भाषा

ENहिગુ
ग्रंथ पाठ

Hetubindu · अध्याय 5

5.1

षड्लिङ्गो हेतुरित्यपरे । त्रीणि चैतानि अबाधितविषयत्वं विवक्षितैकसंख्यत्वं ज्ञातत्वं चेति । तत्राबाधितविषयत्वं तावत् पृथग् लक्षणं न भवति, बाधाविनाभावयोर्विरोधात् । अविनाभावो हि सत्येव साध्यधर्मे भावो हेतोः । स हेतुस्तल्लक्षणः धर्मिणि स्याद् अत्र च साध्यधर्मः कथं न भवेत्? प्रत्यक्षानुमाने हि साध्यधर्मं बाधमाने तं धर्मिणो निष्कासयतः तस्मिंश्च सत्येव हेतुर्भवन् तं तत्रैवावस्थापयतीति परं बत भावानामस्वास्थ्यम् ।
अन्यत्र साध्यधर्मेणाविनाभावी हेतुर्न पुनः साध्यधर्मिणेवेति चेत् । तत् किमयं तपस्वी शण्ढमुद्वाह्य पुत्रं मृगयते? यस्य धर्मिण्यसत्यपि साध्यधर्मे भावः, तमुपदर्श्य कथं स धर्मी साध्यधर्मवानित्युच्यते?

5.2

अत एव बाधाभाव उक्तः । स्यादेतद्, यत एव हेतुरन्यथापि भवेदत एव प्रमाणाभ्यामबाधितधर्मा धर्मीत्युच्यत इति ।
तत्किमिदानीं हेतोः सामर्थ्यम्? अबाधयैव साध्यसिद्धेर्व्यर्थो हेतुः । बाधायामपि साध्याभावस्य तेन साधनात् कुतः साधनस्य सामर्थ्यम् । अनियमे बाधकप्रमाणवृत्तौ साध्याभावस्य, बाधकप्रमाणस्याभावः साध्याभावस्य च संभवः स्यादिति न सामर्थ्यमबाधायाः ।

5.3

न बाधाया अभावो ऽबाधा । किं तर्हि? बाधाया अनुपलब्धिः सा च पुरुषस्य क्वचिद् बाधायाः संभवे ऽपि स्यादिति स हेतुप्रयोगस्य विषयः । किं नु वै हेतुर्बाधोपलब्धेर्बिभेति न पुनर्बाधाया येन बाधामनादृत्य तदनुपलब्धौ प्रयोक्तव्य इष्टः? स तर्हि परमार्थेन- ऽबाधा किमस्ति नास्तिऽ इत्यनपेक्ष्य बाधाया अनुपलब्धौ प्रयोक्तव्यः? किमर्थं प्रयुज्यते? साध्यसिद्धयर्थम् । स किं क्वचित् सत्यामपि बाधायां साध्यं साधयेद् येनास्या अभावनिश्चयं प्रति यत्नो न क्रियते हेतुश्च प्रत्युज्यते । एवं च सति अबाधितविषयत्वं हेतुलक्षणं न भवति । बाधायामपि सत्यामस्य सामर्थ्यात् । तथा च संशयितस्य प्रवृत्तिर्न युज्यते । यथा च बाधानुपलब्धौ तामभ्युपगम्य प्रयुज्यते तथा तदुपलब्धावपि प्रयुज्यताम्, अभ्युपगमे विशेषाभावात् ।

5.4

न बाधायां सत्यां हेतोः सामर्थ्यमिति चेत् । यद्येवम्, अनिर्णीतबाधासम्भवो हेतुः प्रयोगं हार्हति, मा भूत् बाधायाः संभवपक्षे प्रयुक्तस्याप्यसामर्थ्यमिति ।
बाधानुपलम्भे सति सामर्थ्यमिति चेत् । किमुपलम्भो बाधां व्याप्नोति, यतो हेतोर्बाधासम्भवकृतम् असामर्थ्यं न सम्भवेत्? अथ तन्निवृत्तौ बाधा निवर्तते । तथापि बाधानुपलम्भादेव साध्यासिद्धेर्व्यर्थो हेतुः । अनुपलम्भे बाधाया असम्भवात् । उपलम्भस्य निवृत्तावपि बाधाया अनिवृत्तौ तदवस्थं हेतोरसामर्थ्यमित्यप्रयोगः । तस्मात् स्वसाध्यभावाभावाध्यामन्यथापि भवन्हेतुः धर्मिणि न किञ्चिद्भावयति न विभावयति इति तदुपक्षेपो न समर्थः । इति बाधाविनाभावयोर्विरोधः । तत्राबाधा रूपान्तरम् ।

5.5

तत्राम तस्माद् विशेषणान्तरं भवेत् लक्षणान्तरत्वेन चोपादानमर्हति यस्य भावे ऽपि यस्य अपरस्याभावः स्यात् । तद्यथा पक्षधर्मत्वं सपक्षे च भाव इति । न् अचैतद् अबाधाया अविनाभावे सति सम्भवति इति न साध्यविपर्ययाविनाभाविनोर्हेतुविरुद्धयोर्विषये बाधा संभवति इति न तदभावः पृथगनयोर्लक्षणान्तरत्वेन वाच्यः । तस्माद् हेतोः प्रयोगे प्रतिज्ञादोषाणां संभवो नास्ति । नापि केवला प्रतिज्ञैव प्रयुज्यते । ततश्च न प्रतिज्ञादोषा वाच्याः ।

5.6

एतेन एकसंख्याविवक्षापि प्रत्युक्ता ।
कथम्? एको हि हेतुः स्वसाध्यभाव एव भवेदिति तत्राव्यभिचारी तत्रैव तस्मादन्यो ऽपि कथं हेतुर्भवति? एकस्य यत् साध्यं तदबाधकस्य धर्मस्य भाव एव भावादिति बाधया समानम् ।

5.7

अपि च । किं यो वस्तुतो ऽसम्भवत्प्रतिहेतुः स सम्यग्ज्ञानस्य विपर्ययस्य वा हेतुरिष्ट आहोस्विदप्रदर्शितप्रतिहेतुः? किं चातः?
यद्यसम्भवत्प्रतिहेतुः अशक्यनिश्चयत्वादलक्षणमेतद् हेत्वभावो वा । न हि अनिश्चितात्मनः प्रतिपादकधर्मस्य तल्लक्षणत्वं यथा सन्दिग्धस्य पक्षधर्मत्वस्य । नापि सन्दिग्धलक्षणो हेतुर्भवेदिति न कश्चिद् हेतुर्भवेत् । तुल्ये लक्षणे दि दृष्टः प्रतियोगिनः संभवो ऽदृष्टप्रतियोगिषु अपि शंकामुत्पादयति विशेषाभावात् । सति वा विशेषे स विशेषो हेतोर्लक्षणम् । यतस्तद्विशेषाद् हेतुरेकान्तेन निरस्तप्रतिपक्षः स्वसाध्यं निश्चाययतीति अतल्लक्षणो न हेतुः स्यात् तथा च व्यर्था एकसंख्याविवक्षा । अतो विरुद्धाव्यभिचारिणो लक्षणं हीयेत स्वलक्षणयुक्तयोर्हेत्वोरेकत्र धर्मिणि विरोधेनोपनिपाते सति विरुद्धाव्यभिचारी इति ।

5.8

न च तस्य विशेषस्य स्वरूपं निर्दिष्टं, यद्रूपं प्रतीत्य प्रतियोगिनः सम्भवासम्भवावुत्पश्यामः । तस्मात्रास्त्येवं विशेष इति सर्वत्र शङ्कया भवितव्यम् ।
दृष्टप्रतिहेतोरपि हेतोः प्रागितरेण न कश्चिद्विशेषो लक्ष्यते । न च संभवत्प्रतिहेतूनामपि सर्वदा तस्योपलब्धिः । अतिशयवती तु प्रज्ञा प्रतिहेतूत्प्रेक्षिणी दृष्टा । तेनानिश्चयः प्रतियोगिनः संभवासंभवयोरिति वस्तुतो । सम्भवत्प्रतिहेतुत्वलक्षणस्य अनिश्चितत्वात्र कश्चिद् हेतुः स्यात् ।

5.9

अथाप्रदर्शितप्रतिहेतुः यथाह, "यदा तर्हि शब्दत्वं नित्यमभ्युपगच्चति तदायं हेतुरेव स्याद् यद्यत्र अनित्यत्वहेतुं कृतकत्वादि कश्चित्र दर्शयेद् " इति । इदमिदानीं सुमहद् व्यसनमायातं गुरुभिरभिहितत्वादप्रकाश्यं, न्यायमनुपालयद्भिरसंवरणीयमिति कष्टतरं व्यसनं कथं निर्वोढुं शक्येत? स तावदयं हेतुः वस्तूनि स्वसाध्यप्रकृतीनि कृत्वा तत्प्रमाणकान् पुरुषान् अभ्युदयनिः श्रेयसाभ्यां योजयित्वा पुनश्च प्रतिभावता पुरुषेण हेत्वन्तरनिदर्शनेन उत्कीलितसाधनसामर्थ्यः तानि वस्तूनि तद्भावसम्पदस्तांश्च पुरुषान् अभ्युदयनिः श्रेयससम्पदः प्रच्याव्य भ्रष्टराज्य इव राजा तपोवनं गच्चतीति किमत्र ब्रूमः ।

5.10

पुरुषप्रतिभाकृतं हि यदि साधनत्वं स्यात् तदा न किञ्चित् साधनमसाधनं वा । स च हेतुर्यदि स्वभावतस्तद्धर्मभावी तदा कथमन्यथा क्रियेत? वस्तुस्वभावान्यथाभावस्याभावात् । एकस्य च विरुद्धोभयस्वभावस्याभावात् । अतद्धर्मभावी च कथमन्यदापि साधनं कस्यचित् । तस्मात् स्वभावतः स्वस्वसाध्याविनाभाविनोर्यथोक्तलक्षणयोः कार्यस्वभावहेत्वोः तल्लक्षणस्य प्रतिहेतोरसंभवादलक्षणमेकसंख्याविवक्षा, व्यवच्चेद्याभावात् ।

5.11

ज्ञानं पुनर्न लिङ्गस्यात्मरूपमिति कथं लिङ्गलक्षणं भविष्यति । किंरूपाद् हेतोरनुमेयो ऽर्थो ज्ञातव्य इति चिन्तायां प्रतिपत्तुरविसंवादकलिन्गस्वरूपमभिधीयते यस्य दर्शनाद् अयं प्रविभागेन साधनं व्यवस्थाप्य तस्येष्टार्थसंनिधानसंप्रत्ययात् प्रवृत्तिमवलम्बते । तथा यदस्यात्मरूपं तल्लक्षणं न तु पररूपम् । प्रतिपत्तिजन्मनि उपयोगमात्रात् तल्लक्षणत्वे प्रमेयपुरुषादीनामपि तल्लक्षणत्वं भवेत् । न हि तेष्वपि असत्सु लिङ्गिनि ज्ञानं भवति ।

5.12

निश्चितग्रहणं तर्हि न कर्तव्यम् । न, तस्यान्यार्थत्वात् । सपक्षविपक्षयोर्दर्शनादर्शनमात्रतो गमकं हेतुमिच्चतां नैव समर्थो हेतुर्भवति सतोरपि दर्शनादर्शनयोरगमकत्वदर्शनात् । तेन भावाभावाभ्यामेव गमको हेतुरिति ज्ञापनार्थ निश्चितग्रहणम् । तेन पररूपं लिङ्गस्य लक्षणं न भवति, तेन लिङ्गस्य रूपविशेषानमिधानात् । तौ हि भावाभावौ तद्भावसाधकप्रमाणवृत्त्या बोद्धव्यौ, उपायान्तराभावात् ।

5.13

यद्यपि भावाभाववचनमात्रेण तत्साधनप्रमाणवृत्तिः आक्षिप्यते, अन्यथा तयोरेव सत्ता प्रसिद्धेः, ज्ञानसत्तानिबन्धनत्वाज्ज्ञेयसत्ताव्यवस्थायाः इति सर्वत्र ज्ञेयसत्ताव्यवस्थैव तत्साधनं प्रमाणमाकर्षतिः परार्थत्वाच्च शास्त्रप्रणयनस्यः त्रिरूपं लिङ्गं संवादकमिति तद्रूपमप्रतिपत्तृणां ततः प्रवृत्तिर्न भवतीति परोपलक्षणात्वादेव प्रवर्तके ज्ञानं सिद्धम्ः तथापि तावेव विशिष्टौ भावाभावौ केचिद् दर्शनादर्शनमात्रेण व्यवस्थापयन्तीति तेषां निषेधार्थो ऽयं निश्चितशब्दः प्रयुक्तः । सतोरपि भावाभावदर्शनयोः अन्वयव्यतिरेकयोः संशयात् । तस्मात् प्रतिबन्धसाधकप्रमाणवृत्त्यैव भावाभावौ सिध्यत इति विप्रतिपत्तिनिरासार्थमस्माभिर्निश्चितग्रहणं कृतम् ।
यतो ऽपि त्रैरूप्यवचनमात्रेण तत्साधनप्रमाणाक्षेपसिद्धिः, न ज्ञानं पृथगतो रूपान्तरं भवति, तेनैवावगतत्वाद्, उपलयार्थवत् पक्षधर्मत्वात् ।

5.14

अन्वयव्यतिरेकयोरपि तर्हि न पृथकत्वम्, एकस्य प्रयोगादुभयगतेरिति चेत् । न । हेतोः सपक्षासपक्षयोर्भावाभावौ न परस्परमाक्षिपतः । एकं वाक्यमुभयं गमयतीत्युच्यते नैको ऽर्थः स्वभावो द्वितीयस्येति । ननु तत्रैव भाव इत्यत्र तदर्थतया तदभावे ऽभावो गम्यते, अतद्भावे ऽवश्यमभाव इत्यत्र च तद्भावे भाव इति परस्पराक्षेप इति चेत् । वचनमेतत् सामर्थ्यादुभयमाक्षिपति एकस्यापि नियमख्यापकस्य द्वितीयाक्षेपनान्तरीयकत्वात् । न च तावतोभयोरेकस्वभावता । पृथगभिधानं तु प्रयोगनियमार्थम् । न पुनः केवलौ भावाभावौ परस्परमाक्षिपतः । नियमवन्तौ च न केवलौ नियमस्योभयरूपत्वात् ।

5.15

तस्मात् तत्रैव भाव इति न भाव एवोच्यते इतरेणापि ना भाव एव येन भावो ऽभावो वा द्वितीयमाक्षिपेत् । नैवं ज्ञानं, परोपलक्षणशास्त्रागृहीतज्ञानात् त्रैलक्षण्यादव्यतिरेकादिति न लक्षणान्तरम् । तस्मात्र हेतुः षड्लक्षणः । हेतुबिन्दुराचार्यधर्मकीर्तिकृतः समाप्तः ।

मूल पाठ: Hetubindu · Edition: P.P. Gokhale: Hetubindu of Dharmakirti. Delhi : Sri Satguru Publications, 1997, 1-94. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc