भाषा

ENहिગુ
ग्रंथ पाठ

हठयोगप्रदीपिका · अध्याय 3

3.1

इति हठ-प्रदीपिकायां द्वितीयोपदेशः ।
तृतीयोपदेशः
स-शैल-वन-धात्रीणां यथाधारोऽहि-नायकः ।
सर्वेषां योग-तन्त्राणां तथाधारो हि कुण्डली

3.2

सुप्ता गुरु-प्रसादेन यदा जागर्ति कुण्डली ।
तदा सर्वाणि पद्मानि भिद्यन्ते ग्रन्थयोऽपि च

3.3

प्राणस्य शून्य-पदवी तदा राजपथायते ।
तदा चित्तं निरालम्बं तदा कालस्य वञ्चनम्

3.4

सुषुम्णा शून्य-पदवी ब्रह्म-रन्ध्रः महापथः ।
श्मशानं शाम्भवी मध्य-मार्गश् चेत्य् एक-वाचकाः

3.5

तस्मात् सर्व-प्रयत्नेन प्रबोधयितुम् ईश्वरीम् ।
ब्रह्म-द्वार-मुखे सुप्तां मुद्राभ्यासं समाचरेत्

3.6

महामुद्रा महाबन्धो महावेधश् च खेचरी ।
उड्डीयानं मूलबन्धश् च बन्धो जालन्धराभिधः

3.7

करणी विपरीताख्या वज्रोली शक्ति-चालनम् ।
इदं हि मुद्रा-दशकं जरा-मरण-नाशनम्

3.8

आदिनाथोदितं दिव्यम् अष्टैश्वर्य-प्रदायकम् ।
वल्लभं सर्व-सिद्धानां दुर्लभं मरुताम् अपि

3.9

गोपनीयं प्रयत्नेन यथा रत्न-करण्डकम् ।
कस्यचिन् नैव वक्तव्यं कुल-स्त्री-सुरतं यथा

3.10

अथ महा-मुद्रा-
पाद-मूलेन वामेन योनिं सम्पीड्य दक्षिणाम् ।
प्रसारितं पदं कृत्वा कराभ्यां धारयेद् दृढम्

3.11

कण्ठे बन्धं समारोप्य धारयेद् वायुम् ऊर्ध्वतः ।
यथा दण्ड-हतः सर्पो दण्डाकारः प्रजायते

3.12

ऋज्वीभूता तथा शक्तिः कुण्डली सहसा भवेत् ।
तदा सा मरणावस्था जायते द्विपुटाश्रया

3.13

ततः शनैः शनैर् एव रेचयेन् नैव वेगतः ।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः

3.14

इयं खलु महामुद्रा महा-सिद्धैः प्रदर्शिता ।
महा-क्लेशादयो दोषाः क्षीयन्ते मरणादयः ।
महा-मुद्रां च तेनैव वदन्ति विबुधोत्तमाः

3.15

चन्द्राङ्गे तु समभ्यस्य सूर्याङ्गे पुनर् अभ्यसेत् ।
यावत्-तुल्या भवेत् सङ्ख्या ततो मुद्रां विसर्जयेत्

3.16

न हि पथ्यम् अपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
अपि भुक्तं विषं घोरं पीयूषम् अपि जीर्यति

3.17

क्षय-कुष्ठ-गुदावर्त-गुल्माजीर्ण-पुरोगमाः ।
तस्य दोषाः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत्

3.18

कथितेयं महामुद्रा महा-सिद्धि-करा नॄणाम् ।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्

3.19

अथ महा-बन्धः-
पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत् ।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा

3.20

पूरयित्वा ततो वायुं हृदये चुबुकं दृढम् ।
निष्पीड्यं वायुम् आकुञ्च्य मनो-मध्ये नियोजयेत्

3.21

धारयित्वा यथा-शक्ति रेचयेद् अनिलं शनैः ।
सव्याङ्गे तु समभ्यस्य दक्षाङ्गे पुनर् अभ्यसेत्

3.22

मतम् अत्र तु केषांचित् कण्ठ-बन्धं विवर्जयेत् ।
राज-दन्त-स्थ-जिह्वाया बन्धः शस्तो भवेद् इति

3.23

अयं तु सर्व-नाडीनाम् ऊर्ध्वं गति-निरोधकः ।
अयं खलु महा-बन्धो महा-सिद्धि-प्रदायकः

3.24

काल-पाश-महा-बन्ध-विमोचन-विचक्षणः ।
त्रिवेणी-सङ्गमं धत्ते केदारं प्रापयेन् मनः

3.25

रूप-लावण्य-सम्पन्ना यथा स्त्री पुरुषं विना ।
महा-मुद्रा-महा-बन्धौ निष्फलौ वेध-वर्जितौ

3.26

अथ महा-वेधः-
महा-बन्ध-स्थितो योगी कृत्वा पूरकम् एक-धीः ।
वायूनां गतिम् आवृत्य निभृतं कण्ठ-मुद्रया

3.27

सम-हस्त-युगो भूमौ स्फिचौ सनाडयेच् छनैः ।
पुट-द्वयम् अतिक्रम्य वायुः स्फुरति मध्यगः

3.28

सोम-सूर्याग्नि-सम्बन्धो जायते चामृताय वै ।
मृतावस्था समुत्पन्ना ततो वायुं विरेचयेत्

3.29

महा-वेधोऽयम् अभ्यासान् महा-सिद्धि-प्रदायकः ।
वली-पलित-वेप-घ्नः सेव्यते साधकोत्तमैः

3.30

एतत् त्रयं महा-गुह्यं जरा-मृत्यु-विनाशनम् ।
वह्नि-वृद्धि-करं चैव ह्य् अणिमादि-गुण-प्रदम्

3.31

अष्टधा क्रियते चैव यामे यामे दिने दिने ।
पुण्य-संभार-सन्धाय पापौघ-भिदुरं सदा ।
सम्यक्-शिक्षावताम् एवं स्वल्पं प्रथम-साधनम्

3.32

अथ खेचरी-
कपाल-कुहरे जिह्वा प्रविष्टा विपरीतगा ।
भ्रुवोर् अन्तर्गता दृष्टिर् मुद्रा भवति खेचरी

3.33

छेदन-चालन-दोहैः कलां क्रमेणाथ वर्धयेत् तावत् ।
सा यावद् भ्रू-मध्यं स्पृशति तदा खेचरी-सिद्धिः

3.34

स्नुही-पत्र-निभं शस्त्रं सुतीक्ष्णं स्निग्ध-निर्मलम् ।
समादाय ततस् तेन रोम-मात्रं समुच्छिनेत्

3.35

ततः सैन्धव-पथ्याभ्यां चूर्णिताभ्यां प्रघर्षयेत् ।
पुनः सप्त-दिने प्राप्ते रोम-मात्रं समुच्छिनेत्

3.36

एवं क्रमेण षण्-मासं नित्यं युक्तः समाचरेत् ।
षण्मासाद् रसना-मूल-शिरा-बन्धः प्रणश्यति

3.37

कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् ।
सा भवेत् खेचरी मुद्रा व्योम-चक्रं तद् उच्यते

3.38

रसनाम् ऊर्ध्वगां कृत्वा क्षणार्धम् अपि तिष्ठति ।
विषैर् विमुच्यते योगी व्याधि-मृत्यु-जरादिभिः

3.39

न रोगो मरणं तन्द्रा न निद्रा न क्षुधा तृषा ।
न च मूर्च्छा भवेत् तस्य यो मुद्रां वेत्ति खेचरीम्

3.40

पीड्यते न स रोगेण लिप्यते न च कर्मणा ।
बाध्यते न स कालेन यो मुद्रां वेत्ति खेचरीम्

3.41

चित्तं चरति खे यस्माज् जिह्वा चरति खे गता ।
तेनैषा खेचरी नाम मुद्रा सिद्धैर् निरूपिता

3.42

खेचर्या मुद्रितं येन विवरं लम्बिकोर्ध्वतः ।
न तस्य क्षरते बिन्दुः कामिन्याः श्लेषितस्य च

3.43

चलितोऽपि यदा बिन्दुः सम्प्राप्तो योनि-मण्डलम् ।
व्रजत्य् ऊर्ध्वं हृतः शक्त्या निबद्धो योनि-मुद्रया

3.44

ऊर्ध्व-जिह्वः स्थिरो भूत्वा सोमपानं करोति यः ।
मासार्धेन न सन्देहो मृत्युं जयति योगवित्

3.45

नित्यं सोम-कला-पूर्णं शरीरं यस्य योगिनः ।
तक्षकेणापि दष्टस्य विषं तस्य न सर्पति

3.46

इन्धनानि यथा वह्निस् तैल-वर्ति च दीपकः ।
तथा सोम-कला-पूर्णं देही देहं न मुञ्चति

3.47

गोमांसं भक्षयेन् नित्यं पिबेद् अमर-वारुणीम् ।
कुलीनं तम् अहं मन्ये चेतरे कुल-घातकाः

3.48

गो-शब्देनोदिता जिह्वा तत् प्रवेशो हि तालुनि ।
गो-मांस-भक्षणं तत् तु महा-पातक-नाशनम्

3.49

जिह्वा-प्रवेश-सम्भूत-वह्निनोत्पादितः खलु ।
चन्द्रात् स्रवति यः सारः सा स्याद् अमर-वारुणी

3.50

चुम्बन्ती यदि लम्बिकाग्रम् अनिशं जिह्वा-रस-स्यन्दिनी
स-क्षारा कटुकाम्ल-दुग्ध-सदृशी मध्वाज्य-तुल्या तथा ।
व्याधीनां हरणं जरान्त-करणं शस्त्रागमोदीरणं
तस्य स्याद् अमरत्वम् अष्ट-गुणितं सिद्धाङ्गनाकर्षणम्

3.51

मूर्ध्नः षोडश-पत्र-पद्म-गलितं प्राणाद् अवाप्तं हठाद्
ऊर्द्व्हास्यो रसनां नियम्य विवरे शक्तिं परां चिन्तयन् ।
उत्कल्लोल-कला-जलं च विमलं धारामयं यः पिबेन्
निर्व्याधिः स मृणाल-कोमल-वपुर् योगी चिरं जीवति

3.52

यत् प्रालेयं प्रहित-सुषिरं मेरु-मूर्धान्तर-स्थं
तस्मिंस् तत्त्वं प्रवदति सुधीस् तन्-मुखं निम्नगानाम् ।
चन्द्रात् सारः स्रवति वपुषस् तेन मृत्युर् नराणां
तद् बध्नीयात् सुकरणम् अधो नान्यथा काय-सिद्धिः

3.53

सुषिरं ज्ञान-जनकं पञ्च-स्रोतः-समन्वितम् ।
तिष्ठते खेचरी मुद्रा तस्मिन् शून्ये निरञ्जने

3.54

एकं सृष्टिमयं बीजम् एका मुद्रा च खेचरी ।
एको देवो निरालम्ब एकावस्था मनोन्मनी

3.55

अथ उड्डीयान-बन्धः-
बद्धो येन सुषुम्णायां प्राणस् तूड्डीयते यतः ।
तस्माद् उड्डीयनाख्योऽयं योगिभिः समुदाहृतः

3.56

उड्डीनं कुरुते यस्माद् अविश्रान्तं महा-खगः ।
उड्डीयानं तद् एव स्यात् तव बन्धोऽभिधीयते

3.57

उदरे पश्चिमं तानं नाभेर् ऊर्ध्वं च कारयेत् ।
उड्डीयानो ह्य् असौ बन्धो मृत्यु-मातङ्ग-केसरी

3.58

उड्डीयानं तु सहजं गुरुणा कथितं सदा ।
अभ्यसेत् सततं यस् तु वृद्धोऽपि तरुणायते

3.59

नाभेर् ऊर्ध्वम् अधश् चापि तानं कुर्यात् प्रयत्नतः ।
षण्मासम् अभ्यसेन् मृत्युं जयत्य् एव न संशयः

3.60

सर्वेषाम् एव बन्धानां उत्तमो ह्य् उड्डीयानकः ।
उड्डियाने दृढे बन्धे मुक्तिः स्वाभाविकी भवेत्

3.61

अथ मूल-बन्धः-
पार्ष्णि-भागेन सम्पीड्य योनिम् आकुञ्चयेद् गुदम् ।
अपानम् ऊर्ध्वम् आकृष्य मूल-बन्धोऽभिधीयते

3.62

अधो-गतिम् अपानं वा ऊर्ध्वगं कुरुते बलात् ।
आकुञ्चनेन तं प्राहुर् मूल-बन्धं हि योगिनः

3.63

गुदं पार्ष्ण्या तु सम्पीड्य वायुम् आकुञ्चयेद् बलात् ।
वारं वारं यथा चोर्ध्वं समायाति समीरणः

3.64

प्राणापानौ नाद-बिन्दू मूल-बन्धेन चैकताम् ।
गत्वा योगस्य संसिद्धिं यच्छतो नात्र संशयः

3.65

अपान-प्राणयोर् ऐक्यं क्षयो मूत्र-पुरीषयोः ।
युवा भवति वृद्धोऽपि सततं मूल-बन्धनात्

3.66

अपान ऊर्ध्वगे जाते प्रयाते वह्नि-मण्डलम् ।
तदानल-शिखा दीर्घा जायते वायुनाहता

3.67

ततो यातो वह्न्य्-अपानौ प्राणम् उष्ण-स्वरूपकम् ।
तेनात्यन्त-प्रदीप्तस् तु ज्वलनो देहजस् तथा

3.68

तेन कुण्डलिनी सुप्ता सन्तप्ता सम्प्रबुध्यते ।
दण्डाहता भुजङ्गीव निश्वस्य ऋजुतां व्रजेत्

3.69

बिलं प्रविष्टेव ततो ब्रह्म-नाड्यं तरं व्रजेत् ।
तस्मान् नित्यं मूल-बन्धः कर्तव्यो योगिभिः सदा

3.70

अथ जलन्धर-बन्धः-
कण्ठम् आकुञ्च्य हृदये स्थापयेच् चिबुकं दृढम् ।
बन्धो जालन्धराख्योऽयं जरा-मृत्यु-विनाशकः

3.71

बध्नाति हि सिराजालम् अधो-गामि नभो-जलम् ।
ततो जालन्धरो बन्धः कण्ठ-दुःखौघ-नाशनः

3.72

जालन्धरे कृते बन्धे कण्ठ-संकोच-लक्षणे ।
न पीयूषं पतत्य् अग्नौ न च वायुः प्रकुप्यति

3.73

कण्ठ-संकोचनेनैव द्वे नाड्यौ स्तम्भयेद् दृढम् ।
मध्य-चक्रम् इदं ज्ञेयं षोडशाधार-बन्धनम्

3.74

मूल-स्थानं समाकुञ्च्य उड्डियानं तु कारयेत् ।
इडां च पिङ्गलां बद्ध्वा वाहयेत् पश्चिमे पथि

3.75

अनेनैव विधानेन प्रयाति पवनो लयम् ।
ततो न जायते मृत्युर् जरा-रोगादिकं तथा

3.76

बन्ध-त्रयम् इदं श्रेष्ठं महा-सिद्धैश् च सेवितम् ।
सर्वेषां हठ-तन्त्राणां साधनं योगिनो विदुः

3.77

यत् किंचित् स्रवते चन्द्राद् अमृतं दिव्य-रूपिणः ।
तत् सर्वं ग्रसते सूर्यस् तेन पिण्डो जरायुतः

3.78

अथ विपरीत-करणी मुद्रा-
तत्रास्ति करणं दिव्यं सूर्यस्य मुख-वञ्चनम् ।
गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थ-कोटिभिः

3.79

ऊर्ध्व-नाभेर् अधस् तालोर् ऊर्ध्वं भानुर् अधः शशी ।
करणी विपरीताखा गुरु-वाक्येन लभ्यते

3.80

नित्यम् अभ्यास-युक्तस्य जठराग्नि-विवर्धनी ।
आहारो बहुलस् तस्य सम्पाद्यः साधकस्य च

3.81

अल्पाहारो यदि भवेद् अग्निर् दहति तत्-क्षणात् ।
अधः-शिराश् चोर्ध्व-पादः क्षणं स्यात् प्रथमे दिने

3.82

क्षणाच् च किंचिद् अधिकम् अभ्यसेच् च दिने दिने ।
वलितं पलितं चैव षण्मासोर्ध्वं न दृश्यते ।
याम-मात्रं तु यो नित्यम् अभ्यसेत् स तु कालजित्

3.83

अथ वज्रोली-
स्वेच्छया वर्तमानोऽपि योगोक्तैर् नियमैर् विना ।
वज्रोलीं यो विजानाति स योगी सिद्धि-भाजनम्

3.84

तत्र वस्तु-द्वयं वक्ष्ये दुर्लभं यस्य कस्यचित् ।
क्षीरं चैकं द्वितीयं तु नारी च वश-वर्तिनी

3.85

मेहनेन शनैः सम्यग् ऊर्ध्वाकुञ्चनम् अभ्यसेत् ।
पुरुषोऽप्य् अथवा नारी वज्रोली-सिद्धिम् आप्नुयात्

3.86

यत्नतः शस्त-नालेन फूत्कारं वज्र-कन्दरे ।
शनैः शनैः प्रकुर्वीत वायु-संचार-कारणात्

3.87

नारी-भगे पदद्-बिन्दुम् अभ्यासेनोर्ध्वम् आहरेत् ।
चलितं च निजं बिन्दुम् ऊर्ध्वम् आकृष्य रक्षयेत्

3.88

एवं संरक्षयेद् बिन्दुं जयति योगवित् ।
मरणं बिन्दु-पातेन जीवनं बिन्दु-धारणात्

3.89

सुगन्धो योगिनो देहे जायते बिन्दु-धारणात् ।
यावद् बिन्दुः स्थिरो देहे तावत् काल-भयं कुतः

3.90

चित्तायत्तं नॄणां शुक्रं शुक्रायत्तं च जीवितम् ।
तस्माच् छुक्रं मनश् चैव रक्षणीयं प्रयत्नतः

3.91

ऋतुमत्या रजोऽप्य् एवं निजं बिन्दुं च रक्षयेत् ।
मेढ्रेणाकर्षयेद् ऊर्ध्वं सम्यग् अभ्यास-योग-वित्

3.92

अथ सहजोलिः-
सहजोलिश् चामरोलिर् वज्रोल्या भेद एकतः ।
जले सुभस्म निक्षिप्य दग्ध-गोमय-सम्भवम्

3.93

वज्रोली-मैथुनाद् ऊर्ध्वं स्त्री-पुंसोः स्वाङ्ग-लेपनम् ।
आसीनयोः सुखेनैव मुक्त-व्यापारयोः क्षणात्

3.94

सहजोलिर् इयं प्रोक्ता श्रद्धेया योगिभिः सदा ।
अयं शुभ-करो योगो भोग-युक्तोऽपि मुक्तिदः

3.95

अयं योगः पुण्यवतां धीराणां तत्त्व-दर्शिनाम् ।
निर्मत्सराणां वै सिध्येन् न तु मत्सर-शालिनाम्

3.96

अथ अमरोली-
पित्तोल्बणत्वात् प्रथमाम्बु-धारां
विहाय निःसारतयान्त्य् अधाराम् ।
निषेव्यते शीतल-मध्य-धारा
कापालिके खण्डमतेऽमरोली

3.97

अमरीं यः पिबेन् नित्यं नस्यं कुर्वन् दिने दिने ।
वज्रोलीम् अभ्यसेत् सम्यक् सामरोलीति कथ्यते

3.98

अभ्यासान् निःसृतां चान्द्रीं विभूत्या सह मिश्रयेत् ।
धारयेद् उत्तमाङ्गेषु दिव्य-दृष्टिः प्रजायते

3.99

पुंसो बिन्दुं समाकुञ्च्य सम्यग् अभ्यास-पाटवात् ।
यदि नारी रजो रक्षेद् वज्रोल्या सापि योगिनी

3.100

तस्याः किंचिद् रजो नाशं न गच्छति न संशयः ।
तस्याः शरीरे नादश् च बिन्दुताम् एव गच्छति

3.101

स बिन्दुस् तद् रजश् चैव एकीभूय स्वदेहगौ ।
वज्रोल्य्-अभ्यास-योगेन सर्व-सिद्धिं प्रयच्छतः

3.102

रक्षेद् आकुञ्चनाद् ऊर्ध्वं या रजः सा हि योगिनी ।
अतीतानागतं वेत्ति खेचरी च भवेद् ध्रुवम्

3.103

देह-सिद्धिं च लभते वज्रोल्य्-अभ्यास-योगतः ।
अयं पुण्य-करो योगो भोगे भुक्तेऽपि मुक्तिदः

3.104

अथ शक्ति-चालनम्-
कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिर् ईश्वरी ।
कुण्डल्य् अरुन्धती चैते शब्दाः पर्याय-वाचकाः

3.105

उद्घाटयेत् कपाटं तु यथा कुंचिकया हठात् ।
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत्

3.106

येन मार्गेण गन्तव्यं ब्रह्म-स्थानं निरामयम् ।
मुखेनाच्छाद्य तद् वारं प्रसुप्ता परमेश्वरी

3.107

कन्दोर्ध्वे कुण्डली शक्तिः सुप्ता मोक्षाय योगिनाम् ।
बन्धनाय च मूढानां यस् तां वेत्ति स योगवित्

3.108

कुण्डली कुटिलाकारा सर्पवत् परिकीर्तिता ।
सा शक्तिश् चालिता येन स मुक्तो नात्र संशयः

3.109

गङ्गा-यमुनयोर् मध्ये बाल-रण्डां तपस्विनीम् ।
बलात्कारेण गृह्णीयात् तद् विष्णोः परमं पदम्

3.110

इडा भगवती गङ्गा पिङ्गला यमुना नदी ।
इडा-पिङ्गलयोर् मध्ये बालरण्डा च कुण्डली

3.111

पुच्छे प्रगृह्य भुजङ्गीं सुप्ताम् उद्बोधयेच् च ताम् ।
निद्रां विहाय सा शक्तिर् ऊर्ध्वम् उत्तिष्ठते हठात्

3.112

अवस्थिता चैव फणावती सा
प्रातश् च सायं प्रहरार्ध-मात्रम् ।
प्रपूर्य सूर्यात् परिधान-युक्त्या
प्रगृह्य नित्यं परिचालनीया

3.113

ऊर्ध्वं वितस्ति-मात्रं तु विस्तारं चतुरङ्गुलम् ।
मृदुलं धवलं प्रोक्तं वेष्टिताम्बर-लक्षणम्

3.114

सति वज्रासने पादौ कराभ्यां धारयेद् दृढम् ।
गुल्फ-देश-समीपे च कन्दं तत्र प्रपीडयेत्

3.115

वज्रासने स्थितो योगी चालयित्वा च कुण्डलीम् ।
कुर्याद् अनन्तरं भस्त्रां कुण्डलीम् आशु बोधयेत्

3.116

भानोर् आकुञ्चनं कुर्यात् कुण्डलीं चालयेत् ततः ।
मृत्यु-वक्त्र-गतस्यापि तस्य मृत्यु-भयं कुतः

3.117

मुहूर्त-द्वय-पर्यन्तं निर्भयं चालनाद् असौ ।
ऊर्ध्वम् आकृष्यते किंचित् सुषुम्णायां समुद्गता

3.118

तेन कुण्डलिनी तस्याः सुषुम्णाया मुखं ध्रुवम् ।
जहाति तस्मात् प्राणोऽयं सुषुम्णां व्रजति स्वतः

3.119

तस्मात् संचालयेन् नित्यं सुख-सुप्ताम् अरुन्धतीम् ।
तस्याः संचालनेनैव योगी रोगैः प्रमुच्यते

3.120

येन संचालिता शक्तिः स योगी सिद्धि-भाजनम् ।
किम् अत्र बहुनोक्तेन कालं जयति लीलया

3.121

ब्रह्मचर्य-रतस्यैव नित्यं हित-मिताशिनः ।
मण्डलाद् दृश्यते सिद्धिः कुण्डल्य्-अभ्यास-योगिनः

3.122

कुण्डलीं चालयित्वा तु भस्त्रां कुर्याद् विशेषतः ।
एवम् अभ्यस्यतो नित्यं यमिनो यम-भीः कुतः

3.123

द्वा-सप्तति-सहस्राणां नाडीनां मल-शोधने ।
कुतः प्रक्षालनोपायः कुण्डल्य्-अभ्यसनाद् ऋते

3.124

इयं तु मध्यमा नाडी दृढाभ्यासेन योगिनाम् ।
आसन-प्राण-संयाम-मुद्राभिः सरला भवेत्

3.125

अभ्यासे तु विनिद्राणां मनो धृत्वा समाधिना ।
रुद्राणी वा परा मुद्रा भद्रां सिद्धिं प्रयच्छति

3.126

राज-योगं विना पृथ्वी राज-योगं विना निशा ।
राज-योगं विना मुद्रा विचित्रापि न शोभते

3.127

मारुतस्य विधिं सर्वं मनो-युक्तं समभ्यसेत् ।
इतरत्र न कर्तव्या मनो-वृत्तिर् मनीषिणा

3.128

इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना ।
एकैका तासु यमिनां महा-सिद्धि-प्रदायिनी

3.129

उपदेशं हि मुद्राणां यो दत्ते साम्प्रदायिकम् ।
स एव श्री-गुरुः स्वामी साक्षाद् ईश्वर एव सः

3.130

तस्य वाक्य-परो भूत्वा मुद्राभ्यासे समाहितः ।
अणिमादि-गुणैः सार्धं लभते काल-वञ्चनम्

मूल पाठ: Haṭhayogapradīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc