भाषा

ENहिગુ
ग्रंथ पाठ

हठयोगप्रदीपिका · अध्याय 2

2.1

इति हठ-प्रदीपिकायां प्रथमोपदेशः ।
(2)
द्वितीयोपदेशः
अथासने दृधे योगी वशी हित-मिताशनः ।
गुरूपदिष्ट-मार्गेण प्राणायामान् समभ्यसेत्

2.2

चले वाते चलं चित्तं निश्चले निश्चलं भवेत् ॥ ह्य्प्_2.
योगी स्थाणुत्वम् आप्नोति ततो वायुं निरोधयेत्

2.3

यावद् वायुः स्थितो देहे तावज् जीवनम् उच्यते ।
मरणं तस्य निष्क्रान्तिस् ततो वायुं निरोधयेत्

2.4

मलाकलासु नाडीषु मारुतो नैव मध्यगः ।
कथं स्याद् उन्मनीभावः कार्य-सिद्धिः कथं भवेत्

2.5

शुद्धम् एति यदा सर्वं नाडी-चक्रं मलाकुलम् ।
तदैव जायते योगी प्राण-संग्रहणे क्षमः

2.6

प्राणायामं ततः कुर्यान् नित्यं सात्त्विकया धिया ।
यथा सुषुम्णा-नाडीस्था मलाः शुद्धिं प्रयान्ति च

2.7

बद्ध-पद्मासनो योगी प्राणं चन्द्रेण पूरयेत् ।
धारयित्वा यथा-शक्ति भूयः सूर्येण रेचयेत्

2.8

प्राणं सूर्येण चाकृष्य पूरयेद् उदरं शनैः ।
विधिवत् कुम्भकं कृत्वा पुनश् चन्द्रेण रेचयेत्

2.9

येन त्यजेत् तेन पीत्वा धारयेद् अतिरोधतः ।
रेचयेच् च ततोऽन्येन शनैर् एव न वेगतः

2.10

प्राणं चेद् इडया पिबेन् नियमितं भूयोऽन्यथा रेचयेत्
पीत्वा पिङ्गलया समीरणम् अथो बद्ध्वा त्यजेद् वामया ।
सूर्य-चन्द्रमसोर् अनेन विधिनाभ्यासं सदा तन्वतां
शुद्धा नाडि-गणा भवन्ति यमिनां मास-त्रयाद् ऊर्ध्वतः

2.11

प्रातर् मध्यन्दिने सायम् अर्ध-रात्रे च कुम्भकान् ।
शनैर् अशीति-पर्यन्तं चतुर् वारं समभ्यसेत्

2.12

कनीयसि भवेद् स्वेद कम्पो भवति मध्यमे ।
उत्तमे स्थानम् आप्नोति ततो वायुं निबन्धयेत्

2.13

जलेन श्रम-जातेन गात्र-मर्दनम् आचरेत् ।
दृढता लघुता चैव तेन गात्रस्य जायते

2.14

अभ्यास-काले प्रथमे शस्तं क्षीराज्य-भोजनम् ।
ततोऽभ्यासे दृढीभूते न तादृङ्-नियम-ग्रहः

2.15

यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः ।
तथैव सेवितो वायुर् अन्यथा हन्ति साधकम्

2.16

प्राणायामेन युक्तेन सर्व-रोग-क्षयो भवेत् ।
अयुक्ताभ्यास-योगेन सर्व-रोग-समुद्गमः

2.17

हिक्का श्वासश् च कासश् च शिरः-कर्णाक्षि-वेदनाः ।
भवन्ति विविधाः रोगाः पवनस्य प्रकोपतः

2.18

युक्तं युक्तं त्यजेद् वायुं युक्तं युक्तं च पूरयेत् ।
युक्तं युक्तं च बध्नीयाद् एवं सिद्धिम् अवाप्नुयात्

2.19

यदा तु नाडी-शुद्धिः स्यात् तथा चिह्नानि बाह्यतः ।
कायस्य कृशता कान्तिस् तदा जायते निश्चितम्

2.20

यथेष्टं धारणं वायोर् अनलस्य प्रदीपनम् ।
नादाभिव्यक्तिर् आरोग्यं जायते नाडि-शोधनात्

2.21

मेद-श्लेष्माधिकः पूर्वं षट्-कर्माणि समाचरेत् ।
अन्यस् तु नाचरेत् तानि दोषाणां समभावतः

2.22

धौतिर् बस्तिस् तथा नेतिस् त्राटकं नौलिकं तथा ।
कपाल-भातिश् चैतानि षट्-कर्माणि प्रचक्षते

2.23

कर्म षट्कम् इदं गोप्यं घट-शोधन-कारकम् ।
विचित्र-गुण-सन्धाय पूज्यते योगि-पुङ्गवैः

2.24

तत्र धौतिः-
चतुर्-अङ्गुल-विस्तारं हस्त-पञ्च-दशायतम् ।
गुरूपदिष्ट-मार्गेण सिक्तं वस्त्रं शनैर् ग्रसेत् ।
पुनः प्रत्याहरेच् चैतद् उदितं धौति-कर्म तत्

2.25

कास-श्वास-प्लीह-कुष्ठं कफरोगाश् च विंशतिः ।
धौति-कर्म-प्रभावेण प्रयान्त्य् एव न संशयः

2.26

अथ बस्तिः-
नाभि-दघ्न-जले पायौ न्यस्त-नालोत्कटासनः ।
आधाराकुञ्चनं कुर्यात् क्षालनं बस्ति-कर्म तत्

2.27

गुल्म-प्लीहोदरं चापि वात-पित्त-कफोद्भवाः ।
बस्ति-कर्म-प्रभावेण क्षीयन्ते सकलामयाः

2.28

धान्त्वद्रियान्तः-करण-प्रसादं
दधाच् च कान्तिं दहन-प्रदीप्तम् ।
अशेष-दोषोपचयं निहन्याद्
अभ्यस्यमानं जल-बस्ति-कर्म

2.29

अथ नेतिः-
सूत्रं वितस्ति-सुस्निग्धं नासानाले प्रवेशयेत् ।
मुखान् निर्गमयेच् चैषा नेतिः सिद्धैर् निगद्यते

2.30

कपाल-शोधिनी चैव दिव्य-दृष्टि-प्रदायिनी ।
जत्रूर्ध्व-जात-रोगौघं नेतिर् आशु निहन्ति च

2.31

अथ त्राटकम्-
निरीक्षेन् निश्चल-दृशा सूक्ष्म-लक्ष्यं समाहितः ।
अश्रु-सम्पात-पर्यन्तम् आचार्यैस् त्राटकं स्मृतम्

2.32

मोचनं नेत्र-रोगाणां तन्दाद्रीणां कपाटकम् ।
यत्नतस् त्राटकं गोप्यं यथा हाटक-पेटकम्

2.33

अथ नौलिः-
अमन्दावर्त-वेगेन तुन्दं सव्यापसव्यतः ।
नतांसो भ्रामयेद् एषा नौलिः सिद्धैः प्रशस्यते

2.34

मन्दाग्नि-सन्दीपन-पाचनादि-सन्धापिकानन्द-करी सदैव ।
अशेष-दोष-मय-शोषणी च हठ-क्रिया मौलिर् इयं च नौलिः

2.35

अथ कपालभातिः-
भस्त्रावल् लोह-कारस्य रेच-पूरौ ससम्भ्रमौ ।
कपालभातिर् विख्याता कफ-दोष-विशोषणी

2.36

षट्-कर्म-निर्गत-स्थौल्य-कफ-दोष-मलादिकः ।
प्राणायामं ततः कुर्याद् अनायासेन सिद्ध्यति

2.37

प्राणायामैर् एव सर्वे प्रशुष्यन्ति मला इति ।
आचार्याणां तु केषांचिद् अन्यत् कर्म न संमतम्

2.38

अथ गज-करणी-
उदर-गत-पदार्थम् उद्वमन्ति
पवनम् अपानम् उदीर्य कण्ठ-नाले ।
क्रम-परिचय-वश्य-नाडि-चक्रा
गज-करणीति निगद्यते हठज्ञैः

2.39

ब्रह्मादयोऽपि त्रिदशाः पवनाभ्यास-तत्पराः ।
अभूवन्न् अन्तक-भ्यात् तस्मात् पवनम् अभ्यसेत्

2.40

यावद् बद्धो मरुद् देहे यावच् चित्तं निराकुलम् ।
यावद् दृष्टिर् भ्रुवोर् मध्ये तावत् काल-भयं कुतः

2.41

विधिवत् प्राण-संयामैर् नाडी-चक्रे विशोधिते ।
सुषुम्णा-वदनं भित्त्वा सुखाद् विशति मारुतः

2.42

अथ मनोन्मनी-
मारुते मध्य-संचारे मनः-स्थैर्यं प्रजायते ।
यो मनः-सुस्थिरी-भावः सैवावस्था मनोन्मनी

2.43

तत्-सिद्धये विधानज्ञाश् चित्रान् कुर्वन्ति कुम्भकान् ।
विचित्र कुम्भकाभ्यासाद् विचित्रां सिद्धिम् आप्नुयात्

2.44

अथ कुम्भक-भेदाः--
सूर्य-भेदनम् उज्जायी सीत्कारी शीतली तथा ।
भस्त्रिका भ्रामरी मूर्च्छा प्लाविनीत्य् अष्ट-कुम्भकाः

2.45

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।
कुम्भकान्ते रेचकादौ कर्तव्यस् तूड्डियानकः

2.46

अधस्तात् कुञ्चनेनाशु कण्ठ-सङ्कोचने कृते ।
मध्ये पश्चिम-तानेन स्यात् प्राणो ब्रह्म-नाडिगः

2.47

आपानम् ऊर्ध्वम् उत्थाप्य प्राणं कण्ठाद् अधो नयेत् ।
योगी जरा-विमुक्तः सन् षोडशाब्द-वया भवेत्

2.48

अथ सूर्य-भेदनम्-
आसने सुखदे योगी बद्ध्वा चैवासनं ततः ।
दक्ष-नाड्या समाकृष्य बहिःस्थं पवनं शनैः

2.49

आकेशाद् आनखाग्राच् च निरोधावधि कुम्भयेत् ।
ततः शनैः सव्य-नाड्या रेचयेत् पवनं शनैः

2.50

कपाल-शोधनं वात-दोष-घ्नं कृमि-दोष-हृत् ।
पुनः पुनर् इदं कार्यं सूर्य-भेदनम् उत्तमम्

2.51

अथ उज्जायी-
मुखं संयम्य नाडीभ्याम् आकृष्य पवनं शनैः ।
यथा लगति कण्ठात् तु हृदयावधि स-स्वनम्

2.52

पूर्ववत् कुम्भयेत् प्राणं रेचयेद् इडया तथा ।
श्लेष्म-दोष-हरं कण्ठे देहानल-विवर्धनम्

2.53

नाडी-जलोदराधातु-गत-दोष-विनाशनम् ।
गच्छता तिष्ठता कार्यम् उज्जाय्य् आख्यं तु कुम्भकम्

2.54

अथ सीत्कारी-
सीत्कां कुर्यात् तथा वक्त्रे घ्राणेनैव विजृम्भिकाम् ।
एवम् अभ्यास-योगेन काम-देवो द्वितीयकः

2.55

योगिनी चक्र-संमान्यः सृष्टि-संहार-कारकः ।
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते

2.56

भवेत् सत्त्वं च देहस्य सर्वोपद्रव-वर्जितः ।
अनेन विधिना सत्यं योगीन्द्रो भूमि-मण्डले

2.57

अथ शीतली-
जिह्वया वायुम् आकृष्य पूर्ववत् कुम्भ-साधनम् ।
शनकैर् घ्राण-रन्ध्राभ्यां रेचयेत् पवनं सुधीः

2.58

गुल्म-प्लीहादिकान् रोगान् ज्वरं पित्तं क्षुधां तृषाम् ।
विषाणि शीतली नाम कुम्भिकेयं निहन्ति हि

2.59

अथ भस्त्रिका-
ऊर्वोर् उपरि संस्थाप्य शुभे पाद-तले उभे ।
पद्मासनं भवेद् एतत् सर्व-पाप-प्रणाशनम्

2.60

सम्यक् पद्मासनं बद्ध्वा सम-ग्रीवोदरः सुधीः ।
मुखं संयम्य यत्नेन प्राणं घ्राणेन रेचयेत्

2.61

यथा लगति हृत्-कण्ठे कपालावधि स-स्वनम् ।
वेगेन पूरयेच् चापि हृत्-पद्मावधि मारुतम्

2.62

पुनर् विरेचयेत् तद्वत् पूरयेच् च पुनः पुनः ।
यथैव लोहकारेण भस्त्रा वेगेन चाल्यते

2.63

तथैव स्व-शरीर-स्थं चालयेत् पवनं धिया ।
यदा श्रमो भवेद् देहे तदा सूर्येण पूरयेत्

2.64

यथोदरं भवेत् पूर्णम् अनिलेन तथा लघु ।
धारयेन् नासिकां मध्या-तर्जनीभ्यां विना दृढम्

2.65

विधिवत् कुम्भकं कृत्वा रेचयेद् इडयानिलम् ।
वात-पित्त-श्लेष्म-हरं शरीराग्नि-विवर्धनम्

2.66

कुण्डली बोधकं क्षिप्रं पवनं सुखदं हितम् ।
ब्रह्म-नाडी-मुखे संस्थ-कफाद्य्-अर्गल-नाशनम्

2.67

सम्यग् गात्र-समुद्भूत-ग्रन्थि-त्रय-विभेदकम् ।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्व् इदम्

2.68

अथ भ्रामरी-
वेगाद् घोषं पूरकं भृङ्ग-नादं
भृङ्गी-नादं रेचकं मन्द-मन्दम् ।
योगीन्द्राणीअम् एवम् अभ्यास-योगाच्
चित्ते जाता काचिद् आनन्द-लीला

2.69

अथ मूर्च्छा-
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः ।
रेचयेन् मूर्च्छाख्येयं मनो-मूर्च्छा सुख-प्रदा

2.70

अथ प्लाविनी-
अन्तः प्रवर्तितोदार-मारुतापूरितोदरः ।
पयस्य् अगाधेऽपि सुखात् प्लवते पद्म-पत्रवत्

2.71

प्राणायामस् त्रिधा प्रोक्तो रेच-पूरक-कुम्भकैः ।
सहितः केवलश् चेति कुम्भको द्विविधो मतः

2.72

यावत् केवल-सिद्धिः स्यात् सहितं तावद् अभ्यसेत् ।
रेचकं पूरकं मुक्त्वा सुखं यद् वायु-धारणम्

2.73

प्राणायामोऽयम् इत्य् उक्तः स वै केवल-कुम्भकः ।
कुम्भके केवले सिद्धे रेच-पूरक-वर्जिते

2.74

न तस्य दुर्लभं किंचित् त्रिषु लोकेषु विद्यते ।
शक्तः केवल-कुम्भेन यथेष्टं वायु-धारणात्

2.75

राज-योग-पदं चापि लभते नात्र संशयः ।
कुम्भकात् कुण्डली-बोधः कुण्डली-बोधतो भवेत् ।
अनर्गला सुषुम्णा च हठ-सिद्धिश् च जायते

2.76

हठं विना राजयोगो राज-योगं विना हठः ।
न सिध्यति ततो युग्मम् आनिष्पत्तेः समभ्यसेत्

2.77

कुम्भक-प्राण-रोधान्ते कुर्याच् चित्तं निराश्रयम् ।
एवम् अभ्यास-योगेन राज-योग-पदं व्रजेत्

2.78

वपुः कृशत्वं वदने प्रसन्नता
नाद-स्फुटत्वं नयने सुनिर्मले ।
अरोगता बिन्दु-जयोऽग्नि-दीपनं
नाडी-विशुद्धिर् हठ-सिद्धि-लक्षणम्

मूल पाठ: Haṭhayogapradīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc