भाषा

ENहिગુ
ग्रंथ पाठ

Hetubindu · अध्याय 2

2.1

तत्र साधनधर्मभावमात्रान्वयिनि साध्यधर्मे स्वभावो हेतुः । अपरापरव्यावृत्तिभेदेन धर्मभेदे सत्यपि वस्तुतः लिङ्गस्वभाव एव । हेतुस्वभावे साध्यधर्मे ऽन्वयव्यभिचाराभावात् लक्षणे तन्मात्रान्वयेनेति विशेषणं परमतापेक्षम् ।
परे हि अर्थान्तरनिमित्तमतद्भावमात्रान्वयिनमपि स्वभावमिच्चन्ति । तेन च विशेषणेन तथविधस्य अतत्स्वभावतां तस्मिन् साध्ये हेतोर्व्यभिचारं चाह । यथा हेतुमति विनाशे कृतकत्वस्य ।

2.2

तस्य द्विधा प्रयोगः । साधर्म्येणैकः वैधर्म्येणापरः । यथा यत् सत् तत् सर्वं क्षणिकम् । यथा घटादयः । संश्च शब्दः इति । तथा, क्षणिकत्वाभावे सत्त्वाभावः संश्च शब्द इति । सर्वोपसंहारेण व्याप्तिप्रदर्शनलक्षणौ साधर्म्यवैधर्म्यप्रयोगावुक्तौ ।

2.3

अत्र पक्षधर्मसम्बन्धवचनमात्रसामर्थ्यादेव प्रतिज्ञार्थस्य प्रतीतेः न प्रतिज्ञायाः प्रयोग उपदर्शितः । अप्रदर्शिते प्रमेये कथं तत्प्रतीतिरिति चेत् । स्वयं प्रतिपत्तौ प्रमेयस्य क उपदर्शयिता? प्रदेशस्थं धूममुपलब्धवतः तस्याग्निना व्याप्तेः स्मरणे तत्सामर्थ्यादेव अग्निरत्र इति प्रतिज्ञार्थप्रतीतिर्भवति । न च तत्र कश्चित् अग्निरत्रेति अस्मै निवेदयति । नापि स्वयमपि प्रागेव प्रतिपद्यते किञ्चित्, प्रमाणमन्तरेणैवं प्रतीतेः निमित्ताभावात् प्रतीतौ लिङ्गस्य वैयर्थ्यम् । स्वयमेवाकस्मात् अग्निरत्रेति व्यवस्थाप्य तत्प्रतिपत्तये पश्चाल्लिङ्गमनुसरतीति को ऽयं प्रतिपत्तेः क्रमः? परेणापि तदुच्यमानं प्लवत एव उपयोगाभावात् । विषयोपदर्शनमुपयोग इति चेत्, तेनैव तावद्दर्श्यमानेन को ऽर्थः? यदि प्रतीतिरन्यथा न स्यात्तदा सर्वं शोभेत । तस्मादेष स्वयंप्रतीतौ केनचिद् विषयोपस्थापकेन विनापि प्रतियन् अस्मान् कार्यिणो दृष्ट्वा पर्वब्राह्मण इव व्यक्तं मूल्यं मृगयते । अस्मद्वचनादपि स्वयं सिद्धमेव लिङ्गमनुसृत्य साध्यं प्रत्येतीति को ऽनयोरवस्थयोर्विशेषः? दृष्टा च पक्षधर्मसम्बन्धवचनमात्रात् साधर्म्यवत्प्रयोगादेः प्रतिज्ञावचनमन्तरेणापि प्रतीतिरिति कस्तस्योपयोगः? स्वनिश्चयवदन्येषामपि निश्चयोत्पादनाय साधनमुच्यते । तत्र स्वयं प्रमेयोपदर्शनेन विनापि प्रतिपद्य परं प्रतिपादयत्रपूर्व क्रममाश्रयते इति किमत्र कारणम्? तस्मात्र प्रमेयस्य वचनेन किञ्चित्प्रयोजनमन्यथापि प्रतिपत्तेरुत्पत्तेः ।

2.4

एतेनोपनयनिगमनादिकमपि प्रत्युक्तम् । एतावतैव साध्यप्रतीतेर्भावात् । डिण्डिकरागं परित्यज्याक्षिणी निमील्य चिन्तय तावत् किमियता प्रतीतिः स्यात्र वेति । भावे किं प्रपञ्चमालया? इति इयानेव साधनवाक्ये प्रयोगो ज्यायान् ।

2.5

अत्र पूर्वं हेतुः प्रयोक्तव्यः पश्चाद् दृष्टान्त इति क्रमनियमो ऽपि न कश्चित् । सर्वथा गमकत्वात् ।

2.6

सम्बन्धवचने ऽपि नार्थभेदो ऽपि कश्चित् । उभयथापि तद्भावस्यैव ख्यापनात् । नहि अतत्स्वभावस्य भावे एकान्तेनान्यस्य भावः कृतकत्वस्य भावे प्रयत्नानन्तरीयकत्ववत् । कार्यस्यापि अतत्स्वभावस्याभावे न तन्निवृत्तिः, यथानयोरेव नैकनिवृत्तावन्यनिवृत्तिः ।
तस्मादन्वयव्यतिरेकयोर्यथालक्षणमेको ऽपि प्रयोक्तो द्वितीयमाक्षिपतीति नैकत्रं साधनवाक्ये द्वयोः प्रयोगः इष्यते वैयर्थ्यात् । तत्स्वभावतयान्वयसिद्धौ तदभावे ऽभावो ऽपि सिध्यत्येव । तथा सिद्धौ चान्वयस्यापि सिद्धेरिति । तदभाव एव हेतोरभावख्यातिर्यथा स्यात् नान्यत्र विपक्षे विरुद्धे वा इति नियमख्यापनार्थो ऽपि व्यतिरेकप्रयोगो न युक्तः, अन्यविरुद्धयोरपि विपक्षत्वात् ।

2.7

कथमिदम् अवगम्यते सदवश्यं नश्वरस्वभावमिति येन अन्वयव्यतिरेकसम्भव इति चेत् । विनाशहेत्वयोगात् । स्वभावत एव भावा नश्वराः नैषां स्वहेतुभ्यो निष्पत्रानामन्यतो विनाशोत्पत्तिः । तस्यासामर्थ्यात् । न हि विनाशहेतुर्भावस्य स्वभावमेव करोति तस्य स्वहेतुभ्यो निर्वृत्तेः । नापि भावान्तरमेव, भावान्तरकरणे भावस्य तदवस्थत्वात् तथोपलब्ध्यादिप्रसङ्गः । नापि स्वभावान्तरमस्यावरणम् तदवस्थे तस्मिन्नावरणायोगात् । नापि विनाशहेतुना भावाभावः क्रियते । अभावस्य विधिनान्यतयोपगमे व्यतिरेकाव्यतिरेक विकल्पानतिक्रमात् । भावप्रतिषेधकरणे न तस्य किञ्चिद्भवति न भवत्येव केवलमिति । एवं च कर्ता न भवतीत्यकर्तुरहेतुत्वमिति न विनाशहेतुः कश्चित् ।

2.8

वैयर्थ्याच्च । यदि स्वभावतो नश्वरः स्वात्मन्यनवस्थायी भावः तस्य न किञ्चिन्नाशकारणैः । तत्स्वभावतयैव स्वयं नाशात् । यो हि यत्स्वभावः स स्वहेतोरेव उत्पद्यमानः तादृशो भवति, न पुनस्तद्भावे हेत्वन्तरमपेक्षते । प्रकाशद्रवोष्णकठिनद्रव्यादिवत् । न हि प्रकाशादयस्तदात्मान उत्पन्नाः पुनः प्रकाशादिभावे हेत्वन्तरमपेक्षन्ते । तदात्मनस्तादात्म्याभावे नैरात्म्यप्रसङ्गात् । तद्वदस्थितिधर्मा चेत् स्वभावतो भावो निष्पन्नो न पुनस्तदात्मतायां हेत्वन्तरमपेक्षते ।

2.9

बीजादिवदनेकान्त इति चेत् । स्यादेतद् बीजादयो ऽङ्कुरादिजननस्वभावा । अपि सलिलादिहेत्वन्तरापेक्षणात् न केवला जनयन्ति । तद्वद् भावो ऽपि विनाशे स्यादीत् । न । तस्वभावस्य जननादजनकस्य चातत्स्वभावत्वात् । अत एव तयोरवस्थयोर्वस्तुभेदो निश्चेयः । भावानां स्वभावान्यथात्वाभावात् तत्स्वभावस्य पश्चादिव प्रागापि जननप्रसङ्गात् ।
तस्माद्यो ऽन्त्यो ऽवस्थाविशेषः स एवाङ्कुरजननस्वभावः । पूर्वभाविनस्तु अवस्थाविशेषा अङ्कुरकारणस्य कारणानि इति नानेकान्तः । क्षणिकेषु भावेषु अपरापरोत्पत्तेरैक्याभावात् ।

2.10

यदि ते ऽन्त्याः समर्थाः किं न जनयन्ति प्रत्येकमिति । जनयन्त्येव नात्रान्यथाभावः स्वभास्यावैपरीत्यात् । ननु तेषु सहकारिषु समर्थस्वभावेषु को ऽपरस्योपयोगः? न वै भावानां काचित् प्रेक्षापूर्वकारिता यतः अयमस्मास्वन्यतमो ऽपि समर्थः किमस्माभिः कर्तव्यम् इत्यालोच्यापरे निवर्तेरन् । ते निरभिप्रायव्यापारा एव स्वहेतुपरिणामोपनिधिधर्माणोनोपालम्भमर्हन्ति, तत्प्रकृतेः । ते समर्थाः किं नापरापरं जनयन्तीति चेत् । न, तत्रैव सामर्थ्यात् तस्यैवैकस्य जनने समर्था नान्यस्येति नापरापरजननम् ।

2.11

भिन्नस्वभावेभ्यश्चक्षुरादिभ्यः सहकारिभ्य एककार्योत्पत्तौ न कारणभेदात् कार्यभेदः स्यादिति चेत् । न । यथास्वं स्वभावभेदेन तद्विशेषोपयोगस्तदुपयोगैः कार्यस्वभावविशेषासङ्करात् । यथा मृत्पिण्डकुलालसूत्रा दिभ्यो भवतो घटस्य मृत्पिण्डादमृत्स्वभावेभ्यो वृक्षादिभ्यो भिन्नः स्वभावः कुलालात्तस्यैव मृदात्मनः सतः संस्थाविशेषात्मतया तदन्येभ्यो भिन्नः सूत्रात्तस्यैव मृत्संस्थान विशेषात्मनः चक्रादेर्विभक्तः स्वभावो भवति । तदेवं न कुलालान्मृत्स्वभावताः, न मृदः संस्थानविशेषः । न च तयोः शाक्तिविशेषविषयभेदे ऽपि तज्जनितविशेषभेदस्य कार्यस्य स्वभावेन भेदः मृत्संस्थानयोरपरस्परात्मतया संस्थानमृद्रूपाभ्यां तयोरप्रतिभासनप्रसङ्गात् ।

2.12

अन्यदेव संस्थानं गुणो मृद्द्रव्यात् तेन भिन्नस्वभावः कुलालमृत्पिण्डयोरुपयोगविशेष इति चेत् । उक्तमत्र । अपि च यदि संस्थानं भिन्नं मृदः कुलालः किं न पृथक्करोति? गुणस्य द्रव्यपरतन्त्रत्वात् स कथं पृथक् क्रियेत? तत्संस्थानाधारात्मकं यदि स्वभावेनैव तद् द्रव्यम्, तत्संस्थानं वा तदाधेयात्मकं, तदा किमिति कुलालव्यापारमपेक्षते इति चेत् । न । ततः परस्परसम्बन्धयोग्यताप्रतिलम्भात् । अन्यथा मृत्पिण्डस्य स्वभावत एव तथाविधसंस्थानसम्बन्धयोग्यत्वे वस्तुन एव प्रागपि योग्यतालक्षणा धर्मतास्तीति संस्थानविशेषेण सम्बन्धः स्यादिति । एवं तर्थि सा योग्यता मृद्द्रव्यस्य कुलालाद् भवतीति नानयोः स्वभावभेदः । भेदेहि प्राग्वत् प्रसज्येत । अस्ति तावदेकस्वभावत्वे ऽपि एकस्यानेकप्रत्ययोपाधेयविशेषतेति किं मृत्संस्थानयोः एकस्वभावत्वसाधनाय अतिनिर्बन्धेन ।

2.13

तेन सहकारिणः प्रत्यया नैकोपयोगविषयाः कार्यस्यैकस्वभावत्वे ऽपि वस्तुत इति यथेह कारणभेदो भिन्नविशेषोपयोगात् नैककार्यः, तथा चक्षुरादिभ्यो विज्ञानोत्पत्तौ उत्रेयः । तथा हि - समनन्तरप्रत्ययाद्विज्ञानाच्चक्षुर्विज्ञानस्य उपलम्भात्मता तस्यैवोपलम्भात्मनः सतश्चक्षुरिन्द्रियाद्रूपग्रहणयोग्यताप्रतिनियमः विषयात्तत्तुल्यरूपतेति अभिन्नत्वे ऽपि वस्तुतः कार्यस्य कारणानां भिन्नेभ्यः स्वभावेभ्यो भिन्ना एव विशेषा भ्वन्तीति न कारणभेदे ऽपि अभेदस्तत्कार्यविशेषस्य । त एवैते कारणशक्तिभेदा यथास्वं प्रतिविशिष्टकार्यजनने ऽव्यवधेयशक्तितया प्रत्युपस्थिताः क्षणिकत्वात्सामग्रीकार्यस्य स्वभावस्थित्याश्रयैत्युच्यन्ते । तथाहि तत्तेभ्यः समस्तेभ्यः उपलम्भात्मकं रूपग्रहणं प्रतिनियतं विषयरूपं चेति प्रतिविशिष्टस्वभावमेकमेव जातम् ।

2.14

अप्रतिरोधशक्तिकेषु अनन्तरकार्येषु अनाधेयविशेषेणु क्षणिकेषु प्रत्ययेषु परस्परं कः सहकारार्थः? न वै सर्वत्रातिशयोत्पादनं सहक्रिया का तर्हि? एकार्थकरणं यद् बहूनामपि । यथान्त्यस्य कारणकलापस्य । तदेव मुख्यं सहकारित्वं सहकारिणां, तस्यैवान्त्यस्य कारणत्वात् । तत्र च क्षणे एकस्य स्वभावस्याविवेकाद् विशेषस्य कर्तुमशक्यत्वात्, स्वभावान्तरोत्पत्तिलक्षणत्वाद् विशेषोत्पत्तेः । भावान्तरजनने ऽन्त्यत्वमेव हीयेत । ततश्च न साक्षात्कारणं स्यात् । तस्मान्न कारणस्य सहकारिभ्यो विशेषस्योत्पत्तिः । ते समर्था एव स्वभावतो ऽन्त्याः प्रत्ययाः सह जायन्ते क्षणिका येषां प्राक्पश्चात्पृथग्भावो नास्ति, येभ्यश्चानन्तरमेव कार्यमुत्पद्यते । तत्र एकार्थक्रियैव सहकारित्वम् ।

2.15

समर्थः कुतो जायत इति चेत् । स्वकारणेभ्यः । तानि एनमपरसन्निधान एवं किं जनयन्ति? कदाचिदन्यथापि स्युः ततश्चैको ऽपि क्वचित् जनयेद् इति चेत् । अपरापर प्रत्यययोगेन प्रतिक्षणं भिन्नशक्तयः संस्काराः सन्तन्वन्तो यद्यपि कुतश्चित्साम्यात्सरूपाः प्रतीयन्ते तथापि भित्र एवैषां स्वभावः । तेन किञ्चिदेव कस्यचित् कारणम् ।
तत्र यो ऽव्यवधनादिदेशो रूपेन्द्रियादिकलापः स विज्ञानजनने समर्थो हेतुः । यस्तेषां परस्परोपसर्पणाद्याश्रयः प्रत्ययविशेषः स तद्धेतुजनने समर्थः तेषां च न पूर्वं न पश्चात्र पृथग्भाव इति समर्थानपि पूर्वापरपृथग्भाव्भाविनो दोषा नोपलीयन्ते । तेन यस्तेषां परस्परोपसर्पणादिहेतुः स समर्थस्य हेतुरिति तत्र न कदाचिदन्यथाभावः ।

2.16

अनेन न्यायेन सर्वत्र हेतुफलभावप्रतिनियमो द्रष्टव्यः प्रतिक्षणमन्यान्यस्वभावभेदान्वयिनीषु शक्तिषु, न तु स्थिरैकस्वभावेषु भावेषु स्वभावस्यान्यथात्वासंभवात् । समर्थासमर्थस्वभावयोः क्रियाक्रियानुपपत्तेः । अन्यसहितः करोति न केवल इति चेत् । किं केवलस्य कार्यजनने ऽसमर्थः स्वभावः? समर्थ इति चेत् । किं न करोति? अकुर्वन् कथं समर्थः? कुविन्दादयः पटादिक्रियायां समर्था अपि न सर्वत्र कुर्वन्तीति चेत् । क्रीडनशीलो देवानां प्रियः सुखैधितः कृतमपि पुनः पुनः कारयति, तथाहि बीजादिवद् इत्यनेन निर्लोठितमेव । तस्मात्स्वभावस्यान्यथात्वासम्भवात् तद्धर्मणः तथाभावः अन्त्यावस्थावदनिवार्यः ।
अन्त्यावस्थायां प्रागसमर्थस्य सामर्थ्योत्पत्तौ तस्य सामर्थ्यस्य तत्स्वभावत्वे ऽपूर्वोत्पत्तिरेवसा । अतत्स्वभावत्वे सः अकारक एव सामर्थ्याख्यात्पदार्थान्तरात् कार्योत्पत्त्यभ्युपगमात् ।

2.17

अपि च यो ऽसौ सकलेषु सहकारिषु करोति स तदैव कस्मात् करोति । ? कुर्वन् दृष्टस्तेन करोतीति ब्रूमः । अहो महासामर्थ्यं महाप्रभावस्य दर्शनं यस्मादतत्स्वभावान् अपि भावान् स्वभावमात्रेण नानाप्रकारेषु व्यापारेषु नियुङ्क्ते । यदि नाम किञ्चित् कथञ्चिदत्रभवतो दर्शनविषयताम् अतिक्रामेत्, हन्त अप्रसवधर्मकमपेतसन्तानं स्यदितीयं चिन्ता चित्तं दुनोति ।
न वै वयम् अतत्स्वभावानां भावानाम् अस्मद्दर्शनवशात् कार्यक्रियां ब्रूमः किन्तु स्वभावेनैव ते कार्यकारणधर्माः, तान् पश्यन्तः केवलं जानीमहे ते एते कारकस्वभावा इति ।

2.18

सत्यम् इदमप्यस्ति, स्वभावस्तेषां कार्यक्रियाधर्मा तेन समस्तप्रत्ययानामकृत्वा कार्यं नोपेक्षापत्तिरिति । सो ऽक्षेपक्रियाधर्मा स्वभावः किं तेषां तदैवान्त्यावस्थायामुत्पन्न आहोस्वित् प्रागप्यासीत्? आसीत्, अप्रच्युता नुत्पत्रस्थिरैकस्वभावाना कदाचित् कस्यचित्स्वभावस्याभावविरोधात् । तत्किमिदानीं माता च वन्ध्या च अस्ति? को वास्य भाषितस्यार्थः- अक्षेपक्रियास्वभावः कार्यं च न करोतीति ।

2.19

सहितः स्वकार्यजननस्वभावः न केवल इति चेत् । अन्यस्तर्हि केवलो ऽन्यश्च सहितः स्वभावभेदात् । स्वभावभेद एव हि भावभेदस्य लक्षणम् । न हि स साहित्ये ऽपि पररूपेण कर्ता स्यात् । स्वरूपं च तस्य प्रागपि तदेवेति कथं कदचित् क्रियाविरामः ।
यस्यापि भावह् क्षणिकः तस्यापि कस्मात् केवलो न करोति? यदि भवेत् कुर्यादेव । कथं न भवति? क्षणिकत्वात् । उक्तं यादृशस्य क्रिया । स कथमेकक्षणभावी अन्यथा भवेत्? यश्च भवति स एव न भवतीति नायं प्रसङ्गः कारकाकारकयोः स्वभावतद्धेत्वोर्विरोधात् ।

2.20

यो ऽपि मन्यते- अक्षेपक्रियाधर्मैव स तस्य स्वभावः, न स साहित्यमपेक्षते, कार्यं तु प्रत्ययान्तरापेक्षमिति सहितेभ्य एव जायते न केवलेभ्य इति, तस्यापि कथं- स भावः केवलो ऽपि करोत्येव? कार्यं च तस्मात्रोत्पद्यते इति तदवस्थो विरोधः । न केवलः करोत्येवेति चेत् । कथमिदानीमक्षेपक्रियास्वभावः । ननु एतदेव परिदीपितं भवति, करोत्येवेति । कार्यं चायं केवलो ऽपि समर्थः सन् परमपेक्षमाणं कथमुपेक्षेत? परमनादृत्यैतत् प्रसह्य कुर्यात् । एवं हि अनेनात्मनः सामर्थ्यं दर्शितं भवति । कार्यं परमपेक्षत इति ततः केवलाद् अनुत्पत्तिमस्य कथयसि स केवलो ऽपि समर्थस्वभाव इति ततः उत्पत्तिं ब्रूषे, एते च कथमेवत्रं स्याताम्? तदयमीर्ष्याशल्यवितुद्यमानमर्मा विक्लवं विक्रोशतीत्युपेक्षामेवार्हति । तस्मादिदमेकार्थक्रियालक्षणं सहकारित्वं क्षणिकानामेव भावानाम् । न तु अक्षणिकानां येषां पृथगपि भावः सम्भवति पृथक् कार्यकरणसम्भवेन सहकारित्वनियमायोगात् ।

2.21

यत्र तु सन्तानोपकारेण भावाः हेतुतां प्रतिपद्यन्ते, यथा तण्डुलबीजादिभ्य ओदनाङ्कुरादिजन्मनि दहनोदकपृथिव्यादयः, तत्र सन्तानाश्रयेण विशेषोत्पादनं प्रत्ययानां सहक्रियोच्यते न द्रव्याश्रयेण, क्षणिके द्रव्ये विशेषस्यानुत्पत्तेः । नहि तण्डुलादीनां विशेषानुत्पत्तौ दहनादिभावे ऽपि ओदनजन्म स्यात् । तथा प्रभास्वरादपवरकं प्रविष्टस्य यदीन्द्रियं स्वोपकारिभ्यो ऽतिशयं क्रमेण न प्रतिपद्येत तदा प्रागिवार्थप्रतिल्पत्तिं नैव जनयेत् ।
अक्षेपकारिषु इन्द्रियादिषु न विशेषोत्पत्तिः परस्परतः सम्भवति । तत्र यथास्वं प्रत्ययैः परस्परोपसर्पणाद्याश्रयैर्ये योग्यदेशाद्यवस्था जातास्ते सह स्वभावनिष्पत्त्या ज्ञानहेतुतां प्रतिपद्यन्ते इत्येकार्थक्रियैव सहकारित्वम् ।

2.22

यत्र तु विशेषमुत्पादयन्तः सहकारिणः प्रत्ययाः तत्र हेतुसन्तानः प्रत्ययान्तराण्यपेक्षत इति ततः स्वभावान्तरस्य प्रतिलम्भः । तत्र स्वरसतः हेतुप्रत्ययानां पूर्वोपनिपातक्षणानां निवृत्तौ तेभ्य एव विशिष्टक्षणोत्पत्तिरेवं क्रमेण यावदत्यन्तातिशयवतो ऽन्त्यकारणकलापात् कार्योत्पत्तिः ।

2.23

सहकारिणः समुत्पत्रविशेषात्कारणात्कार्योत्पत्तौ तस्यैव विशेषस्योत्पत्तिर्न स्यात् । अविशिष्टाद्विशेषोत्पत्तौ कार्यस्यापि स्यात् । ततश्च परस्परविशेषोत्पादानपेक्षिण एव सहकारिणः कार्यं कुर्वीरन् । तेनाक्षणिकानामपि सहकारिसापेक्षाणां कारणता स्यात् । अपेक्षणीयेभ्यः स्वभावातिशयोत्पत्तिश्च न स्यात् ।
अथ सहकारिणा कार्योत्पादानुगुणविशेषजननाय कृतविशेष एवोपत्तिष्ठेत । एवं सत्यनवस्था स्यात् । न च सहकारिणः परस्परकार्योत्पादानुगुणविशेषोत्पादने नित्यं योग्यावस्थाः, येन नित्यानुषक्त एषां विशेषः स्यात् । तदुपायापाययोः कार्यस्योत्पत्त्यनुत्पत्तिदर्शनात् । तेनाद्यो विशेषः सहकारिभ्यो निरुपकारस्य नोत्पद्यत इति चेत् । नास्माकं पुनः पुनरभिधाने ऽपि कश्चिदुद्वेगो भवति यद्येवमपि लोकस्य न्यायप्रतीतिर्भवति । हन्त तर्हि उच्यताम् । न विशेषोत्पादनात् सहकारिणां सहकारित्वं परमार्थतः सम्भवति । यतः तदभावाद्विशेषे कर्तव्ये सहकारिताविरहः स्यात् ।

2.24

अथ कथमेकार्थक्रियापि भवेत् सापि न भवेत् परस्परतो विशेषरहितानाम् । अथ भवेत्, पृथगपि सा भवेत् । तथाच, तस्माद् विशेषाद् भवनशीलं कार्यमपि केवलात् स्यादिति चेत् । अत्रोक्तमुत्तरं प्रतिक्षणमपरापरैः प्रत्ययैः यथा भावसन्ताने विशेषस्योत्पत्तिः, योग्यदेशताद्यवस्थाविशेषाः कार्यकरणशीलाः, तेषां च यत उत्पत्तिः, प्रत्येकं च सामर्थ्ये ऽपि केवलानामक्रिया, कर्तृविशेषस्य पृथगेकैकस्य भावस्याभावात् । कार्यद्वैविध्यं च सहकारिभिः अक्षेपकारिन्द्रियविज्ञानवच्च कार्यकारणयोः स्वभावभेदादिति सर्वमुक्तम् ।

2.25

तत्र सहकारिभ्यः सन्तानोपकारापेक्षकारणकार्यजन्मनि सहकारिणामाद्यो विशेषः सहकारिकृतविशेषजन्मा न भवति, अनन्तरकार्यवत्, ततः ये विशेषा जायन्ते ते तज्जन्मानः तत्प्रकृतित्वादिति नानवस्था । तथा यद्यक्षणिको ऽपि भावः कार्य करोति, करोतु नाम, स यदि अक्षेपकर्तृधर्मा, तदा पृथग्भावस्य सम्भवात्केवलो ऽपि तथा स्याद् इत्युक्तम् । अतत्स्वभावस्तु तदाप्यकारक एव ।
तस्मादक्षणिकानां कारणानाम् एकार्थक्रियया न कश्चित् सहकारित्वनियमः । नापि सन्तत्योपकारेणेति न तस्य कश्चित्सहकारीति केवलो ऽपि कुर्यात् । प्रायस्तु संघातस्थायी भावसन्तानः सहकारिप्रत्ययैरुपजनितविशेषः स्वकार्यं कुर्वन् दृष्टो बीजादिवत् । तत्स्थिरहेतुवादिनो हेतोः प्रत्ययान्तरापेक्षकारकस्य व्यक्तं स्वभावान्तरस्योत्पत्तिः । कारकस्वभावस्य प्रागपि सत्त्वे ऽक्रिया न युज्यते ।

2.26

तस्माद्यो यदात्मा स स्वसत्तामात्रेण तादृशो भवति न भूत्वा तद्भावे पराभिसंस्कारमपेक्षत इति स्वभावतो ऽस्थितिधर्मणो भावस्य न किञ्चित्राशकारणैः । स्थितिधर्मणो ऽपि भावस्य न नाशकारणैः किञ्चित् स्वभावान्यथात्वस्य केनचित् कर्तुमशक्यत्वात् । तदन्यथात्वप्रतिपत्तौ स तत्स्वभाव एव न स्यादिति पूर्व एव विकल्पः स्यात् । तत्र च प्रागेवोक्तं दूषणम् ।
यश्च परस्मादन्यथाभावः सो ऽपरः स्वभावः यश्चापरः स कथं तस्य स्यात्? स्वभावभेदो हि वस्तुभेदलक्षणम् । तथा च यः स्थितिधर्मा जातः न तस्यान्यथाभावः स्यात् । एतेन कठिनादीनां ताम्रादीनाम् अग्न्यादेः द्रवत्वादिस्वभावान्तरोत्पत्तिः प्रत्युक्ता । तत्रापि पूर्वकस्य स्वरसनिरोधित्वाद्विनाशे ऽग्न्यादेरुपादानाच्चापर एव द्रवादिस्वभावः उत्पन्नः ।

2.27

स स्वयं स्थितिधर्मैव स्वहेतुभिर्जनितः, विनाशहेतोरसम्भवे ऽवस्थानात् । तस्य परस्माद्विनाशो भवति इति । न च विनाशो नामापरः स्वभावः, भावच्युतिरेव विनाशः इति चेत् । नेदं विकल्पद्वयमतिक्रामति - किं नित्यो भाव उतानित्यः । प्राङ्नित्यो भूत्वा पश्चादनित्यो भवतीति च ब्रुवाणो भावद्वयं चाह नित्यानित्यस्वभावभेदम् । प्राक्तनस्य नित्याभिमतस्य स्वभावस्य स्वयं नाशं ब्रुवाणः सर्वदैव नाशमनाशं च प्राहेति पूर्वस्मिन् विनाशहेतुरसमर्थ एव ।
न प्राङ्नित्यो भूत्वा पश्चादनित्यः भवति, किं तर्हि, पश्चादपि नित्य एव, एकस्वभावत्वात् । स तर्हि भावः स्वभावेन नाशमनाविशन् कथं नष्टो नाम? तत्स्वभावविनाशयोः अपरस्पररूपत्वात् । तस्मात् सत्यस्य विनाशे विनाशस्वभावेन तेन भवितव्यं, तथापि विनाशहेतुर्व्यर्थ इत्युक्तम् । तेन स्वभावतो नश्चरे ऽनश्वरे वा भावे न विनाशहेतोरुपयोगः ।

2.28

तस्माद्विनाशं प्रत्यनपेक्षो भावस्तद्भावनियतः इति यः सन् स विनाशी नश्वरताया निवृत्तौ सत्त्वनिवृतिरित्यन्वयव्यतिरेकसिद्धिः ।
स्वभावतो नश्वरत्वे ऽपि कश्चिदतत्स्वभावो ऽपि स्यात् । न हि सर्वः सर्वस्य स्वभाव इति न तत्रिबन्धनान्वयव्यतिरेकासिद्धिरिति चेत् । न, अक्षणिकत्वे ऽवस्तुत्वप्रसङ्गात् । शक्तिर्हि भावलक्षणम् । सर्वशक्तिविरहः पुनरभावलक्षणम् । न चैवाक्षणिकस्य क्वचित् काचित् शक्तिरस्ति, क्रमयौगपद्याभ्यां कार्यक्रियाशक्ति विरहात् । इत्थं च यत् सत्तत् क्षणिकमेवेति व्याप्तिसिद्धिः ।

मूल पाठ: Hetubindu · Edition: P.P. Gokhale: Hetubindu of Dharmakirti. Delhi : Sri Satguru Publications, 1997, 1-94. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc