भाषा

ENहिગુ
ग्रंथ पाठ

Hetubindu · अध्याय 1

1.1

परोक्षार्थप्रतिपत्तेरनुमानाश्रयत्वादेव तद् व्युत्पादनार्थ संक्षेपत इदमारभ्यते- पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद् हेत्वाभासास्ततो ऽपरे ॥

1.2

पक्षो धर्मी, अवयवे समुदायोपचारात् । प्रयोजनाभावादनुपचार इति चेत् । न । सर्वधर्मिधर्मप्रतिषेधार्थत्वादुपचारस्य । एवं हि चाक्षुषत्वादि परिहृतं भवति । धर्मवचनेनापि पराश्रयत्वाद् धर्मस्य धर्म्याश्रयसिद्धौ प्रत्यासत्तेः साध्यधर्मिण एव सिद्धिरिति चेत् । न । प्रत्यासत्तेः दृष्टान्तधर्मिणो ऽपि । सिद्धे तदंशव्याप्त्या दृष्टान्तधर्मिणि सत्त्वे पुनर्धर्मिणो वचनं दृष्टान्तधर्मिण एव यो धर्मः स हेतुरिति नियमार्थमाशंक्येत । दृष्टं सजातीय एव सत्त्वम् इत्यवधारणेन साध्याभावे सिद्धे ऽपि व्यतिरेके साध्याभावे असत्त्ववचनम्, तथेहापि तदंशव्याप्तिवचनात् सिद्धे ऽपि दृष्टान्तधर्मिणि सत्त्वे तत्रैव भावनियमार्थ धर्मिवचनमाशंक्येत । तस्मात् सामर्थ्याद् अर्थप्रतीतावपि उपचारमात्रात् समाननिर्देशात् प्रतिपत्तिगौरवं च परिहृतं भवति ।

1.3

पक्षस्य धर्मत्वे तद्विशेषणापेक्षस्यान्यत्राननुवृत्तेरसाधारणतेति चेत् । न । अयोगव्यवच्छेदेन विशेषणात् । यथा चैत्रो धनुर्धर इति । नान्ययोगव्यवच्छेदेन । यथा पार्थो धनुर्धर इति । तदंशस्तधर्मः ।

1.4

तस्य व्याप्तिर्हि व्यापकस्य तत्र भाव एव । व्याप्यस्य वा तत्रैव भावः । एतेन अन्वयो व्यतिरेको वा पक्षधर्मश्च यथास्वं प्रमाणेन निश्चित उक्तः । सर्वत्र हेतौ साध्यवैधर्म्ये व्याप्त्यसिद्धेर्व्यापकानिवृत्तौ निवृत्त्यभावाद्वा । अन्वयव्यतिरेकानिश्चयाभ्यां हि तद्धर्मव्याप्तिनिश्चयः ।

1.5

तत्र पक्षधर्मस्य साध्यधर्मिणि प्रत्यक्षतो ऽनुमानतो वा प्रसिद्धिः । तथा प्रदेशे धूमस्य, शब्दे वा कृतकत्वस्य ।
सधूमं हि प्रदेशमर्थान्तरविविक्तरूपमसाधारणात्मना दृष्टवतः स्मार्तं यथादृष्टभेद विषयं लिङ्गज्ञानमुत्पद्यते ।
तत्र यदाद्यमसाधारणविषयं दर्शनं तदेव प्रमाणम् ।

1.6

तस्मिंस्तथाभूते दर्शनेन दृष्टेसति स येन येनासाधारणस्तदसाधारणतां ततो भेदमभिलपन्ती अतद्वयावृतिविषया स्मृतिरुत्पत्रा प्रत्यक्षबलेन न प्रमाणम् । यथादृष्टाकारग्रहणात्, प्रागसाधारणं दृष्ट्वा असाधारण इत्यभिलपतः अपूर्वार्थाधिगमाभावात्, अर्थक्रियासाधनस्य आलोचनाज्ञानेन दर्शनाच्च । अदृष्टस्य पुनस्तत्साधनस्य विकल्पेनाप्रतिपत्तेरनुमानवत् ।
अर्थक्रियार्थी हि सर्वः प्रेक्षावान् प्रमाणमप्रमाणं वान्वेषते । न च सामान्यं स्वलक्षणप्रतिपत्तेरूर्ध्वं तत्सामर्थ्योत्पत्रविकल्पविज्ञानग्राह्यं काञ्चिदर्थक्रियामुपकल्पयति । यथा नीलं दृष्ट्वा नीलमिति ज्ञाने । तदेव हि नीलस्वलक्षणं तथाविधसाध्यार्थक्रियाकारि । तच्च तेनात्मना दृष्टमेव आलोचनाप्रत्ययेन ।
न च तत्स्वलक्षणग्रहणोत्तरकालभाविनो नीलविकल्पस्य विषयेण नीलसाध्यार्थक्रिया क्रियते ।

1.7

तस्मात् अनधिगतार्थविषयं प्रमाणम् इत्यपि अनधिगते स्वलक्षणे इति विशेषणीयम् । अधिगते तु स्वलक्षणे तत्सामर्थ्यजन्मा विकल्पस्तदनुकारी कार्यतस्तद्विषयत्वात् स्मृतिरेव, न प्रमाणम्, अनधिगतवस्तुरूपस्यानधिगतेः । वस्त्वधिष्ठानत्वात् प्रमाणव्यवस्थायाः । अर्थक्रियायोग्यविषयत्वात् तदर्थिनां प्रवृत्तेः । अर्थक्रियायोग्यलक्षणं हि वस्तु । ततो ऽपि विकल्पात् वस्तुन्येव तदध्यवसायेन पुरुषस्य प्रवृत्तेः । प्रवृत्तौ प्रत्यक्षेणाभिन्नयोगक्षेमत्वात् ।
पूर्वप्रत्यक्षक्षणेन अभिन्नयोगक्षेमत्वादुत्तरेषां क्वचिदप्रामाण्यप्रसङ्ग इति चेत् । न । क्षणविशेषसाध्यार्थवाञ्चायां नानायोगक्षेमत्वात् । साधारणे हि कार्ये न तेषां सामर्थ्यभेदः । अपरापरधूमप्रमितसत्रिकृष्टाग्निषु इव अनुमानज्ञानानामग्निमात्रसाध्ये ऽर्थे । एतेन धर्मिधर्मलिङ्गादिविकल्पस्य प्रमाणपृष्ठभाविनः प्रामाण्यं प्रत्युक्तम् ।

1.8

अन्वयनिश्चयो ऽपि स्वभावहेतौ साध्यधर्मस्य वस्तुतस्तद्भावतया साधनधर्मभावमात्रानुबन्धसिद्धिः । सा हि साध्यविपर्यये हेतोर्बाधकप्रमाणवृत्तिः । यथा सत् तत् क्षणिकमेव, अक्षणिकत्वे ऽर्थक्रिया विरोधात् तल्लक्षणं वस्तुत्वं हीयते ।
कार्यहेतौ कार्यकारणभावसिद्धिः । यथेदमस्योपलम्भे उपलब्धिलक्षणप्राप्तमनुपलब्धमुपलभ्यते, सत्सु अप्यन्येषु हेतुषु अस्याभावे न भवतीति यस्तद्भावे भावस्तदभावे ऽभावश्च प्रत्यक्षानुपलम्भसाधनः कार्यकारणभावः तस्य सिद्धिः । कार्यकारणभाव एव ह्यर्थान्तरस्य एवं स्यात्- यत्र धूमस्तत्रावश्यमग्निरिति, अग्निभाव एव हि भावो धूमस्य तत्कार्यत्वमिति ।
अनुपलब्धावपि अन्वयनिश्चयः असद्वयवहारस्योपलब्धिलक्षणप्राप्तस्यानुपलब्धिमात्रवृत्ति साधनं, निमित्तान्तराभावोपदर्शनात् ।

1.9

व्यतिरेकनिश्चयो ऽपि कार्यस्वभावहेत्वोः कारणव्यापकानुपलब्धिभ्यां दृश्यविषयाभ्यां कार्यकारणव्याप्यव्यापकभावसिद्धौ सत्यां साध्याभावे ऽभावसिद्धिरुद्दिष्ट विषयस्याभावोपदर्शने । अनुपलब्धिलक्षणप्राप्तस्यान्यथा क्वचिदभावासिद्धेः । अनुद्दिष्टविषयं साध्याभावे हेत्वभावख्यापनं प्रतिबन्धमात्रसिद्धौ सिध्यतीति न तत्र व्यतिरेकसाधने अनुपलब्ध्योः दृश्यविषयताविशेषणमपेक्ष्यते । व्यतिरेकानिश्चयो ऽनुपलब्धावुपलब्धिलक्षणप्राप्तात् सतो ऽनुपलम्भाभावदर्शनम् ।

1.10

एतल्लक्षणः त्रिधैव सः हेतुस्त्रिप्रकार एव । स्वभावः कार्यमनुपलब्धिश्चेति । यथा अनित्ये कस्मिंश्चित्साध्ये सत्त्वमिति । अग्निमति प्रदेशे धूम इति । अभावे च उपलब्धिलक्षणप्राप्तस्यानुपलब्धिरिति । अत्रैव त्रिविधहेतावविनाभावस्य नियमात् । पक्षधर्मस्य यथोक्ता व्याप्तिरविनाभावः । न स त्रिविधाद्धेतोरन्यत्रास्तीत्यत्रैव नियत उच्यते ।

मूल पाठ: Hetubindu · Edition: P.P. Gokhale: Hetubindu of Dharmakirti. Delhi : Sri Satguru Publications, 1997, 1-94. · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc