Hetubindu · अध्याय 4
उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावस्याभावव्यवहारस्य वा हेतुः । अत्रोपलब्धेरुपलभमानधर्मत्वे तज्ज्ञानमुपलब्धिः । तस्मादन्योपलब्धिरनुपलब्धिर्विवक्षितोपलब्धेरन्यत्वात्, अभक्ष्यास्पर्शनीयवत्पर्युदासवृत्त्या । उपलभ्यमानधर्मत्वे स्वविषयविज्ञानजननयोग्यतालक्षणो विषयस्वभावः उपलब्धिः । योग्यताया भावस्वरूपत्वात् । तस्मादन्य उपलम्भजननयोग्य एवानुपलब्धिः पूर्ववत् । यत्र यस्मित्रुपलभ्यमाने नियमेन यस्योपलब्धिः भवति योग्यताया अविशेषात् सतत्संसृष्टः एकज्ञानसंसर्गात् । तयोः सतोर्नैकरूपनियता प्रतिपत्तिरसम्भवात् । तस्मादविशिष्टयोग्यतारूपयोः एकज्ञानसंसर्गिणोस्तयोः परस्परापेक्षमेवान्यत्वमिहाभिप्रेतं, प्रत्यासत्तेराश्रयणात् ।
स केवलस्तदपेक्षया तदन्यश्चेदुच्यते तदा तज्ज्ञानं तत्स्वभावो वा ज्ञातृज्ञेय धर्मलक्षणानुपलब्धिः । साभावं प्रतियोगिनो ऽभावव्यवहारं वा साधयति ।
कथमन्यभावस्तदभावो येन भावरूपानुपलब्धिरभावमभावव्यवहारं वा साधयेदिति चेत् । उक्तमत्र यथा पर्युदासवृत्त्यापेक्षातः तद्विविक्तो ऽर्थस्तज्ज्ञानं वाभावो ऽनुपलब्धिश्चोच्यत इति । न प्रतिषेधमात्रं, तस्य साधनासिद्धेरभावव्यवहारासिद्धिप्रसङ्गात् । तस्यासंसृष्टरूपस्य भावसिद्धिरेवापरस्याभावसिद्धिरित्यन्यभावो ऽपि तदभाव इति व्यपदिश्यते । अन्यभावलक्षणो ऽभावः स्वयं प्रमाणसिद्धस्तदभावव्यवहारं साधयेत्, तत्सिद्धिसिद्धो वेति न कश्चिद्विशेषो येनानुपलब्ध्याभावव्यवहारसिद्धेर्विरोधः स्यात् ।
स एवान्यभावस्तद्विषया चोपलब्धिस्तदभावस्य किं न साधनम्? किं पुनरभावस्य सिद्धिरेव तदभावसिद्धिः? इति चेत् । अपृथक्सिद्धेः सम्बन्धाभावाच्च ।
अन्यभावस्तावत्र साधनम् । यत्सिद्धौ यस्य न सिद्धिस्तत्तस्य लिङ्गं भवति धूमाग्निवत् । अन्यभावसिद्धयैव तदभावः प्रसिध्यति, तस्य तदन्यासंसृष्टरूपस्य तत्त्वव्यवस्थापकेन प्रमाणेनैवान्यव्यवच्चेदसिद्धेः ।
सम्बन्धाभावाच्च तच्च तस्य लिङ्गं यदि स्यात्, तस्य तेन कश्चित्सम्बन्धो भवेत् । यथा कृतकत्वस्यानित्यत्वेन एकार्थसमवायो धूमस्य वा लिङ्गिनैकार्थसमवायः । आधाराधेयभावो वा जन्यजनकभावो वा । नैवं कश्चिद् भावाभावयोः सम्बन्धः येनास्यान्यभावः साधनं स्यात् । अस्ति विषयविषयिभावः शब्दार्थसम्बन्धवदिति चेत् । शब्दार्थयोः तत्प्रतिपादनाभिप्राये सति तत्प्रयोगात् कार्यकारणलक्षणो ऽविनाभावलक्षणो वा सम्बन्धः स्यात् । अयं चात्र न सम्भवति यतः विषयविषयिभावः स्यात् । सिद्धे हि तयोः साध्यसाधनभावे तन्मुखेन विषयविषभिभावः स्यात् । स एव चासति सम्बन्धे न सिध्यति । अन्यथेतरेतराश्रयमिदं स्यात् ।
अन्यभावाच्चाभावसिद्धावसमुदायश्च साध्यः स्यात् । तथा च घटाभावस्तदन्यभावात् इति घटस्य सर्वत्र सर्वदा चाभावः प्रसज्येत । न, प्रदेशादिर्धर्मी घटाभावेन विशेष्यत इति तद्विशेषणभूतो ऽभावः साध्यते न तु केवलः । ततो नासमुदायस्य साध्यता । न च लिङ्गलिङ्गनोरसम्बन्धः, अन्यभावस्य प्रदेशादिना सम्बन्धाद् इति चेत् । न, प्रदेशादेरेवान्यभावत्वात् । यत्रैव हि प्रदेशादौ यत्रास्तीति उच्यते स एव तेनासंसृष्टो ऽन्यभावः । तद्दर्शनादेवास्य घटो नास्ति इति विकल्पो भवति इति कथं तस्यैव लिङ्गलिङ्गिभावः?
न चात्र सामान्यविशेषभावकल्पना सम्भवति येन सामान्यं हेतुर्भवेद् विशेषो धर्माति, तद्विशेषप्रतिपत्तेरेव तदभावस्य प्रतीतेः, तस्यान्यत्रान्वयस्याभावात् प्रतिज्ञार्थैकदेशत्वाच्च न हेतुता । न च यत्र प्रदेशमात्रं तत्र घटाभावः । तादृशे केवले प्रदेशे सर्वत्राभाव इति चेत् । ननु तस्यैव कैवल्यं घटविरहः । स च तत्प्रतिपत्तावेव सिद्ध इति कस्य इदानीं तल्लिङ्गम्? अन्वयस्यानुगमनमपि निरर्थकम् । तस्मादन्यभावो न साधनमभावस्य ।
अस्ति विरोधः सम्बन्धः ततो ऽन्यभावादभावस्य सिद्धिः इति चेत् । केन कस्य विरोधो ऽन्यभावेन प्रतियोगिनः किं नु वै प्रतियोगी प्रमातुमिष्टो येन लिङ्गलिङ्गनोर्विरोधः सम्बन्धः स्यात्? अभावस्तुप्रतियोगिनो घटस्य अन्यभावेन अविरुद्धः सहावस्थानात् । तस्मिन् प्रमेये लिङ्गलिङ्गिनोः कथं विरोधः? तस्मात्सम्बन्धाभावः । अत्रापि असमुदायसाध्यत्वं तदवस्थम् ।
ननु अन्यभावतदभावयोरसति सम्बन्धे ऽन्यभावगत्यापि तदभावगतिर्न स्यादिति चेत् । न वै कुतश्चित् सम्बन्धादन्यभावस्तदभावगमक इष्टः किन्तु अन्यभाव एव तदभावो यथोक्तं प्राक् । तस्यान्यासंसृष्टरूपस्य केवलस्यैकात्मव्यस्थितस्य तदात्मना परिच्चेदस्यैवान्यव्यवच्चेदत्वात् तस्य कैवल्यमेवापरस्य वैकल्यमिति तदन्यभाव एव तदभावः । ततश्च तत्प्रतिपत्तिरेव तदप्रतिपत्तिः । अन्यथा तस्य परिच्चेदेन ततो ऽन्यस्य अव्यवच्चेदे तत्परिच्चेद एव न स्यात् । तदतद्रूपयोरविवेकात् । य एव व्यवहारः कस्यचित्क्वचेद्देशे दर्शनात् प्राप्तिपरिहारार्थः स न स्यात् । न ह्ययमनलं पश्यत्रपि केवलम् अनलमेव पश्यतीति कथं सलिलार्थी तत्र न प्रवेर्तेत? अनुपलम्भेन सलिलाभावः प्रतीयत इति चेत् । को ऽयमनुपलम्भो नाम? यदि सलिलोपलम्भाभावः तदा कथमभावः कस्यचित्प्रतिपत्तिः प्रतिपत्तिहेतुर्वा? तस्यापि कथं प्रतिपत्तिः? तस्य ततो वान्यस्य कस्यचिदप्यप्रतिपत्तावपि यद्यभावः प्रतीयते तदा स्वापमदमूर्च्चाव्यवधानपृष्ठीभावाद्यवस्थास्वपि किं न प्रतीयते? इत्येतच्च विचारितं प्रमाणविनिश्चये । तस्मादयमनलं पश्यत्रपि अनलो ऽयं सलिलम् इति नाध्यवस्यतीति न तिष्ठेत्रापि प्रतिष्ठेत । ततश्च दुस्तरं व्यसनं प्रतिपत्तुः स्यात् ।
तत एवैकस्य दर्शनाद् अन्याभावगतिश्चेत् कथमेकं दृष्टमन्यत्रास्तीति प्रत्याययति? तस्यैव केवलस्य दर्शनाद् इति चेत् । इदमेवास्माभिः प्रागभिहितं कस्मात्तवात्र परुषमिवाभाति? तस्मात्तीरादर्शिनेव शकुनिना दूरपर्यटयापि प्रत्यागन्तव्यमित्यलम् अविद्यमानप्रतिष्ठानया दिशः प्रतिपत्त्या ।
यद्येकपरिच्चेदादेवान्यव्यवच्चेदः सिध्यति तदा सर्वस्यान्यस्य अविशेषेण तत्राभावसिद्धिर्भवेत् । न तु तुल्ययोग्यावस्थस्यैव । उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरभावसाधनीति च विशेषणं न वक्तव्यम्, अनुपलब्धिलक्षणप्राप्तानामपि तत्र व्यवच्चेदात् ।
एकात्मपरिच्चेदात् तस्य तदन्यात्मव्यवच्चेदो भवति तदात्मनियतप्रतिभासज्ञानात् न हि तदात्मा तदन्यस्यात्मा भवति । अन्यात्माव्यवच्चेदे प्रवृत्तिनिवृत्त्योः अभाव इति पूर्वः प्रसङ्गः । तं च देशकालस्वभावावस्थानियतं तदात्मनोपलभमाना बुद्धिः तथात्वप्रच्युतिमस्य व्यवच्चिनति । एवं हि तद्देशादिनियतः परिच्चित्रो भवति, यदि अन्यथाभावो व्यवच्चिन्नो भवतिः तथात्वं च तस्यैव भवति नान्यस्येति अन्यथाभूतात्तथाभूतं व्यवच्चिन्दत्येव तत् परिच्चिनति । एवमेकप्रमाणवृत्तिः सर्वभावान् द्वैराश्ये व्यवस्थापयति । तस्यान्वयव्यतिरेकबुद्धिजनकत्वेनैव साफल्यात् । तद्वयतिरिक्ताशेषव्यवच्चेदेन व्याप्तिसाधनादेव प्रकारान्तरस्याभावः सिध्यति । तस्य तदन्यतया व्याप्त्यभावे तेन तदर्थाव्यवच्चेदात्पुनरपि भावस्यापरिच्चेदप्रसङ्गात् ।
तस्मात्क्वचित्प्रमाणं प्रवृत्तं तत् परिच्चिनत्ति, तदन्यद् व्यवच्चिनाति, तृतीयप्रकाराभावं च सूचयति इति एकप्रमाणव्यापार एषः । तथाहि क्वचित्प्रमाणं प्रवृतं तदेव तदन्यस्माद् व्यवच्चिनत्ती, तस्यैव परिच्चेदात् । तदन्यदेव च तस्माद् व्यवच्चिनत्ति अन्यस्य तत्र अपरिच्चेदात् । अतस्तदेव प्रमाणं प्रकारान्तभावं साधयति, तस्मिन् दृष्टतदन्यत्वेन सर्वस्यैव व्यस्थापनात्, अतदन्यस्यैव च तत्त्वेन व्यवस्थापनात् ।
एतेन क्रमाक्रमादयो ऽप्यन्योन्यव्यवच्चेदरूपा व्याख्य्ताः ।
तदेवमेकस्योपलम्भात्तस्य तदन्यात्मनो व्यवच्चेदः । न तद्देशकालयोः सर्वस्यान्यस्य भावस्य व्यवच्चेदः । तस्मादतदत्मा च स्यात्तद्देशकालश्च, रसरूपादिवत् । तस्माद्यथोक्तादेवानुपलम्भात्क्वचित् कदाचित्कस्यचिदभावसिद्धिः ।
अन्यभावविषयस्योपलब्धिरपि तदभावस्य साधिकेष्टैव न तु लिङ्गत्वेन । तत्राप्यभावस्य पृथक् साध्यत्वे सम्बन्धाभावस्य तुल्यत्वात् । लिङ्गाविर्भावकाल एव तदभावसिद्धेश्च । न हि अन्यस्य भावं प्रतिपद्य तत्प्रतिपत्तेः अन्वयव्यतिरेकौ प्रसाध्य तदभावं प्रतिपद्यते । किं तर्हि? तदन्यं प्रतिपद्यमान एव तदभावं प्रतिपद्यते । दर्शनानन्तरम् इदमस्ति इदं तु नास्ति इति व्यवस्थापनात् । तच्च तस्य लिङ्गं भवति यस्यान्वयि व्यतिरेको च । दृष्टान्तासिद्धेः । न हि एवं शक्यं दर्शयितुं यत्र अन्यभावोपलब्धिस्तत्र तदभावः इति । तदेकोपलब्धेः क्वचिदप्यभावात् । सामान्येन प्रदर्शने दृष्टान्ते ऽपि प्रमाणान्तरं नास्ति, किंतु सैव तदन्यभावोपलब्धिः साध्यधर्मस्य साधिकेति अनवस्था दृष्टान्तानामित्यप्रतिपत्तिः । तस्मात् नैव कुतश्चिल्लिङ्गात् तदभावसिद्धिः । सो ऽन्यभावः प्रत्यक्षलक्षणेनानुपलम्भेन सिद्धः सन् मूढप्रतिपत्तावभावव्यवहारं साधयेद् इति अलं प्रसङ्गेन ।
सेयमनुपलब्धिस्त्रिधा । सिद्धे कार्यकारणभावे सिद्धाभावस्य कारणस्यानुपलब्धिः, व्याप्यव्यापकभावसिद्धौ सिद्धाभावस्य व्यापकस्यानुपलब्धिः स्वभावानुपलब्धिश्च । तत्र कारणव्यापकयोरपि अभावव्यवहारः तदन्यभावसिद्धयैव सिध्यति । स तथा सिद्धः सन् कार्यव्याप्ययोरभावम् अभावव्यवहारं वा साधयति । स्वभावानुपलब्धौ तु अनुपलब्ध्या लिङ्गभूतया अभावव्यवहार एव साध्यते ।
यदि कारणव्यापकौ तदन्यभावसिद्धयानुपलब्ध्या सिद्धासद् व्यवहारावन्यस्याभावमभावव्यवहांर च साधयतः । सा च तयोरुपलब्धिलक्षणप्राप्तावेवासद्व्यवहारस्य साधिकेति कथं तयोः परोक्षे ऽर्थेप्रयोगः? नैव प्रयोगः प्रमाणतया, लिण्गस्यानिश्चयात् । केवलं कारणव्यापकयोर्हि सिद्धसम्बन्धयोर्यद्यभावः परस्यापि अवश्यमभावः इति एतस्य दर्शनार्थमेते प्रयुज्येते इति । एष एव पक्षधर्मो ऽन्वयव्यतिरेकवान् इति तदंशेन व्याप्तः त्रिलक्षण एव त्रिविध एव हेतुर्गमकः स्वशाध्यधर्माव्यभिचारात् ।
मूल पाठ: Hetubindu · Edition: P.P. Gokhale: Hetubindu of Dharmakirti. Delhi : Sri Satguru Publications, 1997, 1-94. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0