भाषा

ENहिગુ
ग्रंथ पाठ

हेतुबिन्दुटीका · भाग 4146

[661] अन्यभावात्
[662] प्रसज्यप्रतीतिः
[663] प्रसज्यप्रतीतौ
[664] अन्य्भावस्य
[665] प्रति प्रति- -- त्.
[666] तस्य द्विविधेन -- त्.
[667] -स्य रूपानभ्यु- -- त्.
[668] तदान्य- -- त्.
[669] तादात्म्यपक्षे
[670] तदेव -- त्.
[671] तादात्म्याभावेन
[672] -मुखेन संबन्धः एकार्थसमवायसंबन्ध इति -- त्.
[673] सन्निकर्षादीष्टं भवति -- त्.
[674] विशेषणविशेष्याभावे
[675] स्वकर्मस्वानन्तर्भावात् -- त्.
[676] समस्त -- त्.
[677] चात्रसम्- -- त्.
[678] -दकभावरूपो -- त्.
[679] प्रयोगात् -- त्.
[680] -दिके कुतः सि- -- त्.
[681] -यां अयं ( ओर् स) समुदायः -- त्.
[682] -योस् सं- -- त्.
[683] प्रतिपत्तिकाल एव -- त्.
[684] धूमादेर् अग्निः -- त्.
[685] लिङ्गलिङ्गिनौ -- त्.
[686] लिङ्गलिङ्गिनोश् च लिङ्गिना स- -- त्.
[687] प्. 184,29
[688] च तदभावप्रतिपत्तिः तदप्र- -- त्.
[689] तदन्यभा- -- त्.
[690] -न्याभावः तदात्मके -- त्.
[691] न युज्यते --त्.
[692] संयुक्त- -- त्.
[693] -क्षावसितः -- त्.
[694] तृषा-
[695] असंकिर्न्न(ण्ण)वस्तुप्रतिभासितया
[696] अन्यज्टानम्
[697] असंकीर्णत्वाभावे
[698] अन्यत्वायोगात्
[699] प्. 172,22 xx नास्तीताज्ञान-
[700] प्. 178,23; प्. 180,17

[701] प्. 172,22
[702] प्रमातुः
[703] घट-
[704] भूतल-
[705] घट-
[706] प्. 189,24f.
[707] तथात्वाप्र- -- त्.
[708] -स्वभावस्य प्रत्यक्षांशां -- त्.
[709] तदर्थाव्यवच्छेदाद् इति समासद्वयेन चा(व्या)चष्टे
[710] प्रकारा(र)-
[711] अनेनेति शेषः
[712] द्रव्यान्त- -- त्. xx इति सूचयति
[713] घ-
[714] सा तन्निबन्धनात् प्रति- -- त्.
[715] प्. 178,14
[716] प्. 178,15
[717] -भावविषयायाः -- त्.
[718] प्रतीतिजन्मकाल एव -- त्.
[719] रूपस्या ऽभावं -- त्
[720] ज्ञापनात् -- त्.
[721] -स्य न साधनम् -- त्.
[722] -तया न सा- -- त्.
[723] भूतल-
[724] अन्यभावो ऽनुपलम्भेन सिद्धो यः स कथम् अनुपलब्धिः? इत्य् आह
[सेच्तिओन्: 3. अनुपलब्धिं त्रिधा विभज्य तद्विवेचनम् ।]
तद् एवम् अनुपलब्धेर् अशेषविप्रतिपत्तिनिराकरणेन स्वरूपम् अवस्थाप्य प्रभेदनिर्द्देशार्थम् आह -- सेयंयतोक्तात्रिधाऽनुपलब्धिः । कथम्? । सिद्धे तत्प्रसाधकेन प्रमाणेन कार्यकारणभावे सति कारणस्यानुपलब्धिः । कीदृशस्य? । सिद्धाभावस्य । तथा, व्याप्यव्यापकभावसिद्धौ सत्यां तत्प्रसाधनप्रमाणबलेनैव सिद्धाभावस्यैव व्यापकस्य नान्यस्य व्यापकानुपलब्धेर् एवासिद्धताप्रसङ्गाद् । यथोक्ता स्वभावानुपलब्धिश् चेति । एवं त्रिविधा ऽनुपलब्धिः । कथं पुनः कारणव्यापकयोर् अभावव्यवहारः सिध्यति यतस् तयोः सिद्धाभावतोच्यत [त्. 353ब्.] इत्य् आह -- तत्र कारणव्यापकयोर् अपि न केवलं यस्य साक्षाद् अभावव्यवहारः साध्यते । स्वभावानुपलब्धौ स्वभावस्यासद्व्यवहारस्य सिद्धिर् अन्यस्य तद्विविक्तस्य भावसिद्धिर् या सैवासद्व्यवहारसिद्धिहेतुत्वाद् एवम् उच्यते । [स्. 192अ.] स कारणव्यापकाभावः तथासिद्धो
ऽन्यभावसिद्ध्या प्रत्यक्षरूपया सिद्धो ऽभावव्यवहारः कार्यव्याप्ययोः प्रतिषेध्ययोः । यदा ऽनयोर् विरूपविषयतया {प्. 203.1} सविशेषाणाम् उपलब्धिर् न सिध्यति तदाऽभावम् अभावव्यवहारंवासाधयति । समुच्चयार्थो वाशब्दः । अथ किं स्वभावानुपलब्धाव् अप्य् अभावो लिङ्गतया साध्यत इत्य् आह -- स्वभावानुपलब्धौ तु इत्यादि । अभावव्यवहार एव , नाभावो ऽपि तस्य प्रत्यक्षसिद्धत्वात् ।
अत्र परस्य वचनावकाशम् आशङ्क्याह -- यदि तर्हि कारणव्यापकौ सिद्धो ऽसद्व्यवहारो ययोः तौ सन्तौ । केन? । तदन्यस्य करणव्यापकविविक्तस्य भावस्य सिद्धिर् या प्रत्यक्षात्मिका तद्रूपया ऽनुपलब्ध्या, अन्यस्य कार्यस्य व्याप्यस्य वा ऽभावम् अभावव्यवहारं च साधयतः । सा चान्यभावोपलब्धिस् तयोः कारणव्यापकयोर् उपलब्धिलक्षणप्राप्ताव् एव सत्याम् असद्व्यवहारस्य साधिका नान्यथा इत्य् एवम् इष्यमाणे [त्. 354अ.][स्. 192ब्.] सति कथं तयोः कारणव्यापकानुपलब्ध्योः परोक्षे ऽर्थे विषये प्रयोगः । यदा कार्यस्वभावहेत्वोर् व्यतिरेकप्रयोगः क्रियते -- यत्र यत्राग्निर् नास्ति तत्र तत्र धूमो ऽपि नास्ति, तथा यत्र यत्र वृक्षो नास्ति क्षणिकता वा तत्र तत्र शिंशपा नास्ति सत्त्वं वा इत्य् अशेषपदार्थपरिग्रहेण व्यतिरेकप्रयोगे सति । न हि तदाग्निवृक्षव्यतिरिक्ताः सर्वे ऽर्थाः प्रत्यक्षता(क्षा) अक्षणिकता वा । ततश् च कथं
तद्विविक्तोपलब्धिलक्षणानुपलब्धिः[725]प्रतियोगिनो नोपलब्धिलक्षणप्राप्तता सिद्धा? । तथा च कथम् अशेषोपसंहारेण व्याप्त्या कार्यस्वभावहेत्वोर् व्यतिरेकः सिध्येत्? । तदसिद्धौ वा कथम् अनयोर् ग्गमकत्वम्? । तस्मात् क्वचिद् अदर्शनमात्राद् एव व्यतिरेक एष्टव्यः, क्वचिच् च दर्शनमात्राद् अन्वयः । तथा च प्रतिबन्धघोषणा ऽनर्थिकेति मन्यते परः ।
सिद्धान्तवाद्य् आह -- नैव परोक्षे ऽर्थे कारणव्यापकानुपलब्ध्योः प्रयोगो [स्. 193.अ] व्यतिरेकोपदर्शनकाले प्रमाणतया कारणस्य व्यापकस्य वा ऽनुपलब्धिः प्रमाणभूता नैव प्रयुज्यते । कस्मात्? । लिङ्गस्य कारणव्यापकानुपलब्धिलक्षणस्य तदभावलक्षणस्य वा अनिश्चयात् तदनुपलब्ध्योः सन्देहरूपत्वात् तदभावस्य च [त्. 354ब्.] सन्दिग्धत्वात् । कथं तर्हि तदा ऽनयोः प्रयोग इष्यते? इत्य् आह -- केवलम् इत्यादि । कारणव्यापकयोर् हि {प्. 204.1} कार्यकारणभावप्रसाधकेन पूर्वोक्तेन प्रमाणेन व्याप्यव्यापकभावसाधकेन च तदुत्पत्तिलक्षणे तादात्म्यलक्षणे च सम्बन्धे साधिते सिद्धसम्बन्धयोर् यद्य् अभावो यत्र यत्राभावः स्यात् परस्यापि कार्यस्य व्याप्यस्य वा ऽवश्यं नियमेनाभावो ऽन्यथा ऽहेतुकत्वप्रसङ्गात्, निःस्वभावताप्रसङ्गाच् च । तद्द्वारेण प्रतिबन्धप्रसाधके प्रमाणे स्मृतिः कथं नाम
स्याद् इत्य् एतस्यार्थस्य दर्शनार्थम् एते कारणव्यापकानुपलब्धी प्रयुज्येत इति । दर्शनादर्शनबलेन तु साधने यत्रैवैकदर्शने परो दृष्टो ऽदर्शने वा न दृष्टः तत्रैव तस्य भावो ऽभावो वा भवतु सर्वत्र तु कस्माद् भवति? । न ह्य् अप्रतिबद्धात्मनां गवाश्वादीनां क्वचित् तथाभावदर्शने ऽपि सर्वत्र तथाभावो भवति, पुरुषस्य तु सर्वदा क्वचिद् एकभावाभावयोर् अपरस्य [स्. 193ब्.] भावाभावदर्शनं यदृच्छासंवादः सम्भाव्येत असति प्रतिबन्धे । तथा चाह --
देशादिभेदादृऋष्यन्ते भिन्नाद्रव्येषुशक्तयः।
प्रमाणसिद्धे सत्य् अवश्यम् एव यत्र यत्र कार्यं तत्र तत्र कारणम्, यत्र यत्र तदभावः तत्र तत्र च कार्यस्याप्य् अभावो ऽन्यथा कारणम् अन्तरेण कार्यस्य भावे तस्याहेतुतैव स्यात् । ततश् च नित्यं सत्त्वादिप्रसङ्गः । तथा यत्र यत्र यत्स्वभावस् तत्र तत्र तद्भावः[726]अन्यथा तस्य नैरात्म्यम् एव स्याद् इति व्याप्त्यैवान्वयव्यतिरेकोपदर्शने प्रतिबन्धः ख्यापयितुं शक्यते नान्यथेति प्राग् एव विस्तरतो विपञ्चितम् ।
__________नोतेस्__________
[725] अग्निवृक्ष-
[726] तत्स्वभावः -- त्.
[ सेच्तिओन्: 4. हेतोस् त्रैरूप्यत्रैविध्ययोर् हेत्वाभासत्वस्य चोपसंहारः ।]
एवं कारय्स्वभावानुपलब्धिलक्षणे एव पक्षधर्मे तत्साधकप्रमाणसद्भावाद् अन्वयव्यतिरेकसद्भावो नान्यत्रेति प्रतिपाद्योपसंहरन्न् {प्. 205.1} आह -- इति एष एव [स्. 194अ.] स्वभावकार्यानुपलब्धिलक्षणः पक्षधर्मो ऽन्वयव्यतिरेकवान् प्रतिबन्धसद्भावात्[727]। यतश् चान्वयव्यतिरेकवान् प्रतिबन्धप्रसाधकप्रमाणसद्भावाद् उक्तेन न्यायेन इति तस्मात् तदंशेन व्याप्तो ऽन्वयव्यतिरेकनिश्चयेनैव तदंशव्याप्तेर् निश्चयाद् यथोक्तं प्राक्, [त्. 355ब्.] ततश् च तदंशव्याप्तिवचनात् त्रिलक्षण एव त्रिरूप एव त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वा यथोक्तत्रैरूप्यसद्भावे रूपान्तरस्य वैयर्थ्यात् यथोक्तत्रैरूप्याभावे च रूपान्तरकल्पनायाम् अप्य् अव्यभिचाराभावेनागमकत्वात् । कस्मात् त्रिलक्षाण एव त्रिविध एव हेतुर् ग्गमको नान्यलक्षणो ऽन्यो वेति दर्शयति स्वसाध्यधर्माव्यभिचाराद् इति त्रिलक्षणस्यैव स्वसाध्यधर्माव्यभिचारात्

। स्वसाध्यधर्माव्यभिचार एव च गमकत्वम् इति रूपान्तरकल्पना व्यर्था । प्रतिबन्धनिबन्धनान्वयव्यतिरेकापगमे च रूपान्तरकल्पनायाम् अपि स्वसाध्यधर्माव्यभिचाराभावात् । तद् अनेन `त्रिधैव स` इत्य् अस्य त्रिलक्षण एव स हेतुर् अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य नियमाद् अवश्यन् तया सद्भावात् [स्. 194ब्.] प्रतिबन्धनिमित्ततदंशव्याप्त्यनभ्युपगे(गमे) च रूपान्तरकल्पनायाम् अपि हेत्वाभासास् ततो ऽपरे यथोक्तत्रिलक्षणाद् अपरे रूपान्तरयोगितया विकल्प्यमाना हेत्वाभासा [त्. 356अ.] अविनाभावस्य स्वसाध्यधर्माव्यभिचारस्य तेष्व् अभावाद् इत्य् अपरो ऽर्थो दर्शित इति ।
__________नोतेस्__________

[727] -सद्भावात् अस्यैव स्वभावकार्यानुपलब्धिलक्षणाश्रय(णास् पद)त्वात् -- त्.
[ सेच्तिओन्: 5. हेतुलक्षणे ऽधिकरूपवादिनां निरासः ।]
यदुक्तं `त्रिलक्षण एव हेतुर् नान्यलक्षणः` इति तत्र परेषां विप्रतिपत्तिं दर्शयन्न् आह -- षड्लक्षणो हेतुर् इत्य् अपरे नैयायिक-मीमांसकादयो मन्यन्ते । कानि पुनः षड्रूपाणि हेतोस् तैर् इष्यंते? इत्य् आह -- त्रीणि चैतानि पक्षधर्मान्वयव्यतिरेकाख्यानि । तथा ऽबाधितविषयत्वं चतुर्थं रूपम् । अबाधितः प्रमाणेनानिराकृतो विषयः साध्यधर्मलक्षणो यस्य स तथोक्तः तस्य भावः तत्त्वम् अपरं रूपम् । तथा विवक्षितैकसंख्यत्वं रूपान्तरं, एका संख्या यस्य {प्. 206.1} हेतुद्रव्यस्य तदेकसंख्यं विवक्षितम् एकसंख्यं हेतुद्रव्यम् आश्रयत्वेन यस्य हेतुसामान्यस्य तद्विवक्षितैकसंख्यं तद्भावो ऽपरं रूपम् । यद्य् एकसंख्याव्यवच्छिन्नायां प्रतिहेतुरहितायां हेतुव्यक्तौ हेतुत्वं भवति तदा गमकत्वं न तु प्रतिहेतुसहितायाम् अपि 1 द्विसंख्यायुक्तायाम् इति[728]। [स्. 195अ.] यदि विरुद्धाव्यभिचार्यपरं
हेत्वन्तरं नोपदर्श्यत इति यावत् । तथा ज्ञानत्वं च ज्ञानविषयत्वं च । न ह्य् अज्ञातो हेतुः स्वसत्तामात्रेण गमको युक्तः [त्. 356ब्.] इति । तत्रैतेषु रूपान्तरेषु यद् एतद् अबाधितविषयत्वं नाम तत् तावत् प्रतिबन्धनिबन्धनान्वयव्यतिरेकात्मका ऽविनाभावसम्भवे सति ततः पृथग् अन्यल्लक्षणं न भवति । तदात्मकं तु तद्वचनेनैवोक्तम् इति न वक्तव्यम् इति । कस्मात् पृथग् लक्षणं न भवति? बाधाया अविनाभावस्य च विरोधाद् इति । तथा हि -- सत्य् अप्य् अविनाभावे यथोक्ते बाधासम्भवं मन्यमानैर् अबाधितविषयत्वं रूपान्तरम् उच्यते । सा चेयं तत्सम्भावना न सम्भवति, बाधाया अविनाभावेन विरोधात् सहानवस्थानलक्षणात् । तम् एव विरोधं साधयन्न् आह -- अविनाभावो हि इत्यादि । सत्य् एव हि साध्यधर्मे भावो हेतोर् अविनाभाव उच्यते । प्रमाणबाधा तु तस्मिन्नसति । यदि हि सत्य् एव तस्मिंस् तदभावविषयं प्रमाणं प्रवर्त्तेत तदा ऽस्य भ्रान्तत्वाद् अप्रमाणतैव स्यात्
इति कुतो बाधा? । ततः स हेतुः तल्लक्षणः साध्याविनाभावी धर्मिणि स्यात् । अत्र च साध्यधर्मःकथंन भवेत् ? यतो [स्. 195ब्.] बाधावकाशः स्यात् । तस्माद् अविनाभावस्य प्रमाणबाधायाश् च सहानवस्थानम् अविनाभावेनोपस्थापितस्य धर्मिणि साध्यधर्मभावस्य प्रमाणबाधोपस्थापितस्य च तदभावस्य परस्परपरिहारस्थितिलक्षणतया विरोधेनैकत्र धर्मिण्य् असम्भवाद् इति ।
तम् एव विरोधं सष्टीकर्तुं परोपहासव्याजेनाह -- प्रत्यक्षानुमाने हि इत्यादि । साध्यधर्मं हि बाधमाने प्रत्यक्षानुमाने, तंग्रीवायांगृहीत्वा [त्. 357अ.] धर्मिणः स्वाश्रयात् निष्कासयतः [729]। तस्मिंश् च साध्यधर्मे सत्य् एव तदविनाभावित्वाद् धेतुर् भवं स् तं {प्. 207.1} साध्यधर्मं निष्कास्यमानं गले गृहीत्वा हठात् तत्रैव धर्मिण्यवस्थापयतीति परं प्रकृष्टं वत भावानां साध्यधर्मलक्षणानामस्वास्थ्यं वर्तते । तथा हि -- यन्त्रद्वयनियन्त्रितानां निरुच्छ्वासितया मरणम् एव प्राप्तम् इति ।
परो बाधा ऽविनाभावयोर् विषयभेदाद् अविरोधं दर्शयन्न् आह -- अन्यत्र साध्यधर्मिणं परिहृत्य दृष्टान्तधर्मिणि साध्यधर्मेणाविनाभावी हेतुर् न पुनः साध्यधर्मिण्य् एव । ततः [स्. 196-7अ.] कुतो बाधा ऽविनाभावयोर् विरोधो ऽन्यत्र बाधया साध्यधर्माभावसाधनाद् अन्यत्र च हेतुना तद्भावसाधनात् । तथा चैवंविधे सत्य् अपि अविनाभावे बाधासम्भवाद् अबाधितविषयत्वस्य रूपान्तरस्य सम्भव इति ।
एवंविधाविनाभावोपगमे सत्य् अप्य् अबाधितविषयत्वादिके रूपन्तरे हेत्वाभासास् ततो ऽपरे रूपान्तरसम्भविन इत्य् आपादितां हेत्वाभासतां विवरीतुं परोपहासपूर्वकम् आह -- तत् किम् अयं साध्यधर्मी तपस्वी वराकः शड्ढ्(ण्ढ)म् उद्वाह्य तस्मिन् साध्यधर्मसाधनशाक्तिविकलं [त्. 357ब्.] हेतुं परिणाय्य साध्यधर्मलक्षणं पुत्रंमृगयते? । एतद् एव व्यनक्ति -- यस्य हेतोर् द्धर्मिण्य् असत्य् अपि साध्यधर्मे भाव इष्यते, साध्यधर्मिणो ऽन्यत्राविनाभावोपगमात् । तं तथाविधं साध्यधर्मिण्य् उपदर्श्य कथं धर्मी साध्यधर्मवान् इत्य् उच्यते? । न ह्य् ऽम्भस्त्वस्य[730]समुद्रे[731]लवणत्वेनाविनाभवे ऽपि तद्व्यतिरिक्ते ऽम्भसि लवणतया साध्यत्वेनेष्टे ऽम्भस्त्वभावे ऽपि लवणत्वसिद्धिर् इति ।
परस्य वचनावकाशम् आशङ्ख्याह -- अत एव इत्यादि । एतद् एव विवृनोति -- स्याद् एतद् भवतो मतम् । यत एव हेतुर् अन्यथा ऽपि साध्यधर्मम् अन्तरेणापि धर्मिणि भवेद् अम्भस्त्वादिषु तथादर्शनात्, साध्यधर्मिपरिहारेण चाविनाभाओपगमात् अत एव कारणात् प्रमाणाभ्याम् अबाधितधर्मा धर्मीत्य् उच्यते । यदि {प्. 108.1} प्रत्यक्षानुमानाभ्यां साध्यधर्मिणि [स्. 196-7ब्.] हेतोर् विषयः साध्यधर्मो न बाध्यते यथा ऽम्भस्त्वस्य लवणत्वम्, तदा तस्य गमकत्वम्, नान्यथेति । ततो ऽन्यत्राविनाभावमात्रेण साध्यसिद्धेर् अनभ्युपगमात् न यथोक्तो दोष इति ।
सिद्धान्तवाद्य् आह -- तत् किम् इदानीं [त्. 358अ.] यदा हेतोर् धर्मिण्य् अविनाभावितानभ्युपगमात् साध्यसिद्धेर् अभावात् तत्सिद्धये रूपान्तरम् अबाधितविषयत्वम् उच्यते तदा हेतोर् न किञ्चित् सामर्थ्यम् । कस्मात्? अबाधयैव हेतुम् अन्तरेणापि साध्यसिद्धेः अकिञ्चित्कर एव हेतुः । तथा ह्य् अत्र कल्पनाद्वैयम् -- बाधकप्रमाणवृत्तौ साध्याभावो नियतो वा स्याद्? अनियतो वा? । तत्र यदि पूर्वो विकल्पस् तदा साध्याभावो हि बाधकप्रमाणस्य वृत्तौ नियतः, तदैव भावात् तदभावे चाभावाद् इति । तस्माद् अबाधायां बाधकप्रमाणवृत्त्यभावे तन्नियतस्य साध्याभावस्याप्य् अभावात् साध्यसिद्धेः भवत्य् एवेति व्यर्थ एव हेतुर् इति नोपन्यसनीय एव । ततः कस्याबाधितविषयत्वं रूपान्तरण् भवेत्? । स्यान् मतम् -- मा भूद् बाधकप्रमाणवृत्त्यभावे हेतोः सामर्थ्यम्, यदा तु साध्यस्य बाधकं प्रमाणं धर्मिणि वर्त्तते तदा हेतोः साध्यसाधने
सामर्थ्यं भविष्यतीत्य् अत [स्. 198अ.] आह -- बाधायाम् अपि इति । यदि बाधकं प्रमाणं वर्त्तते तदा तेन साध्याभावस्य धर्मिणि साधनात् पुनर् ब्रह्नणापि तद्भावस्य कर्त्तुम् अशक्यत्वात् किम् अङ्ग 3 पुनः शष्ठेन हेतुनेति[732]कुतः साधनस्य हेतोः सामर्थ्यम्? । अत [त्. 358ब्.] एव हि भवद्भिर् अबाधितविषयत्वं रूपान्तरम् उच्यत इति ।
अथ बाधकप्रमाणवृत्तौ साध्याभावो न नियतः तदभावे ऽपिभावाद् इति द्वितीयः पक्ष इष्यते तद् अप्य् अबाधायाः सामर्थ्यविरह इति दर्शयन्न् आह -- अनियमे बाधकप्रमाणवृत्तौ साध्याभावस्येष्यमाणे सतीदम् आपतितम् । न च -- बाधकं प्रमाणं स्यात् साध्याभावस्य च सम्भवः इति न साध्यसाधने सामर्थ्यम् अबाधायाः सत्याम् अपि साध्याभावस्य स्म्भवाद् इति तद्योगिनो ऽपि हेत्वाभासतैवेति ।

यद् उक्तम् -- अबाधयैव साध्यसिद्धेर् व्यर्थो हेतुः इति तत्रान्यथार्थम् अबाधाया दर्शयन् हेतुसामर्थ्यं प्रतिपादयन्न् आहपरः-- न बाधाया अभावो समाबाधा ऽभिमता । किं तर्हि? । बाधाया अनुपलब्धिः । सा च तदनुपलब्धिः पुरुषस्य शक्तिवैकल्यात् क्वचिद् देशादौ बाधाया सम्भवे ऽपि स्यात् । ततो बाधा ऽनुपलब्धिमात्रेण सध्यसिद्धेर् अभावात् तत्सिद्ध्ये ऽवश्यं [स्. 198ब्.] हेतुर् अभिधानीय इति स हेतुप्रयोगस्य विषयः. तदा हि हेतुः स्वसाध्यं साधयन् कथम् असमर्थः स्याद् इति.
सिद्धान्तवाद्य् आह -- किं नु वै हेतुर् बाधाया या उपलब्धिस् तस्याः बिभेति न पुनर् ब्बाधाया येन बाधां सम्भवन्तीम् अप्य् अनादृत्य तदनुपलब्धौ सत्यां प्रयोक्तव्य इष्टो भवतः ।
कदाचित्परो ब्रूयात् -- किं करिष्यति विद्यमानाऽपि बाधा तपस्विनी, [त्. 359अ.] तदुपलब्धिर् एव राक्षसी । तस्मात् तत एव हेतोर् भयं तदभावे हेतुः प्रयोक्तव्य एवेत्य् अत आह -- स तर्हि इत्यादि । एवं तर्हि परमार्थेन बाधा किम् अस्ति नास्तीत्य् एतदनपेक्ष्य बाधाया अनुपलब्धौ सत्यां प्रयोक्तव्य इति काक्वा पृच्छति । कदाचित् परो ब्रूयात् -- उक्तम् एवैतत् किम् अर्थं पृच्च्यते? इत्य् आह -- किम् अर्थंप्रयुज्यत इति । बाधा ऽनुपलम्भे ऽपि तत्सम्भवे साध्यस्धनायोगाद् इत्य् अभिप्रायः । परो ऽनवगताभिप्राय आह -- साध्यसिद्ध्यर्थम् इति बाधकप्रत्ययाभावे प्रामाण्यस्येष्टत्वात् ततः साध्यसिद्धिर् अविरूद्धैवेति मन्यते । सिद्धान्तवादी सत्यां बाधायां तदनुपलम्भे ऽपि साध्यसिद्धिम् असम्भावयन् पृच्छति स किंक्वचिद् इत्यादि । किं [स्. 199अ.] पुनर् असौ हेतुः सत्याम् अपि बाधायां साध्यं साधयेद् इति सम्भव्यते भवता येनास्या बाधाया अभाव विनिश्चयं प्रति यत्नो न क्रियते
हेतुश् च प्रयुज्यत इति । एवम् एतत् इति चेत्; तथा सत्याम् अपि बाधायां साध्यसाधनसामर्थ्योपगमे सत्य् अबाधितविषयत्वं न भवति । किं कारणम्? । बाधायाम् अपि सत्याम् अस्य हेतोः सामर्थ्यात् सामर्थ्योपगमात् । तद् धि हेतोर् लक्षणम् उच्यते येन विना साध्यं न साधयेद् इति ।
{प्. 210.1} स्यन् मतम् -- अनुपलभ्यमानबाधत्वं हेतुलक्षणं [त्. 359ब्.] परमार्थेन, नाबाधितविषयत्वम् इत्य् अत आह -- तथाच इत्यादि । एवं सति बाधायाः सद्भावसम्भवे ऽपि ताम् अभ्युपगम्य तदनुपलम्भमात्रेण हेतोः प्रयोगः प्राप्तः । यदि हि बाधाम् अभ्युपगम्य हेतुप्रयोगो नाभिमतः स्यात् तदा ऽनुपलम्भमात्रेण बाधायां संशयात् -- सताम् अपि केशाञ्चित् कथञ्चिदनुपलम्भसम्भवात् -- संशयितस्य हेतुप्रयोगे प्रवृत्तिर् एव न युज्येत । तस्माद् यो यत्संशये ऽपि प्रवर्तते स तस्य भावपक्षम् अभ्युपेत्यैव प्रवर्त्तते । तथा च यथा बाधानुपलब्धौ ताम् अभ्युपगम्य हेतुः प्रयुज्यते तथा तदुपलब्धाव् अपि प्रयुज्यताम्, बाधायाः सद्भावाभ्युपगमे सति तदुपलम्भानुपलम्भयोर् विशेषाभावाद् इति नानुपलभ्यमानबाधत्वम् अपि [स्. 199ब्.] हेतुलक्षणं युज्यत इति कुतो बाधकप्रत्ययविरहे ऽप्य् असति प्रतिबन्धे प्रामाण्यस्य सम्भव इति ।
परस्य वचनावकाशम् आशङ्ख्याह -- न बाधायाम् इत्यादि । नैव हि बाधायां सत्यां हेतोः सामर्थ्यम् इष्यते तत् कथं तदुपलम्भे ऽपि प्रयोगः स्यात्? । सिद्धान्तवाद्य् आह -- यद्य् एवं बाधायां सत्यां हेतुर् असमर्थो यदीष्यते तदा ऽनिर्णीतो अधाया असंभवो यस्य हेतोः स तथाविधः प्रयोगंबाधा ऽनुपलम्भमात्रेण नार्हति । किं कारणम्? । मा भूद् बाधायाः सम्भस्वपक्षे प्रयुक्तस्यापि हेतोः साध्यसिद्धौ 1 असामर्थ्यम् इति [733]। [त्. 360अ.] पूर्वपक्षवाद्य् आह -- बाधानुपलम्भे सति बाधाया आभावात्[734]सदुपलम्भकप्रत्ययाभावे[735]सत्य् अवश्यम् अर्थानाम् असत्त्वाद् धेतोः सामथ्यम् इति चेन् मन्यसे सिद्धान्तवाद्य् आह -- किम् उपलम्भो बाधाम् इत्यादि । उपलम्भो ह्य् अर्थानां कार्यं, न च कार्यं कारणं व्याप्नोति । न ह्य् ऽवश्यं कारणानि कार्यवन्ति भवन्ति, प्रतिबन्धवैकल्यसम्भवात्[736]। तत् कथम् अव्यापकस्योपलम्भस्य
निवृत्तौ बाधाया निवृत्तिः?, यतो हेतोर् ब्बाधायाः सम्भवकृतम् असामर्थ्यं न सम्भवेद् इति । एतच् च परैर् अपीष्यत एव; [स्. 200अ.] प्रमाणतयोपगतस्याप्य् उदयकाले ऽनुपलब्धबाधस्य {प्. 211.1} कालान्तरेण बाधकप्रत्ययोत्पादे सत्य् अप्रामाण्योपगमात् । अथाव्यापकस्याप्य् उपलम्भस्य इवृत्तौ बाधा निवर्त्तते --
निवर्त्तते हि मिथ्यात्वंदोशाजानादयत्नतः॥ [श्ल्व् सू 2.52]
इति अनेनैव न्यायेन ज्ञाननिवृत्त्या बाधानिवृत्तेर् इत्य् आह -- तथापि व्यर्थो हेतुः । कुतः? । बाधानुपलम्भाद् एव हेतुपयोगरहितात् साध्यसिद्धेः । किं कारणम्? । अनुपलम्भे बाधाया असम्भवात् । तथा हि -- यत्र बाधाया अनुपलम्भस् तत्र परमार्थत एव सा न विद्यत इति मन्यसे । यत्र चासौ परमार्थतो नास्ति, तत्र साध्यधर्मस्याभावो ऽपि परमार्थेनैव [त्. 360ब्.] नास्ति, अन्यथा परमार्थेन बाधाया अभावायोगात्. ततश् च साध्यधर्मस्याभावाभावे सति भाव इति भवन्मत्य साध्यप्रतीतेर् व्यर्थता हेतोर् इति.
अथ मा भूद् युक्तिविरोध इति नोपलम्भनिवृत्तौ बाधानिवृत्तिर् इष्यते, तत्राह -- उपलम्भस्य निवृत्ताव् अपि सत्यां बाधाया अनिवृत्ताव् इष्यमाणायां तदवस्थं हेतोर् असामर्थ्यम् यदवस्थं बाधोपलम्भ इति हेतोर् अप्रयोग इति कस्याबाधितविषयत्वं [स्. 200ब्.] रूपान्तरं स्यात्? ।
एतद् एवोपसंहरन्न् आह -- तस्मात् स्वसाध्य इत्यादि. यत एवं व्याप्त्य हेतोः सर्वत्र साध्येनाविनाभावाभ्युपगमे बहिर्व्याप्तविषयमाणायां वैयर्थ्यं हेतुप्रयोगस्यापद्यते तस्मात् स्वसाध्यभावाभावाभ्यांअन्यथाऽपि स्वसाध्यभावे ऽप्य् अभवन् न ऽभावे ऽपि च भवन् हेतुर् धर्मिणि किञ्चित् साध्यं न भावयति न साधयति न विभावयति तद्विपरीतं न निषेधयति इति तस्य विधिप्रतिषेधावकुर्वत उपक्षेपः प्रयोगो न समर्थः इत्य् अवश्यं हेतुप्रयोगम् इच्छता स्वसाध्याविनाभावः सर्वत्र हेतोर् अभ्युपगन्तव्यः । स च प्रतिबन्धनिबन्धनः । एष च दर्शनादर्शनमात्रायत्तो यथोक्तं प्रक् । तस्मिंश् चाभ्युपगते बाधाविनाभावयोर् विरोधः [त्. 361अ.] सिद्ध इत्य् उपसंहरन्न् आह -- तन् न इत्यादि । यत एवं तेन कारणेनाबाधा रूपान्तरं न भवति ।

यदि नाम बाधाविनाभावयोः सहावस्थानाभावाद् अविनाभावे {प्. 212.1} सत्य् अबाधा गम्यते रूपान्तरं तु किम् इति न भवति? इति, अत आह -- तन् नाम इत्यादि । तद् धि तस्माद् विशेषणान्तरं भवेद् वस्तुस्थितया । [स्. 201अ.] लक्षणकारैश् च रूपान्तरत्वेनोपादानम् अर्हति यस्य विशेषणस्य भवे ऽपि यस्यापरस्याभावः स्यात् । यतः स्वभावे व्यभिचारे च विशेषणविशेश्यभावो न सम्भव एव केवले । उदाहरणम् आह -- तद् यथा इत्यादि । सत्य् अपि हि श्रावणत्वादेः सपक्षे भावो नास्ति । सत्य् अपि च चाक्शुषत्वादेः सपक्षे भावे साध्यधर्मिणि शब्दे सम्बन्धो नास्ति । ततो ऽन्योः सम्बवव्यभिचारयोर् भावाद् विशेषणविशेष्यभावो लक्षणान्तरत्वेन चोपादानम्[737]। इहा ऽप्य् एवं भविष्यतीति चेद् आह -- न चैतद् अनन्तरोदितम् अबाधाया अविनाभावे सति सम्भवति । सत्य् अविनाभावे नियमेनाबाधायाः सम्भवाद् व्यभिचाराभावात् कुतो विशेषणविशेष्यभावो
लक्षणान्तरत्वेन चोपादानम्[738]अर्हति? इति न हेतोः साध्याविनाभाविनो विरुद्धस्य च साध्यविपर्ययाविनाभाविनो विषये बाधा सम्भवति । उक्तेन प्रकारेण विपर्यये सम्यग्घेतुर् एवाविषये तु प्रयोगाद् धेत्वाभास उच्यते । यत एवम् इति तस्मान् न तदभावो बाधाविरहः [त्. 361ब्.] पृथगविनाभावाद् अन्वयव्यतिरेकात्मनो ऽनयोर् हेतुविरुद्धयोर् लक्षणान्तरत्वेन वाच्यः, [स्. 201ब्.] व्यभिचाराभावेन रूपान्तरत्वायोगात् । यतश् चाविनाभावे सति बाधा न सम्भवति विरोधात्, तस्माद् धेतोर् यथोक्तलक्षणस्य प्रयोगे सति गम्यार्थाया अपि प्रतिज्ञाया दोषाणां प्रत्यक्षविरुद्धादीनां सम्भवो नास्ति, हेतुलक्षणेनैव तेषां निरस्तत्वात् । तत् कथं बाधाविरहो हेतो रूपान्तरम् उच्यते? असम्भविनां च तेषां उपवर्णनं निष्फलम् 3 इत्य् आकूतम्[739]।
केवलायाः प्रयोगे ऽस्ति सम्भव इति चेत्, आह -- नापि इत्यादि । हेतुप्रयोगे ह्य् असति केवला प्रतिज्ञैव न प्रयुज्यते, हेतुविषयत्वेन तदभ्युपगमात् । ततश् चशास्त्रकारैर् न प्रतिज्ञादोषाः प्रत्यक्षविरुद्धादयो वाच्या इति ।दिङ्नागपादैस् तु {प्. 213.1} साध्यासाध्यविपर्ययेण[740]विप्रतिपत्तिदर्शनाद् अप्रयोगार्हस्यापि पक्षस्य लक्षणविधाने न्यायप्राप्तम् एवापक्षत्व न नि(-त्वं नि)राकृतपदेन प्रमाणविरुद्धस्याख्यानम्, न त्व् अतिप्रसक्तं पक्षलक्षणम् व्यवच्छिन्नम्, सन्दिग्धस्यैव साध्यत्वात्, प्रमाणबाधिते साधकप्रमाणावृत्तेर् इति ।
तद् एवम् अबाधितविषयत्वं निराकृत्य रूपान्तरं निराकुर्वन्न् आह -- एतेन अविनाभावे सति बाधाया [त्. 362अ.] असम्भवदर्शनेन एकसंख्याविवक्षाऽपि विरुद्धाव्यभिचारिदोषविपक्षेणोच्यमाना प्रत्युक्ता प्रत्याख्याता ।
परःपृच्छति -- कथम् इति केन प्रकारेण -- यथा बाधाविनाभावयोः सहानवस्थानं तथा प्रतिहेत्वविनाभावयोर् अपि?, येनैकसंख्याविवक्षा तद्वद् एव प्रत्याख्यायेत इति ।
सिद्धान्तवादी साम्यं दर्शयन्न्[741]आह -- एक इत्यादि । एको हि हेतुर् लक्षणयुक्तः । स्वसाध्याव्यभिचारी कथं भवति? । यदि स्वसाध्यभाव एव भवेत्, अन्यथा तल्लक्षणम् अविनाभावो नाम हीयेत । अत्रैव धर्मिणि स तल्लक्षण एको भवति तत्रैव धर्मिणि तस्माद् अन्यो ऽपि प्रतिहेतुर् विरुद्धस्तेन हेतुलक्षणयुक्तः कथं भवति? । एकस्य 3 हेतोर् यत् साध्यं[742]तद्बाधकस्य तद्विरुद्धस्यापरस्य धर्मस्य भाव एव नाभावे भावाद् अविनाभावाद् इति बाधया समानं बाधासम्भवेन समानः प्रतिहेतुर् इति [स्. 202ब्.] निरस्त इति ।
अत्रैव दूषणान्तरम् अभिधातुं विकल्पयन्न् आह -- अपि च इत्यादि । `वस्तुतः` परमार्थतो यस्य प्रतिहेतुर् न सम्भवति -- किम् असौ सम्यग्ज्ञानस्य विपर्ययस्य वोपन्यस्तसाध्यविपरीतज्ञानस्य वा हेतुर् इष्टो [त्. 362ब्.] यतो विवक्षितैकसंख्यत्वं तल्लक्षणम् उच्यते, आहोस्विद् यस्य प्रतिहेतुस् तत्साध्यविपरीतसाधको न प्रदर्शितः परमार्थतः सन्न् अपीति । परो दोषम् अपश्यन्न् आह -- किञ्चतः इत्यादि । यदि नाम पूर्वो विकल्प उत्तरो वा ततः को दोषः? इति[743]।
{प्. 214.1} सिद्धान्तवाद्य् आह -- यद्य् असम्भवन् प्रतिहेतुर् यस्य स सम्यग्ज्ञानादिहेतुर् इष्यते, तदा ऽलक्षणम् एतद् विवक्षितैकसंख्यत्वम् । कस्मात्? अशक्यो निश्चयो यस्य वस्तुतो ऽसम्भवत् प्रतिहेतुत्वस्य स तथोक्तः । परमतापेक्षया चैतद् उच्यते । परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति । परो हि दर्शनादर्शनाभ्याम् असत्य् अपि प्रतिबन्धे ऽविनाभावम् इच्छति । ततस् तस्य प्रतिहेतोर् एवंविधस्य सम्भवो ऽस्ति । स चानुपलभ्यमानो ऽपि कदाचित् स्याद् इति वस्तुतस् तदभावो निश्चीयते । प्रतिबन्धनिबन्धनाविनाभाववादिनां त्व् अस्माकं [स्. 203अ.] प्रतिहेत्वसम्भवः सुनिश्चित एव । न हि तादात्म्यतदुत्पत्तिलक्षणे प्रतिबन्धे प्रमाणतः सिद्धे तन्निमित्ताविनाभावितया एकेन हेतुन स्वसाध्ये साधिते पुनस् तत्रैव धर्मिणि तल्लक्षणस्य [त्. 363अ.] तद्विरुद्धार्थसाधकस्य प्रतिहेतोः सम्भवः शङ्ख्यते, भावानां विरुद्धस्वभावद्वयायोगाद्, विरुद्धधर्मसाधकसम्भवे च तस्यैव
स्वसाध्याविनाभाविनः प्रथमस्य तत्र प्रमाणतो भावसिद्ध्ययोगाद् इति ।
स्यान् मतम् -- यदि नाम प्रस्तुतः प्रतिहेत्वसम्भवो ऽस्माभिर् निश्चेतुम् अशक्यस् तथाप्य् असम्भवत् प्रतिहेतुत्वं विवक्षित्तैकसंख्यत्वप्रतिपादितं हेतुलक्षणं कस्मान् न भवति? इत्य् आह -- न ह्य् अनिश्चितात्मनः इत्यादि । प्रतिपादको यो धर्मो हेतोस् तस्यानिश्चितस्वभावस्य यस्मात् तल्लक्षणत्वं प्रतिपादकधर्मता न भवति । यथा संदिग्धस्य पक्षधर्मत्वस्येति पूर्वकस्य साधनम् । नापि सन्दिग्धं लक्षणं यस्य स हेतुर् भवतीति न कश्चिद्धेतुर् भवेद् इति हेत्वभावो [स्. 203ब्.] वा इत्य् अस्य समर्थनम् । ततश् च हेत्वाभासास् ततो ऽपि इत्य् अत्रापि योजितम् इति ।
स्यान् मतम् -- यस्य प्रतियोगी दृश्यते तस्यैव प्रतिहेतुभावात् अहेतुत्वं भवतु, यस्य तु प्रतियोगी हेतुर् न दृश्यते स वस्तुत एवासम्भवत् प्रतिहेतुः । न हि तत्र वस्तुतः प्रतिहेतुसम्भवः शङ्क्यते, बाधकप्रत्ययम् अन्तरेण बाधाशङ्काया अयोगात् । तद् उक्तम् --
बाधाज्ञाने त्व् अनुत्पन्ने नाशङ्कानिष्प्रमाणिका इति ।

{प्. 215.1} अत आह -- तुल्ये लक्षणे हि इत्यादि । शङ्यमानप्रतिहेतुना तुल्यं लक्षणं दर्शनादर्शनमात्रनिमित्ताविनाभावरूपं यस्य तस्मिन् दृष्टः प्रतियोगिनः [त्. 363ब्.] प्रतिहेतोर् ब्बाधकस्य सम्भव स येशाम् अपि तत्तुल्यलक्षणानां प्रतियोगी न दृश्यते तेष्व् अपि शङ्कां प्रतिहेतुसम्भवविषयाम् उत्पादयति । किं कारणम्? । अदृष्टप्रतियोगिनो दृष्टप्रतियोगिनो विशेषाभावात् । न हि तस्येतरेण कश्चिद्विशेषो ऽस्ति, यतस् तत्सम्भवो न शङ्क्येत । पुरुषशक्तिवैकल्यादिना तु तददर्शनं[744]सम्भाव्येतेति किम् उच्यते `नाशङ्का निःप्र(ष्प्र)माणिका` इति । अथ विशेषः प्रतिबन्धलक्षणो ऽविनाभावनिश्चायको दृष्टप्रतिहेतोर् अदृष्टप्रतियोगिन इष्यते यतः प्रतियोगिसम्भवाशङ्का ऽस्तम् उपैति । [स्. 204अ.] तदा सति वा विशेषे स विशेषो हेतोर् लक्षणम् । किं कारणम्? । यतस् ततो विशेषाद् धेतुर् एकान्तेन निश्चयेन निरस्तप्रतिपक्षस् तथाविधे धर्मिणि प्रतिहेत्वसम्भवात्
स्वसाध्यं निश्चाययतीति । यस् तथाविधो न भवति तद्विशेषविरहात् दृष्टप्रतिहेतुः सो ऽतल्लक्षणो न हेतुः स्यात् । तथा च यदि नामा ऽहेतौ प्रतिहेतुर् दृष्टो, हेतोः किम् आयातम्, येन तन्निवृत्तये तत्रैकसंख्याविवक्शा क्रियते, यथोक्ताविनाभाववचनेनैव तन्निवृत्तेर् इत्य् आह -- तथाच हेतौ तद्विशेषयोगिनि प्रतिहेत्वसम्भवे सति व्यर्था निष्प्रयोजनम् एकसंख्याविवक्षेति । [त्. 364अ.] यथोक्तविशेषाङ्गीकरणे तल्लक्षणस्य प्रतिहेतोर् असम्भवात् कस्यैकसंख्याविवक्षया व्यवच्छेदः क्रियते? यतो ऽस्य कार्यकत्वं स्याद् इति ।
विरुद्धाव्यभिचारिणश् च हेत्वाभासस्य व्यवच्छेदार्थम् एकसंख्याविवक्षा हेतुलक्षणे क्रियते । वस्तुतो ऽसम्भवत् प्रतिहेतुत्वसिद्ध्ये च प्रतिबन्धलक्षणे विशेषे हेताव् इष्यमाणे विरुद्धाव्यभिचार्य् अपि हेत्वाभासो न [स्. 204ब्.] भवति । ततो व्यवच्छेद्याभावात् किम् एकसंख्याविवक्षया? इति दर्शयन्न् आह -- अतः प्रतिबन्धलक्षणविशेषोपगमात् विरुद्धाव्यभिचारिणो हेत्वाभासस्य यल्लक्षणंतद् धीयेत न सम्भवेत् । किं पुनस् तद्विरुद्धाव्यभिचारिणो लक्षणम्? इत्य् आह -- स्वलक्षण इत्यादि । हेतोर् यदात्मीयं लक्षणं तद्युक्तयोर् हेत्वोर् {प्. 216.1}एकत्र धर्मिणि विरोधेन परस्परविरुद्धसाध्यसाधकत्वेनोपनिपाते सति विरुद्धाव्यभिचारीति विरुद्धाव्यभिचारिणो लक्षणम् । न च तत् प्रतिबन्धाङ्गीकरणे सति सम्भवति । न हि तादात्म्यतदुत्पत्तिभ्यां स्वसाध्यप्रतिबन्धवत्य् एकत्र हेतौ क्वचिद्धर्मिणि संभवति द्वितीयस् तल्लक्षणस् तत्रैव हेतुः सम्भवेत्,
[त्. 364ब्.] भावानां विरुद्धस्वभावद्वयासम्भवात्, विरुद्धधर्माध्यासस्य भेदलक्षणत्वात् । तदव्यभिचारिणो हेतोर् द्वितीयस्य तत्र कुतः सम्भवावकाश इति ।
ननु यदि तथाविधविशेषसम्भवे [स्. 205अ.] सति विरुद्धाव्यभिचारिलक्षणं हीयते, एकसंख्याविवक्षा वा व्यार्था, तथापि नैव हेत्वभावप्रसङ्गः, तत् किम् उक्तं हेत्वभावो वेत्य् अत आह -- न च नैव तस्य विशेषस्य प्रतिबन्धलक्षणस्य, यतो वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं निश्चीयते । स्वरूपं तादात्म्यतदुत्पत्तिलक्षणं निर्द्देश्यते भवद्भिः यथा ऽस्माभिर् निर्दिष्टं य्द्रूपं प्रतीत्य प्रतिपद्य प्रतियोगिनः सम्भवासम्भवाउ उत्पश्यामः । यत्र स विशेषो नास्ति तत्र प्रतियोगिनः सम्भवः कल्पित आगमाश्रये ऽनुमाने । यत्र त्व् अस्ति स विशेषो वस्तुबलप्रवृत्ते ऽनुमाने तत्र प्रतियोगिनो ऽसम्भव इति यत एवं तस्मान् नास्त्य् एव भवतां स विशेषः -- भवद्भिर् न ज्ञायत एव स विशेष 1 इति -- तस्मात्[745]सर्वत्र यत्रापि प्रतियोगी न दृश्यते तत्रापि षाङ्क्या प्रतियोगिविषयया भवितव्यम् । ताम् एव शङ्खां द्रढ्यन्न् आह --

दृष्टप्रतिहेतोर् अपि इत्यादि । यस्यापि [स्. 205ब्.] हि प्रतिहेतुर् दृष्टस् तस्यापि प्राक् प्रतियोगिदर्शनाद् इतरेण सर्वकालम् अदृष्टप्रतियोगिना कश्चिद् विशेषो लक्ष्यते [त्. 365अ.] यद्दर्शनाज् ज्ञायेत `अत्र प्रतियोगी सम्भवति न्यान्यत्र` इति दर्शनादर्शनमात्रनिबन्धनयोर् अन्वयव्यतिरेकयोः सर्वत्र समानत्वात् । तथापि पश्चात् तत्र प्रतियोगी दृष्ट इति सर्वत्र तत्तुल्यलक्षणे प्रतियोगिसद्भावशङ्का न विवर्त्तत इति ।
स्यान् मतम् -- येषु प्रतियोगी सम्भवति तेष्वश्यम् एव कदाचिद् असाव् उपलभ्यते । येषु तु पुरुषायुषेणापि नोपलभ्यते त्र्ष्व् असौ {प्. 217.1} नास्त्य् एव । ततः स तथाविधो हेतुर् भविष्यति, तत् कथं हेत्वभावो ऽस्माकम्? इत्य् अत आह -- न च इत्यादि । येषाम् अपि हि प्रतिहेतुः सम्भवति तेषाम् अपि नैव सर्वदा तस्य प्रतिहेतोर् उपलब्धिः प्रतिपत्तृऋणाम् । न ह्य् असर्वदर्शिनाम् उपलब्धिः सर्वभावसत्तां व्याप्नोति, प्रतिबन्धवैकल्यसद्भावात् । ननु च यत्र सर्वदैव प्रतिपत्रा(त्त्रा) प्रतियोगी न दृश्यते तत्र तदाशङ्का [स्. 206अ.] कथं क्रियते? । तथा चाह --
बाध(धा)ज्ञाने त्व् अनुत्पन्ने नाशङ्कानिष्प्रमाणिका इति ।
तथा ऽपरम् --
शिष्यपरम्परयाकुमारिलोत्पादात् प्राग्दृष्टप्रतियोगिषूपन्यस्तेषु, तेनैव प्रज्ञातिशयशाक्तिना प्रतिहेतव उत्प्रेक्षिताः ततस् तद्दर्शनात् यावज् जीवं अदृष्टप्रतिहेतुष्व् अपि तदाशङ्का निवर्त्तते ।ततः कथम् आशङ्का निष्प्रमाणिकोच्यते? । तुल्यलक्षणे हि इत्यादिकम् अपि प्रतियोगिसम्भवाशङ्काकारणम् उक्तम् एव । न च प्रतियोगिसम्भवम् आशङ्कमानस् तन्निमित्तसंभवात् `उत्प्रेक्षेत हि` इत्याद्याक्रोशमात्रेअ निवर्त्तयितुं शक्यते । तेनास्य[747]प्रतियोग्याशङ्कापनोदक्षं किञ्चित् कारणम् अभिधानीयम् यथा ऽस्माभिर् अभिहितं `स्वभावहेतोर् विपर्यये बाधकप्रमाणवशाद् आत्म्यनिश्चये सत्य् अन्वयव्यतिरेकयोस् तत्र निर्णय; [स्. 206ब्.] कार्यहेतौ च यथोक्तप्रत्यक्षानुपलम्भतः कार्यकारणसिद्धेस् तन्निश्चय` इति । यत एवं सर्वत्र प्रतियोग्याशङ्का न निवर्त्तते भवद् दर्शने तेन कारणानिश्चयः प्रतियोगिनः सम्भवयोः `इह प्रतियोगी सम्भवति इह तु न सम्भवति` इत्य् एवंरूप 4 इति
-- तस्माद्[748]वस्तुतो ऽसम्भवत् प्रतिहेतुत्वं {प्. 218.1} यल्लक्षणम् हेतोः [त्. 366अ.] तस्यानिश्चितत्वाद् एकसंख्याविवक्शाव् आदिनां न कश्चिद्धेतुः स्यात् । न ह्य् अनिश्चितलक्षणो हेतुर् भवतीत्य् उपसंहार इति ।
तद् एवं `किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानविपर्ययहेतुर् इष्टः` इति अमुं विकल्पं निराकृत्य द्वितीयं विकल्पं निराचिकीर्षुर् आह -- अथाप्रदर्शितप्रतिहेतुः सम्यग्ज्ञानविविपर्ययहेतुर् इष्ट इति सम्बन्धः । अयं च पक्षः किलदिङ्नागाचार्यस्याप्य् अभिमत इति पर उपदर्शयन्न् आह -- यथाह दिङ्नागाचार्यः । किम् आह? यदातर्हि इत्यादि । श्रावणत्वस्य हि न कथञ्चिद्व्यवच्छेदहेतुत्वम् इति दिङ्नागाचार्येणोक्ते परेणाभिहितम् -- यदातर्हिवैयाकारणःशब्दत्वंसामान्यविशेषंनित्यम् अभ्युपगच्छति तदाऽयंश्रावणत्वलक्षणःपक्षधर्मःहेतुर् एव स्यात् । नित्यःशब्दःश्रावणत्वात्शब्दत्ववत् इत्य् एवं परेणोक्ते सत्याचार्येणोक्तम् -- यद्य् अत्रशब्दाख्ये धर्मिण्य् अनित्यत्वहेतुंकृतकत्वप्रयत्नानन्तरीयकत्वादिलक्षणं कश्चिद्वैशेषिकादिर् न दर्शयेत्[749] तदाऽयम् प्रदर्शितप्रतिहेतुर् हेतुर्
एव भवेत् इति ।
तद् एवमाचार्यापदैः[750]साक्षित्वे दत्ते मुजम् उत्क्षिप्य शास्त्रकारः पूत्कुर्वन्न्[751]आह -- 4 इदम् इदानीम् [752]इत्यादि । 5 यदा ह्याचार्यस्याप्य्[753]एतद् अभिमतम् इति [त्. 366ब्.] कैश्चिद्व्याख्यायते तदिदं[754]सुमहद्व्यसनम् आयतम् -- गुरुभिर् अभिहितत्वाद् अप्रकाश्यम्, न हि गुरूणां दोषः प्रकाशयितुं युक्तः, न्यायम् अनुपालयद्भिः असंवरणीयम् अप्रच्छादनीयम् । तत् किं गुरून्[755]दूषयाम उत 8 न्यायम् अप्य् उपेक्षामहे[756]इत्य् 9 उभयम् अप्य् अशक्यम्[757]इति कष्टतरंव्यसनंकथम् निर्वोढुंशक्येत? । न कथंचिद् इति । कः पुनर् अत्र दोषो येनेदं कष्टतरम् इत्य् आह -- स तावद् अयं श्रावणत्वलक्षणो हेतुर् वस्तुनि शब्दादीनि 10 स्वसाध्यं तत्त्वम्[758]नित्यत्वं तत्प्रकृतीनि तदात्मकानि कृत्वा [स्. 207ब्.] तच्छ्रावणत्वं प्रमाणं येषां
पुरुषाणांमीमांसकवैयाकरणदीनां तान् {प्. 219.1} अभ्युदयेन स्वर्ग्गेण निःश्रेयसेन चापवर्ग्गेण योजयित्वा । तथा हि -- वस्तुतत्त्वं यावन् क्लेशान् न प्रजहाति तावत् स्वर्गमासादयति, क्लेशांस् तु प्रजहन् निर्वाणपरायणो भवति । अथवा शब्दनित्यत्वप्रतीतौ वेदप्रामाण्यात् तद्वहिताग्निहोत्रानुष्ठानात्[759]स्वर्ग्गो वेदान्तनिषेवणाद् अपवर्ग्गः । पुनर् उत्तरकालं प्रतिभावता [760] प्रज्ञाजातीयेनवैशेषिकादिना पुरुषेण हेत्वन्तरस्य [761] [त्. 367अ.] प्रतिहेतोः निदर्शनेन यद् अस्य नित्यत्वसाधनसामर्थ्य प्रतिहेत्वनुपदर्शने[762]सत्यासीत् 15 तत् तदुपदर्शनेन[763] उत्कीलितम् अपनीतम् इति । तानि वस्तूनि नित्यत्वसम्पदः प्रच्याव्य, तांश् च तत्प्रमाणकान्[764]पुरुषान् स्वर्ग्गापवर्ग्गसम्पदः प्रच्याव्य श्रावणत्वलक्षणो हेतुः शक्तिवैकल्यात् परित्रातुम् अशक्तो भ्रष्टराज्य इव राजा तपोवनं गच्छति
स्वैर् एव दुश्चरितैर्[765]इति किम् अत्र वयं ब्रूमः? ।
तद् एवम् उपहस्यैतस्मिन् पक्षे [स्. 208अ.] दोषम् उपदर्शयन्न् आह -- पुरुषप्रतिभा इत्यादि । यदा ह्य् अप्रदर्शितप्रतिहेतुर् हेतुर् इष्यते तदा पुरुषप्रतिभाकृतं साधनत्वम् अभ्युपगतं भवति । ततश् च वस्तुतो न किञ्चित् साधनम् असाधनं वा प्राप्तम् । तथा हि -- यदा प्रतिहेतुर् नोपदर्श्यते तदा साधनम्, यदा तूपदर्श्यते तदा न साधनम् इति पुरुषप्रतिभाकृतं साधनत्वम् आयातम् इति ।
अपि च -- अप्रदर्शितप्रतिहेतोर् हेतोर् हेतुत्वे ऽङ्गीक्रियमाणे विकल्पद्वयम् -- किं परमार्थतो हेतुस् तद्धर्मभावी, उता ऽतद्धर्मभावीति? । तत्राद्यं विकल्पम् अधिकृत्याह -- स च हेतुर् यो ऽसौ प्रथमं उपादीयते । स यदि स्वभावतः एव तस्मिन् साध्यधर्मे सत्येव भवति इत्य् एवंशीलो ऽस्मद् उपवर्णितप्रतिबन्धोपगमात् [त्. 367ब्.] यदीष्यते तदाकथम् अन्यथाक्रियेत हेत्वन्तरेणातद्धर्मभावी कथं क्रियते? । न कथञ्चित् । किं कारणम्? । वस्तूनां [स्. 208ब्.] हेतुलक्षणानां यः स्वभावः -- `सत्य् एव साध्यधर्मे भवनात्मकः` -- तदन्यथाभावस्य तद्विपर्ययस्य अभावाद् उभयोश् च स्वसाध्यधर्माविनाभावित्वे {प्. 220.1} स्वभावत एव धर्मिण्य् एकत्र तयोर् भावे विरुद्दाव् उभौ स्वभावाव् एकस्य स्याताम् । न चैकस्य विरुद्धौ स्वभावौ सम्भवतः, विरुद्धधर्माध्यासेन तस्यैकत्वहानिप्रसङ्गात् । अथ द्वितीयो विकल्पस् तदा अतद्धर्मभावीच
असत्य् अपि साध्यधर्मे भवनशीलः प्रतिबन्धानभ्युपगमात् कथम् अन्यदाऽपि अप्रदर्शितप्रतिहेत्ववस्थायाम् अपि साधनं कस्यचित्? । नैव तदापि साधनम्, न केवलं प्रदर्शितप्रतिहेत्ववस्थायाम् इति ।

उपसंहरन्न् आह -- तस्मात् सवभावतः इत्यादि । यत एवं भावानां स्वभावो ऽन्यथा कर्तुं न शक्यते, विरुद्धोभयस्वभावश् चैको न सम्भवति तस्मात् परमार्थतः स्वेन स्वेन [स्. 209.1अ.] साध्येनाविनाभाविनोर् यथोक्तलक्षणयोः [त्. 368अ.] कार्यस्वभावहेत्वोः तल्लक्षणस्य कार्यस्वभावलक्षणस्य प्रतिहेतोर् असम्भवाद् अलक्षणम् एकसंख्याविवक्षा विवक्षितैकसंख्यत्वं लक्षणम् न भवति । किं कारणम्? इत्य् आह -- व्यवच्छेद्याभावाद् इति । प्रतिहेतुर् हि विवक्षितैकसंख्यत्वस्य व्यवच्छेद्यो वर्ण्यते । स च प्रतिहेतुः स्वलक्षणयुक्तयोः कार्यस्वभावयोर् न भवत्य् एवेति कथं तद्धेतुलक्षणं स्याद् इति । तद् एवम् अनयोर् द्वयो रूपयोर् यः सम्भवो यथोक्ताविनाभावा ऽसम्भवे सतीति रूपान्तरोपगमे ऽपि हेत्वाभासतैवेति हेत्वाभासास् ततो ऽपर इति इत्य् अस्यार्थो विवृत इति ।
ज्ञातत्वनिराकरणायाह -- ज्ञानंपुनः इत्यादि । अबाधितविषयत्वं विवक्षितैकसंख्यत्वं च कार्यस्वभावहेत्वोर् एवाविनाभावे सति बाधाप्रतिहेत्वोर् असम्भवात् व्यवच्छेद्याभावत्वेन सत्य् अपि लिङ्गधर्मत्वे तल्लक्षणं न भवतीत्य् उक्तम् । ज्ञानं तु ज्ञातत्वम्, तस्यैव [स्. 209.1ब्.] भावप्रत्ययेनाभिधानात् । तथा हि -- ज्ञानशब्दप्रवृत्तिनिमित्तं ज्ञातत्वम् उच्यते, तच् च ज्ञानम् एव, तदुत्पादे सति ज्ञात इति व्यवहारात् । न च तत् लिङ्गस्यात्मरूपम् इति [त्. 368ब्.] कथं लिङ्गलक्षणं भविष्यति? । यद्य् अपि विकल्पप्रतिभासी सामन्याकारो लिङ्गतया ऽवस्थाप्यते तथापि न ज्ञानस्य लिङ्गधर्मता । न ह्य् असौ स्वतन्त्र एव लिङ्गम् । यद् आह -- विकल्पभेदान {प्. 221.1} स्वतन्त्राणाम् अन्वर्थाश्रयणात् तत्कल्पितविषयाद [766] ऽर्थप्रतिपत्ताव् [767] अनर्थप्रतिलम्भ एव स्यात् इति । तमाद् बाह्यवस्तूपादानस्यैवास्य लिङ्गता ऽवस्थाप्यते । साध्यसाधनसंकल्पे
वस्तुदर्शनहानेः[768]स्वलक्षणस्य क्वचिदनन्वयाच् च तद्धर्मताम् एव त्व् अनुस्मरन्तो विकल्पा नानैकव्यतिरेकान्[769]संदर्शयन्तो वस्तुनि परम्परया प्रतिबन्धाद् अविसंवादकाः कार्यादिलिङ्गव्यपदेशनिबन्धनं चेत्य् उक्तप्रायम् ।
न च तस्य कार्यादेर् आत्मरूपं [स्. 209.2अ.] ज्ञातम् । विकल्पावभासी च सामान्याकारो नैव विकल्पस्यात्मभूतः, तस्य नीरूपस्य वस्तुरूपविरोधात् । तद्रूपस्य च विकल्पप्रतिबिम्बचक्रस्य सामान्यात्मताविरहात् । यस्माद् अबाह्यास्यापि बाह्यतया व्यवसितस्याननुयायिनो ऽप्य् अनुयायितया सामान्यामकत्वं तथात्वे चास्य विकल्परूपतया कुतः? यदा ऽऽह --
ज्ञानाद् अव्यतिरिक्तंच कथम् अर्थान्तरंव्रजेत्? ॥
तस्मान् मिथ्यावभासो ऽयम् अर्थेष्व् एकात्मताग्रहः। [प्व् 3.70f.] इति । न ज्ञानस्य लिङ्गधर्मता । एतद् एव साधयन्न् आह -- किंरूपाद् इत्यादि । किम् आत्मकात् हेतोर् अनुमेयो ऽर्थो ज्ञातव्यः इति चिन्तायां प्रकृतायां प्रतिपत्तुः पुंसो यद् अविसंवादकं लिङ्गं तस्य स्वरूपम् अभिधीयते शास्त्रकारैः [त्. 369अ.] यस्य रूपस्य दर्शनादयं प्रतिपत्ता ôयत्र तद्रूपसम्भवः तत् साधनम् तद्रूपविकलम् असाधनम्ô इति प्रविभागेन व्यवस्थाप्य यत् तत्र साधनत्वेन व्यवस्थापितं तस्येष्टार्थसन्निधानसम्प्रत्ययात् प्रवृत्तिम् अवलम्बते । तथा, एतस्मिंश् च न्याये [स्. 209.2ब्.] व्यवस्थिते यद् अस्य लिङ्गस्यात्मरूपं तल् लक्षणं भवितुम् अर्हति पक्षधर्मादिवत् न तु यत् पररूपम् ।
स्याद् एतद् -- ज्ञातस्य लिङ्गस्य साधकत्वाद् युक्तैव साध्यसिद्ध्युपयोगिनो ज्ञानस्य लिङ्गलक्षणतेत्य् अत आह -- प्रतिपत्तिजन्मनि इत्यादि । यद्य् अनुमेयप्रतीतिजन्मन्य् उपयुज्यते ज्ञानम् इति तन्मात्रेण लिङ्गस्य लक्षणम् इष्यते तदा ऽतिप्रसङ्गः प्राप्नोति । तम् एवाह -- एवंप्रतिपत्तिजन्मन्य् उपयोगमात्राल् लिङ्गलक्षणत्वे प्रमेयस्य अर्थस्य पुरुषस्य {प्. 222.1} प्रमातुः अदि शब्दात् संयोगसमवायादीनाम् आलोकमनस्कारादीनां लिङ्गलक्षणत्वं भवेत् । अत्र कारणम् आह -- न हि तेष्व् अपि प्रमेयादिषु असत्सु लिङ्गिनि ज्ञानं भवतीति कृत्वा । अत्र परो ऽनिष्टम् आपादयन्न् आह -- निश्चितग्रहणंतर्हि इत्यादि । यदि पररूपत्वाज् ज्ञानं लिङ्गलक्षणं न भवति तदा च यद् एतदाचार्येण --
अनुमेये ऽर्थ तत्तुल्ये सद्भावो नास्तिताऽसति ।
निश्चिते ति --
निश्चितग्रहणं कृतं भवतश् चाभिमतं [त्. 369ब्.] तन् न कर्त्तव्यम् । तथा हि -- निश्चयो हि लिङ्गस्य पररूपम् एव । स चेत् तल्लक्षणम्, ज्ञानं किम् इति नेश्यते यतो निश्चयो विज्ञानम् एव तद्विशेषत्वाद् अस्येति ।
सिद्धान्तवाय् आह -- न न कर्त्तव्यं किन्तु कर्तव्यम् एव तस्य [स्. 210अ.] निश्चितग्रहणस्य लिङ्गरूपप्रतिपादनाद् अन्यार्थत्वात् । ताम् एवान्यार्थतां दर्शयन्न् आह -- सपक्षविपक्षयोः इत्यादि । परे हि सपक्षे दर्शनमात्रेणासपक्षे चादर्शनमात्रतो गमकं हेतुम् इच्छन्ति । तेषां नैव दर्शनमात्रेण साध्यसिद्धौ समर्थो हेतुर् भवतीति ज्ञापनार्थं निश्चितग्रहणं कृतम् । यतः सतोर् विद्यमानयोर् अपि दर्शनादर्शनयोर् अगमकत्वं हेतोर् दृश्यते `स श्यमः, तत्पुत्रत्वात्` इत्यादौ । यत एवं तेन कारणेन सपक्षे भावेन विपक्षे सर्वत्राभावविशिष्टेना ऽसपक्षे च सर्वत्राभावेन सपक्षे तादात्म्यतदुत्पत्तिलक्षणभावविशिष्टेन गमको हेतुर् इत्य् अस्यार्थस्य ज्ञापनार्थं लक्षणवाक्ये निश्चितग्रहणं कृतं बोद्धव्यम् । एतद् उक्तं भवति -- याव् एव सपक्षविपक्षयोः भावाभावौ प्रतिबन्धसाधकप्रमाणवृत्त्या निश्चितौ ताभ्याम्
एव हेतुर् गमको भवति, न तु यथाकथञ्चिद्दर्शनमात्रेणेत्य् अस्यार्थस्य [स्. 210ब्.] ज्ञापनाय निश्चितग्रहणं कृतम् इति ।
प्रकृतम् उपसंहरन्न् आह -- तेन इत्यादि । येन विशिष्टयोर् भावाभावयोर् एव ख्यापनाय निश्चितग्रहणं कृतम्, न रूपान्तराभिधानाय, अनात्मरूपस्य [त्. 370अ.] च लक्षणता न युज्यते, तेन पररूपं लिङ्गस्य लक्षणं न भवति । यतः तेन ज्ञानादिना पररूपेण लिङ्गस्य न किञ्चिद् रूपविशेषो ऽभिधीयत इति ।
{प्. 223.1} ननु च परे ऽपि सपक्षविपक्षयोर् भावाभावाभ्यां गमकं हेतुम् इच्छन्ति, दर्शनादर्शने तु तयोर् एव साधके, तत् किम् अर्थं निश्चितग्रहणम्? इति, अत आह -- तौ हि इत्यादि । यद्य् अपि परे भावाभावाभ्याम् एव गमकं हेतुम् इच्छन्ति तथापि सपक्ष एव भावो ऽसपक्षे चाभाव एवेति भावाभावौ दर्शनादर्शनमात्रतो व्यवस्थापयन्ति । न च ततस् तौ तथाविधाउ सिध्यतः, प्रतिबन्धविकलानाम् अप्य् अथानां क्वचिद् भावाभावयोः कथञ्चिद्दर्शनादर्शनसम्भवात् । तस्माद् [स्. 211अ.] यौ `हेतोः सपक्षे एव भावो ऽसपक्षे चाभाव एव` इत्य् एवम् आत्मकौ भावाभावौ तौ तद्भावस्य साधकं यत् प्रमाणण् तादात्म्यतदुत्पत्तिसाधनविषयं तद्वृत्त्या बोद्धव्यौ । कुतः? उपायान्तरस्याभावात् । तदनभ्युपगमे हि हेतोः सपक्ष एव भावः सर्वेशां हेतुमतां भावानां साध्येनानुगमदर्शने सति विपक्षे चाभाव एव साध्यविकलानां सर्वार्थानां

हेतुविविक्तानां उपलम्भे सति स्यात् । न चैतद् असर्वदर्शिनः सम्भवतीति । यत उपयान्तरं नास्ति तेन कारणेन तयोर् विशिष्टयोर् भावाभावयोः प्रतिपादनाय निश्चितशब्दः प्रयुक्तो लक्षाणे लक्षणकाएणेति ।
ननु च भावाभाववचनमात्राद् एव प्रमाणतो निश्चयो लभ्यते अन्यथा तयोर् एव सत्ता न प्रसिध्येद् इति, अत आह -- यद्य् अपि इत्यादि ।
अनुमेये ऽर्थ तत् तुल्य सद्भावो नास्तिताऽसति ।
इत्य् अनेनैव सपक्षासपक्षयोः [त्. 370ब्.] भावाभाववचनमात्रेण निश्चितग्रहणनिरपेक्षेण तयोर् भावाभावयोर् यत् साधनं प्रमाणं तस्य वृत्तिर् यद्य् अप्य् आक्षिप्यते । कथं पुनर् निश्चितग्रहणम् अन्तरेण भावाभाववचनमात्रतस् तद्वृत्तेः आक्षेपः? इत्य् आह -- अन्यथा यदि तत्साधनप्रमाणवृत्तिर् नाक्षिप्येत, [स्. 211ब्.] तदा तयोर् एव सपक्षविपक्षयोर् एव भावाभावयोर् या सत्ता स्वरूपव्यवस्था तस्या अप्रसिद्धेः । कस्माद् अप्रसिद्धिः? इत्य् आह -- ज्ञानस्य उपलब्धेर् या सत्ता उत्पत्तिः तन्निबन्धनत्वाज् ज्ञेयस्य भावाभावलक्षणस्य सत्ताव्यवस्थायाः स्वरूपव्यवस्थितेः । न ह्य् उपलम्भम् अन्तरेण स्वत एवार्थाः {प्. 224.1} सिध्यन्ति, सर्वस्य सर्वसिद्धिप्रसङ्गात् । तस्माद् इदम् एवंरूपं नैवंरूपम् इति तदाकारज्ञानोदयाद् एव व्यवस्थाप्यते । यत एवं तस्मात् सर्वत्र शास्त्रे लोके वा ज्ञेयसत्ताव्यवस्थैव निश्चितग्रहणं विना ऽपि तत्साधनं
तत्सत्तासाधनं प्रमाणम् आकर्शति आक्षिपतीति । किञ् च, परार्थत्वाच् च शास्त्रप्रणयनस्य तत्साधनप्रमाणवृत्तिर् आक्षिप्यत इति सम्बन्धः । कीदृशं पुनस् तच्छास्त्रप्रणयनं यत् परार्थरूपतया स्वव्यवस्थापितज्ञेयसत्तासाधनं प्रमाणम् आक्षिपति? इत्य् आह -- त्रिरूपंलिङ्गंवःसंवादकंप्रापकं [त्. 371अ.] वाञ्चितस्यार्थस्येति । यदि नामैवंरूपं परार्थं शास्त्रप्रणयनं तथापि कथं तत् साधनप्रमाणवृत्तिम् आक्षिपतीत्य् आह -- तद्रूपं तस्य लिङ्गस्य त्रिरूपस्य रूपं स्वभावं शास्त्रोक्तं ये प्रतिपत्तारो न विदन्ति, न तेशां ततस् त्रिरूपाल् लिङ्गाच् छास्त्रोक्ताद् वाञ्चिते ऽर्थे प्रवृत्तिर् भवति, अज्ञातस्यार्थस्य [स्. 212अ.] ज्ञापकस्य स्वसत्तामात्रेण प्रवर्तकत्वाभावात् । यत एवम् इति तस्मात् परोपलक्षणत्वाद् एव परेषां ज्ञापकत्वाद् एव प्रवर्त्तके त्रिरूपलिङ्गे ज्ञानं सिद्धम् इति यद्य् अपि निश्चितग्रहणम् अतिरिच्यते तथापि ताव् एव
लिङ्गस्य सपक्षासपक्षयोर् भावाभावौ विशिष्टौ शस्त्रोक्तौ `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इत्य् एवंरूपौ केचिन्नैयायिक प्रभृतयः, परे दर्शनादर्शनमात्रेण -- ये दर्शनादर्शने प्रतिबन्धसाधके न भवतः -- तन्मात्रेण व्यवस्थापयन्ति यत एव [770] इति तस्मात् तेषां वादिनां निशेधार्थो ऽयं लक्षणे निश्चितशब्दः प्रयुक्तआचार्येणास्माभिश् चाभ्युपगत इति । यदि तु परविप्रतिपत्तिः न स्यात् तदा नैवासौ प्रयुज्येतेति ।
किम् इति पुनर् दर्शनादर्शनाभ्यां भावाभावविशयाभ्यां सपक्षा[स]पक्शयोः विशिष्टौ भावाभावाव् अन्वयव्यतिरेकात्मकौ [त्. 371ब्.] नेष्येत इत्य् आह -- सतोर् अपि इत्यादि सत्य् अपि क्वचित् सपक्षे भावदर्शने हेतोः क्वचिच् चासपक्षे ऽभावदर्शने `स श्यमः, तत्पुत्रत्वात्` इत्यादाव् अन्वयव्यतिरेकयोः संशयात् । तथा हि -- अन्वयो नाम सर्वत्र सत्य् एव साध्ये हेतोर् {प्. 225.1} भावो व्याप्त्या चासति साध्ये हेतोर् अभावो व्यतिरेकः । न च क्वचित् सति साध्ये [स्. 212ब्.] हेतोर् भावदर्शने ऽपि तन्मात्रेण तथाभावः सर्वत्र भवति, अप्रतिबद्धस्वभावानां सहभावनियमा ऽभावात् । तथा क्वचित् साध्याभिमतस्याभावे सत्य् अभावदर्शने ऽपि हेतोः सर्वत्र तदभावे ऽवश्यम् अभावः, तदनायत् तस्य तन्निवृत्तौ नियमेन निवृत्त्यभावात् । तस्मात् प्रतिबन्धप्रसाधकप्रमाणवृत्त्यैव यथोक्तौ सपक्षासपक्षयोः भावाभावौ सिध्यतः नान्यथेति विप्रतिपत्तिनिरासार्थम् एव निश्चितग्रहणं
कृतम् इत्य् उपदर्शयन्न् आह -- तस्मात् इत्यादि । अस्माभिः इत्याचार्यकृते निश्चितग्रहणे ऽन्यत्रास्माकम् अभिमतत्वात् अस्माभिः इत्य् आह ।
तद् एवं विप्रतिपत्तिनिरासार्थं निश्चितग्रहणम्, असत्यां तु विप्रतिपत्तौ तन् न कर्तव्यम् एवेति प्रतिपाद्य अत एव न्यायात् ज्ञातत्वं रूपान्तरं न भावतीति [त्. 372अ.] दर्शयन्न् आह -- यतो ऽपि इत्यादि । पृथग् अतः इति पक्षधर्मत्वादेस् त्रैरूप्यात् । कुतः? । तेनैव त्रैरूप्यवचनेनैव तत्साधनप्रमाणाक्षेपतः अवगतत्वात् प्रतिपन्नत्वाद् इति । किंवत्? उपनयार्थवत् पक्षधर्मत्वात् इति । यथा पक्षधर्मत्ववचनेनैव हेतोर् उपनयस्यार्थो ऽवगतस् तस्य धर्मिणि हेतोः सद्भावप्रदर्शनात्मकत्वात्, पक्षधर्मवचनस्य च तद्रूपत्वात् ततः पृथगुपनयो [स्. 213अ.] रूपान्तरं न भवति; तथा त्रैरूप्यात् ज्ञानं, तद्वचनेनैवावगतत्वाद् इति ।
अत्र परो ऽनिष्टम् आपादयन्न् आह -- अन्वयव्यतिरेकयोर् अपि इत्यादि । यदि त्रैरूप्यवचनेनैव सामर्थ्याज् ज्ञानं लभ्यत इति तत् ततः पृथग् न वक्तव्यम् हन्त तर्हि अन्वयात् पृथग् व्यतिरेको न वक्तव्यः व्यतिरेकाच् च पृथगन्वयः । किं कारणम्? । एकस्यान्वयस्य व्यतिरेकस्य वा प्रयोगाद् उभयस्य गतेः । कृतं च तयोः पृथग्वचनं, तथा ज्ञातत्वस्यापि त्रैरूप्याद् गम्यमानस्यापि पृथग्वचनं कर्त्तव्यम् इति ।
सिद्धान्तवाद्य् आह -- न, हेतोः इत्यादि । नान्वयव्यतिरेकयोर् न पृथक्त्वं किन्तु भिन्नरूपतैव । तथा हि -- अन्वयो हेतोः {प्. 226.1} सपक्षे भाव उच्यते, व्यतिरेकः पुनर् अभावो ऽसपक्षे । न च तौ परस्परम् आक्षिपतः [त्. 372ब्.] परस्परम् अन्तर्भवतो विधिप्रतिषेधरूपयोर् भिन्नस्वभावत्वात् । न च यो यतो भिन्नस्वभावः स तत्रान्तर्भूतो युक्तः । ननु च यद्य् अन्वयव्यतिरेकयोर् भिन्नरूपता कथं तर्हि त्रैरूपं लिङ्गम् उच्यते? । न हि परस्परभिन्नाव् आत्मानाव् एवास्य युज्यते, स्वभावभेदलक्षणत्वाद् वस्तुभेदस्य । नैष दोषः, यतो यथा ऽन्वयव्यतिरेकौ [स्. 213ब्.] व्यवस्थाप्येते न वा नयो(-प्येते तथा तयो)र् अनन्तर्भाव उच्यते नान्यथा । कथं चैतौ ववस्थाप्येते? । व्यावृत्तिकृतं भेदम् उपादाय । तथा चानयोर् भिन्नरूपतैव । व्यावृत्तिभेदे ऽपि च परमार्थतो भेदो नास्तीत्य् एकं लिङ्गं त्रिरूपम् इत्य् उच्यत इति ।
कथं तर्हि प्रागुक्तम्[771]`नानयोर् अर्थः कश्चिद् भेदः, अन्यत्र प्रयोगभेदाद्` इति? अत आह -- एकंवाक्यम् इत्यादि । अन्वयमुखेन व्यतिरेकमुखेण वा प्रयुक्तम् एकं वाक्यम् उभयम् अन्वयं व्यतिरेकं च भिन्नलक्षणम् एव गमयतीत्य् उच्यते ऽस्माभिर् नैको ऽर्थः स्वभावो द्वितीयस्योच्यते, परस्परभिन्नयोर् एवैकवाक्यार्थरूपत्वात् ।

अत्र पर आह -- नतु(नु) तत्रैव इत्यादि । अयम् अभिप्रायः -- लक्षणवाक्यप्रतिपादिताव् अन्वयव्यतिरेकाव् आश्रित्य परस्परान्तर्भावश्चोद्यते । स च विद्यत[772]एव । तथा हि -- `तत्रैव भावः` इत्य् अत्र लक्षणवाक्ये तदर्थतया[773]तदभावे ऽभावो गम्यते; `अतदभावे ऽवश्यम् अभावः` इति [त्. 373अ.] चात्र `तद्भावे भावः` । न ह्य् असति प्रतिबन्ध एकाभावे ऽपरस्याभावः । प्रतिबन्धश् च तादात्म्यतदुत्पत्तिभ्यां तद्भावे भावरूप एव । ततश् चैकेनैव सपक्षासपक्ष्योर् भावाभावप्रतिपादकेन [स्. 214अ.] प्रतिविशिष्टेन लक्षणवाक्येनोभयगतेर् द्वितीयवचनं न कर्त्तव्यम् इति । तथा चैकवाक्यार्थान्तर्भावाद् भिन्नस्वभावता ऽप्य् अनयोर् दुर्ल्लभा । ततश् च यदुक्तम् `अन्वयव्यतिरेकयोर् अपि तर्हि न पृथक्त्वम् इति` तत् तदवस्थम् एवेति ।
{प्. 227.1} सिद्धान्तवाद्य् आह -- वचनम् एतद् `तत्रैव भावः` इत्यादिरूपम् उभयमाक्षिपति प्रतिपादयति । कुतः? । सामर्थ्याद् उभयप्रतिपादनशक्तस्य? । नियमस् व्यापकस्य `सपक्ष एव भावो ऽसपक्षे चाभाव एव` इति सावधारणस्य द्वितीयाक्षेपनान्तरीयकत्वात् द्वितीयप्रतिपादननान्तरीयकत्वात् । न च तावतैकवाक्यप्रतिपादनमात्रेणोभयोर् एकस्वभावता भिन्नस्वभावानाम् अप्य् अथानाम् एकवाक्येन प्रतिपादनात् । एकेनैव च लक्षणवाक्येनोभयगताव् अपि यत् पृथअभिधानं तत् प्रयोगनियमार्थम् । साधर्म्यप्रयोगे [त्. 373ब्.] वैधर्म(र्म्य)वचनं न कर्त्तव्यम्, वैधर्म्यप्रयोगे च साधर्म्यवचनम् इति न पुनर् एकाभिधानेनानवगतस्य रूपान्तरस्य प्रतिपादनार्थम् । न च तथा त्रैरूप्यवचनेन ज्ञाननिबन्धनेन ज्ञेयसत्ताव्यवस्थायाः परोपलक्षणाथेन च शास्त्रप्रणयनेनाश्रितज्ञानस्यैव त्रैरूप्यस्य [स्. 214ब्.] प्रतिपादनाल्
लब्धस्य ज्ञानस्य पुनर्वचने न किञ्चित् प्रयोजनम् अस्तीति नास्य पृथग्वचनं युक्तम् इति ।
स्यान्मतम् -- केवलाव् अपि तर्ह्य् एकवाक्यार्थानन्तर्भूतौ परस्परमऽभिन्नस्वभावौ भविष्यतः तत एवैकवाक्यार्थान्तर्भावाद् इत्य् अत आह -- न पुनःकेवलौ एकवाक्यार्थानपेक्षौ तदन्तर्भावमात्रेण सपक्षासपक्षयोः भावाभावौ परस्परम् आक्षिपतो ऽन्तर्भवतः भिन्नरूपाणाम् अप्य् अर्थानाम् एकवाक्यान्तर्भावदर्शनात् । ननु च नियमवन्ताव् अपि भावाभावौ केवलाव् एव, तयोः परस्पराक्षेपे केवलयोर् अपि तत्प्रसङ्ग इत्य् अत आह -- नियमवन्तौ च सावधारणवाक्यप्रतिपादितौ न केवलौ किन्तु सहिताव् एव । कुतः? । नियमस्य सावधारणस्य वाक्यस्य उभयरूपत्वात् भावाभावप्रतिपादनात्मकत्वात् ।
तद् एवं सावधरणेन [त्. 374अ.] वाक्येन नैव केवलो ऽन्वयो व्यतिरेको वा ऽभिधीयते । तदन्तर्भावात् तु द्वितीयगतिः किन्तु परस्परानन्तर्भूताव् एव सहिताव् एकेन वाक्येनाभिधीयेत इति प्रतिपाद्योपसंहरन्न् आह -- तस्मात् तत्रैव [स्. 215अ.] सपक्ष एव भाव {प्. 228.1} इत्य् अनेन वाक्येन न सपक्षे भाव एवोच्यते । किं तर्हि? । असपक्षे ऽभावो ऽपि, तथा चेतरेणाप्य् असपक्षे ऽभाव एवेति वचनेन नाभाव एव केवल उच्यते किन्तु सपक्षे भावो ऽपि, येन केवलवचनेन भावो ऽभावो वा तदात्मकतया द्वितीयम् आक्षिपेद् यतो ऽनयोः पृथग्वचनं न स्यात् । तस्माद् यदा ऽन्वयव्यतिरेकौ भावाभावाव् अभिप्रेतौ तदा तौ भिन्नरूपाव् एवेति कथं तयोः न पृथक्त्वम्? । अथ नियमवता वाक्येनाभिहितौ तदैकवाक्याद् एवोभयगतेः पृथग्वचनं न कर्त्तव्यम् एव । तत् तु कृतं नाप्रतिपन्नप्रतिपत्तये किन्तु प्रयोगनियमार्थम् इत्य् उक्तम् एतद् इति ।
स्यान्मतम् -- यथा ऽन्वयव्यतिरेकौ भावाभावलक्षणौ न परस्परात्मकौ ततश् च तयोः परस्परतो रूपान्तरत्वम्, एवं परोपलक्षणशस्त्रप्रतिपादितात् त्रैलक्षण्याद् भिद्यत एव ज्ञानम्, न तत्रान्तर्भूतम्, ततो रूपान्तरं भविष्यतीत्य् अत [त्. 374ब्.] आह -- नैवम् , यथा ऽन्वयव्यतिरेकौ भावाभावलक्षणौ परस्परम् अनन्तर्भूतौ, न तथा ज्ञानं परोपलक्षणशास्त्रप्रतिपादिते त्रैलक्षण्ये ऽनन्तर्भूतम् । कुतः? । परोपलक्षणात् -- परे उपलक्ष्यन्ते [स्. 215ब्.] उपलक्षण(णं) त्रैरूप्यविषयां प्रतीतिं कार्यन्ते येन शास्त्रेण ततो यत् त्रैलक्षण्यं प्रतीयते आगृहीतज्ञानं तस्माद् अव्यतिरेकाद् आगृहीतज्ञाने त्रैलक्षण्ये ऽन्तर्भावाद् इति यावत्, इति तस्मान् न लक्षणान्तरं त्रैरूप्याद् इति । तद् अयम् अत्र समुदायार्थः -- यदि ज्ञातत्वं ज्ञानशब्दप्रवृत्तिनिमित्तं उक्तेन प्रकारेण ज्ञानम् एवोच्यते तदा तल्लिंगस्यानात्मभूतम् इति
न तल्लक्षणम् । अथावि(पि )ज्ञानापेक्षः कर्मभावो ज्ञातत्वम् उच्यते तदा ऽपि ज्ञेयसत्ताव्यवस्थाया ज्ञानसत्तानिबन्धनत्वात् त्रैरूप्यव्यवस्थैव तत्सत्ताव्यवस्थापकं ज्ञानम् आक्षिपति । ततस् तदपेक्षो ऽपि कर्मभावो ऽनुक्तसिद्ध इति न तद्वचनं पृथक्कर्त्तव्यम् । तथा परोपलक्षणार्थशास्त्रप्रतिपादितागृहीतज्ञानात् त्रैलक्षण्याद् अव्यतिरेकाद् इति ।
तद् एवम् अबाधितविषयत्वादिकं रूपत्रयं निराकृत्य निगमयन्न् आह -- तस्मान् न हेतुःषड्लक्षणः। [त्. 375अ.] किं तर्हि? । त्रैलक्षण्य एवेति ।
{प्. 229.1} इमं क्षताशेषकुतर्कमार्गं,
मुनीशराद् धान्तन्नयप्रदीपम् ।
वितत्य पुण्यं यदुपार्जितं तत्,
परां विशुद्धिं जगतो विधेयात् ॥
[स्. 216अ.] हेतुबिन्दुटीका[774]समाप्ता ।
.................................................................................................................................................................................................................................................................. मा यतत इमा या तद्रूपा बल (?) त्रिभुवनस्य हिताय शश्वत् । नरस्य सेतोः दो... ...तथागतमतस्य निबोधयित्री ॥ 2 ॥
....... 74 मार्ग(र्ग्ग)सिर वदि 7 रवौ । मंगलं महाश्रीः ॥
न गुरोर् उपदेशम् अग्रहीत् बुबुधे वस्तु ततो ... ... धीः ।
यततो स्म न तस्य वृद्धये न परिस्पन्दितुम् अप्य् अपारयत् ॥ [1 ॥]
जीवात्मकं चान्द्रमसं च तेजः कृतास्पदं तस्य तै ...त् ।
तद् एव शक्ता ...था परत्र चित्रा हि विश्वप्रकृति...नाः ॥ 2 ॥
हे! रोहिणीरमण! सर्वकलानिकेत!
तारापते! रजनिनाथ! सुधानिधान!
कादम्बरीरसगुणेषु नि... ... व --
मात्मानम् अर्पितशरीरम् अनुस्मरेन्दोः ॥ 3 ॥
श्रीब्रह्माणगच्छे पं- अभयकुमारस्य
हेतुबिन्दुतर्कः ॥
__________नोतेस्__________
[728] -याम् अपि अनुपलम्भात् -- त्.
[729] निष्कास्य यतः -- त्.
[730] हेतोः
[731] साध्य-
[732] पुनः तदृशेन हे- -- त्.
[733] असामर्थ्यप्राप्तिर् इति -- त्.
[734] अनुपलम्भात् -- त्.
[735] -प्रत्ययसद्भावे -- त्.
[736] प्रतिबन्धात् वै- -- त्.
[737] नोपादनम् -- त्.
[738] नोपा- -- त्.
[739] इति कुतः -- त्.
[740] साध्यम् अप्य् असाध्यं असाध्यम् अपि साध्यं परे प्राहुः
[741] -दी सन्दर्श- -- त्.

[742] हेतोर् आत्मनो सा- -- त्.
[743] इति मन्यते -- त्.
[744] तद्दर्शनम् -- त्.
[745] {? -- स्. प्. xxव्, शुद्धिपत्रकम्: इति । त- : इति -- त}
[746] थिस् वेर्से इस् ओमित्तेद् इन् थे त्.
[747] प्रतिपत्तुः
[748] {? -- स्. प्. xxव्, शुद्धिपत्रकम्: इति । त- : इति -- त}
[749] नि- -- न. त्.
[750] -चार्य पूज्यपादैः -- पु.
[751] पृथक्कुर्वन् -- न.
[752] इदम् इत्यादि- -- पु.
[753] यदाचार्य- -- पु.
[754] तदैवं -- पु.
[755] गुरूं -- पु.
[756] -यम् उपे- -- पु.
[757] -यम् अश- -- पु.
[758] -ध्यत- -- न. त्.
[759] -त्राद्यनु- -- न. त्.
[760] प्रति-भवता -- त्.
[761] -षेण अकृतकत्वाद् हे- -- त्.
[762] कृतकत्वादि-
[763] तदु- -- पु. त्.
[764] -कात् -- पु.
[765] दुश्चेष्टितैः -- न.
[766] तैर् विकल्पैः कल्पितो यो ऽसौ विषयो ऽवग्रु(?)रूपो न धूमत्वादिः
[767] वह्नित्वादि
[768] वस्तुदर्शनाप्रवृत्ता (?)
[769] नानाभूतानां यो वास्तवव्यतिरेक एकस्य च व्यावृत्तिपरिकल्पितस् तं दर्शयन्तः
[770] एवं -- त्.
[771] प्. 74,18-21
[772] विद्यते -- त्.
[773] तत्रैवेत्य् अवधारणस्य तदथितया
[774] -टीका ब्राह्मणार्चतेन विवृता समा- -- त्.

मूल पाठ: Hetubinduṭīkā (commentary on Dharmakīrti's Hetubindu) · Edition: Pandit S. Sanghavi and Muni Shri Jinavijayaji, Hetubinduṭīkā of Bhaṭṭa Arcaṭa with the Sub-Commentary entitled Āloka of Durveka Miśra. Baroda : Oriental Institute 1949 (Gaekwad's Oriental Series, CXIII) · Data entry Helmut Krasser · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc