप]नीयेत न वा यस्य यत्र किञ्चिद् आयत्तमनायत्तं[50]वा । अन्यथा विशेषाभावादिष्टदेशकालद्रव्यवद् अन्यदेशादिभावः के[न वार्येत विशेषाभावात् । ततो य]द्येनाविनाभूतं दृश्यते तस्य तेनाव्यभिचारकारणं तत्त्वचिन्तकैर् अभिधानीयम्, [त्. 211ब्.] न तु पादप्रसारिका ऽवलम्बनीया । तच् चाव्यभिचारकारणम् [स्. 10अ.] यथोक्ताद् अन्यन् न युज्यत इति तद्विकला न हेतुलक्षणभाज इति । तथा चाह -
संयोग्यादिषु येष्व् अस्ति प्रतीबन्धो न तादृशः।
न ते हेतव [इत्य् उक्तं] व्यभिचारस्य संभवात् ॥
[प्व् 4.203] इति ।
अत्र प्रयोगः -- यस्य येन सह तादात्म्यतदुत्पत्ती न स्तो न स तदविनाभावी, तथा प्रमेयत्वादिर् अनित्यत्वादिना, न स्तश् च केनचित् तादात्म्यतदुत्पत्ती स्वभावकार्यव्यतिरेकिणाम् अर्थानाम् इति व्यापकानुपलब्धिः । स्वभावानुपलब्धिस् तु स्वभावहेताव् अन्तर्भावितेति तस्याः [तादात्म्य]लक्षण एव प्रतिबन्धः । व्यापककारणानुपलब्धी तु तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धवशाद् एव व्याप्यकार्योर् निवृत्तिं साध्यतः ।
[तदुक्तम् -
तस्मा]त् तन्मात्रसंबद्धःस्वभावो [51] भावम् [52] एव वा।
निवर्तयेत् कारणंवाकार्यम् अव्यभिचारतः ॥ [प्व् 3.22] इति ।
तद् एवं हेतुलक्षणं 1 संख्यानियमः 2 तदुपदर्श[कं च प्रमाण]म् 3 अत्र [स्. 10ब्.] श्लोके निर्दिष्टम् इति ।
__________नोतेस्__________
[35] अविनाभावे
[36] तादात्म्यात्
[37] साध्येन
[38] साधनस्य
[39] विपक्षे
[40] सपक्षे
[41] साधनस्य
[42] तादात्म्यतदुत्पत्त्यभावे
[43] साध्ये
[44] मुद्गरादि-
[45] नित्यत्वादिके
[46] एकसामग्रीप्रतिबन्धाभावे
[47] साध्यानायत्तस्य
[48] साध्यकारणानायत्तस्य
[49] आधेयस्य रूपरसादेर् अनुपकारे
[50] प्रतिबद्धम्
[51] अनित्यादिकः
[52] व्याप्यं कृतकत्वादिकम्
[सेच्तिओन्: 3. अविनाभावनियमादित्यस्य प्रकारान्तरेण व्याख्यानम् ।]
अथवा `त्रिधैव सःऽ इति स पक्षधर्मस् त्रिप्रकार एव स्वभावकार्यानुपलम्भाख्यस् तदंशेन व्याप्तो नान्यः । [स] त्रिप्रकारस्
{प्. 10.1} तदंशेन व्याप्त एवेति सम्भन्धः । किं कारणम्? । अविनाभावनियमात् । अविनाभावस्य -- व्याप्तेः । त्रिविध एव पक्षधर्मे नियमात् । त्रिविधस्य च पक्षधर्मस्याविनाभावनियमात् । तेन च [स्व]भावकार्यानुपलम्भात्मकत्रिविधपक्षधर्मव्यतिरिक्ता [त्. 212अ.] न तदंशेन व्याप्ता इति । त्रिविधश् च कार्यस्वभावानुपलब्धिरूपः पक्षधर्मस् तदंशेन व्याप्त एवेति न तस्याहेतुत्वम् इत्य् उक्तं भवति । ततस् त्रिविधहेतुबाह्येष्व् अवि[नाभावाभा]वाद् धेतुव्यवहारं कुर्वन्तः, त्रिविधे च हेताव् अविनाभावस्यावश्यम् भावा[भावा]द् अहेतुत्वम् आचक्षाणा[53]निरस्ता भवति । [स्. 11अ.]
__________नोतेस्__________
[53] चार्वाकाः
[सेच्तिओन्: 4. हेत्वाभासालक्षणानभिधानेपि तत्सूचनम् ।]
तत्रैतत् स्यात् -- हेत्वाभासानाम् अपि [लक्षणम् अ]भिधानीयं तत्र शिष्याणां हेतुव्यवहारनिवृत्तय इत्य् आह हेत्वाभासास् ततो ऽपर इ ति । ततः पक्षधर्मस् तदंशेन व्याप्त इति हेतुलक्षणाद् अपरे अ[न्ये त]ल्लक्षणविकला हेत्वाभासा गम्यन्त एवेति न तल्लक्षणम् उच्यते । तथा हि -- पक्षधर्मः इत्य् उक्ते यत्र पक्षधर्मता नास्ति न स हेतुः । तदंशेन व्याप्तः इति वचने यत्र तदंशव्याप्तिविरहो विपर्ययव्याप्तेर् व्यापकस्य वा तत्रावश्यम् भावाभावात्, ते हेतुरूपविकलतया हेत्वाभासाः असिद्धविरुद्धानैकान्तिका गम्यन्त एव । तथा हि -- यल्लक्षणो[54]यो ऽर्थः शिष्यस्य व्युत्पादितः तल्लक्षणविरहिते न तद्व्यवहारं स्वयम् एव प्रवर्तयिष्यति अ[तद्रूप]परिहारेनैव तद्रूपप्रतिपत्तोर् इति न तत्र यत्नः फलवान् भवति । [स्. 11ब्.] यत् त्व् अन्यत्र हेत्वाभासव्युत्पादनं तन्मन्दबुद्धीनधिकृत्य । इदं तु प्रकरणं विपुलमतीन् उद्दिश्य प्रणीतम् संक्षेपतः
इति वचनात् । [त्. 212ब्.] त एव हि संक्षेपोक्तं यथावद् अवगन्तुं क्षमाः न मन्दमतयः, तेषां विस्तराभिधानम् अन्तरेण यथावद् अर्थप्रतिपत्तेर् अभावात् । अत एवार्थाक्षिप्तोपन्यासपूर्वकम् एव हेत्वाभासलक्षणं तत्रोपवर्णितम् इति । तदत्र व्याख्याने हेतुलक्षणं 1
{प्. 11.1} हेतुसाम्ख्यानियमः 2 तस्य च त्रिविधस्य हेतुत्वावधारणं 3 तदुभयकारणं[55]श्लिष्टनिर्देशा[त् 4-5] हेत्वाभासलक्षणानभिधानकारणं 6 चेति षडर्थाः श्लोके ऽत्र निर्दिष्टा इति ।
किञ्चिद् -- इदम् अपि साधु दृश्यते -- त्रिधैव कार्यस्वभावानुपलब्धि[भेद]भिन्नः स हेतुः । तथा, त्रिधैव पक्षधर्मान्वयव्यतिरेकरूपभेदात् त्रिप्रकार एव त्रिरूप एव । [स्. 12अ.] तदंशव्याप्तिवचनेनान्वयव्यतिरेकयोर् अभिधानात् । नाबाधितविषयत्वादिरूपान्तरयोग्य् अपि स हेतुः । कुतः? यतः {1} हेत्वाभासास् ततो ऽपरे {2} ततः त्रिविधात् सवभा[वा]देः, पक्षधर्मादिरूपत्रययोगिनो वा अपरे अन्ये संयोग्यादयो ऽबाधितविषयत्वादिव्यतिरिक्तरूपवन्तो वा । कस्माद्? । अविनाभावस्य अत्रैव त्रिविध एव त्रिरूप एव च हेतौ नियमाद् अन्यत्र स्वभावादिव्यतिरिक्त(क्ते) रूपान्तरसम्भविनि वा अविनाभावाभावाद् इत्य् अर्थः । न हि स्वभावादिव्य[ति]रिक्ते प्रतिबन्धनिबन्धनस्या ऽविनाभावस्य संभवः तद्वति वा रूपान्तरस्य । तथा चा(च) सत्येवाविनाभावे रूपा[त्. 213अ.]न्तरस्य न सम्भवस् तथा षड्लक्षण इत्यादिना वक्ष्यति ।
__________नोतेस्__________
[54] यद्रूप-
[55] तस्योमयस्य हेतुसंख्यानियमस्य हेतुत्वावधारणस्य कारणं अविनाभावनियम इत्य् एत .........
[ सेच्तिओन्: 5. दिङ्नागानुसारेण पक्षशब्दस्य धर्मिमात्रपरत्वम् ।]
पक्षधर्मः इत्य् अत्र हेतुलक्षणे ऽपि क्रियमाणे यदि समुदायः पक्षे(क्षो) गृह्यते यो ऽनुमानविषयस् तदा सर्वो हेतुर् असिद्धः, सिद्धौ वा ऽनुमानवैयर्थ्यम् इत्य् आह पक्षो धर्मी इति । कथं पुनः समुदायवचनः [स्. 12ब्.] पक्षशब्दो धर्मिमात्रे वर्तत इति चेत्? अवयवे समुदायोपचारात् । पक्षाख्यस्य हि समुदायस्य द्वाव् अवयवौ धर्मी, धर्मश् च । तद् अत्र धर्मिमात्रे समुदायोपचारात् पक्षशब्दो वर्तते । तदेकदेशत्वं[56]च समुदायोपचारनिमित्तम् इति न साध्यधर्मिणो ऽन्यत्र तत्प्रसङ्गः । तदुक्तम् --
समुदायस्य साध्यत्वात् धर्ममात्रे [च] धर्मिणि ।
अमुख्ये ऽप्य् एकदेशत्वात् साध्यत्वम् उपचर्यते ॥ इति । प्स् इइइ 9 (च्f. ह्ब् त्रन्स्ल् 83 5 )
__________नोतेस्__________
[56] यस्य हि य एकदेशस् तत्र ताद्रूप्योपचारः, न हि पटस्यैकदेशे दग्धे कम्बलो दग्ध इत्य् उपचारः
{प्.12.1}[सेच्तिओन्: 6. दिङ्नागव्याख्याने ईश्वरसेनाक्शेपस् तदुद्धारश् च ।]
तद् एतदाचार्यीयंव्याख्यानमीश्वरसेनेनाक्षिप्तं परिहर्तुं पूर्वपक्षयन्न् आह -- प्रयो[जने] त्य् आदिना ।
न र्त्ते प्रयोजनादिष्ट्रं(ष्टं) मुख्यशब्दार्थलङ्घनम् । प्स् इइइ 39च्द् (च्f. ह्ब् त्रन्स्ल् 84 6 )
इत्य् असति प्रयोजने नोपचारो युक्तः । ततो धर्मिधर्म इत्य् एवास्त्व् इतिपरः। न प्रयोजनाभावः । कुतः? सर्वश् चासौ विवादाश्रयो ऽन्यो धर्मी यस् तस्य प्रतिषेधो ऽर्थः प्रयोजनं यस्योपचारस्य तद्भावस् तस्मात् सर्वधर्मिधर्मप्रतिषेधार्थत्वाद् उपचारस्य इति प्रयोजनाभावाद् इत्य् असिद्धो हेतुः ।
क एवं सति गुण इति चेद् आह [स्. 13अ.] [त्. 213ब्.] -- एवंहि उपचारे सति चाक्षुषत्वादि आदिग्रहणात् `काकस्य कार्ष्ण्यात्ऽ इत्यादि व्यधिकरणासिद्धं परिहृतं हेतुत्वेन निरस्तं भवति । धर्मिधर्म इति तु सामान्ये[नाभि]धानात् तेषाम् अपि हेतुता स्याद्[57]इति ।
असत्य् उपचारे धर्मिग्रहणाद् अप्य् एतत्[58]सिध्यति । ततो ऽनर्थक एवोपचार इत्य् आह परः -- धर्मवचनेनापि न केवलं ध[र्मिव]चनेन । धर्म्याश्रयसिद्धौ धर्मिण आश्रयणम् आश्रयः परिग्रहस् तस्य सिद्धिस् तस्यां सत्याम् । किं पुनर् द्धर्मस्य धर्म्याक्षेपनिमित्तम् इति चेत्[59]? परा[श्रयत्वा]त् -- धर्मिपरतन्त्रत्वात् धर्मस्य अवश्यम् असौ धर्मिणम् आक्षिपति । ततो धर्मिवचनम् अतिरिच्यमानं विशिष्टं साध्यधर्मिणम् एव प्रतिपादयति, [न धर्मिमात्रम्] । स्यान् मतम् -- धर्मिग्रहणाद् विशिष्टो ऽत्र धर्मी कश्चिद् अभिप्रेत इति गम्यते, स तु साध्यधर्मीति कुत इत्य् आह -- प्रत्यासत्तेर् न्यायात् । प्रत्यासत्तिश् चात्र धर्मि[वचनसामर्थ्याद् अ]भिप्रेतेति गम्यते । व्याप्तौ[60]तु न्याये धर्मवचनेनापि धर्मिमात्राक्षेपात्[61]धर्मिग्रहणवैयर्थ्यम् । [स्. 13ब्.] प्रत्यासन्नता च साध्यधर्मिण एव, तत्र
{प्. 13.1} प्रथमं हे[तूप]दर्शनात् । न प्रत्यासत्तेः साध्यधर्मिपरिग्रहः । कुतः? । दृष्टान्तधर्मिणो ऽपि न केवलं साध्यधर्मिणः प्रत्यासत्तेः । कदाचिद्[62]व्याप्तिदर्शनपूर्वके प्रयोगे दृष्टान्तधर्मिण्य् अपि प्रथमं हेतुसद्भावोपदर्शनात् ।
यदि न प्रत्यासत्तेः साध्यधर्मिसिद्धिः पारिशेष्यात् तर्हि भविष्यति । यतः तदंशव्याप्त्या हेतुभूतया दृष्टान्तधर्मिनि धर्मस्य सत्व(त्त्व)सिद्धेः । न हि [त्. 214अ.] दृष्टान्तम् अन्तरेण हेतोः साध्येन व्याप्तिः प्रदर्शयितुं शक्यत इति मन्यते । ततो धर्मिग्रहणाद् व्यतिरिच्यमानात् साध्यधर्मिण एव परिग्रहः । तदंशेन इति च तच्छब्देन धर्मवचनाक्षिप्तो धर्मी सम्भन्त्स्यत इति तत्सम्भन्धनार्थम् अपि धर्मिग्रहणं नाशङ्कनीयम् । यत्र प्रयोजनान्तरं न सम्भवति स पारिशेष्यविषयः, धर्मिवचनस्य त्व् अन्यद् अपि प्रयोजनं सम्भाव्यते । तत् कुतः पारिशेष्यात् धर्मिवचनात् साध्यधर्मिपरिग्रहः ? इति मन्यमानःसिद्धान्तवाद्य् आह -- सिद्धे तदंशव्याप्त्यादृष्टान्तधर्मिणि सत्व(त्त्वे) पुनर् द्धर्मिणो [स्. 14अ.] वचनंदृष्टान्तधर्मिण एव यो धर्मःस हेतुर् इति नियमार्थमाशङ्क्येत । ततश्च चाक्षुषत्वादय एव हेतवःस्युः,
न कृतकत्वादय इति अनिष्टम् एव स्यात् तस्माद् उपचारःकर्तव्यः इति ।
किं पुनस्तर्क्कशास्त्रे दृष्टं क्वचित् नियमार्थवचनम् इत्य् अत आह -- दृष्टं
सजातीय एव इत्यादि । तत्र यः[63] सन् सजातीये[64] -- [न्मु 7] इत्य् अत्रा ऽऽचार्यीये हेतुलक्षणे `सजातीय ए[व] सत्व(त्त्व)म्ऽ इत्य् अवधारणेन सिद्धे ऽपि हेतोर् व्यतिरेके । कुत्र? । साध्याभावे यदेतत् असंस्तदत्यये [न्मु 7] इति असत्व(त्त्व)वचनं तन्नियमार्थमाचार्येण व्याख्यात[म् अ]सत्य्[65]एव नास्तिता यथा स्यात् नान्यत्र न विरुद्ध इति । तथेहापि धर्मिवचनं[66]तत्रैव भावनियमार्थम् आशङ्क्येत । कदा? सिद्धे ऽपि दृष्टान्तधर्मिणि [स]त्वे(त्त्वे) । कुतः?
{प्. 14.1} तदंशव्याप्तिवचनात् । क्व भावनियमार्थम्? [त]त्रैव दृष्टान्तधर्मिणि, [त्. 214ब्.] सति चाशङ्कासम्भवे । कुतः? । पारिशेष्यात् साध्यधर्मिपरिग्रहः । [स्. 14ब्.] ननु अपक्षधर्मस्याहेतुत्वात् न नियमार्थाशङ्का । तथा हि -- साध्यधर्मेण व्याप्तो ऽपि धर्मो यदि क्वचिद् धर्मिण्य् उपलभ्येत तदा तत्रैव स्वव्यापकप्रतीतिं जनयेत् नान्यत्र [प्रत्या]सत्तिविप्रकर्षाभ्यां यथाक्रमम् । अनुपलब्धस् तु क्वचिद् धर्मिणि कथं गमकः? । तथाभावे[67]वा सर्वत्र स्वव्यापकं गमयेत् प्रत्यासत्तिविप्रकर्षाभावाद् ए[वेत्य् अत] आह -- तस्मात् सामर्थ्यात् इत्यादि । यद् इदम् अनन्तरं सामर्थ्यं समुपवर्णितम् अस्मात् सामर्थ्याद् अर्थस्य साध्यधर्मिपरिग्रहलक्षणस्य भवति प्रतीति[र् प]टुधियां श्रोतॄणाम्, किन्त्व् अशब्दकम् अर्थं स्वयम् अनुसरतां प्रतिपत्तिगौरवं स्यात् । तदुपचारमात्रात् स्वयम् अशब्दकार्थाभ्यूहरहिताद् धर्मिधर्म इत्य् अने[न प]क्षधर्म इति {1} समानिर्द्देशात्
[प्रतिपत्तिगौरवंच] परिहृतंभवति । {2} प्रतिपत्तिगौरवंच इति चशब्देनैतद् आह -- ये परोपदेशम् आकाङ्क्षन्ति, तैर् अयम् अर्थो लक्षण[वच]नाद् बोद्धव्य इति.[स्.15अ.]
यथालक्षणं प्रतीतेर् अपक्षधर्मो न हेतुर् इति कुतः? इयम् आशङ्का । ततस् तेषां[68]लक्षणानुसारिणां नियमाशङ्कापरिहारार्थं चोपचारकर[णम् इ]ति ।
__________नोतेस्__________
[57] घटकाकादिधर्मिधर्मत्वाट् तेषाम्
[58] व्यधिकरणासिद्धनिरसनम्
[59] चेद् आह -- परा- -- त्.
[60] यस्य कस्यचिद् धर्मिणो धर्मस्य हेतुत्वम् इति व्याप्तिन्यायः । स यद्य् अभिप्रेतः स्यात् तदा
[61] धर्मिमात्राक्षेपश् च धर्मिपरतन्त्रत्वात् धर्मस्य
[62] द्विविधो हि प्रयोगः -- व्याप्तिपुरस्सरपक्षधर्मतोपसंहारवान्, पक्षधर्मतोपसंहारपूर्वकव्याप्तिवांश् च । यत् कृतकं तद् अनित्यम् । यथा घटः । कृतकश् च शब्द इ....... ।
[63] यः सन् सजातीये सपक्षे सन् विद्यमानस् तदत्यये साध्यस्याभावे विपक्षे च द्वेधाऽसन् सद् असन् यदि न भवति । किन्त्व् असन्न् एव विपक्षे यदि भवति तदैव सम्यग् घेतुर् इति भावः
[64] यःसन् सजातीये ऽसन् तदत्यय इ तिदिग्नागाचार्यीयंसूत्रं व्याख्यातम् अत्र
[65] अभावरूप अन्यरूपे विरुद्धरूपे वा नास्तिता यस्य स हेतुर् इत्य् अर्थः
[66] धर्मिधर्मवच- -- त्.
[67] अनुपलब्धस्यापि गमकत्वे
[68] परोपदेशाकाङ्क्षिणाम्
[सेच्तिओन्: 7. पक्षधर्म इत्य् अत्र नियमव्यवस्था ।]
इह व्यवच्छेदफलत्वात् शब्दप्रयोगस्यावश्यम् एवावधारयितव्यम् । षष्ठीसमासाच् च पक्षधर्म इत्य् अत्र नान्यः समासः सम्भवति । तथा च पक्षस्यैव धर्म [इ]त्य् एवम् अवधारणात् तदंशव्याप्तिर् विरुध्यत इति विरुद्धलक्षणताम् उद्भावयन्न् आह -- [त्. 215अ.] पक्षस्य धर्मत्वे त्वं(तं) पक्षंविशेषणम् अन्यतो व्यवच्छेदकम् अपेक्षत इति तद्विशेषणापेक्षस्य धर्मस्य अन्यत्र पक्षीकृताद् अन्यस्मिन् सपक्षे अननुवृत्तिः । तथा हि -- यः पक्षेण विशेष्यते स पक्षस्यैव भवति नान्य[स्य] । यथा -- यो देवदत्तस्य पुत्रः स तस्यैव पुत्रो न यज्ञदत्तस्यापि ।
{प्. 15.1} ततो ऽन्यत्राननुवृत्तेः असाधारणता -- साधारणता न स्यात् । तदंशव्याप्तिविरोध [इ]ति यावत् । साधारणतायास्त्व(याश् च) तदंशव्याप्त्या प्रतिपादनात् । ततो यदि पक्षधर्मो न त[दंशे]न व्याप्तिः, [स्. 15ब्.] अथ तदंशव्याप्तिर् न पक्षधर्म इति व्याहतं लक्षणम् इति ।
ननु च तदंशव्याप्तिर् नाम साध्यधर्मस्य व्यापकस्य तत्र हेतौ सति तदाधारधर्मिणि भाव एव, व्याप्यस्य वा हेतोस् तत्रैव व्यापके साध्यधर्मे सत्य् एव भाव इति स्वसाध्याविनाभावलक्षणा वक्ष्यते । न चानया ऽवश्यं पक्षीकृताद् अन्यत्र वृत्तिर् आक्षिप्यते, यतो[69]लक्षणव्याघात आशङ्क्येत । तथा हि -- तत्रैव पक्षीकृते सत्य् एव साध्यधर्मे हेतुर् वर्त्तमानस् तदंशव्याप्तिं प्रतिपद्यत एव । यैव चास्य साध्यधर्मिणि स्वसाध्याविनाभाविता सैव गमकत्वे निबन्धनं नान्यधर्मिणि । स च स्वसाध्याविनाभावः प्रतिबन्धसाधकप्रमाणनिबन्धनः, न सपक्षे क्वचिद् बहुलं वा सहभावमात्रदर्शननिबन्धनः । न हि लोहलेख्यं वज्रम् पार्थिवत्वात् काष्ठादिवत् इति तदन्यत्र पार्थिवत्वस्य [त्. 215ब्.] लोहलेख्यता ऽविनाभावो ऽपि तथाभावो भवति [स्. 16अ.] । यदि च पक्षीकृताद् अन्यत्रैव व्याप्तिर् आदर्शयितव्येति नियमस् तदा सत्वं(त्त्वं) कथं क्षणिकतां
भावेषु प्रतिपादयेत्? । यो हि सकलपदार्थव्यापिनीम् अक्ष(नीं क्ष)णिकताम् इच्छति तं प्रति कस्यचित् [स]पक्षस्यैवाभावात् । यद् अपि कैश्चित् ज्वालादेः क्षणिकत्वम् अभ्युपगम्यते तद् अपि न प्रत्यक्षतः, क्षणविवेकस्यातिसूक्ष्मतया ऽनुपलक्षणात् । अन्यत्रैव च व्याप्तिर् आदर्शनीया न साध्यधर्मिण्य् अपीति को ऽयं न्यायः? । एवं हि काल्पनिकत्वं हेतुलक्षणस्य[70]प्रतिपन्नं स्यात्, न वस्तुबलप्रवृत्तत्वम्, तस्मात् स्वसाध्यप्रतिबन्धाद् हेतुस् तेन व्याप्तः सिध्यति । स च विपर्यये बाधकप्रमाणवृत्त्या साध्यधर्मिण्य् अपि सिध्यतीति न किञ्चिद्
{प्. 16.1} अन्यत्रानुवृत्त्यपेक्ष्या । अत एवान्यत्रोक्तम्[71]-- [स्. 16ब्.] यत् [72] क्वचिद् [73] दृष्टं [74] तस्य [75] यत्र [76] प्रतिबन्धःतद्विधः [77] तस्य [78] तद् [79] गमकंतत्रेति [80] वस्तुगतिः इति ।
__________नोतेस्__________
[69] वृत्तेः
[70] अन्वयव्यतिरेकात्मकस्य
[71] विनिश्चये
[72] लिङ्गम्
[73] प्रदेशे
[74] निश्चितम्
[75] लिङ्गस्य
[76] वह्न्यादौ
[77] प्रतिबन्धविदः
[78] वह्नेः
[79] लिङ्गम्
[80] यत्र दृष्टं तत्रैव नान्यत्र
यद् अपि अनुमेये ऽथ तत्तुल्ये सद्भावः-- इत्य्[81]आदि लक्षणं तत्रापि साध्यधर्मवान्[82]एव सपक्ष उच्यते । ततः सत्येव साध्यधर्मे वा ऽस्तीत्य् एवं परम् एतत् । ततश् च तद्धर्मणः साध्यधर्मिणो ऽपि वास्तवं सपक्षत्वं न व्यावर्त्तते । साध्यत्वेनेष्टयेच्छाव्यवस्थितलक्षणेन पक्षत्वेन तस्य निराकर्त्तुम् अशक्यत्वात् । तस्मात् तदंशव्याप्तिवचनेन स्वसाध्याविनाभावित्वस्य प्रतिबन्धनिबन्धनस्यान्यथा तदयोगाद्[83]अभिधानान् नावश्य[त्. 216अ.]म् अन्यत्र वृत्तिर् आक्षिप्तेति, कथम् इदम् आशङ्कितम्? । सत्यम्, नैवेदम् आशङ्कनीयम्, यदि सर्वस्य हेतोः पक्षीकृते एव धर्मिणि स्वसाध्यप्रतिबन्धः प्रमाणतो निश्चेतुं शक्येत । [स्. 17अ.] यथा सत्त्वलक्षणस्य स्वभावहेतोः क्षणिकतायां साध्यायां तादात्म्यं विपर्यये बाधकप्रमाणवृत्त्या । कार्यहेतोस् तु प[क्षीकृतधर्मिणा । कस्यचित् स्वभावहेतोः] प्रत्यक्षानुपलम्भसाधनः प्रतिबन्धः
कथं परोक्षे साध्यधर्मे गृह्येत? । तस्मात् तस्यान्यत्रैव[84][प्रसिद्धिर् इति तद्विशेषणापेक्षस्य तत्र अपेक्षणात् अन्य]त्राननुवृत्तेः असाधारणता सम्भवमात्रेणाशङ्किता । तदा ह्य् अन्य्त्रावर्तमानः साध्यविपरीत[व्यतिरेक] ................ ......................... तदुभयबहिर्भावायोगात् तद्धर्मिणः[85]साध्यवृत्तिव्यवच्छेदाभ्यां सर्वसंग्रहात् तत्र संशयहेतु[र् भवति । स्यान्मतम् -- क्वचिद् आश्रये सत्तायाः प्राक्प्रवृत्तपूर्वगृही]तविस्मृतप्रतिबन्धसाधकप्रमाणस्मृतये ऽन्यत्र[86]वृत्तिर् अपेक्षणीया । [स्. 17ब्.] एतत् परिहरति । न इत्यादि । [नान्यत्राननुवृत्तिः । कुतः?
{प्. 17.1} अयोगो ऽसम्ब]न्धः तद्व्यवच्छेदेन विशेषणात् पक्षस्य । न ह्य् अन्ययोगव्यवच्छेदेनैव विशेषणं भवति । [किन्तु अयोगव्यवच्छेदेनापि । यत्र धर्मिणि ध]र्मस्य सद्भावः संदिह्यते तत्रा ऽयोगव्यवच्छेदस्य न्यायप्राप्तत्वात् । अत्र च दृष्टान्तः [ यथाचैत्रो धनुर्धर इति । चैत्रे हि धनुर्धर]त्वं संदिह्यते किम् अस्ति नास्ति इति । ततश् चैत्रो धनुर्द्धर इति तत्सद्भावप्रतिपादिका श्रुतिः [त्. 216ब्.] [पक्षान्तरम् अधनुर्धरत्वं श्रोतुर् आशङ्कोपस्थापितं] निराकरोतीत्य् अयोगव्यवच्छेदो ऽत्र न्यायप्राप्तः । [स्. 18अ.] पराभिमतव्यवच्छेदनिराचिकीर्षया ऽऽह -- [ न, अन्ययोगव्यवच्छेदेन विशेषणात् अन्यत्राननुवृत्तेर्] असाधारणतेति सम्बन्धः । अत्रापि दृष्टान्तो यथापार्थो धनुर्द्धर इति । सामान्यशब्दो ऽप्य् अयं ध[नुर्धरशब्दः सामर्थ्यादिना प्रकृष्टगुणवृत्तिः । इह पार्थे] हि धनुर्द्धरत्वं सिद्धम् एवेति नायोगाशङ्का । [तादृ]शं तु सातिशयं किम् अन्यत्रास्ति
नास्तीत्य् अन्ययोग[शङ्कायां श्रोतुः यदा पार्थो धनुर्धर इति उच्य]ते तदा ऽन्ययोगव्यवच्छेदो न्यायप्राप्तः, प्रतिपाद्याशङ्कोपस्थापितयोर् एव पक्षयोः पर[स्परं विरोधात् एकनिर्देशेन अन्ययोगव्यवच्छेदस्य] न्यायबलायातत्वात् । तद् इह पक्षे ऽस्त्य् अयं धर्मो न वेति संशीतौ [पक्षधर्म इत्य् उक्ते पक्षस्य धर्म एव [स्. 18ब्.] नाधर्मः । धर्मश् च आश्रितत्वाद् विशेषणं तेनायोगो व्य]वच्छिद्यते नान्ययोगस् तदंशव्याप्त्या तस्य प्रतिपादित[त्वेन दृष्टान्ते संदेहाभावात् ।
तदंशः तद्धर्म इति] । तच्छब्देन पक्षः परामृश्यते न धर्मः, धर्मस्य धर्मासम्भवात् । अंशश् च धर्मो नैकदेशः, पक्ष[शब्देन धर्मिमात्रवचनात् । न तदंशः तस्य च एक]देशाभावाद् इति ।
__________नोतेस्__________
[81] अनुमेये ऽथ तत्तुल्ये सद्भावो नास्तिताऽविपक्षे सति । निश्चिताऽनुपलम्भात्मकार्याख्याहेतुवस् त्रयः॥
[82] स साध्यो धर्मो यस्य साध्यधर्मिणः
[83] स्वसाध्याविनाभाव-
[84] कार्यहेतोः स्वभावहेतोश् च तस्य ..........
[85] स चासौ धर्मी चेति समासः । तद्धर्मणः इति पाठान्तरम्, तत्र च सो ऽसाधारणो धर्मो यस्य तस्येति व्याख्येयम् । स चासौ धर्मी च । तस्य । साध्यधर्मिण इत्य् अर्थः
[86] प्राक् प्रवृत्तं च तत् गृहीतं तद् विस्मृतं च तत् प्रतिबन्धसाधकप्रमाणं च तस्य स्मृतय इति समासः
[ सेच्तिओन्: 8. व्याप्तेर् व्याप्यव्यापकोभयधर्मत्वम् ।]
तस्य पक्षधर्मस्य सतो व्याप्तिः -- यो व्याप्नोति यश् च व्याप्यते [तदुभयधर्मतया[87]प्रतीतेः । यदा व्यापकधर्मतया विवक्ष्यते त]दा व्यापकस्य गम्यस्य[88]। तत्रेति [त्. 217अ.] सत् सप्तम्य् अर्थप्रधानम् एतत् नाधारप्रधानम्, धर्माणां धर्माधारत्वा संभवात् ।
{प्. 18.1} तेनायम् अर्थः -- यत्र धर्मिणि व्याप्यम् अस्ति तत्र सर्व्वत्र भाव एव[89]व्यापकस्य स्वगतो धर्मो व्याप्तिः । तत[श् च व्यापकभावापेक्षया व्याप्यस्यैव व्याप्तताप्रतीतिः] [स्. 19अ.] । न त्व् एवम् अवधार्यते । व्यापकस्यैव तत्र भाव इति । हेत्वभावप्रसङ्गाद्[90]अव्यापकस्यापि मूर्त्तत्वादेस् तत्र भावात् । नापि `तत्रैवेऽ[91]ति[92] 5 प्रयत्नानन्तरीयकत्वादेर् अहेतुतापत्तेः[93]। साधारणश् च हेतुः स्यात् । नित्यत्वस्य प्रमेयेष्व् एव भावात् । यदा तु व्याप्यधर्मता (र्मतया) विवक्षा व्याप्तेस् तदा व्याप्यस्य वा गमकस्य तत्रैव व्यापके गम्ये सति । यत्र धर्मिणि व्यापको ऽस्ति तत्रैव भावो, न तदभावे ऽपि व्याप्तिर् इति । अत्रापि व्याप्यस्यैव तत्र भाव इत्य् अवधारणं हेत्वभावप्रसक्तेर्[94]एव नाश्रितम्, अव्याप्यस्यापि[95]तत्र भावात् । नापि व्याप्यस्य तत्र भाव एवेति सपक्षैकदेशवृत्तेर्[96]हेतुत्वप्राप्तेः[97]। साधारणस्य [च] हेतुत्वं स्यात् । प्रमेयत्वस्य नित्येष्व् अवश्यं भावाद् इति । व्याप्यव्यापकधर्मतासंवर्णनं
तु व्याप्तेर् उभयत्र [स्. 19ब्.] तुल्यधर्मतयैकाकारा प्रतीतिः संयोगिवत् मा भूद् इति प्रदर्शनार्थम् । तथा हि -- पूर्वत्रायोगव्यवच्छेदेनावधारणम् [त्. 217ब्.] उत्तरत्रान्ययोगव्यवच्छेदेनेति कुत उभयत्रैकाकारता व्याप्तेः? । तदुक्तम् --
लिङ्गे लिङ्गीभवत्य् एव लिङ्गिन्य् एवेतरत् पुनः।
नियमस्य विपर्यासे ऽसम्बन्धो लिङ्गलिङ्गिनो ॥ इति ।
[98]एतेनाचार्येण संयोगबलात् गमकत्वे यो दोष उक्तः --
न च केनचिद् अंशेन न संयोगीहुताशनः।
धूमो वासर्वथा [99] तेन प्राप्तंधूमात् प्रकाशनम् ॥ इति ।
स इह नावतरतीत्य् आख्यातं भवति । तथा हि -- संयोगस्य उभयत्राविशेषात् एष प्रसङ्गो न तु व्याप्तेः । न हि यादृशी
{प्. 19.1} व्यापकधर्मे व्याप्तिः तादृश्य् एव व्याप्यधर्म इति । तथा चाह -
सम्बन्धो यद्य् अपि द्विष्ठःसहभाव्यङ्गलिङ्गिनोः।
आधाराधेयवद् वृत्तिस् तस्य संयोगिवन् न तु ॥ इति । [स्. 20अ.]
तेन व्यापको व्याप्यो न भवति व्याप्यश् च [न] व्यापक इति । तदंशेन व्याप्तो हेतुः इति वचनात् न संयोगिपक्षोक्तो दोषः । ना ऽप्य् उभयोर् ग्गम्यगमकताप्रसङ्गः, यथोक्ताद् हेतुलक्षणाद् व्यापकस्यैव गम्यत्वप्रतीतेः, व्याप्यस्यैव गमकतासम्प्रत्ययादीति ।
__________नोतेस्__________
[87] व्याप्यव्यापक-
[88] भाव एवेति सम्बन्धः
[89] व्यापकस्येति
[90] सर्वथोच्छेद-
[91] हेतौ
[92] अवधार्यते
[93] व्यापकस्यानित्यत्वादेर् अप्रयत्नानन्तरीयेष्व् अपि विद्युदादिषु भावात्
[94] उच्छेद-
[95] अनित्यत्वादेर् व्यापकस्येत्य् अर्थः
[96] प्रयत्नानन्तरीयकत्वाद्
[97] अनित्येष्व् अपि विद्युदादिषु व्याप्यस्य प्रयत्नानन्तरीकत्वस्याभावात्
[98] कारणेन
[99] सर्वथा गम्यगमकभावः प्राप्तः । अग्नेः सामान्यधर्मवद् विशेषधर्मो अपि तार्णपार्णादयो गम्याः स्युः । धूमस्यापि धूमत्वपण्डुत्वादिविशेषधर्मवद् द्रव्यत्वपार्थिवत्वादयो ऽपि सामान्यधर्माः गमका भवेयुः संयोगस्योभयत्रापि तुल्यत्वात्
[ सेच्तिओन्: 9. व्याप्तेर् अन्वयव्यतिरेकरूपयोस् सूचनम् ।]
यदि तर्हि पक्षधर्मस् तदंशेन व्याप्तः इत्य् एतद् धेतुलक्षणं ततः पक्षधर्मत्वं तदंशव्याप्तिश् चेति द्विरूपो हेतुः स्यात्, अन्यत्र च त्रिरूप उक्तः तत् कथं न व्याघातः? इत्य् आह एतेन तदंशव्याप्तिवचनेन अन्वयो व्यतिरेको वाउक्तः वेदितव्य इति सम्बन्धः [त्. 218अ.] । अन्वयव्यतिरेकरूपत्वाद् व्याप्तेर् इति भावः । तथा हि -- य[100]एव येनान्वितो[101]यन्[102]निवृत्तौ च निवृत्तते स[103]एव तेन[104]व्याप्त उच्यत इति तदात्मकत्वाद् व्याप्तेर् व्याप्तिवचनेनान्वयव्यतिरेकाभिधानम् । ततो व्याप्तिवचनेन रूपद्वयाभिधानात् न व्याघात इति । [स्. 20ब्.]
__________नोतेस्__________
[100] धू (धूमः)
[101] व (वह्निना)
[102] व (वह्निं)
[103] धू (धूमः)
[104] व (वह्निना)
[ सेच्तिओन्: 10 व्याप्तेः प्रत्यक्षेणानुमानेन वा निश्चयः ।]
तौ च ज्ञापकहेत्वधिकारात् निश्चितौ । निश्चयश्च तयोर् नैकेनैव प्रमाणेन अपि तु यथास्वम् । यस्य यद् आत्मीयं प्रमाणं निश्चायकं तेन । यस्य च यत् निश्चायकं प्रमाणं तद् उत्तरत्र वक्ष्यति ।
अन्वयो व्यतिरेको वा इति तुल्यकक्षतासूचनार्थो `वाऽशब्दः । तेन साधर्म्यवैधर्म्यवतोः प्रयोगयोर् एकेनैव द्वितीयगतेर् विधिप्रतिषेधरूपतया व्यावृत्तिभेदे ऽपि परमार्थतस् तादात्म्यात् नोभयोपदर्शनम् इति सूचितं भवति । व्यतिरेको हि साध्यनिवृत्तौ लिङ्गस्य निवृत्तिधर्मकत्वं[105]स्वभावभूतो धर्म इत्य् अन्वयरूपता वस्तुतो ऽस्य न विरुध्यते । पक्षधर्मश्च । किं? । यथास्वंप्रमाणेन निश्चितः
{प्. 20.1} उक्त इति सम्बन्धः । निश्चयप्रसङ्गेन सो ऽप्य् अत्र प्रतिपाद्यते, निश्चितस्य गमकत्वम् आख्यातुम् । [स्. 21अ. अन्द् 21ब्.] ....................................................................... ................................................................................................................................ ......................................................... ............................................................... ............................................................................................................................................................................................ [स्. 22अ.] इति प्रदर्शनार्थो `वाऽशब्दः । प्रत्यक्षेण [106] च स्वयंस्वलक्षणाकारत्वे ऽप्य् अनन्तरसामान्यविकल्पजननात् प्रसिद्धिः उपचारतो निश्चय उच्यते -- प्रत्यक्षपृष्ठभाविनो विकल्पस्यानधिगतार्थाधिगन्तृत्वाभावं दर्शयितुं । तेन यद्य् अपि सामान्यरूपं लिङ्गम् अवस्थाप्यते तथापि स्वलक्षणप्रतीतिर् एव तद्व्यवस्थानिबन्धनम् इति प्रत्यक्षतः पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धिर् उच्यते । एतच् चानन्तरम् एव व्यक्तीकरिष्यते । अनुमानतो वासाध्यधर्मिनि पक्षधर्मस्य प्रसिद्धिर् निश्चयः
। प्रमाणफलभेदाच्[107]च अनुमानतः अनुमानेन निश्चयः इति आह । अत्रोदाहरणे यथाक्रमं यथाप्रदेशे [त्त्. 356अ.] धूमस्य धूमसामान्यस्य प्रत्यक्षतो निश्चयः इति ।
__________नोतेस्__________
[105] न तु निवृत्तिमात्रं तुच्छरूपम्
[106] ननु निर्विकल्पकेन प्रत्यक्षेण कथं सामान्यात्मनो लिङ्गस्य ग्रहणम्? इत्य् आह
[107] बौद्धमते न प्रमित्यात्मकं प्रमाणफलं भिन्नं किञ्चिद् अस्ति । किन्तु भेदम् अभ्युपगम्य अनुमानेन निश्चय इति उच्यते । अत्र ह्य् अयं भ्रमो ........................ । पर्यायः
[ सेच्तिओन्: 11. उद्द्योतकरमतं निरस्य देशाद्यपेक्षकार्यहेतोर् गमकत्वोक्तिः ।]
यस् तु मन्यते -- `यः प्रदेशो ऽग्निसम्बन्धी सो ऽप्रत्यक्षो यस् तु प्रत्यक्षो नभोभगरूप आलोकाद्यात्मा[108]धूमवत् तया दृश्यमानो न सो ऽग्निमान् अतः कथं प्रदेशे धूमस्य प्रत्यक्षतः प्रसिद्धिः । [स्. 22ब्.] तस्माद् धूम एव धर्मी युक्तः । साग्निर् अयं धूमः धूमत्वात् इत्य् एवं साध्यसाधनभावःऽ इति -- तस्यापि साग्नेः धूमावयवस्या ऽप्रत्यक्षत्वात्, परिदृश्यमानस्य चोर्द्ध्वभागवर्तिनो ऽग्निना सहावृत्तेः, कथं धूमसामान्यस्य साध्यधर्मिणि प्रत्यक्षतः प्रसिद्धिः? । धूमावयवी प्रत्यक्ष इति चेत्; न, अवयवव्यतिरेकेण [त्. 219ब्.] तस्य्[ह्2]आभावात् । लोकाध्यवसायतस् तस्यैकत्वे वा प्रदेशस्यापि
{प्. 21.1} तावतः कल्पितम् एकत्वं न निवार्यते । प्रदेशे एव च लोको ऽग्निं प्रतिपद्यते, न धूमे । देशकालाद्यपेक्षयैव[109]च कार्यहेतुर् ग्गमकः । यद् आह -
इष्टं[110] विरुद्धकार्ये ऽपि देशकालाद्यपेक्षणम् ।
शब्दे वाकृतकत्वस्य प्रत्ययभेदभेदित्वादिनानुमानेनेति ।
__________नोतेस्__________
[108] [आ] लोकतम् असी नभः
[109] धूमकाले एव चाग्निः साध्यते न भस्मकाले
[110] न केवलं कार्यहेतौ
[ सेच्तिओन्: 12. निर्विकल्पं कथं सामान्यग्राहीति कुमारिलाक्षेपस्योत्तरम् ।]
अत्र यथोपवर्णितं प्रत्यक्षतः [स्. 23अ.] पक्षधर्मस्य साध्यधर्मिणि प्रसिद्धाव् अभिप्रायम् अप्रतिपद्यमानःकुमारिलः-- `कथं प्रत्यक्षेण(णा)विकल्पेन सामान्यात्मनो लिङ्गस्य धूमादेः स्व्रूपग्र[हण]म् अपि तावद् युज्यते, धर्मिणो वा कुत एव तत्सम्बन्धग्रहणम्ऽ -- इति प्रत्यवतस्थे । तेन हि प्रत्यक्षपूर्वकत्वाच् चानुमानादेर् द्धर्मंप्रत्यनिमित्तत्वम् [श्भ् 1.1.4.] इत्य् एतद्भाष्यम् -
कथं प्रत्यक्षपूर्वत्वम् अनुमानादिनो भवेत्? ।
यदा स्मृत्यसमर्थत्वान् निर्विकल्पेन्द्रियस्य धीः॥
न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस् तथा।
गृहीतिः [श्व् प्प्. 87, 88]
इत्य् आक्षिप्य --
प्रत्यक्षाग्रहणं यत् तु लिङ्गादेर् अविकल्पनात् ।
तन् नेष्टत्वाद् विकल्पस्याप्य् अर्थरूपोपकारिणः॥
अस्ति ह्यालोचनाज्ञानंप्रथमंनिर्विकल्पकम् ।
बालमूकादिविज्ञानसदृशंशुद्धवस्तुजम् ॥
ततः [त्. 220अ.] परंपुनर्वस्तु धर्मैर् जात्यादिभिर् ययः।
बुद्ध्यावसीयते साऽपि प्रत्यक्षत्वेन सम्मता॥
[श्व् प्प्. 111, 112, 120]
{प्. 22.1}[ह्3]इति ब्रुवता -- `सौगत्[ह्4]आनाम् एवायं लिङ्गधर्मितत्सम्बन्धाग्राहणलक्षणो दोषो येषाम् अविकल्पकम् एव प्रत्यक्षं, नास्माकं सविकल्पम् अपि प्रत्यक्षम् इच्छताम्ऽ [स्. 23ब्.] इत्य् उक्तं भवति । ततस् तदुपवर्णितदोषप्रतिविधानाया ऽऽह -- सधूमंहि [त्त्. 356अ.] इत्यादि । अयम् अत्र समुदायार्थः -- प्रत्यक्षं हि पुरोवस्थितम् औत्तराधर्येण धूमप्रदेशादिकं विधिरूपेण धूमादिस्वलक्षणं सकलसजातीयविजातीयव्यावृत्तं च स्वस्वभावव्यवस्थितेः सर्वासामर्थमात्राणां परस्परम् असंकीर्णरूपत्वात् 1 तत्सामर्थ्यभावि यथास्थानम्[111]अनुकुर्वत् पाश्चात्त्यविधिप्रतिषेधविकल्पद्वयं जनयति येन धूमप्रदेषाख्यौ धर्मधर्मिणौ तयोश् चौत्तराधर्यम् `एवम् एतत् नान्यथाऽ इति विकल्पयति । यथानुभवम् अभ्यासपाटवादिप्रत्ययान्तरसहकारिणां विकल्पानाम् उदयात् । ततो धर्मधर्मिणोः स्वरूपनिश्चयः सम्बन्धनिश्चयश् च प्रत्यक्षनिबन्धनः
सम्पद्यते । तथा हि -- अयम् एव धूमप्रदेशयोः सम्बन्धस्य निश्चयो यः `आत्रायम्ऽ इत्य् अध्यवसायः । स चाविकल्पेनापि प्रत्यक्षेण यथोक्तेन प्रकारेण सम्पादित एव । न चौत्तराधर्यावस्थिताद् वस्तुद्वयाद् अन्य [स्. 24अ.] एव कश्चिद् आधा[राधे]यभावलक्षणः सम्बन्धः यतः तस्य [त्. 220ब्.] प्रत्यक्षेणाननुभूतत्वात् पश्चाद(द्) विकल्पनं स्यात् । वस्तुभूतस्य तस्यान्यत्र निषेधात् । तस्माद् अयं तद् एव तथावस्थितम्[112]अर्थद्वयम्[113]आश्रित्य कल्पनासमारोपित एव । तेन सम्बन्धः सम्बन्धीति भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां धर्मधर्मितया व्यवहारो लोके न तु पारमार्थिकः । सामान्यव्यवहारो ऽपि विजातीयव्यावृत्तानेव भावानासृ(श्रि)त्य कल्पनासमारोपित एव प्रतन्यते । तेषाम् एव भिन्नानाम् अप्य् अनुभवद्वारेण विजातीयव्यावृत्ततया प्रकृत्यैवैकाकारपरामर्शप्रत्ययहेतुत्वात् तथा चाह -
एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने ।
भेदे ऽपि नियताःकेचित् स्वभावेनेन्द्रियादिवत् ॥ [प्व् 3.72] इति ।
__________नोतेस्__________
[111] पुरो ऽवस्थितार्थसामर्थ्यभाविप्रत्यक्ष-
[112] औत्तराधर्यावस्थितम्
[113] धूमप्रदेशलक्षण-
{प्. 23.1} ततः सामान्यवि[कल्पजननद्वारा] [स्.24ब्.] तत्प्रतिभासिनो धूमाकारस्य विजातीयव्यावृ[त्तरूपस्य सामान्यरूपतया] प्रत्यक्षेणैव गृहीतत्वात् । न हि विजातीयव्यावृत्तिर् व्यावृत्ताद् अन्यैव काचिद् यस्याः प्रत्यक्षेणाग्रहणं स्यात् । तस्माद् यथापरिदृष्टं धूमादिस्वलक्षणम् एवान्यतो व्यावृ[त्तात्मना वि]कल्प्यत इति प्रतिपत्त्रध्यवसायवशात् स्मृतिर् एव । द्विविधो विकल्पः प्रत्यक्षपृष्ठभावी वस्तुतः पुनर् निर्विषय एव । ततो यद् आह -- सामान्यस्याननुभूत तथा --
स्मार्त्तम् एतद् अभेदेन विज्ञानम् इति यो वदेत् ।
अनुमानग्राह्यम् एव । तत्र चानवस्था लिङ्गग्राहिणो ऽप्य् अनुमानस्य तदन्यलिङ्गबलेनोत्पत्तेः । तस्य च सामान्यरूपतया [स्. 25अ.] तदन्यानुमानमानविषयत्वात् तथा तदन्यस्यापीति कस्यचिद् एकस्यापि लिङ्गिनः प्रतिपत्तिः युगसहस्रैर् अपि न सम्भवति । किम् अङ्ग पुनर् एकेन पुरुषायुष्केणेति । तथा चाह -
सामान्यंनानुमानेन विनायस्य प्रतीयते ।
न च लिङ्गविनिर्मुक्तम् अनुमानंप्रवर्त्तते ॥
असामान्यस्य लिङ्गत्वंन च केनचिद् इष्यते ।
न चानवगतंलिङ्गंकिञ्चिद् अस्ति प्रकाशकम् ॥
तस्यापि चानुमानेन स्याद् अन्येन गतिःपुनः।
इत्य् आशङ्क्याह [स्. 25ब्.] -- सधूमंहि इत्यादि । एवं मन्यते । यस्यानुमानम् अन्तरेण सामान्यं न प्रतीयते भवतु तस्यायं दोषः,
{प्. 24.1} अस्माकं तु प्रत्यक्षपृष्ठभाविना ऽपि विकल्पेन प्रकृतिविभ्रमात् सामान्यं प्रतीयते । लिङ्गविकल्पस्य च स्वलक्षणदर्शनाश्रयत्वात् [त्. 221ब्.] परम्परया वस्तुप्रतिबन्धाद् अविसंवादकत्वम्, मणिप्रभायाम् इव मणिभ्रान्तेः । कार्यहेतुत्वम् अपि विकल्पावभासिनो धूमसामान्यस्य लिङ्गतया ऽवस्थाप्यमानस्य कार्यदर्शनाश्रयतया तदध्यवसायाच् च । न हि धूमस्वलक्षणस्य लिङ्गता ऽवस्थापयितुं युक्ता, तस्यासाधारणस्य सपक्षे वृत्त्यभावात्, तदंशव्याप्त्ययोगात्, साध्यसाधनसंकल्पे वस्तुदर्शनासम्भवाच् चेति ।
यत् तूक्तम् [स्. 26अ.] `सामान्यलक्षणविषयम् अनुमानम्ऽ इति तत्र नैवम् अवधार्यते -- सामान्यलक्षणविषयम् अनुमानम् एवेति । प्रत्यक्षपृष्ठभाविनो विकल्पस्यापि तद्विषयत्वात् तदन्यस्य[114]च विकल्पस्य । किन्तु सामान्यलक्षणविषयम् एवानुमानम् इत्य् अवधार्यते स्वलक्षणविषयत्वनिषेधार्थम् इति । तत्र सह धूमेन वर्तत इति सधूमः । पक्षधर्मताप्रतिपादनार्थम् एवम् उक्तम् । विधिविकल्पस्य चैतद् एव बीजम् । तं सधूमंप्रदेशंदृष्टवतः प्रत्यक्षेणे ति सम्भन्धः । कीदृशम् अर्थान्तरविविक्तरूपम् अर्थान्तरैः सजातीयविजातीयैर् विविक्तम् असङ्कीर्णं रूपम् अस्येति विग्रहः । सर्वभावानां स्वस्वभावव्यवस्थितेः स्वभावसाङ्कर्याभावात् । अन्यथा सर्वस्य सर्वत्रोपयोगाद् अतिप्रसङ्गः । [स्. 26ब्.] अनेन प्रतिषेधविकल्पस्य निमित्तम् आख्यातम्, सामान्योत्प्रेक्षायाश् च बीजम् । तदुक्तम् -
इतरेतरभेदो ऽन्त्य(स्य)[115] बीजंसंज्ञायदर्थका[त्. 222अ.]
[प्व् 3.71] इति ।
तथा हि -- अर्थान्तरव्यावृत्तिं परस्परव्यावृत्तानाम् अपि समानाम् उत्पश्यतो भिन्नम् एषां रूपं तिरोधाया ऽभिन्नं स्वभावम् 3 आरोपयन्ती कल्पनोत्पद्यते[116]। अस् [ह्5] आधारणात्मना इति अर्थान्तरव्यावृत्तेन स्वभावेन । न तु यथाकुमारिलो मन्यते -- `अर्थान्तरविवेको ऽभावप्रमाणग्राह्यो न प्रत्यक्षावसेयःऽ इति । न हि वस्तुबलभाविना प्रत्यक्षेण अन्यथादर्शनसम्भवो भ्रान्तताप्रसङ्गात् ।
{प्. 25.1} तेनात्मना[ह्6]दृष्टवतः सतः पुंसो ऽनन्तरं स्मार्त्तंलिङ्गज्ञानम् उत्पद्यत इ ति सम्बन्धः । स्मृतिर् एव स्मार्त्तम् । लिङ्गप्रतिभासि ज्ञानं लिङ्गज्ञानम् । अनेन प्रत्यक्षपृष्ठभाविनि विकल्पे यत्सामान्यमाभाति तस्य लिङ्गव्यवस्थाम् आह ।
परमार्थतः किं विषयम्? यथादृष्टभेदपरमार्थ[विषयम्] [स्. 27अ. अन्द् 27 ब्.] ........................................................................................ ..................................................................................................................................................................................................................................................................................................................................................................................
[ सेच्तिओन्: 14. दर्शनविधिप्रतिषेदविकल्पेषु प्रामाण्याप्रामाण्यव्यवस्था ।]
__________नोतेस्__________
[114] स्मृत्यादेः
[115] सामान्यस्य
[116] -यन् विकल्प उत्प- -- त्.
[स्. 28अ.] [द]र्शनविधिप्रतिषेधविकल्पानां प्रमाणाप्रमाणचिन्ताम् आरभते. तत्र तेषु दर्शनविधिप्रतिषेध[त्. 223अ.]विकल्पेषु. तद् आद्यं यद् एतत् --
अस्ति ह्य् आलोचनाज्ञानं प्रथमम् [श्व् प्रत्यक्षपरिच्छेद 112अब्]इति
आदौ विकल्पप्रवृत्तेर् भवम् इति आद्यम् आख्यातम् असाधारणविषयं स्वलक्षणविषयं दर्शनम्, तद् एव प्रमाणम्, न विधिप्रतिषेधविकल्पाव् अपि, तस्यैव प्रमाणलक्षणयोगाद् इतरयोश् च तदसम्भवात्. तथा हि -- अनधिगतविषयत्वम् अर्थक्रियासाधनविषयत्वं च प्रमाणलक्षणम्.[117]तद् दर्शनस्यैवास्ति.
तत्र आद्यम् इत्य् अपूर्वार्थविज्ञानत्वम् आख्यातम् असाधारणविषयम् इति अर्थक्रियासाधनविषयत्वम्, स्वलक्षणस्यैवार्थक्रियासाधनत्वात्.[ सेच्तिओन्: 15. प्रतिषेधविकल्पस्याप्रामाण्यस्थापनम् ।]
__________नोतेस्__________
[117] प्रथमविशेषणात् प्रतिषेधविकल्पस्याऽध्यवसेयार्थक्रियासाधनविषयत्वे ऽपि न प्रामाण्यम् । द्वितीयात् तु धिधिविकल्पस्यानधिगतसामान्यविषयत्वे ऽपि न प्रामाण्यम्
तत्र प्रतिषेधविकल्पस्य तावत् प्रत्यक्षगृहीतार्थविषयतया स्मृतित्वं प्रतिपादयन्न् आह -- तस्मिन् असाधारणे तथाभूते अर्थान्तरैर् असङ्कीर्ण[स्. 28ब्.]रूपे दर्शनेन असङ्कीर्णरूपसामर्थ्यभाविना दृष्टे अधिगते सति . तथा हि -- व्यतिरिक्तम् अपि भावांशाद् अभावांशम् इच्छता भावांशः स्वभावेनासङ्कीर्णरूपः कल्पनीयः, अन्यथा[118]स एवाभावांशो न सिध्येत्. न च
{प्.26.1} स्वभावेनासङ्कीर्णरूपतायाम् असत्यां पृथग्भूताभावांशसद्भावे ऽपि सा[119]युक्तिमती, स्वहेतुबलायातस्य सङ्कीर्णरूपस्याकिञ्चित्कराभावांशसम्भवे ऽपि त्यागायोगात्. न[120]च तेनैव तद्विनाशनम्, विनाशहेत्वयोगस्य प्रतिपादयिष्यमाणत्वात्. तेन सङ्कीर्णरूपविनाशने च वरं स्वहेतोर् एव स्वभावतो ऽसङ्कीर्णरूपाणामुदयो ऽस्तु किं परिव्राङ्मो[त्. 223ब्.]दकन्यायोपगमेन? तस्मात् स्वभावत एव भावानां 3 पररूपविकलत्वम् अभावांशः[121], नान्यः. स च तथाभूतो दर्शनेन गृहीत एव. तस्मिंस् तथाभूते [स्. 29अ.] दृष्टे स पदार्थो येन वस्तुना असाधारणः समानस्वभावो न भवति तद्रूपविकलस्वभावत्वात् तदसाधारणतां तेन तेनातद्रूपेणासमानस्वभावतां एतद् एव व्यनक्ति । ततः अर्थान्तराद् भेदं वैलक्षण्यम् अन्यरूपम् इदं न भवतीति अभिलपन्ती अभिमुखयन्ती
दृष्टवैलक्षण्ये प्रवर्तमानतया स्मृतिर् उत्पन्नाप्रत्यक्षबलेन । यदि तु लिङ्गबलेनोत्पद्येत व्यवच्छेदविषयापि स्मृतिर्[122]न स्याद् इति भावः । किं विषया? अतदव्यावृत्तिविषया . तच्छब्देन दर्शनविषयस्य वस्तुनः परामर्शः कृतः. न तत् अतत् विजातीयम् । अतस्माद् व्यावृत्तिः अतद्व्यावृत्तिः । सा विषयो यस्याः सा तथा । यथादृष्ट एवार्थान्तरेभ्यो भेदो मया ऽपि कल्प्यत इति प्रतिपत्र(त्त्र)ध्यवसायाच् चैवम् उक्तम् । परमार्थतो निर्विषयत्वात् । [स्. 29ब्.] सा न प्रमाणं नाभावप्रमाणफलम्[123]इत्य् अर्थः । न हि स्मृतिजनकत्वेन प्रमाणता युक्ता । कस्मात् न प्रमाणम्? । यथादृष्टस्याकारो ऽभ्यासपाटवादिप्रत्यायान्तरसापेक्षो विशेषस् तस्य ग्रहणात् । न हि दृष्टम् इत्य् एव विकल्पेन गृह्यते, दर्शनाविशेषात् सर्वाकारेषु विकल्पोदयप्रसङ्गात्, अपि तु कश्चिद् एवाभ्यासादिप्रत्ययापेक्ष इत्य् आकारग्रहणेनाचष्टे ।
6 भवतु यथादृष्टा[त्. 224अ.]कारग्रहणम्[124]। प्रमाणम् तु कस्मान् न भवतीति परस्य[125]तदुक्तप्रमाणलक्षणविरहं दर्शयन्न् आह -- प्राग्
{प्. 27.1.} आलोचनाज्ञानोदयकाले असाधारणम् असङ्कीर्णरूपं दृष्ट्वा असाधारनम् अर्थान्तररूपं न भवतीति अभिलपतः विकल्पयतः प्रतिषेधविकल्पस्यापूर्वार्थाधिगमाभावाद् अपूर्वार्थ्विज्ञानताविरहात् [स्. 30अ.] । अपूर्वार्थविज्ञानं च प्रमाणं भवतोच्यत इति भावः ।
{5} [सेच्तिओन्: 16. विधिविकल्पस्याप्य् अप्रामाण्यव्यव्य्स्थापनम् ।]
__________नोतेस्__________
[118] स्वभावेन संकीर्णत्वे
[119] असंकीर्न्न(ण्ण)रूपता
[120] नाकिञ्चित्करो ऽभावांशः तेनैव संकीर्णरूपताविनाशनात् इति चेद् आह
[121] पररूपस्य कल्पितत्वाद् अभावांशः -- त्.
[122] अपि त्व् अनुमानं स्या
[123] परैर् वस्तुदर्शनस्यैव नास्तिताविकल्पजनकत्वेनाभावप्रमाणतयोक्त्वादित्थं व्याख्यातम्
[124] भवतापि यथा- -- त्.
[125] आलोचनाज्ञानाद् उत्तरस्य,कुमारिलस्य वा
यद्युक्तेन प्रकारेण प्रतिषेधविकल्पो न प्रमाणं, विधिविकल्पस् तर्हि प्रमाणं भविष्यति. न हि तस्यापूर्वार्थविज्ञानत्वाभावः सम्भवति । तत्प्रतिभासिनो ऽनुगतस्य सामान्याकारस्यासाधारनरूपाव् अलम्बिना दर्शनेनानधिगमात् तत् कुतो ऽस्याप्रामाण्यम् । तद् उक्तम् --
ततः परंपुनर् वस्तु [श्व् प्रत्यक्ष 120]
इत्यादि । तद् एतत्कुमारिलवचनम् आशङ्क्य विधिविकल्पस्यापि प्रामाण्यम् अनुप(म् अप)नुदन्न् आह -- अर्थक्रियासाधनस्य स्वलक्षणस्य आलोचनाज्ञानेन दर्शनाद् अदृष्टस्य पुनस् तत्साधनस्य अर्थक्रियासाधनस्य स्वभावस्य विकल्पेनाप्रतिपत्तेःविधिविकल्पो न प्रमाणम् । 1 यद्य् अपि[126]तेनानधिगतं सामान्यम् अधिगम्यत इति वर्ण्यते, तथापि तद् अर्थक्रियासाधनं न भवति इति तद् अधिगन्ता तैमिरिकादिज्ञानप्रख्यो विधिविकल्पो न प्रमाणम् । [स्. 30ब्.]
ततः[127] परंपुनर् वस्तु धर्मैर् जात्यादिभिर् यया।
अधिगमे ऽपि केशादिज्ञानस्येव न प्रामाण्यम् । अत एवार्थक्रियासामर्थ्यविरहिणा सामान्येनेन्द्रियाणां सम्प्रयोगाभावात् प्रत्यक्षता ऽप्य् असम्भविनी । चकारेण स्मृतित्वाच् चेति पूर्वोक्तकारणसमुचयः । स्मृतित्वं चास्योत्तरत्र प्रतिपादयिष्यते । अनुमानवद्
{प्.28.1} इति वैधर्म्यदृष्टान्तः. यथा प्रत्यक्षेणार्थक्रियासाधने प्रदेशाख्ये धर्मिण्य् अधिगते ऽप्य् अनधिगतस्याग्नेर् अर्थक्रियासाधनस्यासामान्याकारेण[128]परोक्षस्य स्वलक्षणाकारेण प्रतिपत्तुम् अशक्यत्वात् प्रतिपत्तिः[129], नैवं विधिविकल्पेन सामान्याकारेणानधिगतम् अर्थक्रियासाधनम् अधिगम्यते,[130]तस्यालोचनाज्ञानेनैवाधिगमात्. [स्. 31अ.] तस्मिं(स्मिन्) स्मृतिर् एवासाव् इति न प्रमाणम् इति ।
[ सेच्तिओन्: 17. अर्थक्रियासाधनविषयज्ञानस्यैव प्रामाण्यसमर्थनम् ।]
__________नोतेस्__________
[126] सामान्यमात्रं वा विधिविकल्पेन गृह्यते तद्विशिष्टं वा स्वलक्षणम्, गत्यन्तराभावात् । तत्र पूर्वपक्षे आह यद्य् अपि इत्य् आदि
[127] उत्तरस्मिन् पक्षे आह
[128] -धनस्य सामा- -- त्.
[129] अनुमानेनेति शेषः
[130] वस्तुनः
अर्थक्रियासाधनविषयम् एव प्रमाणम् , नेतरद् इति कुत एतत् इति चेत् अर्थक्रियार्थीहि पुरुषो यस्मात् हिताहितप्राप्तिपरिहारार्थी सर्वो न काकतालीयन्यायेन कश्चिद् एव, पक्षावान् बुद्धिपुर्वकारी प्रमाणम् अप्रमाणंवा प्रमानाद् एव सर्वदा प्रवर्त(र्ते)य अप्रमाणात् मा कदाचित्, विप्रलम्भसम्भवाद्, उभयम् अन्वेषते न व्यसनितया । ततो ऽयम् अर्थक्रियासाधनविषयम् एव प्रमाणम् ब्रवीति, तस्यार्थक्रियासाधने प्रवृत्त्यङ्गत्वात् । नेतरत्, तद्विपरीतत्वात् । तथा हि -- प्रमाणम् अविसंवादकम् अप्रतारकम् उच्यते लोके ऽपि । [त्. 225अ.] यच् चार्थक्रियासाधनम् अनधिगच्छन् न तत्र प्रवर्तयति, कुत एव तत् प्रापयेत् तत् कथम् अविसंवादकतया प्रेक्षापूर्वकारी प्रमाणम् आचक्षीत? ।
[सेच्तिओन्: 18. सामान्यस्य विस्तरेणावस्तुत्वसाधनम् ।]
[स्. 31ब्.] यद्य् एवं सामान्यम् अप्य् अर्थक्रियासाधनम् एव ततस् तद्विषयो विधिविकल्पः प्रमाणं भविष्यतीति चेद्, आह -- न च नैव सामान्यंकाञ्चित् तत्साध्यतयोपगताम् अभिन्नज्ञानाभिधानलक्षणाम् अन्यां वा व्यक्तिसाध्याम् अर्थक्रियाम् उपकल्पयति । कीदृशम्?, स्वलक्षणप्रतिपत्तेः व्यक्तिप्रतिपत्तेर् आलोचनाज्ञानसंज्ञिताया ऊर्द्ध्वम् उत्तरकलां तत्सामर्थ्योत्पन्नविकल्पविज्ञानग्राह्यम् इति । तच्छब्देन स्वलक्षणप्रतिपत्तिः सम्बध्यते । `ततः परं पुनर् वस्तुऽ इत्य्[131]आदिपरैर् अभिधानाद् एवं ब्रवीति दर्शनपृष्ठभाविनो विकल्पस्य प्रत्यक्षप्रमाणतां निराकर्तुम् । सर्वम् एव तु सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयति.
{प्.29.1} यत् तु सामान्यम् अनुमानविकल्पग्राह्यम्, तत् कारणव्यापकसम्बद्धलिङ्गनिश्चयद्वारायातं सम्बद्धसम्बन्धाद् अनधिगतार्थक्रियासाधनविषयाम् अर्थक्रियाम् उपकल्पयतीति तद्विषयो विकल्पः प्रमाणम् । [स्. 32अ.] इदं तु नैवम्, अधिगतत्वाद् अर्थक्रियासाधनस्यालोचनाज्ञानेनेति । अत्रोदाहरणम् यथा-- नीलंदृष्ट्वानीलम् इति ज्ञाने प्रतिभासमानम् इति शेषः । न सामान्यं काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रकृतेन सम्बन्धः ।
ननु च लिङ्गविकल्पप्रतिभासि [त्. 225ब्.] सामान्यं प्रकृतम् तत् किम् अन्यद् उदाह्रियते? । सर्वस्य दर्शनपृष्ठभाविनो विकल्पस्य परोपगतां प्रत्यक्षप्रमाणतां तुल्यन्यायतया निराकर्तुम् । कां पुनर् नीलम् इति विकल्पज्ञाने दर्शनपृष्ठभाविनि प्रतिभासमानं सामान्यम् अर्थक्रियां नोपकल्पयति? । यदि व्यक्तिसाध्याम्; तदा ऽन्यो ऽपि पदार्थो ऽन्यदीयाम् अर्थक्रियां नोपकल्पयतीति तस्याप्य् अनर्थक्रियासाधनत्वाद् अवस्तुत्वप्रसङ्गः । अथ स्वसाध्याम्; तद् असिद्धम्, अभिन्नज्ञानाभिधानलक्षणायाः स्वसाध्यायाः करणाद् इत्य् आशङ्क्याह -- तद् एव हि [त्त्. 356ब्.] यत् तदालोचनाज्ञानेनोपलब्धं [स्. 32ब्.] नीलस्वलक्षणम् नीलव्यक्तिः तथाविधसाध्यार्थक्रियाकारि । तथाविधशब्देन सामान्यम् अत्राभिप्रेतम्, तादृशपर्यायत्वाद् अस्य, साधारणरूपस्य च तादृशत्वात् । तेन तथाविधसाध्यां नीलसामान्यसाध्याम् अभिन्नज्ञानाभिधानलक्षणाम्
अर्थक्रियां कर्तुं शीलम् अस्य स्वलक्षणस्येति तत् तथोक्तम् ।
एवं मन्यते -- यथा भिन्ना अपि व्यक्त्यः कयाचित् प्रत्यासत्त्या तदेककार्यप्रतिनियमलक्षणया तदेकम् अभिन्नं सामान्यम् उपकुर्वन्ति[132], तदपरसामान्ययोगम् अन्तरेणापि, अन्यथा ऽनवस्थाप्रसङ्गात्, तथा ऽभिन्नज्ञानाभिधानात्मिकाम् अप्य् अर्थक्रियां साधयिष्यन्ति । किम् अप्रमाणकेन प्रमाणबाधितेन च सामान्येनोपगतेन? । [त्. 226अ.] तथा हि -- अनुमानादिके ज्ञाने यथाविधम् अस्यास्पष्टं रूपं प्रतिभासते न तथाविधं व्यक्तिषु दृश्यमानास् उपलक्षयामः । एकम् एव हि व्यक्तिदर्शनकाले स्पष्टम् नीलादिरूपं विभावयामः । [स्. 33अ.]
{प्.30.1} तत् कथम् अदृष्टकल्पनया ऽऽत्मानं स्वयम् एव विप्रलभे महि? । व्यक्तिरूपसंसर्गाद् अयोगोलकवह्निवद् अविभावनम्[133]इति चेत्; न, सर्वत्र भेदाभेदव्यवस्थाया अभावप्रसङ्गात् । अस्योत्तरस्यान्यत्रापि सुलभत्वात् । न च सामान्यस्य द्वे रूपे स्तः स्पष्टम् अस्पष्टं च, येनैकेन दर्शने प्रतिभासेत अन्येनानुमानादिज्ञाने, पदार्थद्वयोपगमप्रसङ्गात्, प्रतिभासभेदस्यैव सर्वत्र भावभेदव्यवस्थानिबन्धनत्वात्, सामान्यस्यापरसामान्यप्रसक्तेर्[134]निःसामान्यस्य चास्योपगमात् ।
__________नोतेस्__________
[131] क्रियाविशेषणमदः
[132] अनुपकृतस्य तदाधेयत्वाभावात्
[133] सामान्यस्य
[134] दूषणान्तरम् आह
[ सेच्तिओन्: 19. कुमारिलोक्तद्व्यात्मकबुद्धेर् निरसनम् ।]
एतेनैतद् अपि निरस्तम् यद् आह --
सर्ववस्तुषु बुद्धिश् च व्यावृत्त्यनुगमात्मिका ।
जायते द्व्यात्मकत्वेन विना सा च न युज्यते ॥ [श्व् आकृति- 5]
न चात्रान्यतरा भ्रान्तिरूपचारेण चेष्यते ।
दृढत्वात्[135]सर्वदा बुद्धेर् भ्रान्तिस् तद्भ्रान्तिवादिनाम् ॥ [श्व् आकृति- 7]
__________नोतेस्__________
[135] अबाध्यमानत्वात्
[स्. 33ब्.] इति । यतो यदीन्द्रियबुद्धिम् अभिप्रेत्योच्यते; तदासिद्धम्, अस्पष्टस्य नीलाद्य् आकारस्य स्पष्टनीलाद्याभासायां तत्रानुपलक्षणात्, स्पष्टस्यापि च द्वितीयस्यानुयायिनः । तद्भावे[136]च व्यक्तिद्वयान्तरालम् अप्य् आप्नुवतः कथं [त्. 226ब्.] तदनुगमः[137]? । व्याप्तौ(व्यक्तौ) चोपलभ्यस्य सतः तत्रानुपलक्षणं कुतः? । न हि तस्य व्यक्ताव्यक्तरूपसम्भवः, एकत्वात् । तथा चाह --
व्यक्ताव् एकत्र सा व्यक्ता ऽभेदात् सर्वत्रगा यदि ।
जातिदृश्येत सर्वत्र [सापि न व्यक्त्यपेक्षिणी] ॥ [प्व् 3.154-5]
इति । एकत्रापि च व्यक्ताव् उपलभ्यमानायां सकलत्रैलोक्यव्यापि रूपं सकलस्वाश्रयव्यापि वा दृश्येत? । न ह्य् एकस्याः किञ्चिद् दृष्टम् अदृष्टं वा नाम क्षणिकतादिवद् । दृष्टायाम् अप्य् एकत्रैवाश्रये दर्शनावसायो न सर्वत्रेति चेत्; न, विकल्पेन तद्दर्शनाभ्युपगमात् । न हि निश्चयविषयीकृतं चानिश्चितं चेति युक्तम् । ततः सर्वगतरूपदर्शने सर्वार्थानां दर्शनप्रसङ्गः । न हि [स्. 34अ.] तद्दर्शने[138]
{प्.31.1} तत्सहचारिण[139]उपलभ्यस्य तदभिन्नस्वभावस्य[140]चानुपलम्भो युक्तः । ततः कथम् इन्द्रियबुद्धेर् द्व्यात्मकता? ।
अथानुमानादिबुद्धिम्[141]; तस्याम् अपि स्वलक्षणाप्रतिभासनात् कुतो द्व्यात्मकत्वम्? । न हि नासु सामान्यग्राहिणीष्व् स्पष्टो व्यक्त्याकार इव लक्ष्यमाणः स्वलक्षणप्रतिभासः । तद्भावे ऽपि तासां भावात् । आकारान्तरेणः च स्वज्ञाने [ऽ]प्रतिभासनात् अनेकाकारायोगाद् एकस्य, अतिप्रसङ्गाच्[142]च । तस्मान् नेयं भिन्नार्थग्राहिण्यभिन्ना सामान्यबुद्धिः प्रतिभाति स्वलक्षणोद्भाव सती । किन्त्व् अनादिवितथ[त्. 227अ.]विकल्पाभ्यासवासनाजनिता सती तथा ऽवभासते । दृढत्वं च बुद्धेर् नाविनाशित्वम्, क्षणिकत्वाभ्युपगमात् किन्त्व् अबाध्यमानत्वम् । न चास्यास् तत् सम्भवति, लेशतो बाधकस्योक्तत्वात् । विस्तरतस् तुस्याद्वादभङ्गाद् यथावसरम् इहैव तत्र तत्र विधास्यमानाद् बाधकम् अवधार्यम् । तस्माद् यथा व्यक्त्यः सामान्यान्तरम् अन्तरेण तद् एकम् उपकुर्वन्ति तथा ऽभिन्नज्ञानाभिधाने अपि प्रवर्तयिष्यन्तीति तद् एव नीलस्वलक्षणं सामान्यसाध्यत्वोपगतार्थक्रियाकारि
।[ सेच्तिओन्: 20. कुमारिलदत्तस्य दोषस्य सौगतबुद्द्यबाधकत्वदर्शनम् ।]
यस्[143]तु -- [स्. 34ब्.]
सामान्यं नान्यद् इष्टं चेत् तस्य [144] वृत्तेर् नियामकम् ।
विशेषाद् अन्यद् इच्छन्ति सामान्यं तेन तद् ध्रुवम् ॥
ता हि तेन विनोत्पन्ना मिथ्या स्युर् विषयाद् ऋते ।
न त्व् अन्येन[145]विना वृत्तिः सामान्यस्येह दुष्यति ॥[श्व् आकृति- 37, 38]
{प्.32.1} इति मिथ्यात्वप्रसङ्गदोष उक्तो नासौतथागतसमयनयावदातबुद्धीन् बाधते । सामान्यबुद्धीनां बाधकप्रत्ययनिबन्धनस्य मिथ्यात्वस्योपगतत्वात् । तथा हि --
कस्माट् सास्नादिमत्स्व् एव गोत्वं? यस्मात् तदात्मकम् ।
तादात्म्यम् अस्य कस्मात् चेत्, स्वभावादिति गम्यताम् ॥[श्व् आकृति- 47]
इति वचनात् [त्. 227ब्.] `व्यक्तिस्वभावं च सामान्यम् । न चासाधारणम् व्यक्त्युदयविनाशयोर् ध्या(योश् च) नोदयव्यययोगिऽ इत्य् अयुक्तम्, विरुद्धधर्माध्यासतो भेदप्रसङ्गाद् इति । आह च -
तादात्म्यंचेन् मतंजातेर् व्यक्तिजन्मन्यजातता।
नाशे ऽनाशश्च केनेष्टः [146] ? तद्वच् [147] चाऽनन्वयो [148] न किम्? ॥
व्यक्तिजन्मन्यजाता [149] [स्. 35अ.] चेदागतानाश्रयान्तरात् ।
प्रागासीन् न च तद्देशे सातयासङ्गताकथम्? ॥
व्यक्तिनाशे न चेन् नष्टागताव्यक्त्यन्तरंन च ।
तर्ह्य् अधिगच्छन् विकल्पः प्रमाणं भविष्यतीत्य् आह -- तच् च नीलस्वलक्षणम् । तेनात्मना नीलसाध्यार्थक्रियाकारिणा स्वभावेन दृष्टम् एव आलोचनाप्रत्ययेन । ततो निष्पादितक्रिये कर्मण्य् अविशेषाधायि विकल्पज्ञानं कथं प्रमाणं स्यात्? । अथ[150]मतम् -- सामान्यम् एव तर्ह्य् अधिगच्छन् नीलविकल्पः प्रमाणम् अस्तु । तच् च सामान्यम् अर्थक्रियाकारि । यतो नीलसाध्यम् एवार्थक्रियां नीलेन सह सम्भूय करिष्यति । व्यक्तिस्वभावान्य् एव हि सामन्यानीत्य् आह -- [स्. 35ब्.] न च नैव तत् स्वलक्षणग्रहणोत्तरकालभाविनो नीलव्यक्तिदर्शनोत्तरकालं भवनशीलस्य । लिङ्गग्रहणोत्तरकालभाविनस् तु पूर्वोक्तेन प्रकारेण व्यक्तिसाध्यार्थक्रिया सामान्यस्य कल्पितस्य
{प्.33.1} व्यवस्थापयितुं शक्यत इति भावः । नीलविकल्पस्य [151] विषयेण नीलसामान्येन [त्. 228अ.] नीलसाध्यार्थक्रिया रञ्जनादिका क्रियते । तस्य व्यक्तिस्वाभाव्यायोगे सति कल्पितरूपस्य तदसम्भवात् । न च नित्यस्वभावतामाबिभ्राणेन नीलविकल्पस्य विषयेण नीलसाध्या ऽन्या वा ऽर्थक्रिया क्रियते । क्रमयौगपद्यविरोधाद् इति मन्यते ।[ सेच्तिओन्: 22. मीमांसकसमतप्रमाणलक्षणे दोषदर्शनम् ।]
तद् एवं नीलं दृष्ट्वा नीलम् इति ज्ञाने प्रतिभासमानं सामान्यं न काञ्चिद् अर्थक्रियाम् उपकल्पयतीति प्रसाध्य अनर्थक्रियाकारिविषयस्यापि विकल्पस्य प्रत्यक्षपृष्ठभाविनः प्रामाण्यप्रसङ्गाद् अतिव्याप्तिर् इति तत्रापूर्वार्थविज्ञानम् इति [स्. 36अ.] प्रमाणलक्सणेमीमांसकैर् विशेषणम् उपादेयम् इति दर्शयन्न् आह -- तस्मात्. यत एवम् अनर्थक्रियासाधनविषयतया दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यम् अयुक्तम्, तस्मादस्मदभिमतं प्रमाणम् अविसंवादि ज्ञानम् इति प्रमाणलक्षणं व्युदस्य, अनधिगतार्थविषयंप्रमाणम् , तत्रापूर्वार्थविज्ञानं प्रमाणम् इत्य् अपि ,एतस्मिन्न् अप्य् आहोपुरुषिकया ऽन्यस्मिन् प्रमाणलक्षणे क्रियमाणे अतिव्याप्तिपरिहाराय विशेषणीयं विशेषणम् उपादेयम्. कथं विशेषणीयम् अनधिगते स्वलक्षण इति. अनेन हि विशेषणेनानुमानविकल्पस्य च प्रामाण्यं सिध्यति, आलोचनाज्ञान-
पृष्ठभाविनश् च विकल्पस्य प्रामाण्यं व्युदस्यत इति सर्वं सुस्थम् ।
तद् एवं विधिविकल्पस्यानर्थक्रियासाधनविषयतया ऽनधिगतसामान्याधिगमे ऽपि प्रामाण्यं निराकृत्य [त्. 228ब्.] च शब्दसमुच्चितं स्मृतित्वं प्रतिषेधविकल्पेन साधारणम् प्रामाण्यकारणं [स्. 36ब्.] दर्शयन्न् आह -- अधिगते तु स्वलक्षणे आलोचनाज्ञानेन तत्सामर्थ्यजन्मा स्वलक्षणाधिगमबलभावी विकल्पस् तदनुकारी साक्षाद् अनुत्पत्तेर् दर्शनसंस्काराधेय(रावेध)वशाच् चास्पष्टनीलस्वलक्षणाकारानुकारी दृश्यविकल्प्ययोश् चैकीकरणाद् एवम् उच्यते । वस्तुतस् तु {प्. 34} न किञ्चिद् असाव् अनुकरोति । स स्मृतिर् एव । कुतः? कार्यतस् तद्विषयत्वात् न परमार्थतः । कार्यमत्र स्वलक्षणे पुरुषस्य प्रवर्तनम्, तदध्यवसायश् च । यतश् च कार्यतः तद्विषयत्वात् स्मृतिर् एवातो न प्रमाणम् दर्शनबलोत्पन्नो विकल्पः । तथा हि -- स्मृतेर् अप्य् अनुभूतस्वलक्षणांशविषयाया न परमार्थतस् तद्विषयत्वम्
। स्वलक्षणस्येन्द्रियबुद्धाव् इव स्फुटरूपतया स्मृताव् अप्रतिभासनात् । किन्तु यथोक्तात् कार्यत एव । तच् च विधिविकल्पे ऽपि समानम् इति कथम् असौ स्मृतिर् न स्याद् इति ।
[ सेच्तिओन्: 23. अनुमानस्य विधिविकल्पवैलक्षण्येन प्रामाण्यसमर्थनम् ।]
तत्रैतत् स्यात् -- नन्व् अनुमानविकल्पः स्मृतिरूपो ऽपि प्रमाणम् इष्यते । [स्. 37अ.] तथा हि -- यद् एवानग्निव्यावृत्तं वस्तुमात्रं महानसादाव् अनुभूतम् आसीत्, तद् एव प्रदेशविशेषे धूमदर्शनात् स्मर्यते. तद्वद् विधिविकल्पो ऽपि प्रमाणं भविष्यतीत्य् अत आह -- अनाधिगत स्य वस्तु नो रूप स्य अनधिगतेर् इति । एवम् मन्यते -- यत् महानसादाव् अनग्निव्यावृत्तं वस्तुमात्रं प्रागनुभूतं न तत् तद्देशादिसम्बन्धितयैवानुमानविकल्पेन [त्. 229अ.] स्मर्यते किन्तु यत्र प्रदेशे प्रागननुभूतं तत्सम्बन्धितया । ततः साध्यधर्मिदृष्टान्तधर्मिग्राहिदर्शनद्वयानधिगतस्यानग्निव्यावृत्तस्य वस्तुरूपस्यायोगव्यवच्छेदेनाधिगमाद् युक्तम् अस्य प्रामाण्यम् । न तु दर्शनपृष्ठभाविनो विकल्पस्य, तद्विपरीतत्वाद् इति । [स्. 37ब्.]
__________नोतेस्__________
[145]सामान्येन
[146] हेतुना
[147] व्यक्तिर् इव
[148] अननुवृत्तिः
[149] जातिः
[150] साङ्ख्यमतम् आकुट्टयन्न् आह
[151] `न चऽ इत्य् अनेन सम्बन्धः
[ सेच्तिओन्: 24. प्रमाणव्यवस्थायाः वस्त्वधिष्ठानत्वं, स्वलक्षणस्यैव च वस्तुत्वम् ।]
यदि नामानधिगतं वस्तुरूपं नाधिगच्छति, प्रमाणं तु कस्मान् न भवतीति चेद् आह -- वस्त्वधिष्ठानत्वात् इत्यादि । वस्त्वधिष्ठानत्वं च प्रमाणव्यवस्थायाः प्रमाणव्यापारविषयम्[152]अभिप्रेत्योच्यते नालम्भनलक्षणम्[153], अन्यथा ऽनुमानस्य परिकल्पितसामान्यालम्भनतया वस्त्वधिष्ठानत्वाभावाद् अव्यापिनी प्रमाणव्यवस्था स्याद् । यदि वस्त्वधिष्ठाना प्रमाणव्यवस्था कथं {प्. 35.1} विप्रकृष्टविषयाया[154]अनुपलब्धेः प्रामाण्यम् इति चेत्; तत्रापि प्रधानादिविकल्पस्यैव[155]भावानुपादानतया साध्यत्वात् तस्या अपि वस्त्वधिष्ठानता ऽस्त्य् एवेत्य् अदोषः ।
अथा वत्वधिष्ठानैव प्रमाणव्य्वस्थे ऽति कुत एतद्? इत्य् आह -- अर्थक्रियायां सुखदुःखलक्षणायां यद् [स्. 38अ.] योग्यं शक्तं तद्विषयत्वात् तदर्थिनाम् अर्थक्रियार्थिनां प्रवृत्तेः प्राप्तित्यागलक्षणायाः । यदि नामार्थक्रियायोग्ये तदर्थिनां प्रवृत्तिस् तथापि कथं वस्त्वधिष्ठाना प्रमाणव्यवस्था?, अर्थक्रियायोग्याधिष्ठाना हि तथा सति स्यात् इति चेत्; आह -- अर्थक्रिया यां यद् योग्यं तल्लक्षणम् एव हि वस्तु । ततो ऽर्थक्रियायोग्याधिष्ठानत्वेन वस्त्वधिष्ठानत्वं कथं न स्यात् इति भावः । [त्. 229ब्.]
इदं च वस्त्वाश्रयेण प्रमाणव्यवस्थाप्रतिपादनम् अनधिगते स्वलक्षण इत्य् उक्ते कदाचित् परो ब्रूयात् -- वस्तुमात्रनिबन्धना हि प्रमाणव्यवस्था न स्वलक्षणाश्रयैव । ततो यद्य् अप्य् अनधिगतं स्वलक्षणं नाधिगच्छति तथाप्य् अनधिगतवस्तुरूपम् अधिगच्छतो विकल्पस्य प्रामाण्यं भविष्यतीति तदसिद्धतोद्भावनार्थम् उक्तम् -- अनधिगतवस्तुरूपे त्य् आदि । [स्. 38ब्.] तदसिद्धतोद्भावने चानधिगतवस्तुरूपाधिगन्तुर् एव प्रामाण्यं नेतरस्येति कुतः? इति पर्यनुयोगे अर्थक्रियायोग्ये त्य् आदि उक्तम् । तथा च वस्तुविषयम् अपि प्रामाण्यं ब्रुवता स्वलक्षणविषयम् एवोक्तं भवति, तस्यैवार्थक्रियासामर्थ्यलक्षणत्वात्, सामान्यस्य च तद्विपरीतत्वात् इति मन्यते ।
पुनर् अप्य् अनुभवोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यम् अपनेतुम् उपचयहेतुम् आह -- ततो ऽपि यथोक्ताद् विकल्पाद् न केवलं नीलस्वलक्षणानुभवाद् वस्तुन्य् एव स्वलक्षण एव तदध्यवसायेन स्वलक्षणाध्यवसायेन अन्यथा तत्र प्रवृत्त्ययोगात् पुरुषस्य प्रवृत्तेः अधिगते स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पो न प्रमाणम् इति सम्बन्धः । पूर्वम् अनधिगतवस्तुरूपानधिगतेर् अप्रामाण्यम् उक्तम् । अधुना त्व् अधिगतस्यैवाधिगमाद् इति [स्. 39अ.] {प्. 36.1} विधिप्रतिषेधरूपतयोपपत्त्योर्[156]भेदः । यद् वा कार्यतस् तद् विषयत्वात् इति यद् उक्तं तद् एवोपचयहेतुव्याजेन स्फुतीकृतम् ।
__________नोतेस्__________
[152] प्रवर्तकत्व-
[153] ग्राह्य-
[154] नास्ति प्रधानम्, उपलब्धिलक्षणप्राप्तस्यानुपलब्धेः
[155] प्रधानविकल्पो वस्तुकारणो न भवति, तदभावे ऽपि भावात्, खरविषाणादिविकल्पवत्
[156] युक्त्योः
[ सेच्तिओन्: 25. विकल्पस्य दर्शनात् पृथक् प्रामाण्याभावः ।]
[त्. 230अ.] यदि नाम तदध्यवसायेन वस्तुन्य् एव पुरुषस्य प्रवृत्तिस् तथाप्य् अनधिगतसामान्यग्राहिणो ऽस्य दर्शनात् पृथक् प्रामाण्यं किम् इति नेष्यते? इति चेत्; आह -- प्रवृत्तौ स्वलक्षण एव सत्यां प्रत्यक्षेण आलोचनाज्ञानाख्येन अभिन्नयोगक्षेमत्वात् । योगः अप्राप्तस्य विषयस्य परिच्छेदलक्षणा प्राप्तिः, क्षेमः तदर्थक्रियानुष्ठानलक्षणं परिपालनम् । अभिन्नौ योगक्षेमावस्थेति स तथोक्तः । तत्र विकल्पस्य निर्विकल्पप्रत्यक्षेणाभिन्नो योगः स्वलक्षणाध्यवसायतः । अभिन्नः क्षेम आलोचनाविज्ञानाद् इव विकल्पाद् अपि स्वलक्षण एव प्रवृत्तेः । अयम् अस्याभिप्रायः -- यदि विकल्पो निर्विकल्पचेतसः प्रमेयान्तरविषयस् तदा तत्रैव पुरुषं प्रवर्तय तु तत्साध्याम् अर्थक्रियाम् अधिगन्तुम् । नैव वा प्रवर्तयेत्, तद्विषयत्वाभिमतस्य सामान्यस्याभिन्नज्ञानलक्षणाया एवार्थक्रियाया उपगमाद् [स्. 39ब्.] विकल्पोदयाद् एव च तत्सिद्धेः
। न हि नीलानुभवात् प्रमेयान्तरविषयाः पीतादिप्रत्ययाः पुरुषं नीलवस्तुनि प्रवर्तयन्ति, साधितार्थक्रिया वा क्वचिद् अपीति । तस्माद् आलोचनाज्ञानान् नैवायं प्रमेयान्तरविषयः । विशेषेण यैर् एवं व्याख्यायते -
निर्विकल्पकबोधेन[157] द्व्यात्मकस्यापि वस्तुनः।
प्रहणम् [श्व् प्. 118]
इति[158]। ततो नीलदर्शनस्यैव निर्विकल्पस्य प्रामाण्यं युक्तम्, न तदभिन्नोपयोगस्य [त्. 230ब्.] स्मृतेर् इव विकल्पस्यापि दर्शनात् पृथग्[159]एव । अन्यथा निष्फलां प्रमाणान्तरकल्पनां कुर्वतः स्मृतीच्छाद्वेषप्रयत्नादि प्रमाणम् अनुषज्यत इति प्रमाणानाम् इयत्ता विशीर्येतेति ।
__________नोतेस्__________
[157] अत्र `नऽ कारस्योपरि प्रताव् एव `3ऽ इति लिखितं वर्तते
[158] विशेषेण तेषां मते नैवायं प्रमेयान्तरविषय इति संबेधः
[159] प्रामाण्यं युक्तम्
{प्.37.1}[ सेच्तिओन्: 26. धारावाहिकज्ञानेषु योगितदितरापेक्षया प्रामाण्याप्रामाण्ये ।]
यदैकस्मिन्न् एव नीलादिवस्तुनि [स्. 40अ.] धारावाहीनीन्द्रियज्ञानान्य् उत्पद्यन्ते तदा पूर्वेणाभिन्नयोगक्षेमत्वाद् उत्तरेषाम् इन्द्रियज्ञानानाम् अप्रामाण्यप्रसङ्गः । न चैवम्, अतो ऽनेकान्त इति प्रमाणसंप्लववादी दर्शयन्न् आह -- पूर्वप्रत्यक्षक्षणेन इत्यादि । एतत् परिहरति -- न , उत्तरेषां प्रामाण्यप्रसङ्गः । कुतः? । नानायोगक्षेमत्वात् [160] । तथा हि -- प्रतिक्षणं विषयपरिच्छेदलक्षणो योगः, तदर्थक्रियानुष्ठानलक्षणश् च क्षेमः परिपालनरूपो भिद्यते । ततो विपक्षे वृत्त्यभावात् न हेतुर् अनैकान्तिकः । कदा नानायोगक्षेमत्वम्? । क्षणविशेषसाध्यार्थवाञ्छायाम् । यदा क्षणविशेषसाध्ये ऽर्थे हिताहितलक्षणे वाञ्छा प्राप्तिपरिहारेच् छा योगिनां परोपकारम् उद्दिश्य भवति कस्यचित्[161]कथञ्चित् क्वचिद् उपयोगात् तदा[162]। यथा दर्शनमार्ग्गे[163]दुःखे[164]धर्मज्ञानक्षान्तिर् दमा(र्
दशा)नाम्[165]अनुशयानां वासनां[166]निरोधयति, तद्विरुद्धाशयोत्पादनात् । दुःखे धर्मज्ञानं[167]क्लेषविविक्ततालक्षणां निर्वाणप्राप्तिम् उत्पादयति, [स्. 40ब्.] अनुशयविरुद्धाशयदार्ढ्योत्पादनात् । तत एषां[168]ग्राहकाणि परचित्तज्ञानानि[169]पृथग् एव प्रमाणानि । [त्. 231अ.] परहिताधानदीक्षावतां च समस्तवस्तुविस्तरव्यापिज्ञानालोकावभासितान्तरात्मनां भगवतां कश्चिद् एवार्थक्षणः कस्यचिद् एव परार्थस्यानुग्राहको[170]विबन्धको वेति सर्वभावान् प्रतिक्षणं वीक्षमाणानाम् अध्यक्ष चेतसाम् तद्विषयक्षणानां भिन्नार्थक्रियासूपयोगतो नानायोगक्षेमत्वात् । तद् यदि प्रतिक्सणं[171]क्सणविवेकदर्शिनो ऽधिकृत्योच्यते तदा भिन्नोपयोगितया पृथक् प्रामाण्यात् नानेकान्तः । अथ सर्वपदार्थेष्व् एकत्वा ऽध्यवसायिनः सांव्यवहारिकान् पुरुषानभिप्रेत्योच्यते तदा सकलम् एव [स्. 41अ.] {प्. 38.1} नीलसन्तानम् एकम् अर्थं स्थिररूपं तद्साध्यां
चार्थक्रियाम् एकात्मिकाम् अध्यवस्यन्तीति प्रामाण्यम् अप्य् उत्तरेषाम् अनिष्टम् एवेति कुतो ऽनेकान्तः? इति दर्शयन्न् आह -- साधारणे हि इति । तत्सन्तानवर्त्तिनां सर्वक्षणानाम् एकत्वेनाध्यवसितानां व्यवहर्तृभिर् यत् साधारणं प्रतिक्षणम् अन्यान्यकारणतया विभिन्नम् अपि परमार्थतो विपर्यासाद् एकतया ऽभिनिविष्टं रञ्जनादिकं नीलादिककार्यं तत्र न तेषाम् उत्तरेषां ज्ञानक्षणानां सामर्थ्य स्यार्थप्रापणशक्ते र्भेदः । पूर्वप्रत्यक्षक्षणविषय एव तेभ्यो ऽपि प्रवृत्तेर् आद्यस्यैव तत्र[172]प्रामाण्यम् । तथा हि -- अर्थक्रियार्थिनां तत्साधनप्रापणसमर्थे ज्ञाने प्रमाणव्यवहारं [त्. 231ब्.] कुर्वताम् अविक्लवधियाम् अर्थक्रियासाधनभेदाद् एव प्रामाण्यभेदव्यवहारो ज्ञानेषु युक्तः [स्. 41ब्.] अन्यथा स्मृत्यादेर् अपि प्रामाण्यप्रसङ्गः कथम् अपाक्रियेत?, आद्रियेत वा निष्फला प्रमाणव्यवस्था प्रेक्षावता इति? ।
केषाम् इव साधारेणे कार्ये न सामर्थ्यभेदः? 12 इत्य् आह[173] अपरापरे च ते धुमा श् च तैः प्रमिता श् च ते सन्निकृष्टाग्नय श् च तेष्व् इव तद्विषयाणाम् इव अनुमान्ज्ञानानाम् अग्निमात्रसाध्ये ऽर्थे सन्धुक्षणादिके वाञ्छिते तदर्थक्रियासाधनप्रापणव्यक्तिभेदाभावात् तथा प्रामाण्यभेदो न युक्तो विदुषां तथा ऽत्रापि । यदा तु पञ्चतपस् तप्तुकामो भवति तदा ऽपरापरधूमप्रमितसन्निकृष्टाग्निविषयाणां अप्य् अनुमानानां सामर्थ्यभेदात् प्रामाण्यम् अनिवारितम् एव ।
__________नोतेस्__________
[160] योगिज्ञानानि क्षणविवर्तलक्षकाणीति कृत्वा न एक्योगक्षेमाणि, विवक्षितदवदत्तादेः प्रथमः क्षणो धर्मायोग्यः द्वितीयस् तु मनागयोग्यः तृतीयस् तु योग्य इति ज्ञायते योगिना । ततश् च क्षणाः भिन्नाः अर्थक्रिया च भिन्ना
[161] ज्ञानक्षणस्य
[162] योगिनि
[163] बौद्धमते
[164] अवज्ञाकारिणि म्लेच्छादौ संसारिस्कन्धे
[165] [धर्मज्ञा] नेन क्षान्तिः । समर्थेन यत् सह्यत इत्य् अर्थः
[166] क्लेशजननशक्तिम्
[167] वैराग्यज्ञानम्
[168] धर्मज्ञानक्षान्त्यादिचित्तानाम्
[169] योगिनः सत्कानि
[170] कञ्चित् परचित्तक्षणं दृष्ट्वा भगवान् तस्यैवानुग्रहाय प्रवर्तते । कञ्चित् तु दृष्ट्वा औदासीन्यम् आलम्बते । कञ्चित् त्व् अवबोध्य निग्रहाय
[171] प्रत्यक्षणाम् -- त्.
[172] कार्ये
[173] इत्य् आह -- अपरापरधूम इति । अपरापरे च -- त्.
[ सेच्तिओन्: 27. विकल्पप्रामाण्यनिरासस्य फलितार्थः ।]
तद् एवं `यथा नीलं दृष्ट्वा नीलम् इति ज्ञान(म्)ऽ इत्य् उदाहरणे नीलविकल्पस्य प्रामाण्यं निराकृत्य प्रकृते योज्यन्न् आह -- एतेन नीलस्वलक्षणदर्शनोत्तरकालभाविनो नीलविकल्पस्य प्रामाण्यनिराकरेण ।
तन् नेष्टत्वाद् विकल्पस्याप्य् अर्थरूपोपकारिणः। [श्व् प्. 111]
इति ब्रुवताकुमारिलेन प्रदे[स्. 42अ.]शादिदर्शनोत्तरकालभाविनो {प्. 39.1} धर्मिविकल्पस्य, तथा सम्बन्धप्रतिपत्तिकाले ऽग्निस्वलक्षणदर्शनसामर्थ्यभाविनो ऽग्निसामान्यविषयस्य साध्यधर्मविकल्पस्य, धूमालोचनाज्ञानपृष्ठभाविनो धूमसामान्यावभासिनो लिङ्गविकल्पस्य, आदिग्रहणाद् धर्म[त्. 232अ.]धर्मिसम्बन्धविकल्पस्य च प्रमाणपृष्ठभाविनो धर्म्यादिस्वरूपमात्रविषयालोचनाख्यप्रत्यक्षपूर्वकस्य
न चाविकल्प्यलिङ्गस्य धर्मिसम्बन्धयोस् तथा
गृहीतिः [श्व् प्. 88]
इत्य् आक्षेपभयाद् यद् अभ्युपगतं प्रामाण्यं तत् प्रत्युक्तं प्रत्याख्यातम् । पूर्वकम् एव स्वलक्षणविषयं दर्शनं यत् परेणालोचनाज्ञानम् इति व्यवहृतं तत् प्रमाणं न तु तद्बलभावी विकल्पो यथोक्तेन न्यायेनेति स्थितम् एतत् -- पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतो ऽनुमानतो वाप्रसिद्धिः निश्चय इति ।
तद् एवं प्रत्यक्षतः पक्षधर्मनिश्चयं ब्रुवता प्रसङ्गेन दर्शनपृष्ठभाविनो विकल्पस्य प्रामाण्यनिराकरणात् ।
प्रत्यक्षंकल्पनापोढम् [प्व् 2.123]
इति प्रतिपादितम् ।
[ सेच्तिओन्: 28. अनुमानप्राधान्यज्ञापनम् ।]
यद्य् एवं कस्माद् अनुमानव्युत्पादनार्थम् इदमारभ्यते [स्. 42ब्.] इत्य् उक्तम् न सामान्येन `सम्यग्ज्ञानव्युत्पादनार्थम्ऽ इति? । सङ्ख्यादिविप्रतिपत्तिर् अप्य् अत्र तद्विषया निरस्तैव । परोक्षार्थप्रतिपत्तेर् अनुमान[म् एवाश्र]यः । कस्माद्? यतः पक्षधर्म एव तदंशेन व्याप्त एव च हेतुः कारणं तस्याः, नान्य इत्य् अभिधानात् परोक्षार्थविषयं सर्वं प्रमणम् अनुमाने ऽन्तर्भावितम् इति सङ्क्सेपतः सङ्ख्याविप्रतिपत्तिः सम्यग्ज्ञानविषया निरस्ता । तथा, व्यापकांशस्य[174]गम्यत्वप्रतीतेः तदंशव्याप्तिवचनेन सामान्यविषयम् अनुमानं न स्वलक्षणविषयम् इत्य् आख्यातम् [त्. 232ब्.] तस्यासाधारणत्वात्, असाधारणस्य च व्यापकत्वायोगात्, विकल्पाविषयत्वाच् च । तत्र तदाद्यमसाधारणविषयम् इत्य् आचक्षाणेन स्वलक्षणविषयम् एव प्रत्यक्षम् उक्तम् । {प्. 40.1} दर्शनम् एव प्रमाणम् [ह्8]इत्य् आख्यानात् प्रमाणम् एव फलम् इति सूचितम्,
[स्. 43अ.] तस्यार्थप्रतीतिरूपत्वात् । तथा, तस्य द्विधा प्रयोग इति वक्ष्यमाणत्वात् परार्थानुमानं कथयिष्यते, तस्य त्रिरूपलिङ्गाख्यानरूपत्वात् । सङ्क्षेपतश् चानुमानव्युत्पादनम् अप्य् अभिमतम् । तच् च सर्वत्रास्त्य्[175]एवेति कस्मात् अनुमानव्युत्पादनार्थम् इत्य् उक्तम्[176]? ।
सत्यम्, प्राधान्यात् तु तद्ग्रहणम् । तथा हि -- प्रधानपुरुषार्थोपयोगिनस् तत्त्वस्य चतुरार्यसत्यलक्षणस्यानुमानत[177]एव निश्चयात् तस्य प्राधान्यम् । तथा प्रत्यक्षे ऽपि विषये विवादसम्भवे, नानुमानाद् अन्यन् निर्णयनिबन्धनम् इत्य् अतो ऽप्य् अस्य प्राधान्यम् । प्रवर्तकत्वाच् च प्राधान्यम् अस्य । तथा हि -- यदनुभूतफलं सुखदुःखसाधनम्, अनुभूयमानफलं वा दृश्यमानं न तत्प्रवृत्तिविषयो निष्पन्नत्वात् फलस्य । तस्माद् यदनागतफलं सुखदुःखसाधनं प्रत्यक्षम् अपि तत्राप्य् अनुमानम् एव प्रवर्तकम् । न हि तस्यानागते सुखदुःखे प्रति योग्यतां प्रत्यक्षं निर्द्धारयति, फलस्य [स्.43ब्.] परोक्षत्वात् । तदुक्तम् -- न ह्य् अप्रत्यक्षे कार्ये कारणभावगतिः इति ।
तस्मात् पूर्वानुभूतसुखदुःखसाधन[त्. 233अ.]साधर्म्यात् प्रत्यक्षविषयस्यापि वस्तुनो ऽनागतफलयोग्यतानिश्चयः न प्रत्यक्षतः । तथा चाह -- तद् [178] यथादृष्टसाधर्म्यात् [179] तथाप्रसाधितं [180] नानुमेयताम् अतिपतति इति । कथं तर्हि द्वयोर् अपि प्रवर्तकत्वम्? -- न ह्याभ्याम् अर्थंपरिच्छिद्य प्रवर्तमानो ऽर्थक्रियायांविसंवाद्यत इ त्य् उक्तम् । सुखदुःखसाधनस्य[181]जलानलादेः स्वरूपस्य प्रत्यक्षतः प्रसिद्धेः, फलम् अनागतं प्रति योग्यताया अनुमानत इत्य् उभयोर् अपि प्रवर्तकत्वम् । सम्यग्ज्ञानपूर्वकत्वं च हिताहितप्राप्तिपरिहारयोर् उक्तम् न त्व् अनागतफलं प्रति योग्यतायाः प्रत्यक्षतो ऽनिश्चयात् । [स्. 44अ.] न ह्य् अर्वाग्दर्शिनां भाविफलयोग्यतायास् ततो निश्चयः, ततः प्राधान्याद् अनुमानग्रहणम् इत्य् अलम् अतिविस्तरेणेति ।
__________नोतेस्__________
[174] अग्नि-
[175] प्रत्यक्षादौ
[176] `सङ्क्षेपेणैव प्रत्यक्षव्युत्पादनं न विस्तरतःऽ इत्य् आशङ्क्याह
[177] दुःख-समुदय-मार्ग-निरोधाः
[178] वस्तु
[179] अन्यत्र
[180] सुखदुःखहेतुतया
[181] उत्तरम्
{प्. 41.1}[ सेच्तिओन्: 29. स्वभावहेताव् अन्वयनिश्चयः स्वप्रमाणायत्तः ।]
तत्र स्वभावकार्यानुपलम्भानां पक्षधर्मनिश्चयस् तुल्योपायसाध्यतया ऽभेदेनैवोक्तः अन्वयव्यतिरेकनिश्चयस्य तु भिन्नोपायसाध्यतया भेदेनैव निर्द्देशः कार्य इति स्वभावहेतौ तावद् अन्वयनिश्चयं स्वप्रमाणनिबन्धनं दर्शयन्न् आह -- अन्वयनिश्चयो ऽपि न केवलं पक्षधर्मनिश्चय उक्तः किन्त्व् अन्वयनिशयो ऽपि स्वभावहेतौ उच्यत इति शेषः । साधनधर्म स्य यद् भावमात्रं सत्तामात्रं मुद्गरादिनिमित्तान्तरानपेक्षं तस्य अनुबन्धो अनुगमनं व्याप्तिः तस्य सिद्धिः या स स्वभावहेताव् अन्वयनिश्चयः । कस्य [त्. 233ब्.] साधनधर्मभावमात्रानुबन्धसिद्धिः? । साध्यधर्मस्य [स्. 44ब्.] साध्यश् चासौ असिद्धत्वात् धर्मधर्मिसमुदयैकदेशत्वात् धर्मश् चेति तथोक्तः । यत्र यत्र साधनधर्मस्य भावः तत्र तत्र साध्यधर्मस्यापि निमित्तान्तरानपेक्षो भाव इत्य् एतस्यार्थस्य सिद्धिः स्वभावहेताव् अन्वयनिश्चयः
। कथं पुनः साध्यधर्मः साधनधर्मभावमात्रम् अनुबध्नाति ।? तद्भावतया स साधनधर्मो भावः -- स्वभावो यस्य तस्य भावतया तद्भावतया । यो हि साधनधर्मः साध्यधर्मस्य स्वभावः स[182]कथं तं[183]नानुबध्नीयात्, नीरूपत्वप्रसङ्गात्? ।
__________नोतेस्__________
[182] साध्यधर्मः
[183] साधनधर्मम्
[ सेच्तिओन्: 30. स्वभावहेतावैक्येपि साध्यसाधनभावव्यवस्था ।]
ननु तत्स्वभावत्वे भेदाभावात् कथं साध्यसाधनभावः? इत्य् आह -- वस्तुतः परमार्थतः । साध्यसाधनसंकल्पकाले[184]तु परम्परया तत् तद्व्यावृत्तपदार्थनिबन्धनायां कल्पनाबुद्धौ [स्. 45अ.] भेदेन प्रतिभासनात् साध्यसाधनभावो न विहन्यते । न ह्य् असौ[185]पारमार्थिकं साध्यसाधनधर्मयोर् द्धर्मिणश् च कृतकत्वादौ भेदम् अवलम्भते[186], सम्बन्धाभावेन साध्यसाधनभावायोगात् ।
एकार्थसमवायः कृतकत्वानित्यत्वादेः सम्बन्धः इति चेत्; न, तस्यापि ततो[187]ऽर्थान्तरत्वे `अयम् अनयोर् अस्मिन्न् अर्थे समवायःऽ इति {प्. 42.1} सम्बन्धाभावस्य तदवस्थत्वात्, सम्बन्धान्तरकल्पनायां चानवस्थाप्रसङ्गात् । समवायाद् वृत्तिकल्पनायां च कृतकत्वादयो नित्याभिमतेष्व् अप्य् आत्मादिषु वर्तेरन् । य एव हि कृतकत्वादेः शब्दे समवायो [त्. 234अ.] यद्बलात् तत्रैव तद् वर्तते स एव नित्याभिमतेष्व् अपि, तस्यैकत्वेनोपगतत्वात् इत्य् आत्मादौ वृत्तिः कृतकत्वादेः केन निवर्येत? । अथ `य एवाभूत्वा भवनधर्मा भूत्वा चाभवनधर्मा ऽस्थिररूपो भावः तत्रैव कृतकत्वादयो धर्मा वर्तन्तेऽ इति व्यवस्थाप्यते । सैव तर्ह्य् अभूत्वा भवनस्वभावता भूतस्य चास्थिरस्वभावता तद्विपरीतरूपसमारोपव्यवच्छेदविषययायाः कल्पनाबुद्धेर् निबन्धनं किं नेष्यते? । [स्. 45ब्.] तयैव[188]परमार्थाभेदवतोर् द्धर्मयोः साध्यधर्मिणि वृत्तेः किम् अन्तरालगडुना कृतकत्वादिना
व्यतिरेकवता[189]उपगतेन? । तथा हि -- न सत्तामात्रेण कृतकत्वादयो धर्माः साध्यधर्मप्रतिपत्तिनिबन्धनम्, तेषां सदा सन्निहितत्वेनानवरतं तद्धर्मप्रतीतिप्रसङ्गात्, किन्तु विकल्पप्रतिभासिन एव । स च विकल्पः स्वप्रतिभासिनम्[190]एवाकारं बहीरूपतया ऽध्यवसितम् अनुसरन् कृतकानित्यादिरूपतां वस्तुनः प्रतिपद्यते, परमार्थतो ऽसंस्पर्शे ऽपि तद्रूपस्य[191], परम्परया तदुपादानत्वात् । व्यतिरिक्तास् तु धर्मास् तदुत्पत्तिनिमित्तमात्रतया[192]परिकल्प्यन्ते, तद् वरं यद्[193]एव तत्कल्पनानिबन्धनं[194]तद् एव तथाविधविकल्पप्रसवनिमित्तम् अस्तु, तस्यावश्यम्[195]अभ्युपगमनीयत्वात्, तदभ्युपगमे च चरितार्था व्यतिरेकवन्तो धर्मा इत्य् अलं तत्कल्पनया । अवश्यं च व्यतिरिक्ता ऽनित्यताद्वारेणापि वस्तुन एवानवस्थायिनम् आत्मानं प्रतिपद्यते(न्ते), [स्. 46अ.] [त्. 234ब्.] तदनुरूपार्थकृ(क्रि)य्[ह्9]आर्थितया[196]प्रवृत्तेः, अन्यथा[197]व्यतिरिक्ता ऽनित्यतया नित्यत्वात्[198]तदवगमार्थत्वेनायम् अनित्यसाध्यार्थक्रियार्थी[199]नित्यं
शब्दादिकम् आशङ्कमानः 3 किम् अनित्यताविचारं प्रति आहितास्थः[200]?[201]। {प्. 43.1} व्यतिरिक्तायां चानित्यतायाम् अवगतायां तत्रैव प्रवर्तताम्, किम् इति नित्ये शब्दात्मनि? । तद्वा(द्द्वा)रेण[202]प्रतिपत्तेः इति चेत्; तत् किम् अनेन व्यवधिना? । वरम् अव्यवहितस्यैव प्रतिपत्तिर् अस्तु, तेनैवार्थत्वाद् इति । तदेतद् अतिप्रचर्च्च्यमानम्[203]अतिगहनं सम्पद्यत इत्य् आस्तां तावत् ।
ये ऽपिजैमिनीयामन्यन्ते -- `येषाम् अत्यन्तव्यतिरेकवन्तो धर्माः तेषाम् एवायंनैयायिकादीनां दोषः, अस्माकं तु कथञ्चिद् भेदाभेदवतां धर्माणां तत्स्वभावतया नैष दोषःऽ इति; तेषाम् अपि वस्तुतः साधनधर्मरूपतोपगमे साध्यधर्मस्य, कथञ्चिद् भेदाभ्युपगमे न किञ्चित् [स्. 46ब्.] फलम् उत्पश्यामः, साध्यसाधनभावस्य कल्पितभेदद्वारेणाप्य् उपपत्तेः । न चैकात्म्ये कथञ्चिद् अपि भेदो युक्तः, एकस्मात् स्वभावाद् अभेदात् । ततो ऽपि तयोः कथञ्चिद् भेदाभेदौ स्त एवेति चेत्; न, अनवस्थाप्रसङ्गात् । तथा हि -- धर्मयोस् तदेकस्वभावाद्[204]अपि भेदवतोस् तेन स्वभावेन कथञ्चिद् अभेदनिमित्तम् अभिन्नो ऽपरः स्वभावो ऽभ्युपगन्तव्यः, तथा तेना ऽप्य् अपरः इत्य् अनन्तैव [त्. 235अ.] भिन्नाभिन्नस्वभावपरम्परा स्यात् । न च कल्पनाबुद्धाव् अनन्तोभयरूपस्वभावपरम्परा प्रतिभासत इति किम् इति तत्कल्पनया ऽऽत्मानं विप्रलभन्ते भवन्तः? । कथञ्चित् च भेदोपगमात्
कथं भेदपक्षभाविनां दोषाणां अनवसरः? । यं चात्मानं पुरोधाय `इमौ धर्माउ, अयं धर्मीऽ इति व्यवस्थाप्यते[ह्10]यदि तेन भेदस् तदा भेद एवेति कुतो ऽनेकान्तवादः? । अथाभेदः; तदा `अयं साधनधर्मः, अयं साध्यधर्मः, धर्मी चायम्ऽ इति कथं पारमार्थिकं तृ(त्रि)तयं सिध्येत्? । [स्. 47अ.] तस्मात् तत्तत्पररूपव्यावृत्तिसमाश्रयायां कल्पनाबुद्धौ भेदवताम् इव धर्मधर्मिणां प्रतिभासनात् साध्यसाधनभावः । तन्मात्रानुबन्धस् तु वस्तुतः तत्तत्स्वभावतयैव युक्तः इति मन्यमानेन वस्तुतस् तद्भावतया इत्य् उक्तम् ।
__________नोतेस्__________
[184] -धनविकल्प- -- त्.
[185] साध्यसाधनभावः
[186] श्रयते
[187] कृतकत्वानित्यत्वाभ्याम्
[188] [अ] भूत्वा भवनादिस्वभावतया
[189] भिन्नेन
[190] परिच्छेद्यवस्तुन्य् अविद्यमानम्
[191] वस्तु-
[192] विकल्पोत्पत्तिनिमित्तमात्रतया
[193] अभूत्वा भवनादिकम् ।
[194] तेषां कृतकत्वादीनां प्रतिनियते शब्दादौ वृत्तिकल्पनाया निबन्धनम्
[195] अभूत्वा भवनादिकस्य
[196] अनित्यस्वभावानुरूपार्थक्रियार्थितया
[197] स्वभावभूतधर्मानभ्युप्गमे
[198] शब्दादेः
[199] नित्यशब्दाद्यवगमार्त्थित्वे[न]
[200] आहिता आस्था येन । कृतयत्न इत्य् अर्थः
[201] किं अनित्यताव्यापारं प्रति अहितं करोति? -- त्.
[202] अनित्यताद्वारेण
[203] प्रपञ्च्यमा- -- त्.
[204] न केवलं धर्मिणः
{प्. 44.1}[ सेच्तिओन्: 31. बाधकप्रमाणाद् एव स्वभावहेतौ साध्यसाधनतादात्म्यम् ।]
का पुनर् असौ वस्तुतस् तद्भावता यया हेतुभूतया साध्यधर्मस्य साधनधर्मभावमात्रानुबन्धः सिध्यति? इत्य् आह -- सा वस्तुतस् तद्भावता साध्य स्य विपर्ययो विपक्षः तत्र, हेतोः यद् बाधकंप्रमाणं तद्विपरीतधर्मप्रत्यवस्थापकम्[205], येन[206]बाध्यमानो हेतुस् तत्र न प्रवर्तते, विरुद्धयोर् एकत्र सहभावासम्भवात्, तस्य या वृत्तिः प्रवृत्तिः बाधकप्रमाणवृत्तिः तत्साध्यत्वाच् च वस्तुतस् तद्भावतायाः सा बाधकप्रमाणवृत्तिर् उक्ता । तस्यां हि सत्यां [त्. 235ब्.] विपक्षाट् निवृत्तो हेतुः साध्यधर्मवत्य् एव धर्मिणि वर्तत इति साध्यधर्मस्यानर्थान्तरस्य साधनधर्मस्वभावता सिध्यति । तयाच वस्तुतस् तद्भावतया साधनधर्मभावमात्रानुबन्धः साध्यधर्मस्य सिध्यतीति [स्. 47ब्.] अन्वयनिश्चयः `यत्र यत्र साधनधर्मस् तत्र साध्यधर्मःऽ इत्य् एवं रूपो जायते ।
अत्रोदाहरणं यथा-- यत् सत् तत् क्षणिकम् एव । अवधारेन व्याप्तिम् आह । साधनधर्मभावमात्रानुबन्धनस्य चैतद्रूपम् आख्यातं, निमित्तान्तरम् अन्तरेण सत् इत्य् एव कृत्वा क्षणिकम् इत्य् उपदर्शनात् । स च वस्तुतस् तद्भावतया सिध्यतीति तत्सिद्ध्युपायं बाधकप्रमाणवृत्तिं दर्शयति -- अक्षणिकत्वे क्षणिकविपर्यये सति अर्थक्रियाविरोधात् अर्थस्य -- कार्यस्य क्रिया -- निष्पत्तिस् तस्या विरोधात् तल्लक्षणं सा ऽर्थक्रिया लक्षणं यस्य वस्तुत्वस्य अर्थक्रियासामर्थ्यात्मनः, तत् तथोक्तम् । अर्थक्रिया हि तत्सामर्थ्यरूपं वस्तुत्वं लक्ष्यते । तद् एवं विधं वस्तुत्वं हीयते निवर्तते, तद्विपर्ययरूपस्यासत्त्वस्या ऽऽकर्षणात् । एतच् च बाधकं प्रमाणं व्यापकानुपलब्धिरूपम् उत्तरत्रावसरप्राप्तं स्वयम् एव वक्ष्यति । तदनया बाधकप्रमाणवृत्तया साध्यधर्मस्य [स्. 48अ.] वस्तुतः साधनधर्मस्वभावता सिध्यति । तया च वस्तुतस् तद्भावतया
साधनधर्मभावमात्रानुबन्ध इति ।
__________नोतेस्__________
[205] सत्वा(त्त्वा)ख्यहेतुविपरीतासत्व(त्त्व)-
[206] येन साध्य- -- त्.
{प्. 45.1}[ सेच्तिओन्: 32. कार्यहेताव् अन्वयनिश्चयनिरूपणम् ।]
एवं स्वभावहेतौ [त्. 236अ] विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धितो ऽन्वयनिश्चयं प्रतिपाद्य कार्यहेतौ प्रतिपादयन्न् आह -- कार्यहेतौ अन्वयनिश्चयः इति प्रकृतम् । कः पुनर् असौ कार्यकारणयोर् भावः? । {1} कार्यत्वं {2} कारणत्वं च । तस्य या सिद्धिः प्रतीतिः सा कार्यहेताव् अन्वयनिश्चयः । यथा च कार्यकारणभावसिद्धिर् भवति तथोपदर्शयन्न् आह -- यथा इत्यादि । यथाशब्द उपदर्शनार्थः[207]। इदं धूमादिकम् अस्य अग्नेः उपलम्भे सति उपलभ्यत इति सम्बन्धः । अनेन कार्यकारणभावसिद्धौ प्रत्यक्षव्यापारम् आह । न च केवलं प्रत्यक्षं कार्यकारणभावम् असन्दिग्धं साधयति, किन्तु प्राक्प्रवृत्तानुपलम्भसहायम् इति [स्. 48ब्.] दर्शायितुम् आह -- उपलब्धिलक्षणप्राप्तम् अनुपलब्धम् इति । यदि तद् धूमादिकम् उपलब्धिलक्षणप्राप्तं सत्स्व् अन्यै(न्ये)षूपलम्भप्रत्ययेषु
दृश्यात्मकं सत् नोपलब्धं भवति अग्न्यादिसामग्रीसन्निधानात् प्राक् तादात्म्यादि(तदग्न्यादि)सामग्र्याम् उपलभ्यमानायाम् उपलभ्यमानं तत्कार्यं सिध्यति । न तूपलम्भप्रत्ययान्तर्वैकल्याद् अनुपजातोपलब्धियोग्यरूपं सत्, तद्देशसन्निहितम् अप्य् अनुपलब्धिलक्षणप्राप्ततयाग्न्यादिसामग्री सन्निधानात् प्रागनुपलब्धम् इति । उपलब्धिलक्षणप्राप्तस्य चानुपलम्भेनाग्न्यादिसामग्री सन्निधानात् प्रागन्यता आगमनं, तद्देशकालसंन्निहितात् कटकुट्या[त्. 236ब्.]देर् उत्पत्तिः, तद्देशे चा ऽसन्निधानम् इति, त्रितयम् अपाक्रियते । एतावद्भिश् च प्रकारैर् अतत्कार्यता भवन्ती भवेत् । ततो ऽनुपलम्भेना ऽतत्कार्यताशङ्कानिरासाद् तद्भावे भावग्राहिप्रत्यक्षनिबन्धनः कार्यकारणभावो ऽसन्दिग्धः [स्. 49अ.] सिध्यति ।
न चाग्नीन्धनादिभावे नियतसन्निधेर् अदृश्यात्मनः कुतश्चित् धूमस्य भावः स्यात् इत्य् आशङ्कनीयम् । अग्नीन्धनादिभेदानुविधानाद् धूमस्य । चन्दनागुरुकर्पूरकेशोर्णादीन्धनभेदे तदनुरूपभेदस्यास्य दर्शनाद् अल्पमहदिन्धनविकारकारिणश्चाग्नेस् तदनुरूपस्य[208]। न चाग्नीन्धनादिसन्निधाव् अदृश्यात्मनो नियतसन्निधानता युक्ता, {प्. 46.1} प्रतिबन्धाभावात् । प्रतिबन्धे वा तत्कार्यता[209]तत्कारणता वा स्यात् । तत्कार्यत्वे, नाग्नीन्धनसम्पर्क्कानन्तरं धूमजन्म स्यात्, तद्भावाभावानुविधानाद् एव चास्यापि तत्कार्यत्वम् । तच् च धूमे ऽपि समानम् । नापीन्धनादिकारणत्वम् अदृश्यात्मनः, इन्धनादेः स्वहेतोर् एव वृक्षादेर् भावदर्शनात् । तत्रापि तथाभावकल्पनायां[210]तद् एवोत्तरं वाच्यम् । पुनश् चोद्ये स एव परिहारो ऽनवस्था च । एतेनैकसामग्र्यधीनता ऽपि प्रत्युक्ता । तदन्वयव्यतिरेकानुविधानाद् एव च धूमस्य तत्[211]कारणं कल्पेत
। तच् चाग्न्यादाव् अपि तुल्यम् । तद् अपि तत्र कारणम् अस्तु इति चेत्; न, अग्न्यादिभावे ऽवश्यम् भाविनो ऽन्यस्यापि कारणत्वकल्पनायां निमित्ताभावात्, कार्यव्यतिरेकनिबन्धनत्वात् [स्. 49ब्.] कारणभावकल्पनायाः । तथा अग्नीन्धना[त्. 237अ.]देर् एवान्यतराभावे अभवतः[212][ह्11]। भवतु वा ऽन्यस्यापि तद्भावे नियतसन्निधेः कारणता । न तु तावताग्न्यादेः कारणत्वहानिः, यतो धूमदर्शनात् तन्निश्चयेन प्रवृत्तौ तद्विसंवादः स्यात् । न हि सर्वसत्त्वकर्माधिपत्यजनितत्वे ऽपि जगद्वैचित्र्यस्य दृष्टकारणहानितस् तत्कार्यदर्शनाद् वा प्रवृत्तानां अतत्प्राप्तिर् इत्य् अलम् अतिप्रसङ्गेन ।
किं रूपः पुनर् असौ कार्यकारणभावो ऽनुपलम्भसहाय प्रत्यक्षनिबन्धन इत्य् आह -- तद्भावे भावःतदभावे ऽभावश्च इति । य[213]एव हि 7 कारणाभिमतस्य[214]भावे[215]भाव एव । कार्यत्वेनाभिमतस्य[216]भावः । तदभावे कारणत्वाभिमतस्या ऽभावे अभाव [217] एव कार्यत्वेनाभिमतस्याभावश् च । स एव कार्यकारणभावो नान्यः ।
स हि ताभ्याम् अन्यो भवन् स्वभावतो ऽप्रतिपन्नकार्यकारणरूपयोर् वा भवेद्, यद्वा स्वभावेनैव कार्यकारणात्मनोः । यद्याद्यः पक्षः तदा सर्वत्रैवाकार्यक(का)रणभूते ऽपि वस्तुनि [स्. 50अ.] भवेत् तन्नियमकारणाभावात् । ततः सर्वं सर्वस्य कार्यं स्यात् । {प्. 47.1} स्वभावेन चातद्रूपस्यान्ययोगे ऽपि न तद्रूपता । न हि भावाः प्रतिनियतरूपत्यगेनान्ययोगे ऽपि रूपान्तरमाभजन्ते, यतो नान्ययोगस् तेषां पूर्वरूपं नाशयति विनाशहेत्वयोगाद् वक्ष्यमाणकात् । ना ऽप्य् अपूर्वम् उत्पादयति तस्य ततो ऽर्थान्तरत्वप्रसङ्गात् । न हि तेषु निष्पन्नेष्व् अनिष्पन्नो भिन्नहेतुको वा तत्स्वभावो युक्तः । अयं हि भेदो [त्. 237ब्.] भेदहेतुर् वा विरुद्धधर्माध्यासः कारण भेदश् च । ततश् चेत् न भेदः, अन्यनिमित्ताभावात् एकं द्रव्यं विश्वं स्यात् इत्यादि प्रसज्येत । प्रतिभासभेदो ऽपि हि इतरेतराभावरूपतया विरुद्धधर्माध्यासतां नातिक्रामति । ततश् च पूर्वके वस्तुनी
[स्. 50ब्.] तदवस्थे एवेति न तयोर् अन्ययोगे ऽपि कार्यकारणरूपतापत्तिः ।
अथ द्वितीयः पक्षः, तदा स्वभावत एव तयोः कार्यकारणरूपत्वाद् अन्यस् तद्भावः कथं न वैयर्थ्यम् अनुभवेत्? । कार्यकारणबुद्धी अपि तद्भावभावित्वमात्रनिबन्धने नार्थान्तरनिमित्ते, तस्योपपलब्धिलक्षणप्राप्तस्य[218]कार्यकारणरूपविवेकिना रूपान्तरेणाप्रतिभासनात् । तथाविधास्यापि[219]ग्रहणकल्पनायाम् अतिप्रसङ्गः । अनुपलब्धिलक्षणप्राप्ततायां[220]कथं कार्यकारणभावबुद्धी तन्निबन्धने? । न हि तद् अर्थान्तरं स्वसत्तामात्रेण तद्बुद्धी प्रवर्तयति । सदा सन्निहितत्वेनास्य तयोः सर्वदोदयप्रसङ्गात् । न च विशेषणम् अगृहीतं [स्. 51अ.] विशेष्ये स्वविशिष्टप्रत्ययनिबन्धनम् इत्य् अयुक्ता ऽस्यानुपलब्धिलक्षणप्राप्तता । न च दृष्टस्याप्य् अनुपलक्षणं युक्तम्, कार्यकारणबुद्ध्योस् तन्निबन्धनतोपगमात् । न हि यन्निमित्तो यो ऽन्यत्रातद्बुद्धिभाजि तद्व्यवसायः स तदनुपलक्षणे[221]युक्तः । देवदत्ते 2 दण्डिव्यवसायवद्
दण्डानुपलक्षणे । न चार्थान्तरस्य कार्यकारणाभ्यां सम्बन्धो घटते, सम्बन्धान्तरकल्पनायाम् अनवस्था[त्. 238अ.]प्रसक्तेः । कार्यकारणभावाभ्युपगमे कार्यकारणाभ्याम् असहभाविता सद्भावस्य । ततश् च कार्यकारणकाले तस्यासन्निधानात् कथं {प्. 48.1} कार्यकारणबुद्धिहेतुता? । निरुद्धयोर् अध्याहृत्य[222]तत्प्रत्ययकल्पनायां[223]च कल्पितविषय एव कार्यकारणताध्यवसायः स्यात् न वस्तुविषयः । स च विशिष्टभावाभावनिबन्धनो ऽभ्युपगत एवेति किम् अर्थान्तरकल्पनया? । कल्पितविषयत्वे तद्व्यवसायस्य[224], तस्या[225]वैयर्थ्यात् कार्यकारणयोश् चायौगपद्यात् । न हि [स्. 51ब्.] ताभ्याम् असौ जन्यते, प्रत्येकजन्यश् च कथं कार्यकारणभावः? । यदा च कारणेन जन्यते तदा किं स्वकार्यसहितो जन्यते, अथ केवलः? । केवलो ऽपि किं स्वकार्यात् प्राग्, अथ पश्चात्? । यदि स्वकार्यसहितस् तदु(दो)भयोर् अन्यत एव भावात् परस्परम् असम्बन्ध इति कार्यसम्बन्धिता ऽस्य हीयेत । अथ
केवलः स्वकार्यात् प्राक्; तदा क्षणिकतया कारणस्य तम्[226]एव जनयित्वा ध्वंसात् कथं स्वकार्यक्रिया? । तस्यां चासत्यां कथं तदपेक्षम्[227]अस्य कारणत्वम्? । तस्मिंश् चासति कथम् अकारणेन कार्यकारणसम्बन्धो जन्यते? । अथ स्वकार्यं कृत्वा पश्चाज् जन्येत तदा ऽपि स्वकार्यकाले एव विनष्टत्वाद् असतस्तदुत्तरकालभाविकार्यकारणभावजननं कुतः? । तद्भावश्[228]च सम्बन्ध उच्यते ।
[स्. 52अ. अन्द् स्. 52ब्.] .............................................................................................. ...................................................................................................................................................................................................................................................................................................................... ................................................................ ................................................................................................................................................................................................................................................................ [स्. 53अ.] जन्यतायां वा यदि समग्राः स्वरूपत एव तां जनयन्ति कार्ये क एषां शक्तिव्याघातः? यतो ऽन्यत्र[229]कल्प्यते । तत्राप्य् अपरसामग्री योगापेक्षायां चानवस्थाप्रसङ्गः । ततः समग्रा [त्. 239अ.] एव जनकाः ।
तेषां च कारणत्वम् एकैकापाये कार्यव्यतिरेकतः समुन्नीयत इत्य् आह -- सत्स्व् अप्य् अन्येषु तत्सामग्र्यन्तर्ग्गतेषु हेतुषु जनकेषु {प्. 49.1} प्रत्येकं तेषां व्यञ्जनकत्वाद्[230] अस्याभावे जनकत्वेन निर्द्धार्यमाणतया विवक्षितस्याभावे न भवति इत्य् अनेनानुपलम्भस्य विषय उक्तः । प्रत्यक्षवृत्तिस् तु पूर्वोक्तैवा ऽनुपलम्भरहिता तद्भावे भावग्राहिणी संबन्ध्यते ।
तथा चायम् अपि तद्भावे भावः तदभावे ऽभावश् च कार्यकारणभावः किं साधनः? इत्य् आह -- प्रत्यक्षानुपलम्भसाधनः प्रत्यक्षपूर्वको ऽनुपलम्भः तद्विविक्तान्यपदार्थग्राहिप्रत्यक्षात्मकः साधनम् अस्येति प्रत्यक्षानुपलम्भसाधनःकार्यकारणभावः । यस् त्व् अनुपलम्भसापेक्षेण [स्. 53ब्.] प्रत्यक्षेण साध्यत इति प्रागुक्तः सो ऽनुपलम्भपूर्वकं प्रत्यक्षं साधनम् अस्येति अनुपलम्भप्रत्यक्षसाधन इति वक्तव्यः । तस्य कार्यकारणभावस्यान्वयव्यतिरेकात्मनः सिद्धिः निश्चयो यथोक्ताभ्यां प्रत्यक्षानुपलम्भाभ्यां कार्यहेताव् अन्वयनिश्चय इति सम्बध्यते ।
ननु चान्वयनिश्चयो नाम कार्यहेतोः सर्वत्र कार्यस्य भवतः स्वकारणसत्तया ऽनुगमनम् 1 इत्य् एवम् अवसायः तत्[231]कथं कार्यकारणभावसिद्धिर् एवा ऽसाव्[232]उच्यते? इत्य् आशङ्क्य कार्य[त्.239ब्.]कारणभावसिद्धिनिबन्धनत्वाद् अन्वयनिश्चयस्य कारणे कार्योपचाराद् अनन्योपायसाध्यतां दर्शयितुम्, दर्शनमात्रनिबन्धनं ये तम् इच्छन्ति तन्मतनिषेधार्थम् असाव् एवम् उक्त इति दर्शयन्न् आह -- कार्यकारणभाव एव हि कार्यकारणभावे सत्य् एव हि यस्मात् अर्थान्तरस्य साध्याद् व्यतिरिक्तस्य, यस् त्व् अव्यतिरिक्तः [स्. 54अ.] तस्य विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यनिश्चयाद् एवान्वयनिश्चय इति पूर्वम् उक्तम् एवेत्य् अर्थान्तरग्रहणम् । तस्यार्थान्तरस्य एवंस्यात् । कथम्? । `यत्र नाम क्वचिद् धूमः तत्रावश्यम् अग्निःऽ इति नियमेन `अग्नेः तत्र भावःऽ इत्य् एवं रूपो ऽन्वयनिश्चयः । यस् त्व् अकार्यकारणभावे ऽपि रसस्यार्थान्तरस्य रूपेणान्वयनिश्चयः
स एकसामग्र्यधीनतया तस्य[233]स्वकारणव्यभिचारद्वारक एवेत्य् अदोषः ।
{प्. 50.1} अथ यदि नाम कार्यम् अग्नेर् धूमस् तथापि किम् इति यत्रासौ तत्रावश्यम् अग्निर् भवति यतः कार्यकारणभावसिद्धिनिबन्धनो ऽन्वयनिश्चय उच्यत इत्य् आह -- अग्नेःभावे एव सत्तायाम् एव हिः यस्मात् भावः सत्ता धूमस्य कार्यत्वम् इति । तस्मात् कार्यकारणभावे सत्य् एव यथोक्तो ऽन्वयनिश्चय इति । यदि हि यत्र धूमस् तत्रावश्यम् अग्निर् न स्यात् तदा ऽग्निम् अन्तरेणाप्य् अस्य भावाद् अग्निभाव [स्. 54ब्.] एव भावलक्षणं कार्यत्वं हीयेत ।
__________नोतेस्__________
[207] उपलक्षणार्थः -- त्.
[208] अल्पमहदिन्धनरूपस्य
[209] तेषाम् अग्न्यादीनां तददृश्यात्मकं वस्तु कार्यम्
[210] वृक्षादिभ्यो ऽपीन्धनाद्युत्पत्तिकथने ऽदृश्यात्मन एव कस्यचित् कारणत्वकल्पनायाम्
[211] अदृश्यं
[212] धूमस्य
[213] अवधारणगर्ब्भम् इदं वाक्यम् इति तथैव व्याख्याति
[214] वह्नेः
[215] न पुनरकारणाभिमतस्य भावे
[216] धूम-
[217] न पुनरकारणाभिमतस्याभावे
[218] तस्योपलब्धिलक्षणप्राप्तत्वं स्यात् तद्विपर्ययो वा । तत्राद्ये आह
[219] रूपान्तरेणाप्रतिभासमानस्य
[220] द्वितीये आह
[221] युक्तः दण्डेन दण्डिव्यवसायाभावे देव- -- त्.
[222] -योर् आरोप्य -- त्.
[223] कार्यकारणबुद्धिहेतुत्वकल्पनायाम्
[224] कार्यकारणभाव-
[225] अर्थान्तरकल्पनायाः
[226] सम्बन्धं
[227] कार्य-
[228] कार्यकारण-
[229] सामग्र्याम्
[230] व्यञ्जक- -- त्.
[231] इत्य् एवं साधनावसरः तत् -- त्.
[232] अन्वयनिश्चयः
[233] रस्य (रसस्य)
[ सेच्तिओन्: 33. अनुपलब्धाव् अन्वयनिश्चयोपायकथनम् ।]
इदानीम् अनुपलब्धाव् अन्वयनिश्चयम् आह -- अनुपलब्धाव् अपि [त्. 240अ.] न केवलं स्वभावकार्यहेतो(त्वो)र् अन्वयनिश्चय उक्तः किन्त्व् अनुपलब्धाव् अप्य् अन्वयनिश्चय उच्यते । किं रूपो ऽसौ? इत्य् आह -- असदव्यवहारस्य साध्यधर्मस्य योग्यतायाश् च साध्यत्वात् तद्योग्यता ऽसद्व्यवहारो ऽभिप्रेतः, तस्य, उपलब्धिलक्षणप्राप्तस्य या अनुपलब्धिः तदन्योपलब्धिरूपा त न्मात्रे निमित्तान्तरानपेक्षणी, या वृत्तिः प्रवृत्तिर् असद्व्यवहारस्य तस्याः साधनं सिद्धिः अनुपलब्धाव् अन्वयनिश्चयः । कुतः पुनर् असद्व्यहारस्य तन्मात्रे वृत्तिर् भवति? इत्य् आह -- निमित्तान्तराभावोपदर्शनात् इति । यदा ह्य् असद्व्यवहारस्य यथोक्तानुपलब्धिव्यतिरिक्तं बुद्धिव्यपदेशार्थक्रियाविरहादिकं निमित्तं न भवतीति [स्. 55अ.] साध्यते तदा यथोक्तानुपलब्धिमात्रे ऽस्य वृत्तिः सिद्धा भवति । तथा(तया)[234]चानुपलब्धाव् अन्वयनिश्चयः । अन्यथा हि निमित्तान्तरापेक्षाशङ्कायां
सत्याम् अपि यथोक्तानुपलब्धौ नावश्यम् असद्व्यवहारस्य भाव इति कुतो ऽन्वयनिश्चयः स्यात्? । निमित्तान्तराभावस् तु विस्तरतोवादन्याय उक्त इति तत एवावधार्यः ।
अथवा सद्व्यवहारस्य यन्निमित्तम् उपलब्धिलक्षणप्राप्तस्य सत्त्वम् तद् असद्व्यवहारनिमित्ताद् अन्यत्वात् निमित्तान्तरं तत्रानुपलब्धेर् अभाव उपदर्श्यते येन प्रमाणेन तद् एवम् उक्तम्, तेन, सति वस्तुनि तस्या [त्. 240ब्.] असम्भवनिश्चयाद् अनुपलब्धाव् अन्वयनिश्चयः । तच् च तद्व्यतिरेकचिन्तायां दर्शयिष्यामः ।
{प्. 51.1} तद् एवं त्रयाणाम् अपि हेतूनां तथास्वं प्रमाणेनान्वयविनिश्चय उक्तः । स्वभावहेतौ विपर्यये बाधकप्रमाणवृत्त्या तादात्म्यसिद्धिनिबन्धनत्वात्, कार्यहेतौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धिनिमित्तत्वात्, [स्. 55ब्.] अनुपलब्धौ निमित्तान्तराभावप्रसाधकमाणतस्तदभावसिद्धिहेतुत्वाच् चेति ।
__________नोतेस्__________
[234] तदा च -- त्.
[ सेच्तिओन्: 34. कार्यस्वभावयोर् व्यतिरेकनिश्चयोपायकथनम् ।]
सम्प्रति त्रयाणाम् अपि हेतूनां स्वस्वप्रमाणनिबन्धनं व्यतिरेकनिश्चयं प्रतिपादयितुकाम आह -- व्यतिरेकनिश्चयो ऽपि न केवलम् अन्वयनिश्चयो यथास्वं प्रमाणनिबन्धनस् तयोर् उक्तः अपि तु व्यतिरेकनिश्चयो ऽपि कार्यस्वभावहेत्वो र् यथास्वं प्रमाणनिमित्त उच्यते ।
कः पुनर् असौ? साध्याभावे ऽभावसिद्धिः । याव् अतदात्मक[तदात्मकौ हेतू कारणव्यापकरूपसाध्यस्य साधकौ] साध्याभावे चाभावसिद्धिस् तयोः । केन प्रमाणेन? । कारणव्यापकानुपलब्धिभ्यां । कार्यहेतौ कारणानुपलब्ध्या साध्याभावे ऽभावनिश्चयः । स्वभावहेतौ व्यापकानुपलब्ध्या । कदा पुनस् ते ऽनुपलब्धी साधिके तस्य भवतः? । कार्यकारणव्याप्यव्यापकभावसिद्धौ प्रत्यक्षानुपलम्भाभ्यां कार्यकारणभावसिद्धौ सत्यां कारणानुपलब्धिः कार्यहेतौ साध्याभावे ऽभावस्य साधिका, विपर्यये च बाधकप्रमाणवृत्त्या तद्भावतासिद्धितो । व्याप्यव्यापकभावसिद्धौ सत्यां [स्. 56अ.] [त्. 241अ.] व्यापकानुपलब्धिः स्वभावहेतौ साध्याभावे ऽभावस्य साधिकेति । तद् एवं ब्रुवता उभयत्र तादात्म्यतदुत्पत्तिलक्षणप्रतिबन्धनिश्चयाद् एव द्वयोर् अप्य् अन्वयव्यतिरेकयोः निश्चय इति उक्तं भवति । अत एवान्यत्र -- कार्यकारणभावाद्
वा [प्व् 3.30] इत्यादि उक्तम् । कीदृशीभ्यां? दृश्यविषयाभ्यां दृश्यो विषयो ययोस् ते तथोक्ते । यदि कारणव्यापकाव् उपलब्धिलक्षणप्राप्तौ भवतस् तदा तदनुपलब्धी साध्याभावे ऽभावं साध्यत इति यावत् । कदा पुनस् तयोः दृश्यविषयताविशेषणम् अपेक्ष्यते? इत्य् आह -- उद्दिष्टविषयस्य उद्दिष्टः -- कथितो विषयः -- आधारो वैधर्म्यदृष्टान्तलक्षणो यस्य साध्याभावे ऽभावस्य तस्योपदर्शने क्रियमाणे । {प्. 52.1} तत्रापि कस्माद् दृश्यविषयता ऽपेक्ष्यते? इति चेत् आह -- अनुपलब्धि इत्यादि । अन्यथा यदि दृश्यविषयताविशेषणम् अनुपलब्ध्योर् नापेक्ष्यते । यदा ऽनुपलब्धिलक्षणप्राप्तं [स्. 56ब्.] विषयं वैधर्म्यदृष्टान्तरूपम् उपादत्ते तदा ऽनुपलब्धिलक्षणप्राप्तौ तत्र कारणव्यापकाव् अपि भवत इति अनुपलब्धिलक्षणप्राप्तस्य कारणस्य व्यापकस्य वा क्वचिद् विप्रकृष्टे विषये सुमेर्वादौ अभावासिद्धेह्
कथमाभ्यां साध्याभावे ऽभावसिद्धिः स्यात्, कारणव्यापकानुपलब्ध्योर् एवासिद्धत्वात् इत्य् अभिप्रायः ।
अथानुद्दिष्टविषयस्याप्य् अभावस्योपदर्शने ऽनुपलब्ध्योर् दश्यविषयताविशेषणं किम् इति नापेक्ष्यते? इत्य् आह -- अनुद्दिष्टविषयम् [त्. 241ब्.] अनुद्दिष्टो विषयः -- वैधर्म्यदृष्टान्तरूपो यस्मिन् साध्याभावे हेत्वभावख्यापने तत् प्रतिबन्धमात्रसिद्धौ सत्यां दृश्यविषयताविशेषणम् अन्तरेणापि यस्मात् सिध्यति इति तस्मात् न तत्र अनुद्दिष्टविषये व्यतिरेकसाधने अनुपलब्ध्योर् दृश्यविषयताविशेषणम् अपेक्ष्यते अङ्गीक्रियते । [स्. 57अ.] तथा हि -- अशेषपदार्थपरिग्रहेण सामान्येनापि ब्रुवतो यो यत्र प्रतिबद्धस्वभावः तादात्म्यतदुत्पत्तिभ्यां स तदभावे ऽवश्यम् एव न भवतीति निःस्वभावत्वा ऽहेतुकत्वप्रसङ्गात् । तदुक्तम् -
स्वभावे ऽप्य् अविनाभावो भावमात्रानुरोधिनि ।
तदभावे स्वयंभावस्याभावःस्याद् अभेदतः॥ [प्व् 3.38]
तथा -- कार्यंधूमो हुतभुजःकार्यधर्मानुवृत्तितः।
स भवंस् तदभावे ऽपि हेतुमत्तांविलङ्घयेत् ॥ [प्व् 3.33] इति ।
ततस् तत्र दृश्यविषयताऽपेक्ष्यमाणानुपकारिकैवेति न तया किञ्चिद् इति भावः ।
प्रतिबन्धमात्रसिद्धौ इत्य् अनेन ये प्रतिबन्धं हेतोर् न वर्णयन्ति किन्त्व् अदर्शनमात्राद् एव व्यतिरेकम् आहुस् तेषां तदसम्भवं च दर्शयति । तथा हि -- असति प्रतिबन्धे यदि सर्वे साध्यविरहिणो ऽर्था दृश्या भवन्ति तदा तेष्व् अनुपलब्धस्य साधनस्याभावः शिष्येत्(त) । तद् आहकुमारिलो ऽपि -- {प्. 53.1}
गत्वागत्वातु तान् देशान् यद्य् अर्थो नोपलभ्यते ।
तदान्यकारणाभावाद् असन्न् इत्य् अवगम्यते ॥
[श्वर्था- 38] इति ।
देशादिविप्रकर्षितया[235]त्व् अदृश्यत्वे सत्य् अपि तत्र[236][स्. 57ब्.] हेताव् अनुपलम्भमात्रस्य सम्भवात् सन्दिग्धो ऽसाव् ऽशेषे साध्याभावे साधनाभावलक्षणो व्यतिरेकः तथाविधस्यैव[237]यत्र यत्र साध्याभावः [त्. 242अ.] तत्र तत्र साधनाभाव इति वीप्सापदाभ्याम् अभिधानात् । अन्वयनिश्चयो[238]ऽपि प्राक् प्रतिबन्धनिबन्धन एव वर्णितः ततस् तेनापि[239]परेषां दर्शननिबन्धनाम्[240]अन्वयसिद्धिम् इच्छताम् अभावो ऽस्यापि[241]कथित एव, सर्वार्थानां हेतुमतां साध्यधर्मवत्तया द्रष्टुम् अशक्यत्वाद् अनुमातृभिः । अशेषदेशादिविषयस्य च साध्यानुगमस्य यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वीप्सया प्रतिपादनात् । न च कतिपयदेशादौ साधनधर्मस्य साध्यधर्मेण सहभावस्य भूयो दर्शने ऽपि व्याप्तिः सिध्यति, असति प्रतिबन्धे क्वचिद् बहुलं तथादृष्टानाम् अप्य् अन्यथा त्व् अस्यापि सम्भवात्, तदसम्भवे[242]बाधकप्रमाणाभावात् ।
__________नोतेस्__________
[235] ननु यो ऽपि न दृश्यास् तेष्व् अदर्शनम् अस्ति, अतो ऽदर्शनाद् एव सर्वत्र व्यतिरेकनिश्चयः इत्य् आह
[236] साध्ये
[237] अशेषसाध्याभावे साधनाभावलक्षणस्य
[238] दृश्ये ऽदृश्ये च
[239] प्रतिबन्धनिबन्धनेनान्वयेन
[240] दर्शनमात्रनि- -- त्.
[241] अन्वयस्य
[242] अन्यथा त्व् -
[ सेच्तिओन्: 35. अनुपलब्धौ व्यतिरेकनिश्चयोपायकथनम् ।]
अनुपलब्धिम् अधिकृत्याधुना ऽऽह -- व्यतिरेकनिश्चयो ऽनुपलब्धौ उच्यत इति शेषः । [स्. 58अ.] किम् आत्मको ऽसौ? इत्य् आह -- उपलब्धिलक्षणप्राप्ताद् विद्यमानोपलम्भप्रत्ययान्तराद् 1 दृश्यस्वभावाच् च[243] सतः विद्यमानात् साध्याभावरूपाद्[244] अनुपलम्भस्य तद्विविक्तोपलम्भात्मनो यो ऽभावः सतो यद्ग्राहकं प्रत्यक्षं तद्भावलक्षणस् तस्य दर्शनं दर्श्यते -- प्रत्याय्यते ऽनेनेति दर्शनम् उपदर्शकं प्रमाणं तदात्मको ऽनुपलब्धौ व्यतिरेकनिश्चयः । तद्धेतुत्वाच् च तत् प्रमाणं तथोच्यते[245]। यदि हि सन्निहितान्योपलम्भप्रत्ययो दृश्यस्वभावो भावो विद्यमानो ऽपि नोपलभ्येत कथम् असौ {प्. 54.1} [त्. 242ब्.] दृश्यस्वभावः स्यात्? । यो हि सत्स्व् अन्येषूपलम्भप्रत्ययेषु सन् प्रत्यक्ष एव भवति स एव दृश्यस्वभाव आख्यायते । तस्मात् तथाविधे सन्निहिते 4 ऽवश्यं प्रत्यक्षवृत्त्या[246]भवितव्यम्, अन्यथा ऽस्य न कदाचिद्
अपि प्रत्यक्षता स्यात्, विशेषाभावाद् इति । प्रयोगः -- यद् यन्मात्रनिमित्तं तत् [स्. 58ब्.] तस्मिन् सति नियमेन भवति । तद् यथा बीजादिसामग्रीमात्रनिमित्तो ऽङ्कुरः । यथोक्तोपलब्धिलक्षणप्राप्ततामात्रनिमित्तं च सति वस्तुनि तथाविधे प्रत्यक्षम् इति स्वभावहेतुः । [एते]न प्रमाणेन स्वभावानुपलब्धौ साध्याभावे ऽभावलक्षणो व्यतिरेको निश्चीयते । एतच् च प्रमाणम् अन्वयनिश्चयस्यापि निमित्तम् । अनेनैव निमित्तान्तरे ऽनुपलब्धेर् अभावोपदर्शनात् । कारणव्यापकानुपलब्ध्योस् तु वक्ष्यमाणयोः प्रतिबन्धद्वयसिद्ध्युपाय एवान्वयव्यतिरेकनिश्चयनिबन्धनम् । स च कार्यस्वभावहेत्वोर् उपदर्शित एवेति पृथग् नोक्तः । तथा हि -- कारणव्यापकयोर् अभावः कार्यव्याप्याभावाभ्याम् अवश्यम् अन्वितः कार्यव्याप्याभावव्यतिरेके च तद्भावलक्षणे ऽवश्यं[247]व्यतिरिच्यते[248]कारणव्यापकयोर् भावात् । अन्यथा कार्यव्याप्ययोर् अहेतुकत्वनिःस्वभावताप्रसङ्गाद् इति [स्. 59अ.] न किञ्चित् पृथगभिधानेनेति ।
__________नोतेस्__________
[243] उपलब्धिलक्षणप्राप्तिः उपलम्भप्रत्ययान्तरसाकल्यंस्वभावविशेषश्च -- [न्ब् परि- 2]
[244] अनुपलब्धो (?) साध्यम् असत्त्वम्
[245] अनन्योपायसाध्यतां दर्शयितुम्
[246] -वश्यं तथाविधप्र- -- त्.
[247] सति
[248] कारणव्यापकाभावो निवर्तते
[ सेच्तिओन्: 36. हेतोः प्रकारत्रयस्य नामनिर्देशः ।]
तदेताव् अता ग्रन्थेन पक्षधर्मस् तदंशेन व्याप्तो हेतुः इति व्याख्यातम् । [त्. 243अ.] अधुना त्रिधैव सः इत्य् एतद् व्याख्यातुम् आह -- एतल्लक्षणः `पक्षधर्मः सन् यस् तदंशेन व्याप्तो हेतुःऽ इत्य् एतल्लक्षणं यस्य स एतल्लक्षणः । त्रिधैव सः । `सःऽ इत्य् एतस्य व्याख्यानं हेतु र् इति, । `त्रिधैवऽ इत्य् अस्य विवरणं त्रिप्रकार एवे ति । तान् हेतून् स्वेन स्वेन नाम्ना कीर्त्तयति -- स्वभावःकार्यम् अनुपलब्धिश्चेति । च कारो हेतुत्वसमुच्चयार्थः । इत्य् शब्दः समाप्तिं सूचयन्न् अवधारणार्थम् एव स्फुटयति । यथा-- अनित्ये कस्मिंश्चित् शब्दादौ साध्ये सत्व(त्त्व)म् इति स्वभावहेतूपदर्शनम्, {प्. 55.1} अग्निमति प्रदेशे साध्ये धूम इति कार्यहेतोः प्रदर्शनम्, अभावे च अभावस्य व्यवहारे च उपलब्धिलक्षणप्राप्तस्यानुपलब्धिर् इति अनुपलब्धेर् उपन्यासः ।
[ सेच्तिओन्: 37. त्रिविधहेतुबाह्यानां हेत्वाभासत्वे प्रमाणोपदर्शनम् ।]
कस्मात् पुनः त्रिविध एव हेतुः? इत्य् आशङ्क्य [स्. 59ब्.] त्रिविधहेतुव्यतिरिक्तानाम् अर्थानां हेत्वाभासतया हेतुविरुद्धया व्याप्तेस् त्रिष्व् एव हेतुत्वं नियतं भवतीति हेत्वाभासतां प्रमाणवतीं तद्व्यतिरेकिणां दर्शयन्न् आह -- अत्रैव स्वभावकार्या ऽनुपलब्ध्याख्ये त्रिविधहेतौ अविनाभावस्य नियमाद् इति त्रिविधहेतुव्यतिरिक्तेश्व् अर्थेष्व् अविनाभावा ऽभावाद् इत्य् अर्थः । ततश् चाविनाभावविकलत्वात् स्वभावकार्यानुपलब्धिव्यतिरेकिणो ऽर्था हेत्वाभासाः प्रमेयत्वादिवत् इत्य् उक्तं भवति । अविनाभावाभावश् च त्रिविधहेतुव्यतिरिक्तत्वाद् एव तादात्म्यतदुत्पत्त्योर् अविनाभावव्यापिकयोर् अभावाद् व्यापकानुपलब्धितो ऽवगतः ।
[ सेच्तिओन्: 38. अविनाभावनिरूपणम् ।]
अथ को ऽयम् अविनाभावः? कस्य चासौ? कथं वा ऽत्रैव नियत उच्यते? इत्य् अत आह -- यथोक्ताव्याप्तिःव्यापकस्य -- तत्कारणतया तद्भावतया च । यत्र तद्व्याप्यं कार्यं स्वभावो वा सन्निहितस् तत्र भाव एव । व्याप्यस्य वा -- कार्यस्य स्वभावस्य वा । यत्र तत्कारणस्वभावाख्यं व्यापकं सन्निहितं तत्रैव धर्मिणि न तदभावे ऽपि भाव इति या व्यापकव्याप्यधर्मतया व्याप्तिर् उक्ता सा यथोक्ताव्याप्तिर् अविनाभावः । कस्य? । पक्षधर्मस्य साध्यधर्मिधर्मस्य । स एवं रूपो ऽविनाभावः [स्. 60अ.] तृ(त्रि)विधाद् यथोक्ताद् हेतोः अन्यत्र तद्व्यतिरेकिण्य् अर्थे नास्ति । यतो ऽत्र च तृ(त्रि)विधे ऽस्ति, तादात्म्यतदुत्पत्त्योर् अविनाभावेन व्याप्तयोर् भावात्, कृतकत्वानित्यत्ववदनयोर् व्याप्यव्यापकभावाद् इति, तस्माद् अत्रैव त्रिविधे हेतौ तदन्यत्राभावमुखेन नियतः उच्यते । तद् अनेन हेत्वाभासास् ततो ऽपर इ त्य् अस्य अविनाभावनियमात् इत्य् उपपत्तिसहितस्यार्थाः
प्रदर्शितः । यथा च त्रिविधाद् हेतोर् अन्यत्राविनाभावो नास्ति तथा प्राग् एवोक्तम् ।
{प्. 56.1} यदि व्[ह्12]आ स्वभावाद् अन्यो ऽर्थो ऽर्थान्तरम्, 1 तच् च[249]कार्याद् अप्य् अन्यत् -- कारणम् अनुभयं [त्. 244अ.] वा । अनुपलब्धेर् अप्य् अन्यद् यथोक्तायाः -- अनुपलब्धिमात्रम् उपलब्धिर् वा प्रतिषेध्यस्य तदन्यस्यापि विरुद्धस्याविरुद्धस्य वा । तत्रार्थान्तरम् यद्य् अनन्तरकार्यं[250]तस्यार्वाद्गर्शिभिः इतरविवेकेन लक्षयितुम् अशक्यत्वात् अलिङ्गत्वम् । कार्यदर्शनात् [स्. 60ब्.] विवेकावसाये ऽपि साध्यसिद्ध्युत्तरकालभावी पक्षधर्मतावसायो ऽन्वयानुगमनं च व्यर्थं । व्यवहितकार्यम् अपि कारणं न कार्यस्य लिङ्गम्, अन्तरालप्रतिबन्धवैकल्यसम्भवेन व्यभिचारात् । तदुक्तम् ।
सामग्रीफलशक्तीनां[251] परिणामानुबन्धिनि ।
अनैकान्तिकताकार्ये प्रतिबन्धस्य सम्भवात् ॥ [प्व् 3.7]
इति । योग्यतानुमाने तु नार्थान्तरं लिङ्गम् ।
नाप्य् अनुभयम्, अप्रतिबन्धेन गमकत्वायोगात् । कथं कृत्तिकोदयविज्ञानाद् रोहिण्यासत्तिक्लृप्तिः? इति चेत् । ननुऽ सा ऽपि नैवासति प्रतिबन्धे युक्ता विशेषाभावेन सर्वतः सर्वप्रतीतिप्रसङ्गात् इत्य् उक्तत्वात् । तस्मान् नक्षत्रचक्रस्य सङ्क्रान्तिहेतुर् एव कालव्यवधानेन कश्चित् कल्पयितव्यः, यथा भूतसंअक्षोभः पश्चात्कालभाविनो वर्षस्येति हेतुधर्मानुमानेन कार्यलिङ्गजैव कल्पयितव्या ।
अनुपलब्धिमात्रम् अपि साम्शयहेतुः, [स्. 61अ.] [त्. 244ब्.] प्रमाणनिवृत्ताव् अप्य् अर्थाभावासिद्धेः । उपलब्धिर् अपि प्रतिषेध्यस्य कथम् अभावं साधयेत्?, अभ्रान्तोपलम्भस्याभावायोगात् । विरुद्धोपलब्धिस् तु प्रतियोग्यभावं साधयति । किन्तु स विरोधस् तद्भावे सत्य् अन्यानुपलम्भाद् एव सिद्ध इति तद्द्वारेणानुपलब्धिर् एव प्रयुक्ता भवति । अन्यथा ऽनिषिद्धोपलब्धेर् अभावासिद्धेः । अविरुद्धोपलब्धिः पुनः प्रतिषेधे ऽनैकान्तिकी, सहभावसम्भवाद् अविरुद्धानाम् । न चापरः प्रकारः सम्भवतीति नाविनाभावो ऽन्यत्र विद्यत इति ।
{प्. 57.1} [ 2. स्वभावहेतुनिरूपणम् ।]
[ सेच्तिओन्: 1. स्वभावहेतोर् लक्षणाभिधानम् ।]
__________नोतेस्__________
[249] कार्यहेतोर् अपि यद् अन्यद् अभ्युपगम्यते तद् अपि तच् च ...........ऽर्थान्तरम् एवेत्य् अर्थः
[250] अनन्तरं कार्यं यस्मात् कारणात्
[251] सामग्र्याः फलं च ताः शक्तयश् च
इदानीं स्वभावहेतोस् तावल् लक्षणम् आह -- तत्र हेतुत्रये स्वभावहेतोस् तावल् लक्षणम् उच्यते । साध्यते येन तत् साधनम् । तच् चासौ धर्मश् च तस्य भावस् तद्भावः । स एव साधनधर्मभावमात्र म् । तस्य अन्वयः । स यस्यास्ति साध्यधर्मस्यावयवे समुदायोपचारात्, तस्मिन् । स्वभावो हेतुः । साध्यधर्मस्य श्रुतत्वात् तस्यैव स्वभाव इति गम्यते । कथं पुनर् असौ साध्यधर्मस्वभावो? यावता भेदेन प्रतीयत इत्य् अत 1 आह -- अपरस्माद् [252] अपरस्माद् च असतो ऽक्षणिकाच् च या व्यावृत्ति स् तस्या यो [स्. 61ब्.] भेदः अवधिभेदोपकल्पितस् तेन हेतुभूतेन साध्यधर्मात् साधनधर्मस्य यो भेद स् तस्मिन् {1} सत्य् अपि {2} वस्तुतः परमार्थतो लिङ्गस्वभाव एव साध्यधर्मस्वभाव [त्. 245अ.] एव । तथा हि -- य एवासतो व्यावृत्तः स एवाक्षणिकाद् अपि । तत एकस्माद् धर्मिणो
भेदाभावात् साध्यसाधनधर्माव् अपि परमार्थतो नैव भिद्येत इति ।
__________नोतेस्__________
[252] आह परस्परेति अप - -- त्.
[ सेच्तिओन्: 2. परमतनिरासार्थं साध्यधर्मे साधनधर्मभावमात्रेत्यादिविशेषणम् ।]
यदि वस्तुतो लिङ्गिस्वभाव एव साधनधर्मः, तत् कस्मात् साधनधर्मभावमात्रान्वयिनि इति साध्यधर्मो विशेष्यते? । यो हि यस्य स्वभावः स कथं तन्मात्रान्वयी न स्यात्?, नीरूपत्वप्रसङ्गाद् अतत्स्वभावता वा इत्य् अत आह -- हेतुः स्वभावो यस्य साध्यधर्मस्य तस्मिन् {1} हेतुस्वभावे {2} साध्यधर्मे सति अन्वयव्यभिचाराभावात् साधनधर्मभावमात्रस्य यो ऽन्वयस् तस्य व्यभिचाराभावात् । [स्. 62अ.] सम्भवे व्यभिचारे च विशेषणं युक्तम् । अत्र तु सम्भव एव न व्यभिचार इति विशेषणम् अयुक्तम् एव । तथापि स्वभावहेतुलक्षणे क्रियमाणे यद् एतत् {1} साध्यधर्मस्य {2} तन्मात्रान्वयेन साधनधर्मभावमात्रानुगमनेन विशेषणं तत् परमतापेक्षं नैयायिकादीनां विप्रतिपत्तेस् तन्मतापेक्षं न तु स्वमतापेक्षम् ।
{प्. 58.1} ताम् एव परविप्रतिपत्तिं दर्शयन्न् आह -- परे हि नैयायिकादयः अर्थान्तरनिमित्तं जनकाद् अर्थाद् अन्यो यो ऽर्थो वेगवद्द्रव्ययोगादिः तन्निमित्तम् । ते ह्य् एवम् आहुः -- वेगवद्द्रव्ययोगाद् अवयवेषु कर्माण्य् उत्पद्यन्ते । तेभ्यो ऽवयवविभागः । ततस् तत्संयोगविनाशस् तदारब्धं कार्यद्रव्ये ऽपि(कार्यद्रव्यम् अपि) नश्यतीति । [त्. 245ब्.] एवम् अर्थान्तरं निमित्तं । तत एव अर्थान्तरनिमित्तम् अपेक्षमाणं कृतकत्वादिभावे ऽप्य् अभावाद् अतद्भावमात्रान्वयिनं तस्य कृतकत्वादेः भावः सत्ता सैव तन्मात्रं तस्यान्वयः स यस्यास्ति [स्. 62ब्.] साध्यधर्मस्य अनित्यत्वलक्षणस्य तद्विपरीतम् अपि कृतकत्वादेः स्वभावम् इच्छन्ति यतः ततो विशेषणं कृतम् । तेन च विशेषणेन तथाविधस्यार्थान्तरनिमित्तस्य विनाशस्यातत्स्वभावताम् आह लक्षणे विशेषणकारः । स्वसत्तामात्रभाविन्य् एव स्वभावत्वं नान्यत्रेति विशेषणेन
सूचनात् ।
[ सेच्तिओन्: 3. हेतुमति विनाशे साध्ये कृतकत्वस्य व्यभिचारित्वम् ।]
तथा, तस्मिन् अर्थान्तरनिमित्ते साध्ये हेतोः कृतकत्वादेः व्यभिचारम् अनैकान्तिकतां चाह । अत्रोदाहरणं यथा-- हेतुमति विनाशे साध्ये कृतकत्वास्य हेतोः अतत्स्वभावताव्यभिचारश्चेति ।
ननु च कृतकत्वस्वभावता अनित्यताया भेदोपगमात् नेष्टैव परैस् तत् किम् उच्यते -- अतद्भावमात्रान्वयिनम् अपि स्वभावम् इच्छन्ति इति? । एवं मन्यते -- व्यतिरिक्ताव् अपि कृतकत्वानित्यत्वाख्यौ धर्माव् अभ्युपगच्छद्भिर् अवश्यम् `अभूत्वा भवनं भूत्वा चाभवनम् अनवस्थायिस्वभावत्वम्ऽ अभ्युपगन्तव्यम्, [स्. 63अ.] अन्यथा ऽऽत्मादिष्व् अपि कृतकत्वानित्यत्वे विशेषाभावाद् भवेताम् । ततो यद् एव `अभूत्वा भवनं भूत्वा[ ऽभवनं] चानवस्थायित्वम्ऽ उपादीयते भावस्य तयोर् एव तद्दर्शनबलोत्पन्नकृतकत्वानित्यत्वभेदावभासिकल्पनाद्वारेण साध्यसाधनभावो ऽस्तु, किं व्यतिरिक्तधर्मकल्पनया? । [त्. 246अ.] कल्पयित्वा ऽपि वस्त्व् आत्मन एवार्थक्रियानिबन्धनतया तदर्थिभिः चिन्त्यत्वात् । तदुक्तम् --
{प्. 59.1} सदसत्पक्षभेदेनशब्दार्थानपवादिभिः।
वस्त्व् एव चिन्त्यते ह्य् अत्र [253] प्रतिबद्धःफलोदयः॥
अर्थक्रियाऽसमर्थस्य विका(चा)रैःकिंतदर्थिनाम्? ।
षण्ढस्य रूपवैरूय्पे कामिन्याःकिंपरीक्षया? ॥
[प्व् 3.209-219]
इति । तस्माद् दृष्टा अपि भावाः केनचिद्[254]आत्मना तदन्यव्यावृत्तेन कथञ्चिन् निश्चिताः तदन्येनाप्य्[255]अतद्रूपव्यावृत्तेनात्मना[256]भ्रान्तिकारणसद्भावाद्[257]अनिश्चीयमानाः,[258]निश्चितानिश्चितयो[259]रूपयोः प्रमाणान्तरतः प्रतिबन्धावसायपुरोवर्त्तिनो[260]ऽनुमानतो निश्चीय(यं)त इति अनित्यतास्वभावभूतस्यैव कृतकत्वस्य विनाशं प्रति लिङ्गता युक्ता । तथा च विनाशस्वभाव एव कृतकत्वाख्यो हेतुः तैर् अथोक्तन्यायादिष्टो भवति । तस्या[261]ऽतन्मात्रान्वयित्वे ऽर्थान्तरनिमित्ततया विशेषणेनातत्स्वभावता [स्. 63अ.] कथ्यते ।
स्यान्मतम् -- कृतकत्वेन साक्षाद् हेतुमान् विनाशो ऽनुमीयते ततः प्राक् प्रध्वंसाभावविशेषणा सत्ता तत्समवायो वा ऽनित्यता व्यवस्थाप्यते । अत एवात्मादिष्व् अनित्यताप्रसङ्गाभावः । विनाश इति च भावाभावं प्रध्वंसलक्षणं मन्यामहे । कृतकत्वं तु स्वकारणसत्तासमवायम् । तस्य[262]विशेषणेन विनाशो ऽस्व(शास्व)भावताख्यापने[263]न किञ्चिद् अनिष्टम् इति ।
तद् अयुक्तम्, तथाविधस्य[264]विनाशस्य हेतुमत्ताविरोधात्, स्वयम् एव चैतद् आचार्यो [त्. 246ब्.] वक्ष्यति । न च तेनानुमितेन किञ्चित्, तस्यार्थक्रियासामर्थ्यविकलत्वात् । सुखदुःखसाधने ज्ञात्वा यथार्हं प्रतिपित्सवो हि किञ्चित्[265]परीक्षन्ते न व्यसनितया । तस्माद् अनेनास्थिरस्वभावतैव भावस्यानुमातव्या । सैव च हेतुमती {प्. 60.1} कल्पनीया । अन्यथा भावविलक्षणस्य[266]प्रध्वंसाभावस्य मुद्गरादेर् उदये ऽपि तस्य भावे ऽनुपयोगात् स भवस् तदवस्थ [स्. 64अ.] एवेति कथं तद्विशेषणा सत्ता तत्समवायो वा अनित्यता स्यात्? । अविचलितरूपस्य च भावस्य मुद्गरादिकृतप्रध्वंसाभावविशेषणौ सत्तासमवायौ यद्य् अनित्यता, किं नात्मादेर् अपि? इति प्रसङ्गः तदवस्थ एव । स्वकारणसमवायो ऽपि चाभूत्वा भवनम् अनिच्छतो न सिध्यति । अभूत्वा भवत एव च या सत्ता सैव कृतकत्वं वर्ण्यते । न च सत्तासमवाययोर् नित्यतयोपगतयोर् निरतिशयत्वात् प्राक् प्रध्वंसाभावौ विशेषणं युज्यते । अभूत्वा
भवनोपगमे च तद् एव कृतकत्वम् अस्थिरस्वभावता च विनाशो ऽस्तु । किं निष्फलया अप्रमाणिकया प्रमाणबाधितया ऽर्थान्तरकल्पनया? । एवं कृतकत्वविनाशयोस् तादात्म्योपगमो ऽवश्यम् भावी परेषाम् अपि । ततो विनाशस्यास्थायित्वलक्षणस्यार्थान्तरनिमित्ततोपगमे कृतकत्वस्यातत्स्वभावता विशेषणेन ख्याप्यते । तन्निष्पत्ताव् अनिष्पन्नस्य भिन्नहेतुकस्य च तत्स्वभावत्वायोगात् ।
तथा, तस्मिन् साध्ये [स्. 64ब्.] कृतकत्वस्य व्यभिचारः । तथा हि -- ये यत्र हेत्व[त्. 247अ.]न्तरापेक्षिणो न ते तत्रावश्यम् भाविनः, यथा वाससि रागः । हेत्वन्तरापेक्षी च कृतकेष्व् अपि भावेषु प्रध्वंसाभाव इति विरुद्धव्याप्तोपलब्धिः ।
ननु वाससि रागस्य परिमितहेतुत्वात् तस्य च स्वकारणायत्तसन्निधानत्वात् तदाश्रयस्य च विधुरप्रत्ययोपनिपातेनास्थिरतया नावश्यम् भाविता युक्तैव । न पुनर् विनाशस्य, तद्धेतूनाम् आनन्त्याद् अवश्यं कस्यचिद् घटादिषु सन्निधेः । न च विनाशस्याश्रयं प्राक् तद्धेतुसन्निधेः केचिद् उपघ्नन्ति, यतस् तदभावाद् विनाशो नारभ्येतेति ।
__________नोतेस्__________
[253] वस्तुनि
[254] कृतकत्वादिना
[255] अनित्यत्वादिना
[256] सदृशापरापरोत्पत्ति-
[257] -द्भावसंभवादिन -- त्.
[258] [कृत] क-
[259] अनित्य-
[260] निश्चितानिश्चितयोर् यः प्रतिबन्धावसायः स पुरोवर्ती यस्य तस्मात्
[261] विनाशस्य
[262] कृतकत्वस्य
[263] विनाशस्व- -- त्.
[264] प्रध्वंसरूपस्य
[265] किञ्चिद् वस्तु ज्ञात्वा यथार्हं सुखदुःखसाधनप्राप्तिपरिहारप्रतिपित्सवः सुखदुःखसाधने परीक्षन्त इत्य् अर्थः । यद् वा सुखदुःखसाधने ज्ञात्वा तत्प्राप्तिपरिहारप्रतिपित्सवः किञ्चिद् वस्तु परीक्षन्त इति सम्बन्धः
[266] भावविविक्तलक्षण- -- त्.
तद् अयुक्तम्, यतो यद्य् अपि बहुलं विनाशकारणानि सन्ति तथापि तेषां स्वकारणायत्तसन्निधित्वात् तथा तत्कारणानां च सन्निहितानाम् अपि विरोधिनाम् अप्य् आनन्त्यात् तद्भावे तच्छक्तिप्रतिबन्धान् नावश्यं हेतवः फलवन्त इति कश्चिन् न विनश्येद् अपीति {प्.61.1} व्यभिचारो न निवर्तते । नन्व् अयं वाससि रागः सापेक्षो ऽपि यदि सर्वत्रोपलभ्येत ततः किम् अवश्यम्भावी न स्यात्? । स्याद्, यदि तथोपलम्भ्येत । स त्व् अन्यथा ऽपि [स्. 65अ.] गृह्यते । यद्य् एवं[267]न तर्हि सर्वत्रोपलब्धस्य विनाशस्यान्यथाभावशङ्कया[268]मनसि खेद आधातव्यः । किं वा पुनर्भवान् समस्तवस्तुविस्तरव्यापिज्ञानालोकः?, येनैवं वदति । तथाभावे वा कथम् अनुमानवृत्तिर् दृष्टे न वैफल्यम् अश्नुवीत? । कस्यचित् तु [त्. 247ब्.] हेतुकृतविनाशदर्शने ऽपि हेत्वायत्तजन्मनाम् अन्यथा ऽपि दर्शनाद् उपजाताशङ्को देशकालस्वभावविप्रकृष्टेषु कथं तथाभावं[269]निश्चिन्वीत? । कृतकम् अपि चायं
भावाभावलक्षणं विनाशं नित्यम् उपैति, तद्विनाशोपगमे भावस्योन्मज्जनप्रसङ्गात् । न चास्य घटादेर् इव विनाशहेतुर् उपलभ्यते कश्चिद् इति । तदुक्तम् --
घतादिषु यथादृष्टाहेतवो ध्वंसकारिणः।
नैवंनाशस्य सो [270] ऽहेतुस् तस्य [271] संजायते कथम्? ॥
इति । ततः कृतकत्वस्य विनाशे साध्ये तेनैव व्यभिचारः किं नेष्यते? ।
भावानाम् अयम् ऐकान्तिक एव धर्म इति चेत्, कुतः पुनर् एतद् वसितम्? । तेषाम् अन्यथाभावस्यानुपलम्भाद् इति [स्. 65ब्.] चेत् । नन्व् अयम् अनुपलम्भो भवन्न् अप्य् आत्मादेर् अनिवर्त्तकः सत्तायाः, कथम् अन्यत्रान्यथाभावं निवर्त्तयति? ।[272]तस्यानुमानेनोपलम्भाद् इति यद्य् उच्यते तदा तत्राप्य्[273]अनुमाने विपक्षे वृत्तिम् अनुपलम्भ[274]एव हेतोः कथं निवर्त्तयति? इति यत् किञ्चिद् एतत् । तस्मात् साधूक्तम् -- `हेतुमति विनाशे कृतकत्वस्यास्वभावतां व्यभिचारं चाहऽ इति अलम् अतिजल्पितेनेति ।
__________नोतेस्__________
[267] परः
[268] अवश्यम्भावित्वाशङ्कया
[269] अवश्यम्भाविविनाशित्वम्
[270] नाशः
[271] नाशस्य
[272] आत्मादेः
[273] आत्मानुमाने ऽपि
[274] अप्रमाणकः सन् (प्रथमं टिप्पनम्) आत्मादेः संशयापनिवर्त्तकत्वेनाभिमतो यः स एव (द्वितीयं टिप्पनम्)
[ सेच्तिओन्: 4. परार्थानुमाने साधर्म्यवैधर्म्यप्रयोगोदाहरणम् ।]
इदानीं यद्य् अपि स्वार्थानुमानं प्रकृतं तथापि कश्चित् प्रयोगदर्शनाभ्यासात् प्रयोगभङ्ग्यैव प्रतिपद्यत इति स्वार्थानुमाने ऽपि {प्. 62.1} तत्सम्भवात्[275]प्रसङ्गेन 10 परार्थानुमानं च व्युत्पादयितुम्[276]आह -- तस्य स्वभावहेतोः द्विधा त्रैलक्षण्यप्रतिपादको [त्. 248अ.] वचनोदाहारः प्रयोगः । तम् एव दर्शयति -- समानो धर्मो यस्य तस्य भावः तेन साध्य(ध)र्म्येणैकः प्रयोगः । अपरो विसदृशो धर्मो यस्य तस्य भावः तेन वैधर्म्येण ।
यथाक्रममनयोर् उदाहरणम् 1 आह -- यथायत् सत् । यद्यत्सद् इति[277]वीप्साप्रधानो यच्छब्दः । तत् सर्वम् इति तच्छब्दो ऽपि वीप्साप्रधान एव । अत्र सर्वग्रहणेन चाशेषपरिग्रहाद् [स्. 66अ.] बहिर्व्याप्तेर् निरासः । यथाघटादयः इति । यस्य सत्त्वक्षणिकत्वयोः प्रतिबन्धप्रसाधकं प्रमाणं घटादौ प्रवृत्तं तं प्रति तत्र स्मृतिसमाधानार्थं दृष्टान्तवचनं न साध्यसिद्ध्यर्थम् । दृष्टान्तमात्रतः साध्यसिद्धेर् अभावात् । न ह्य् एकस्य तथा भावे सर्वस् तथा भवति, अतिप्रसङ्गात् । संश्चशब्दः इति पक्षधर्मोपसंहारः ।
वैधर्म्यप्रयोगस्योदाहरणम् -- तथा इत्यादि । तथाशब्दः समुच्चये । वैधर्म्येण च प्रयोग उदाह्रियते । अत्रापि सर्वग्रहणं विभक्तिविपरिणामेन सम्बन्धनीयम् क्षणिकत्वाभावे सर्वस्मिन् सत्वा(त्त्वा)भावः इति ।
प्रयोगद्वये ऽपि सर्वग्रहणस्य फलं दर्शयन्न् आह -- सर्वस्मिन् साधनधर्मवति धर्मिणि न दृष्टान्तधर्मिण्य् एव साध्यधर्मस्यो पसंहारणं उपसंहारो ढौकनं तेन या व्याप्तिः `व्यापकस्य तत्र भाव एवऽ इत्यादि रूपा तस्याः प्रदर्शनं प्रतिपादनं तद् एव लक्षणं ययोः तौ तथोक्तौ । ततश् च ये [त्. 248ब्.] [स्. 66ब्.] साध्यधर्मिणं परिहृत्य बहिर्व्याप्तिं प्रदर्शयन्ति ते -- यद्य् अपि दृष्टान्तधर्मिणि साध्यधर्मेण साधनधर्मो व्याप्तः तावता ऽस्य सर्वत्र तथाभावाभावात् साध्यसिद्धिर् अयुक्तेति -- निरस्ता भवन्ति । सर्वत्र वा साध्यधर्मेण साधनधर्मस्य व्याप्तिः तद्भावे, सा तथाविधैव किन् न प्रदर्श्यते येनासमर्था बहिर्व्याप्तिर् आख्यायते? । न हि `स श्यामः, तत्पुत्रत्वात्, परिदृश्यमानपुत्रवद्ऽ इति तत्पुत्रत्वस्य {प्. 63.1} श्यमत्वेन साध्याद् बहिः परिदृश्यमानपुत्रे व्याप्तिप्रदर्शने ऽपि साध्यसिद्धिर् भवति
। तस्माद् यैव सर्वोपसंहारेण व्याप्तिः प्रमाणसिद्धप्रतिबन्धनिबन्धना साध्यसिद्धौ समर्था सैव तत्स्मृतये[278]प्रदर्शनीया । न च सर्वोपसंहारेण व्याप्तिप्रदर्शने ऽपि धर्मविशिष्टो धर्म्य् अपि तदैव प्रतीयते, यतः पक्षधर्मोपदर्शनोत्तरकालभाविनो ऽनुमानस्य स्मृतित्वं [स्. 67अ.] स्यात् । तस्याः[279]साध्यधर्मिणि साध्यधर्माविनाभूतसाधनधर्मप्रतीतिनिबन्धनत्वेन तदुपदर्शनात् प्राग् असम्भवात् । तत्पूर्विकायां[280]च व्याप्तौ अनन्तरं[281]विशेषविषयम् अनुमानं कथं स्मृतिः स्यात्? इति ।
__________नोतेस्__________
[275] प्रयोग-
[276] -मानप्रयोगं व्यु- -- त्.
[277] -म् आह यद्यत्सद् इति -- त्.
[278] प्रतिबन्ध-
[279] साध्यधर्मविशिष्टधर्मिप्रतीतेः
[280] पक्षधर्मोपदर्शनपूर्विकायाम्
[281] व्याप्तिस्मरणात्
[ सेच्तिओन्: 5. वैधर्म्यप्रयोगे ऽपि व्याप्तिप्रदर्शनं सांगतम् ।]
ननु च
साधर्म्यप्रयोगस्य व्याप्तिप्रदर्शनलक्षणत्वं युक्तम्, साधनधर्मे सति साध्यधर्मस्यावश्यम् भाविताप्रदर्शनात्; वैधर्म्यप्रयोगस्य तु कथम्? । तत्र हि केवलं साध्याभावे हेत्वभावः कथ्यते, न तु हेतौ [त्. 249अ.] सति साध्यस्य भाव एवेति । नैष दोषः । न ह्य् अत्र साध्याभावे हेत्वभावस् तुच्छरूपो दर्श्यते, 1 तस्य[282]हेतुरूपताविरोधात्[283]। वस्तुधर्मो हि सत्त्वादिको हेतुः । तस्यात्मन[284]एवाभावः कथं [हेतुस्व]रूपं भविष्यति, यतस् त्रिरूपो हेतुर् भवेत् । किन्तु निवृत्तौ निवृत्तिधर्मकत्वं स्वगतो धर्म उपदर्श्यते वैधर्म्यप्रयोगेण, तथाविधे[285]च साधनधर्मे ऽवश्यं तया साध्यधर्मस्य भावः प्रतीयत एव, अन्यथा तन्निवृत्तौ निवृत्तिधर्मकत्वस्यैवायोगाद् इति न व्याप्तिप्रदर्शनलक्षणत्वं वैधर्म्यप्रयोगस्य न युज्यते । [स्. 67ब्.]
__________नोतेस्__________
[282] तुच्छरूपस्य
[283] तस्य हेतुव्याप्तिनिर्देशलक्षणरूपसम्बन्धित्वाभावात् -- त्.
[284] सत्व(त्त्व)स्य-
[285] विपक्षनिवर्त्तनधर्मस्वभावे
[ सेच्तिओन्: 6. प्रतिज्ञाप्रयोगस्य नैरर्थक्यम् ।]
ननु द्विविधे ऽपि प्रयोगे प्रतिज्ञाप्रयोगो नोपदर्शितः तत् कथं तदर्थावगतिः?, तदर्थप्रत्यायनाय च साधनप्रयोगो ऽभिमतः इत्य् अत आह -- अत्र अनयोः प्रयोगयोः पक्षधर्मसम्बन्धवचनमात्रसामर्थ्याद् एव {प्. 64.1} वक्ष्यमाणकात् प्रतिज्ञार्थस्य धर्मधर्मिसमुदायलक्षणस्य साध्यस्य प्रतीतेः हेतोः {1} न {2} प्रतिज्ञायाःप्रयोग उपदर्शितः । परः सामर्थ्यम् अनवबुद्यमान आह -- अप्रदर्शिते वचनेन प्रमेये साध्ये कथं न कथञ्चित् तत्प्रतीतिः प्रतिज्ञार्थप्रतीतिः इति एवं चेद् यदि मन्यसे तदा स्वार्थानुमानकाले स्वयं परं प्रतिपादकम् अन्तरेण प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता ? नैव [त्. 249ब्.] कश्चित् । स्वयम् एव तु साध्याविनाभूतसाधनधर्मदर्शनात् प्रमेयं प्रतिपद्यते तथा परार्थानुमाने ऽपि तत एव तत्प्रतीतिर् अस्तु किं प्रतिज्ञावचनेन?
।
यदि स्वयं प्रतिपत्तिकाले न कश्चित् प्रमेयस्योपदर्शयिता कथं [स्. 68अ.] तर्हि तत्प्रतिपत्तिः? इत्य् अत आह -- प्रदेशस्थं साध्यधर्मिणि स्थितं धूमं साधनधर्मं उपलब्धवतः प्रत्यक्षेण दृष्टवतः सतः तस्य धूमस्य अग्निना साध्यधर्मेण प्रमाणतः प्रतिबन्धनिश्चयबलात् प्राक् प्रतिपन्नायाः व्याप्तेः अविनाभावस्य स्मरणे सति तत्सामर्थ्याद् एव पक्षधर्मग्रहणव्याप्तिग्रहणसामर्थ्याद् एव प्रतिज्ञाप्रयोगरहिताद् अग्निर् अत्र इति एवंरूपा प्रतिज्ञार्थप्रतीतिर् भवति ।
स्यान्मतम् -- तत्राप्य् अस्य कर्णपिशाचिकादिः प्रमेयं कथयत्य् एवेत्य् अत आह -- न च नैव तत्र स्वार्थानुमानकाले कश्चित् कर्णपिशाचिकादिर् अदृश्यो ` अग्निर् अत्रऽ -- इति एवम् अस्मै प्रतिपत्रे(त्त्रे) प्रमेयं निवेदयति कथयति । यदि भवान् सत्यवादी नैवं वक्तुम् अर्हति । तथा हि -- वयम् अपि प्रदेशस्थधूमदर्शनात् तस्याग्निना व्याप्तिस्मरणसापेक्षाद् अग्निं [स्. 68ब्.] प्रतिपद्यामहे । न चास्मभ्यं कश्चित् निवेदयति `अग्निर् अत्रऽ इति, भवति च तत्प्रतिपत्तिः, तथा तदन्यस्यापि सा युक्तरूपैवेति ।
यद्य् अपि न कश्चित् निवेदयति तथापि स्वयम् एव प्रमेयं व्यवस्थाप्य तत्प्रतिपत्तये लिङ्गम् अनु[त्. 250अ.]सरिष्यतीति चेत्, आह -- नापि न केवलं न कश्चित् निवेद्यति स्वयम् अपि प्राग् एव लिङ्गव्यापारात् न प्रतिपद्यते किञ्चिद् अग्न्यादिकम् । कस्मात्? {प्. 65.1} इति चेत्, प्रमाणं हेतुम् अन्तरेण विना `अग्निर् अत्रऽ इत्य् एवं प्रतीतेः निमित्ताभावात् । त्रिरूपो हि हेतुः परोक्षार्थप्रतीतेर् निमित्तम्, तदभावे सा कथं भवेत्? । अथ लिङ्गम् अन्तरेणाप्य् एवं प्रतीतिर् भवतीति ब्रूयात् तदा प्रतीताविष्यमाणायां लिङ्गस्य वैयर्थ्यम्, तस्यानुमेयप्रतिपत्त्यर्थत्वात्, तेन विना तत्प्रतिपत्तौ कथम् अस्य निष्प्रयोजनता न स्यात्? ।
अत्यन्तमूढतां च परस्य दर्शयन्न् आह -- स्वयम् एव स्वतन्त्र एव `अग्निर् अत्रऽ -- इति व्यवस्थाप्य । कथं [स्. 69अ.] स्वतन्त्रो व्यवस्थपयति ? । अकस्मात् प्रमाणम् अन्तरेण व्यवस्थापनात्[286] तत्प्रतिपत्तये निर्न्निमित्तव्यवस्थापितप्रमेयप्रतिपत्त्यर्थं {1} पश्चात् {2} लिङ्गं तन्निमित्तम् अनुसरतीति को ऽयंप्रतिपत्तेःक्रमः परिपाटिः? । तथा हि -- प्रथमं लिङ्गानुसरणम्, ततः साध्यप्रतिपत्तिर् इति विपश्चितां क्रमः । अयं त्व् अपूर्वो ऽनुमाता यस् तद्विपर्ययम् आश्रयत इति उपहसति । यत्तल्लोके गीयते -- शिरो मुण्डयित्वा नक्षत्रं पृच्छतीति तत्तुल्यत्वाद् अस्य क्रमस्य । तस्मात् पक्षधर्मग्रहणव्याप्तिस्मरणसामर्थ्याद् एव स्वयं प्रतिपद्यते । तच् च प्रतिपादकं कथितम् एवेति न किञ्चित् प्रमेयनिर्द्देशेन ।
यदि नाम स्वार्थानुमानकाले स्वयम् एव साध्यं [त्. 250 ब्.] प्रतिपद्यते तद् युक्तम् एव, लिङ्गस्यापि तत्र स्वयम् एव प्रतिपत्तेः । परार्थानुमाने तु परतो यथा लिङ्गं प्रत्येति तथा प्रमेयम् अपि परत [स्. 69ब्.] एव प्रत्येतव्यम् । अतो युक्त एव प्रतिज्ञाप्रयोग इत्य् अत आह -- परेणापि न केवलं स्वयम् एव प्राग् व्यवस्थाप्यमानं प्लवते परेणापि वादिना तत् प्रमेयम् उच्यमानंप्लवत एव तद्वचनस्य सन्दिग्धार्थाभिधायकतया साध्यनिश्चयानङ्गत्वात् प्रमेयगाम्भीर्यानवगाहिनः परम्परया ऽप्य् अतत्सम्बद्धस्य विवक्षामात्रनिबन्धनतयोपर्येवावस्थापनात् । कस्मात् प्लवते? इति चेत्, उपयोगाभावात् नास्य साध्यप्रतीतिं प्रति कश्चिद् उपयोगः, तत्प्रत्यायनसमर्थस्यानभिधानाद् इति यावत् ।
{प्. 66.1} परस् तूपयोगमात्रं कदाचिद् ब्रूयाद् इत्य् आशङ्क्याह -- विषयोपदर्शनं हेतोर् यो विषयः साध्यं तदुपदर्शनं प्रतिज्ञावचनस्योपयोगः चेत् मतम् । अत्राह तेनैव विषयेण, ताव च् छब्दः क्रमे । विषयस्योपदर्श्यमानस्यार्थवत्तायां तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनं भवेत् । विषयेणैव तु दर्श्यमानेन को ऽर्थः किं [स्. 70अ.] प्रयोजनम्? ।
ननु साध्यप्रतीतिः साधर्म्यवत्प्रयोगादिप्रतीतिश् च विषयोपदर्शनस्यार्थः । ततस् तदुपदर्शनं प्रतिज्ञावचनस्य प्रयोजनम् । तथा हि असति साध्यनिर्देशे `यत् कृतकं तद् अनित्यम्ऽ इत्य् उक्ते `किम् अयं साधर्म्यवान् प्रयोगः? [त्. 251अ.] उत वैधर्म्यवान्?ऽ इति न ज्ञायेत । उभयं ह्य् अत्राशङ्ख्यते -- कृतकत्वेनानित्यत्वे साध्ये साधर्म्यवान्, नित्यत्वेनाकृतकत्वे वा वैधर्म्यवान् इति । `अनित्यः शब्दःऽ `अकृतको वाऽ इति तु प्रतिज्ञावचने सत्य् उभयम् असन्दिग्धम् अवगम्यते । हेतुविरुद्धानैकान्तिकप्रतीतिश् च न स्यात् । प्रतिज्ञापूर्वके तु प्रयोगे `अनित्यः शब्दः, कृतकत्वात्ऽ इति हेतुभावः प्रतीयते, `नित्यः, कृतकत्वात्ऽ इति विरुद्धता, `प्रयत्नानन्तरीयकः कृतकत्वात्ऽ इत्य् अनैकान्तिकत्वम् । हेतोश् च त्रैरूप्यं न गम्यते, तस्य साध्यापेक्षया व्यवस्थानात् । सति प्रतिज्ञावचने अवयवे समुदायोपचारात् साध्यधर्मी पक्ष इति तत्र [स्. 70ब्.] वृत्तस्य कृतकत्वस्य पक्षधर्मत्वं; साध्यधर्मसामान्येन
च समानो ऽर्थः सपक्ष इति तत्र वर्त्तमानस्य सपक्षे सत्त्वम्; न सपक्षो ऽसपक्ष इति साध्यधर्मविरहिण्य् अवृत्तस्यासपक्षे ऽप्य् असत्त्वं प्रतीयेत इत्य् आशङ्क्याह -- यदि प्रतीतिः साध्यस्य निश्चयलक्षणा साधर्म्यवत् प्रयोगादेश् च स्वरूपावधारणात्मिका । अन्यथा प्रतिज्ञावचनम् अन्तरेण न स्यात् तदा यदुक्तं साध्यसिद्ध्यर्थं साधर्म्यवत् प्रयोगादिज्ञानार्थं च विषयोपदर्शनम् इति तत् सर्वंशोभेत यावता स्वार्थानुमानकाले प्रतिज्ञावचनम् अन्तरेणापि पक्षधर्मग्रहण[त्. 251ब्.]सम्बन्धस्मरणतः साध्यसिद्धिलक्षणा भवत्य् एव प्रतीतिः इत्य् आख्यातम् एव । तद्वत् परार्थे ऽप्य् अनुमाने {प्. 67.1} भविष्यति । यत एवं {1} तस्मात् {2} एष प्रतिज्ञाप्रयोगवादी यदा स्वयं साध्यं प्रत्येति तदा स्वयं साध्यस्य [स्. 71अ.] प्रतीतौ विषय उपस्थाप्यते येन प्रतिज्ञावचनद्वारेण पुंसा केनचित् तेन {1} विनापि
{2} प्रतियन् साध्यं निश्चिन्वन् लिङ्गसामर्थ्याद् एव । यदा ऽस्माभिः प्रतिपाद्यते तदा अस्मान् कार्यिणो दृष्ट्वाव्यक्तं प्रतिज्ञाप्रयोगलक्षणं मूल्यंमृगयते । क इव? पर्वब्राह्मण इव । यथा दक्षिणाम् अन्तरेणाप्य् अन्यदा और्द्वरथिको ब्राह्मणो भुञ्जानो ऽन्यदा श्राद्धादिपर्वण्य् अर्थिनं श्रद्धालुं ब्रवीति -- यदि मे घृतपूरं घृतपूरं प्रति रूपकं ददासि ततो ऽहं भुञ्जे नान्यथेति । तेन तुल्यो भवान् अपीति ।
किञ्च, यद् अपि ब्रवीषि -- परार्थानुमानकाले यथा लिङ्गं परेणानभिधीयमानं न प्रत्येति प्रतिपाद्यस् तथा साध्यम् अपीति । तदैतद् युज्यते यद्य् असौ वादिवचनमात्रेण लिङ्गम् अपि निश्चित्य तदनुसारेण साध्यम् अवगच्छेत्, परप्रतीत्यर्थिनश् च तदा वयम् अपि प्रतिज्ञां किन् न प्रयुञ्ज्महे लिङ्गवचनरहिताम्? । [स्. 71ब्.] अस्मद्वचनस्यैव तं प्रति प्रमाणतया, तत एवानुमेयप्रतीतेः, तद्वचनस्य[287]चरितार्थत्वात् । न चैतद् अस्ति, यतः अस्मद्वचनाद् अपि न केवलं स्वार्थानुमानकाले ऽस्मद्वचनम् अन्तरेण इत्य् अपि शब्दः । किन्तु [त्. 252अ.] यदाप्य् अस्मद्वचनं प्रवृत्तं तदापि नैव अस्मद्वचनात् लिङ्गम् अपि प्रत्येति , कुत एव साध्यसिद्धये ऽनुसरिष्यति? । अपि तु स्वयम् अस्य यदि तल्लिङ्गं कुतश्चित् प्रमाणतः सिद्धं भवति अस्मद्वचनेन तु केवलं तत्र स्मृतिसमाधानमात्र क्रियते । तदा स्वयं सिद्धम् एव लिङ्गम् अनुसृत्य साध्यं प्रत्येति । नास्मद्वचनात्
पानीयम् अपि पिबतीति । {1} तस्मात् {2} को ऽनयोः प्रतिज्ञावचनावचनात्मिकयोः अवस्थयोर् विशेषः ?, उभयत्र स्वयंसिद्धलिङ्गसामर्थ्याद् एव साध्यप्रतीतेर् न कश्चित् । ततः स्वपरार्थानुमानयोः स्वयंसिद्धलिङ्गानुसरणम्, ततः साध्यप्रतीतिं च प्रति विशेषाभावात् प्रतिज्ञोपन्यासः परार्थानुमाने ऽपि व्यर्थ [स्. 72अ.] एव । लिङ्गम् अपि हि तावद् अत्र नाभिधीयते यदि तत् {प्. 68.1} पूर्वप्रसिद्धं स्वयम् अनुस्मरेत् किम् अङ्गः सन्दिग्धार्थाभिधायकं प्रतिज्ञावचनम् उपादीयते? ।
स्यान्मतम् -- यदि नाम साध्यसिद्धौ प्रतिज्ञावचनस्य नोपयोगस् तदर्थो ऽस्य प्रयोगो मा भूत्, साधर्म्यवत् प्रयोगादिज्ञानार्थं तु तदुपादानम् अवस्थितम् एव, तस्यान्यथा प्रतीत्य् अभावात् इत्य् अत आह -- दृष्टाच साधर्म्यवत् प्रयोगादेःप्रतिज्ञावचनम् अन्तरेणापि प्रतीतिः , ततस् तदर्थो ऽपि प्रतिज्ञोपन्यासो न शोभते ।
कुतः पुनः साधर्म्यवत् प्रयोगादेर् असति साध्यनिर्देशे प्रतीतिः? [त्. 252ब्.] इत्य् आह -- पक्षधर्मसम्बन्धवचनमात्राद् इति । एवं मन्यते -- नैव हि कश्चित् `यत् कृतकं तद् अनित्यम्ऽ एतावन् मात्रम् अभिधाया ऽऽस्ते, साधनन्यूनतयैवास्य पराजयात्, किन्त्व् अवश्यं हेतोर् द्धर्मिण्य् उपसंहारं करोतीति । तत्र यदि `कृतकश् च शब्दःऽ इति ब्रूयात् तदा [स्. 72ब्.] साध्य्(ध)र्म्यवत् प्रयोगप्रतीतिः, अथ `नित्यश् चऽ इत्य् अभिदध्यात् तदा वैधर्म्यवत इति सम्बन्धवचनपूर्वकात् पक्षधर्मवचनात् प्रयोगद्वयावगतिः ।
हेतुविरुद्धानैकान्तिका अपि पक्षधर्मवचनमात्रेण न प्रतीयन्ते । यदा तु सम्बन्धवचनम् अपि क्रियते तदा कथम् अप्रतीतिः? । तथा हि `यत् कृतकं तद् अनित्यम्ऽ इति पक्षधर्मवचने सत्य् उक्ते हेतुर् अवगम्यते, विधीयमानेनानूद्यमानस्य व्याप्तः । `यत् कृतकं तन् नित्यम्ऽ इत्य् अभिधाने विरुद्धः, विपर्ययव्याप्तेः । `यत् कृतकं तत् प्रयत्नानन्तरीयकम्ऽ इति प्रदर्शने व्यभिचाराद् अनैकान्तिकाध्यवसायः ।
त्रैरूप्यम् अपि हेतोर् गम्यत एव, यतो व्याप्तिप्रदर्शनकाले व्यापको धर्मः साध्यतया ऽवगम्यते । यत्र च व्याप्यो धर्मो धर्मिण्य् उपसंह्रियते स व्यापकधर्मविशिष्टतया ऽवगम्यमानः साध्यसमुदायैकदेशतया पक्ष इत्य् उपसंहृतस्य व्याप्यधर्मस्य पक्षधर्मत्वावगतिः, [स्. 73अ.] सा च व्याप्तिर् यत्र धर्मिण्य् उपदर्श्यते स साध्यधर्मसामान्येन समानो ऽर्थः सपक्षः प्रतीयत इति सपक्षे {प्. 69.1} सत्त्वम् अवगम्यते, सामर्थ्याच् च [त्. 253अ.] व्यापकनिवृत्तौ व्याप्यनिवृत्तिर् यत्रावसीयते सो ऽसपक्ष इत्य् असपक्षे ऽप्य् असत्व(त्त्व)म् अपि निश्चीयत इति, यदि पक्षादिभिर् अपि ज्ञातैः किञ्चित् प्रयोजनं । न तु व्यवहर्तणां पक्षादिसङ्केतापेक्षा परोक्षार्थगतिर् भवति । तथा हि -- यत् क्वचित् दृष्टं तस्य यत्र प्रतिबन्धः तद्विदस् तस्य तद् गमकं तत्र इति हि लोके वस्तुगतिर् भवति, न पक्षादिसङ्केतग्रहणापेक्षा । तत्र यथेष्टंशास्त्रकारागमकरूपप्रतिपत्तये स्वसङ्केतेनान्यथा
वा लक्षणं प्रणयन्तु । न तु व्यवहारकाले तदनुसरणं क्वचिद् उपयुज्यते । तत्सङ्केतप्रतिपादितम् एव तु यथोक्तं गमकं रूपम् उपयोगि व्यवहर्तृऋणाम् । तच् चेत् प्रतिपन्नं तावतैव साध्यसिद्धिः सञ्जाता इति पक्षसपक्षादिसङ्केतापरिज्ञाने ऽपि [स्. 73ब्.] न किञ्चित् प्लूयते । अत एवाचार्यपादैर् `न्नान्तरीयकार्यदर्शनं तद्विदो ऽनुमानम्ऽ इति गमकरूपमात्रम् एव पक्षादिसङ्केतानपेक्षं प्रतिपादितम् । स्वप्रज्ञापराधास्तु(त्तु) तत्रापि कैश्चिद् असन्त एव दोषाः प्रकीर्त्यन्त इति किम् अत्र ब्रूमः? । तस्मात् साधर्म्यवत् प्रयोगादिज्ञानार्थम् अपि प्रतिज्ञावचनं पक्षधर्मसम्बन्धवचनमात्र [त्. 253ब्.] एव यथोक्तेन प्रकारेण प्रतीतेर् अयुक्तम् इति कस् तस्य प्रतिज्ञावचनस्य उपयोगः नैव कश्चित् ।
स्वयं चायं वादी येन क्रमेणानुमेयं प्रतिपन्नवाम्स् तमुल्लङ्घ्य परप्रतिपत्तये क्रमान्तरम् आश्रयन् परवञ्चकतया धूर्त्त एव प्रतीयते, न सद्धृत्त इत्य् उपदर्शयन्न् आह -- स्वनिश्चयवत् इत्यादि । यथा ऽऽत्मनो निश्चयस्योत्पादनं कृतं तथैव अन्येशाम् अपि निश्चयोत्पादा(द)नाय च परहितनिरतैः {1} साधनम् उच्यते , {2} तत्र एतस्मिं(स्मिन्) न्याये सति स्वयम् अयं वादी प्रमेयस्योपदर्शनेन उपदर्शकेन वचनेन विनाऽपि स्वार्थानुमानकाले प्रतिपद्य प्रमेयं परं संशयितादिकं प्रतिपादयन् स्वप्रतिपन्नं प्रमेयम् अवबोधयन् अपूर्वं स्वप्रतिपत्तिकाले पूर्वं [स्.74अ.] यः प्रमेयप्रतिपत्तौ क्रमः उपायो ऽनुभूतस् तस्माद् अन्यम् आश्रयत इति किम् अत्र क्रमान्तराश्रयेण कारणम् ? नैव किञ्चित् परव्यामोहनं मुक्त्वा । तथा हि -- यदि स्वप्रतिपत्तिक्रमः {प्. 70} प्रतीतिनिबन्धनं
किं तत्परित्यागेन क्रमान्तराश्रयणम्?, कथं तेन स्वयं प्रतिपन्नवानसीति? । यत एवं तस्मान् न प्रमेयस्य साध्यस्य वचनेन प्रतिज्ञाख्येन किञ्चित् प्रयोजनम् । कुतः? । `अन्यथापिऽ [त्. 254अ.] विना ऽपि तेन प्रतिपत्तेः साध्यप्रतीतेः उत्पत्तेर् इ त्य् उपसंहारः ।
__________नोतेस्__________
[286] व्यवस्थापयिष्यति -- त्.
[287] लिङ्ग-
[ सेच्तिओन्: 7. उपनयनिगमनादेर् अपि साधनवाक्यानङ्गत्वम् ।]
एवं प्रतिज्ञां साधनवाक्याद् अपनीयापरम् अप्य् उपनयनिगमनादिकं परपरिकल्पितं साधनवाक्याद् अपनेतुम् उक्तम् एव न्यायम् अतिदिशन्न् आह -- एतेन `अन्यथा ऽपि प्रतिपत्तेर् उत्पत्तेःऽ इति न्यायेन उपनयनिगमनादिकं आदिग्रहणात् संशयजिज्ञासादिकं प्रत्युक्तं प्रत्याख्यातम् । [स्. 74ब्.] तत्र उदाहरणापेक्षः`तथाऽ इत्य् उपसंहारो `न तथेऽति वासाध्यस्योपनयः [न्सू 1.1.38], प्रतिज्ञायाःपुनर्वचनंनिगमनम् [न्सू 1.1.39] इत्य् अनयोर् लक्षणम् । साध्यनिर्द्देशःप्रतिज्ञा [न्सू 1.1.33] इति तु प्रतिज्ञायाः । एतेनेत्य् एतद् एव दर्शयति -- एताव् अतैव पक्षधर्मसम्बन्धवचनमात्रैव उपनयादिरहितेन साध्यप्रतीतेःभावात् उत्पत्तेर् इति ।
अत्रोद्यो(द्द्यो)तकरःप्राह -- प्रतिज्ञा तावद् विषयनिर्द्देशार्थम् अवश्यकर्त्तव्या, यतो लोकः प्रथमं कर्म च्छेद्यादिकं निरूपयति । ततः कुठारादिकं साधनं व्यापारयति । उपनयेनापि यावद् दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिणि नोपसंह्रियते तावत् कुतः साध्यप्रतीतिः? । स्वार्थानुमानदृष्टश् च प्रत्यवमर्शप्रत्ययार्थो ऽनेन दर्श्यते । तथा हि -- स्वार्थानुमाने प्रथमं प्रदेशे धूमं पश्यति, ततो `यत्र यत्राहं धूममद्राक्षं तत्र तत्राग्निम् अपिऽ इति व्याप्तिं [त्. 254ब्.] स्मरति । ततो `धूमश् चात्रऽ इति पुनः प्रत्यवमृशति, स प्रत्यवमर्शार्थः परार्थानुमाने उपनयेनोच्यते । [स्. 75अ.] निगमनम् अप्य् अवश्याभिधानीयम्, यतो यद्य् अपि पूर्वं अनित्यः शब्द इत्य् उक्तम्, न तु तावता ऽस्य निश्चयो जातः । सम्प्रति तु प्रमाणबलायातो ऽर्थः तत्सम्प्रत्ययार्थम् अनेन निगम्यते । अशेषप्रमाणव्यापारश् चानेनोपसंह्रियते । तथा हि आगमः प्रतिज्ञा,
हेतुर् अनुमानं, {प्. 71.1} दृष्टान्तः प्रत्यक्षम् उपमानम् उपनयः । तदेतस्य प्रमाणचतुष्टयस्यापि व्यापारो निगमनेनोपसंह्रियते -- इति कथम् अस्य न साफल्यम्? इत्य् एतद् आशङ्क्याह -- डिण्डिकरागंपरित्यज्य डिण्डिकाः --नग्नाचार्याःते निष्फलम् उपर्य् उपरि नामलेखने प्रसक्ताः ततस् तेषाम् इव `परेणोक्ते तस्योपरि मया ऽवश्यम् अयुक्ततया निष्फलम् अप्य् अभिधानीयम्ऽ इत्य् अस्थानाभिनिवेशं त्यक्त्वा अक्षिणीनिमील्य बहिर्विक्षेपम् उपसंहृत्य {1} चिन्तय तावत् -- {2} किम् इयता पक्षधर्मसम्बन्धवचनमात्रकेण वाक्येन साध्यस्य प्रतीतिःस्यात् न वा ? इति । यावता यावान् एव [स्. 75ब्.] परार्थानुमाने ऽर्थो ऽभिधानीय इत्य् अस्माभिर् अनुज्ञायते तावान् एवान्यूनानतिरिक्तः स्वार्थानुमाने ऽपि प्रतीतिहेतुर् दृष्टः, तस्य क इह शक्तेर् व्याघात्? येनासौ परार्थानुमाने ऽपि प्रतीतिं न कुर्यात् । भावे प्रतीतेः किंप्रपञ्चमालया
प्रतिज्ञोपनयनिगमनलक्षणया [त्. 255अ.], बालप्रतारकतदुपयोगोपवर्णलक्षणया[288]वा? । तथा हि ः प्रतिज्ञोपनयनिगमनप्रयोगे ऽपि यदि प्रमाणनिश्चिता स्वसाध्यव्याप्तिः साधनधर्मस्य न स्यात्, साध्यधर्मिणि वा सद्भावस् तदा ऽस्य[289]नैव प्रतीतिहेतुता । तत्सम्भवे[290]तु प्रतिज्ञाद्यभावे ऽपि स्वार्थानुमान इव गमकरूपावैकल्यात् सा[291]न निवार्यत इति किम् अस्थाननिर्बन्धेन इति? । न हि साध्यधर्माक्षेपणसामर्थ्यविरहे साधनधर्मस्य वादिवचनमात्रात् साध्यनिश्चयो युक्तः, हेतूपन्यासवैयर्थ्यप्रसङ्गात्, तस्य तदाक्षेपसामर्थ्ये वा प्रतिज्ञावचनस्येति[292]।
यत् तूक्तम् `विषयप्रदर्शनाय प्रतिज्ञाऽ इत्य् अत्रशास्त्रकृतैव दत्तम् उत्त-रम् । यश् च साधनं प्रयुंक्ते तेन `अहम् अनेन [स्. 76अ.] साधनेनामुष्मिं(ष्मिन्) साध्ये प्रतीतिं साधयिष्यामिऽ इति कर्म निरूप्यैव तत्[293]प्रयुक्तम् इति न लौकिकन्यायातिक्रमः, अन्यथा यदि साधनाद् यस्य साध्यप्रतीतिर् उपजायते तेनैव कर्म निरूपणीयम् कथं तदभावे स्वार्थानुमाने [त्. 255ब्.] साध्यसिद्धिः {प्. 72.1} साधननिबन्धना स्यात्? । यश् चाग्निधूमयोः सम्बन्धं चेतसि व्यवस्थाप्य `क्वाग्निः क्वाग्निः?ऽ इत्य् अग्निं 7 पर्येषते स प्रदेशे धूमदर्शनमात्राद्[294]एवाग्निं प्रतिपद्यत इति कथं स्वार्थानुमाने प्रत्यवमर्शप्रत्ययः स्यात्? । अथ कदाचिद् असौ दृष्टस् तत्रेति[295]परार्थे ऽप्य् अस्योपादानं तदा दध्यादिकम् अपि भुक्त्वा कदाचिद् धूमाद् अग्निं प्रतिपन्नवान् इति किन् न दधिभोजनादेर् अपि कादाचित् कस्योपादानम्? ।
यत् पुनरुक्तम् `आगमः प्रतिज्ञाऽ इति, तत्र यदि वादिवचनम् एवागमस् तदा तत एव साध्यसिद्धेर् हेत्वाद्युपादानम् अनर्थकम् । अथ प्रतिज्ञार्थस्यागमे पाठाद् आगमः प्रतिज्ञा, तदा न क्वचिद् आगमे पठ्यते अत्र प्रदेशे ऽग्निर् इति [स्. 76ब्.] कथम् आगमत्वं प्रतिज्ञायाः? ।
`हेतुर् अनुमानम्ऽ इत्य् अप्य् अयुक्तम्, न हि पक्षधर्मत्वमात्रं हेतुः, तस्य त्रिरूपत्वात् । दृष्टान्तो ऽपि न सर्वः प्रत्यक्ष इति कथं `दृष्टान्तः प्रत्यक्षम्ऽ भवेत्? । उपमानं तु प्रमाणम् एव न भवति, कथं तद्व्यापार उपसंह्रियेत निगमनेन? । यदि चावश्यं दृष्टान्ते दृष्टसामर्थ्यो हेतुर् द्धर्मिण्य् उपनेयः तदोपनय एवास्तु किं `कृतकत्वाट्ऽ इति पक्षधर्मनिर्द्देशेन?, स एव दृष्टसामर्थ्यं हेतुम् उपसंहरिष्यति पक्षधर्मतां च दर्शयिष्यतीति न किञ्चित् तेन । ततो यत्र च प्रतिज्ञायाः प्रथमत एव प्रयोगो नेष्यते तत्र तस्याः पुनर्वचनं कुतो निगमनं भविष्यति? । इत्य् आह -- इति तस्माद् इयान् एव पक्षधर्मसम्भन्धवचनमात्रात्मकः [त्. 256अ.] साधनवाक्ये प्रयोगो ज्यायान् न पञ्चावयवात्मक इति स्थितम् ।
__________नोतेस्__________
[288] प्रतिज्ञादि-
[289] हेतोः
[290] व्याप्त्यादिसम्भवे
[291] [प्रती] तिहेतुता
[292] उपन्यासवैयर्थ्यप्रसङ्गात्
[293] साधनम्
[294] -षते सधूमप्रदेशदर्शन- -- त्.
[295] स्वार्थानुमाने
[ सेच्तिओन्: 8. न्यायवाक्ये हेतुदृष्टान्तवचनयोः क्रमस्यानियमः ।]
अत्र साधनवाक्ये न केवलं प्रतिज्ञादिप्रयोगो न युक्तः परोपगतः [स्. 77अ.] `पूर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्तःऽ इति क्रमनियमो ऽपि न कश्चित् । कुतः? सर्वथा यदि पूर्वं हेतुः पश्चाद् व्याप्तिः अथ पूर्वं व्याप्तिः पश्चात् पक्षधर्मः प्रयुज्यते, तथापि गमकत्वात् ।
{प्. 73.1}[ सेच्तिओन्: 9. हेतोस् त्रिधाप्रयोगस्य खण्डिनम् ।]
ननु तस्य द्विधा प्रयोग इत्य् अयुक्तम् उक्तम् । यतस् त्रिविधो हेतुः -- अन्वयी व्यतिरेकी अन्वयव्यतिरेकी चेतिनैयायिकाः, ततस् तस्य त्रिधा प्रयोगः -- साधर्म्येण वैधर्म्येण साधर्म्यवैधर्म्याभ्यां चेति वक्तव्यम् इत्य् अत आह -- सम्बन्धवचने ऽपि न केवलं क्रमनियमो न युक्तः किन्तु अर्थ भेदो ऽपि न कश्चिद् उभयत्रापि त्रिरूपसद्भावात् । ततः सर्व एव हेतुर् अन्वयव्यतिरेकी, न त्व् अन्वयी व्यतिरेकी वा कश्चिद् धेतुर् अस्तीति भावः । तत् कुतस् त्रैविध्यं प्रयोगस्य स्यात्? इति मन्यते । कुतः पुनरर्थभेदो नास्तीति? चेत्, आह -- उभयथा साधर्म्येण वैधर्म्येण च प्रयोगे यद्य् अपि विधिप्रतिषेधरूपतया धर्मभेदः [त्. 256ब्.] प्रतीयते तथापि तद्भावस्यैव साधनधर्मस्य साध्यस्वभावतायाः एव साधर्म्यवैधर्म्यप्रयोगाभ्यां ख्यापनात् ।
ननु साधर्म्यप्रयोगे हेतुभावे [स्. 77ब्.] साध्यस्य भावः, वैधर्म्ये च साध्याभावे हेत्वभावः शब्दाद् अवगम्यते, न तादात्म्यम् । तत् किम् उच्यते `तद्भावस्यैव ख्यापनात्ऽ? इत्य् अत आह -- न हि इत्यादि । यदि साधर्म्यप्रयोगे तद्भावो नाक्षिप्येत तदा साधनस्य अतत्स्वभावस्य भावे किम् इति एकान्तेन अवश्यन् तया साध्यस्य भावः ? । कादाचित् कस् तु भवतु नाम? । `यत् कृतकं तद् अनित्यम्ऽ इत्य् एकान्तभावश् च हेतौ सति साध्यस्य व्याप्त्या साधर्म्यप्रयोगे ऽभिधीयते । स[296]च तादात्म्यम् अन्तरेणानर्थान्तरस्य न सम्भवतीति सामर्थ्यात् तदाक्षिपति ।
कथम् इवातत्स्वभावस्य भावे न एकान्तेनान्यभाव इति आह -- कृतकत्वे त्य् आदि । यदि प्रयत्नानन्तरीयकत्वाम् अन्तरेणापि कृतकत्वस्य भावाद् अतत्स्वभावत्वम् अनित्यत्वे[297]ऽप्य् अयम् एव वृत्तान्तः । ततश् च तादात्म्यविरहात् प्रयत्नानन्तरीयकत्वस्यानित्यत्वेनान्वयो न स्यात्, तन्निवृत्तौ[298]वा निवृत्तिर्[299]इति कथं ततस्[300]तत्[301][स्. 78अ.] {प्. 74.1} प्रतीयते? । नैष दोषः, प्रयत्नानन्तरीयकपदार्थस्वभावस्यैवानित्यत्वस्य[302]तेन[303]साधनात्, तत्र च तादात्म्यसद्भावाद् अन्वयव्यतिरेकाव् अनिवारितौ अनित्यत्वकृतकत्वमात्रापेक्षया[304][त्. 257अ.] तु तादात्म्यविरहो ऽस्याभिहित[305]इति ।
नन्व् अग्निनिवृत्ताव् अतत्स्वभावस्यापि धूमस्य निवृत्तिर् दृष्टा ऽन्वयश् चेत्य् आह -- कार्यस्य इति । अन्वयव्यतिरेकयोर् हि प्रतिबन्धो निबन्धनम्, तेन तयोः व्याप्तेः, तदभावे तयोर् अप्य् अभावात् । तत्रार्थान्तरस्य धूमस्याग्नौ तदुत्पत्तिलक्षणःप्रतिबन्दो ऽन्वयव्यतिरेकनिमित्तम् अस्तीति भवेतां तौ[306]। यत्र त्व् अनर्थान्तरस्य ताव् उच्येते तत्रावश्यं तादात्म्येन भवितव्यम् इत्य् अभिप्रायः । अत्रोदाहरणम् यथा-- अनयोर् एव कृतकत्वप्रयत्नानन्तरीयकत्वयोर् विपर्ययेण नैकनिवृत्ताव् [307] अन्यनिवृत्तिः [308]-- `यत् प्रयत्नानन्तरीयकं न भवति [स्. 78ब्.] तत् कृतकम् अपि न भवतिऽ इत्य् एवंरूपा । यत एवं तस्माद् अन्वयव्यतिरेकयोर् यथालक्षणं हेतुभावे साध्यस्यावश्यं भावः, साध्याभावे च हेतोर् अवश्यम् अभावः इत्य् एको ऽपि साधर्म्यमुखेण वैधर्म्यमुखेण वा प्रयुक्तो द्वितीयम् आक्षिपति, स्वव्यापकप्रतिबन्धाक्षेपात्[309], तस्यापि[310]चेतरेण[311]व्याप्तेः । तस्माद् उभयत्र त्रैरूप्यप्रतीतेर्
एकस्य शब्दे(ब्द)तो ऽपरस्यार्थत इति सम्बन्धवचने ऽपि प्रयोग एव विधिमुखेन प्रतिषेधमुखेन वा भिद्यते नार्थ इति सिद्धिं ततस् तस्य द्विधा प्रयोगः साधर्म्येण वैधर्म्येण च । न तु साधर्म्यवैधर्म्याभ्याम् अपि, तदर्थस्यान्यतरेणैव [त्. 257ब्.] प्रकाशनात् ।
सर्वो हेतुर् अन्वयव्यतिरेक्य् एव वस्तुतो न कश्चिद् अन्वयी व्यतिरेकी वा नामेत्य् एतद् उपसंहरन्न् आह -- इति नैकत्रा न्वयमुखेन व्यतिरेकमुखेण [स्. 79अ.] वा साधनवाक्ये द्वयो र् अन्वयव्यतिरेकयोः प्रयोगः साक्षाच् छब्देन प्रतिपादनम् इष्यते, वैयर्थ्यात् प्रतीतप्रत्यायने प्रयोजनाभावात् ।
{प्. 75.1} ताम् एवार्थतो ऽपरस्य प्रतीतिं स्फुटयन्न् आह -- तत्स्वभावतया इत्यादि । यदि तत्स्वभावतया साध्येन हेतोर् अन्वयः सिध्यति तत एव तदभावे ऽभावो ऽपि सिध्यत्य् एव । तत्स्वभावस्य तदभावे स्वयं नैरात्म्येन भावायोगात् । तथा तत्स्वभावतया साध्याभावे साधनस्याभाव {1} सिद्धौ {2} च सत्यां तत एव साध्येन हेतोः अन्वयस्यापि सिद्धेर् इति ।
यैस् तु व्याख्यायते -- साधर्म्यवति[312]प्रयोगे तदभाव एव विपक्षे हेतोर् अभावख्यातिर् यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा हेत्वभावप्रसङ्गात् विरुद्धत[313]एव व्यवच्छेदप्रसङाच् चेति नियमख्यापनार्थो व्यतिरेकप्रयोगः इति । स तदर्थो ऽप्य् अयुक्तः । कुतः? अन्यविरुद्धयोर् अपि न केवलं तदभावस्य विपक्षत्वात् यस्य हि -- अन्य एव विपक्षो ऽन्यधर्मयोगी वा ऽन्यो, न विवक्षितधर्मानाश्रयः[314], [स्. 79ब्.] विरुद्ध एव वा सहानवस्थानलक्षणेनैव[315][त्. 258अ.] विरोधेन, न परस्परपरिहारस्थितलक्षणतयापि विपक्षः -- तस्यानित्यत्वाद् अन्यानात्मादिधर्मवति[316]अर्थे, कृतकत्वादिवृत्तेः, हेत्वभावप्रसङ्गः । औष्ण्ये च साध्ये[317]ऽग्निलक्षणस्य हेतोर् विरुद्धाद् एव शीतात् नानुष्णशीताद् अप्य् अन्यतो व्यवच्छेदप्रसङ्गात् नैकान्तेनौष्ण्यम् अग्निर् ग्रसयेद् इति तस्यायं दोषः स्यात् । तं प्रत्याचार्येणोक्तम्[318]-- यद्य् एकस्य[319]विपक्षत्वम् इष्यते तदा तदभावस्यैवेष्यताम्[320],
न विरुद्धस्य अन्यस्य वा, तस्यान्यत्रापि[321]विवक्षितधर्मानाश्रये विरुद्धे च भावात्, तदभावम्[322]अन्तरेण 12 तयोर् अन्यविरुद्धत्वायोगात्[323] । न त्व् अस्माकं[324]त्रिविधम् अपि विपक्षम् इच्छताम्[325], विवक्षितधर्मानाश्रयं चा ऽन्यम् इति भावः ।
__________नोतेस्__________
[296] एकान्तभावः
[297] प्रयत्नानन्तरीयकत्वम् अन्तरेणापि अनित्यत्वस्य भावात्
[298] साध्य-
[299] हेतोः
[300] हेतोः
[301] साध्यम्
[302] न तु समग्रपदार्थस्वभावस्य
[303] प्रयत्नानन्तरीयकत्वेन
[304] प्रयत्नानन्तरीयकः शब्दः, कृतकत्वात् अनित्यत्वाच् च
[305] प्रयत्नानन्त-
[306] अन्वयव्यति-
[307] प्रयत्न-
[308] हेतु-
[309] रूपाव्यतिरेक- (?)
[310] प्रतिबन्धस्य
[311] अन्वयेन व्यतिरेकेण वा
[312] वैधर्म्ये तु तदभावे ऽभावस्य प्रतीतत्वान् न शङ्का
[313] ............र् एव सकाशाद् व्यावृत्तिः (?)
[314] अनित्यत्वं
[315] शीतवह्निवत्
[316] निरवयवत्वादि
[317] उष्णो ऽयं पदार्थः, अग्नित्वात्
[318] दिग्नागेन
[319] साध्याभावे तदभावान्यविरुद्धलक्षणात् त्रितयान् मध्याद् एकस्य
[320] साध्याभावे साधनाभावस्य
[321] तदभावस्य
[322] साध्याभावम्
[323] अन्य- । विरु-
[324] दोषः
[325] यश् च युज्यते एतन्मध्यात् स ग्रहीष्यते
[ सेच्तिओन्: 10. सत्त्वस्य क्षणिकत्वस्वभावतायाः समर्थनम् ।]
यदि स्वभावहेताव् अन्वयव्यतिरेकयोः साधनधर्मस्य साध्यस्वभावता निबन्धनम् इत्य् अन्वयेन व्यतिरेकेण वा साधर्म्यवैधर्म्यवतोः {प्. 76.1} प्रयोगयोर् अभिधीयमानेन तादात्म्याक्षेपद्वारेणार्थाद् इतराक्षेप उच्यते, तदा प्रमाणसिद्धैव तत्स्वभावता तयोर् निबन्धनं [स्. 80अ.] न शब्दमात्रतः प्रतीयमानेत्य् अभिप्रायवान् आह -- 15 कथम् इदम् [326]इत्यादि । येने ति सतो नश्वरस्वभावत्वेन । सत्व(त्त्व)लक्षणस्य हेतोः क्षणिकत्वस्वभावत्वेनेति यावत् । पृच्छतश् चायम् अभिप्रायः -- इह [त्. 258ब्.] द्विविधाः सन्तः -- कृतकाश् च घटादयः अकृतकाश् चाकाशादयः । तत्र ये तावद् अकृतकास् ते सदकारणवत् नित्यम् [वैसू 4.1.1.] इति नित्यलक्षणयोगाद् अनित्या एव न भवन्ति कुत एव क्षणिकाः? इति न सत्व(त्त्व)स्य क्षणिकत्वस्वभावता । ये ऽपि सन्तः कृतकास् तेषाम् अपि मुद्गराद्यन्वयव्यतिरेकानुविधायितया विनाशस्य सहेतुकत्वात् तद्धेत्वसन्निधाव्
विनाशात् कृतकात्मनो ऽपि सत्व(त्त्व)स्य क्षणिकत्वस्वभावता न समस्त्य् एवेति नान्वयव्यतिरेकयोः सम्भव इति । अवश्यं च विनाशो दण्डाद्यन्वयव्यतिरेकानुविधायी, दृष्टत्वात् । तथा हि -
अभिघाताग्निसंयोगनाशप्रत्ययसन्निधिम् [327] ।
विनासंसर्ग्गितांयाति न विनाशो घटादिभिः॥ [स्. 80ब्.]
अन्यत्रापि[328]चान्वयव्यतिरेकानुविधानम् एव हेतुमत्ताव्यवहारनिबन्धनम् अभ्युपेयतेसौगतैर् अपि, तद् इहाप्य्[329]अस्तीति किन् न तद्व्यवहारः प्रवर्त्त्यते? इति ।
ननु चान्वयनिश्चयं प्रतिपादयता बाधकप्रमाणवृत्तिवशात् तत्स्वभावता पूर्वम् एव प्रतिपादिता `अन्वयनिश्चयो ऽपि स्वभावहेतौऽ इत्यादि विचनात् । तत् कुतो ऽस्य पूर्वपक्षस्यावसरः? । सत्यम्, किन्तुपूर्वाचार्यैःकृतकत्वस्य क्षणिकतायां साध्यायां परैः कृतकानाम् अन्ते ऽवश्यं हेतुनिबन्धनविनाशोपगमात् तद्धेत्वयोगप्रतिपादनेनानपेक्षा विनाशं प्रति विपर्यये बाधकं प्रमाणं तादात्म्यप्रसाधकम् उक्तं तत् प्रसङ्गमुखेन[330]कृतकलक्षणस्यैव सत्त्वस्य तदात्मताम्[331]गमयति नान्यस्य [त्. 259अ.] इति दर्शयितुम् । अर्थक्रियाविरोधलक्षणं[332]तु सर्वस्य सत्त्वस्य इति वस्तुमात्रेण[333]{प्. 77.1} प्राग् उक्तम् अपि विपञ्चयितुं पूर्वपक्षोपन्यासः । अकृतकलक्षणं तु सत्त्वं न सम्भवत्य् एव, नियामकं हेतुम् अन्तरेण देशकालस्वभावनियमायोगात् । ततःपूर्वाचार्यैर् न [स्. 81अ.] तस्यैकाङ्गवैकल्याद् एव सदकारणवत् नित्यम् [वैसू 4.1.1.] इति नित्यतासम्भव
इति न तदात्मतां[334]प्रति यत्नः कृतः ।शास्त्रकारस् तु सामान्येन[335]सत्त्वस्य क्षणिकस्वभावतां, कृतकलक्षणस्य अपि च, देशकालस्वभावविप्रकृष्टस्यापि वस्तुस्थित्यैव तदात्मताम् अर्थक्रियाविरोधेन, न परोपगतावश्यम् भाविविनाशस्याहेतुकतया विशेषाभावात् उत्पन्नमात्रस्याभावप्रसङ्गेन[336]प्रतिपादयिष्यति ।
__________नोतेस्__________
[326] परः
[327] एव
[328] अङ्कुरादौ
[329] विनाशे
[330] आपत्ति-
[331] क्षणिक-
[332] प्रमाणम्
[333] सामान्येन
[334] क्षणिकत्व-
[335] कृतका ऽकृतकविशेषविरहेण
[336] विनाशस्य
[ सेच्तिओन्: 11. सहेतुकं विनाशं निरसितुं तस्य भावस्वभावतायाः समालोचनम् ।]
तत्रपूर्वाचार्योक्तं `सर्वस्य सतः कृतकस्यावश्यमन्ते हेतुकृतो विनाश इतिऽ यः परैर् इष्यते तं प्रत्यनपेक्षत्वं क्यापयितुम् उपक्रमते -- विनाशहेत्वयोगाद् इति ।
यदि तर्हि नाशस्य हेतुर् नास्ति, स तेषां कृतकानां सताम् अवश्यम् भावी विनाशः कुतः? । न ह्य् आकस्मिकः कश्चित् स्वभावो युक्त इत्य् आह -- स्वभावत एव । भवत्य् अस्मात् कार्यम् इति भावशब्दो हेतुवचनः । तेन स्वहेतुभ्य एव नश्वराः नशनशीलाः, सूच्यग्रे सर्षपा इवानवस्थायिनः स्वात्मनि {1} भावाजायन्ते । {2} नैषां कृतकलक्षणानां सतां भावानां {1} स्वहेतुभ्यो निष्पन्नानां {2} अन्यतः अभिघातादे र् विनाशोत्पत्तिः । कुतः? [स्. 81ब्.] [त्. 259अ.] तस्या भिघाताग्निसंयोगादेस् तद्धेतुतयोपगतस्य असामर्थ्यात् । तथा हि -- अग्निसंयोगादिकाले त्रितयं लक्षयामः । तद् एव काष्ठादिकं विनाश्यम्, अङ्गारादिकम् अवस्थान्तरम्, काष्ठादिनिवृत्तिलक्षणं चाभावं तुच्छरूपं, नापरं यत्राग्निसंयोगादेर् व्यापारः चिन्त्येत । एतावत्
यां च वस्तुगतौ न क्वचिद् अत्र विनाशहेतोः सामर्थ्यं युज्यते । यतो न हि विनाशहेतुर् भाव स्येन्धनादेः स्वहेतुभ्यः स्थिररूपस्योत्पन्नस्य स्वभावम् एवा स्थिरात्मतालक्षणं करोति । कुतः? तस्ये न्धनादेः स्वहेतुभ्य एव निर्वृत्तेः । न हि {प्. 78.1} 2 स्थिरात्मनो निर्वृत्तस्यान्यथाभावः[337], [338]तदात्मा[339]शक्यते कर्तुम्, तस्य हेत्वन्तरात् पश्चाद् भवतो ऽर्थान्तरत्वप्रसङ्गात्, तस्यैवान्यथात्वायोगात्, तत्र हेतुव्यापारस्य कल्पयितुम् अशक्यत्वात् ।
अथवा त्रितये समीक्ष्यमाणे यत् तावत् विनाश्यं काष्ठादि न तत्स्वभावम्[340]एवाग्निसंयोगादिर् विनाशहेतुः करोति तस्य स्वहेतुभ्य एव निर्वृत्तेर् इति ।
__________नोतेस्__________
[337] अस्थिरस्वभावता
[338] -नो ऽनिवृत्तस्यान्यथा ऽभाव -- तिब्.
[339] स्थिरात्मा
[340] काष्ठत्वम्
[ सेच्तिओन्: 12. कुमारिलेष्टभावान्तरस्वभावपक्षस्य समालोचनम् ।]
कुमारिलस् तु मन्यते -- नाग्निसंयोगादिना भावस्वभाव एव क्रियते किन्त्व् इन्धनादेः [स्. 82अ.] प्रध्वंसाभावः । स चेन्धनादिरूपविकलम् अङ्गारादिकम् उत्तरं भावान्तरम् एव । तदुक्तम् --
नास्तितापयसो दध्नि प्रध्वंसाभावलक्षणम् [341]
[श्ल्व् अभाव 3] इति ।
तथाविधस्य चाभावस्य हेतुमत्तोपगमो नैव विरुध्यते । तथा चाह कश्-चित् -
भावान्तरविनिर्मुक्तो भावो ऽत्रानुपलम्भवत् ।
अभावःसम्मतस् तस्य हेतोःकिन्न समुद्भवः? ॥ इति
तद् एतत्कौमारिलं[त्. 260अ.] दर्शनम् अपनुदन्न् आह -- नापि इत्यादि । यद्य् उत्तरं कार्यात्मकं भावान्तरम् एव अभावस् तदा ऽग्निसंयोगादयो ऽङ्ग(ङ्गा)रादिजन्मनि व्यापृ(प्रि)यन्त इतीष्टम् एवास्माकम्, किन्तु भावान्तरकरणे अभ्युपगम्यमाने ऽग्न्यादीनाम् इन्धनादाव् अव्यापारात् तदवस्थम् एवेन्धनादिकम् । ततश् च यथा ऽग्निसंयोगात् प्राग् इन्धनादेर् उपलब्धिः अन्या च तत्साध्या ऽर्थक्रिया तथा ऽङ्गाराद्युत्पत्ताव् अप्य् उपलब्ध्यादेः प्रसङ्गः ।
ननु भावान्तरस्य प्रध्वन्सा(ध्वंसा)भावरूपतायां तदुत्पत्ताव् इन्धनादीनां [स्. 82ब्.] प्रध्वस् तत्वादसतां कथं तथोपलब्ध्यादिप्रसङ्गः? । सत्यम्, एवं मन्यते -- सर्वस्येन्धनादेर् अन्यस्य गवादेर् अपि तथाभावो मा भूत् इत्य् अङ्गारादेः ध्वंसव्यवस्थायां निबन्धनम् {प्. 79.1} अभिधानीयम् । तस्मिं(स्मिन्) सति तन्निवृत्तिर् इति चेत्, अहो वचनकौशलम् यतो निवृत्तेस् तुच्छस्वभावतानङ्गीकरणात् तद् एव भावान्तरम् अङ्गारादिकं निवृत्तिं ब्रूषे । तद् अयम् अर्थः सम्पन्नः -- अङ्गारादिभावे ऽङ्गारादिभावाद् अङ्गारादिकं ध्वंसः काष्ठादेर् इति । न चाङ्गारादिभावे तद्भावः स्वात्मनि हेतुभावायोगात् । अग्न्यादिभ्यश् च तदुत्पादवचनाद् इन्धनाद्युपमर्द्देनाङ्गारादि[त्. 260ब्.]भावात् अस्य ध्वंसरूपतेति चेत् । को ऽयम् उपमर्द्दो नाम? । यदि निवृत्तिः सा ऽङ्गारादिलक्षणैवेति न पूर्वस्माद् विशिष्यते । तस्मात् [स्. 83अ.] स्वरसतो निवर्त्तते काष्ठादिः,
अग्न्यादिभ्यस् त्व् अङ्गारादिजन्म इत्य् एव भद्रकम्, अन्यथा काष्ठादे स् तथोपलब्ध्यादिप्रसङ्गः कथं न स्यात्?
मूल पाठ: Hetubinduṭīkā (commentary on Dharmakīrti's Hetubindu) · Edition: Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0