Hetubindu · अध्याय 3
अर्थान्तरे गम्ये कार्यं हेतुरव्यभिचारात् । कार्यकारणभावेन गमकत्वे सर्वथा गम्यगमकभावः स्यात्, सर्वथा जन्यजनकभावाद् इति चेत् । न । तदभावे भवतस्तदुत्पत्तिनियमाभावात् । तस्मात् कार्यं स्वभावैर्यावद्भिरविनाभावि कारणे तेषां हेतुः । तत्कार्यत्वनियमात् । तैरेव च धर्मैर्ये तैर्विना न भवन्ति । अंशेन जन्यजनकभावप्रसङ्ग इति चेत् । न, तज्जन्यविशेषग्रहणे ऽभिमतत्वात् लिङ्ग विशेषोपाधीनां च सामान्यानाम् । अविशिष्टसामान्यविवक्षायां व्यभिचार इति गमकत्वं नेष्यते ।
कस्यचित्कदाचित्कुतश्चिद्भावे ऽपि सर्वस्तादृशस्तथाविधजन्मेति कुतो ऽवसितम्, तथा च नान्वयव्यतिरेकाविति चेत् । न, अतद्भाविनस्तस्य सकृदपि ततो ऽभावात् । परस्परापेक्षया जन्यजनकस्वभावलक्षणे कार्यकारणे । तत्र यदि धूमो ऽग्न्यादिसामग्ज्या अन्यतो ऽपि भवेत्तदा तस्य तज्जन्यः स्वभावो न भवतीति सकृदपि ततो न भवेत् । अर्थान्तरवत् । नापि सामग्री तं जनयेद् अतज्जननस्वभावत्वात् । सामग्ज्यन्तरवत् । न च धूमस्य तदतज्जन्यः स्वभावो युक्तः । एकस्वभावत्वात् । धूमाधूमजननस्वभावाद् भवतो धूमाधूमस्वभावः स्यात् । कार्यस्वभावानां कारणस्वभावकृतत्वात् । अकारणापेक्षणे चाहेतुकत्वप्रसङ्गात् । तस्माद्यो धूमजननः सो ऽग्न्यादिसामग्रीविशेषो यः अग्न्यादिसामग्रीविशेषेण जनितः स एव धूमो भवतीति कार्यकारणयोरेवं स्वभावस्य नियमात् तद्विजातीयादुत्पत्तिर्न भवति ।
तद्यादृशं कार्यं यादृशात् कारणाद् दृष्टमेकदा तत्तन्न व्यभिचरति । तेन सिद्धे कार्यकारणभावे कार्यस्य कारणेन व्याप्तिः सिद्धा भवति ।
ननु विजातीयादपि किञ्चिद् भवद् दृष्टं तद्यथा गो मयादेः शालूकादिः । न विजातीयादुत्पत्तिः । तथाविधमेव हि तादृशामादिनिमित्तमिति न कारणभेदः । प्रबन्धेन वृत्तौ तु शराद् भवति । अस्ति च गोमयेतरजन्मनोः स्वभावभेदः रूपस्याभेदे ऽपि । न हि आकारतुल्यतैव भावानां तत्त्वे निमित्तम्, अभिन्नाकाराणामपि केषाञ्चिदन्यतो विशेषाज्जातिभेददर्शनात् । अन्यथा हि विलक्षणाया अपि सामग्रया अविलक्षणकार्योत्पत्तौ न कारणभेदाभेदाभ्यां कार्यभेदाभेदावित्यहेतुकौ विश्वस्य भेदाभेदौ स्याताम् । तथा हि न भेदाद्भेद इति अभेदादपि नाभेदः । तद्व्यतिरिक्तश्च न कश्चिद्भावस्वभाव इत्यहेतुकत्वाद्भावानां नित्यं सत्त्वमसत्त्वं वा स्यात् । अपेक्षया हि भावाः कादाचित्का भवन्ति । व्यवस्थावांश्च साध्येषु साधननियोगो न स्यात् । कारणशक्तिप्रतिनियमे हि किञ्चिदेव कस्यचित् साधनायोपादीयेत, नापरं, तस्यैव तत्र शक्तेः, अन्यस्य चाशक्तेः तयोस्तज्जननेतरस्वभावत्वेन भेदात् । तज्जननस्वभावविलक्षणादपि तस्योत्पत्तौ न तज्जननशक्तिप्रतिनियम इति यत् किञ्चित् यतः कुतश्चित्स्यात् । तज्जननशक्तिसाम्ये तु तदेवेति न कार्यं दुष्टं कारणं व्यभिचरति ।
मूल पाठ: Hetubindu · Edition: P.P. Gokhale: Hetubindu of Dharmakirti. Delhi : Sri Satguru Publications, 1997, 1-94. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0