हठयोगप्रदीपिका · अध्याय 4
इति हठ-प्रदीपिकायां तृतीयोपदेशः ।
(4)
चतुर्थोपदेशः
नमः शिवाय गुरवे नाद-बिन्दु-कलात्मने ।
निरञ्जन-पदं याति नित्यं तत्र परायणः
अथेदानीं प्रवक्ष्यामि समाधिक्रमम् उत्तमम् ।
मृत्युघ्नं च सुखोपायं ब्रह्मानन्द-करं परम्
राज-योगः समाधिश् च उन्मनी च मनोन्मनी ।
अमरत्वं लयस् तत्त्वं शून्याशून्यं परं पदम्
अमनस्कं तथाद्वैतं निरालम्बं निरञ्जनम् ।
जीवन्मुक्तिश् च सहजा तुर्या चेत्य् एक-वाचकाः
सलिले सैन्धवं यद्वत् साम्यं भजति योगतः ।
तथात्म-मनसोर् ऐक्यं समाधिर् अभिधीयते
यदा संक्षीयते प्राणो मानसं च प्रलीयते ।
तदा समरसत्वं च समाधिर् अभिधीयते
तत्-समं च द्वयोर् ऐक्यं जीवात्म-परमात्मनोः ।
प्रनष्ट-सर्व-सङ्कल्पः समाधिः सोऽभिधीयते
राज-योगस्य माहात्म्यं को वा जानाति तत्त्वतः ।
ज्ञानं मुक्तिः स्थितिः सिद्धिर् गुरु-वाक्येन लभ्यते
दुर्लभो विषय-त्यागो दुर्लभं तत्त्व-दर्शनम् ।
दुर्लभा सहजावस्था सद्-गुरोः करुणां विना
विविधैर् आसनैः कुभैर् विचित्रैः करणैर् अपि ।
प्रबुद्धायां महा-शक्तौ प्राणः शून्ये प्रलीयते
उत्पन्न-शक्ति-बोधस्य त्यक्त-निःशेष-कर्मणः ।
योगिनः सहजावस्था स्वयम् एव प्रजायते
सुषुम्णा-वाहिनि प्राणे शून्ये विशति मानसे ।
तदा सर्वाणि कर्माणि निर्मूलयति योगवित्
अमराय नमस् तुभ्यं सोऽपि कालस् त्वया जितः ।
पतितं वदने यस्य जगद् एतच् चराचरम्
चित्ते समत्वम् आपन्ने वायौ व्रजति मध्यमे ।
तदामरोली वज्रोली सहजोली प्रजायते
ज्ञानं कुतो मनसि सम्भवतीह तावत्
प्राणोऽपि जीवति मनो म्रियते न यावत् ।
प्राणो मनो द्वयम् इदं विलयं नयेद् यो
मोक्षं स गच्छति नरो न कथंचिद् अन्यः
ज्ञात्वा सुषुम्णासद्-भेदं कृत्वा वायुं च मध्यगम् ।
स्थित्वा सदैव सुस्थाने ब्रह्म-रन्ध्रे निरोधयेत्
सूर्य-चन्द्रमसौ धत्तः कालं रात्रिन्दिवात्मकम् ।
भोक्त्री सुषुम्ना कालस्य गुह्यम् एतद् उदाहृतम्
द्वा-सप्तति-सहस्राणि नाडी-द्वाराणि पञ्जरे ।
सुषुम्णा शाम्भवी शक्तिः शेषास् त्व् एव निरर्थकाः
वायुः परिचितो यस्माद् अग्निना सह कुण्डलीम् ।
बोधयित्वा सुषुम्णायां प्रविशेद् अनिरोधतः
सुषुम्णा-वाहिनि प्राणे सिद्ध्यत्य् एव मनोन्मनी ।
अन्यथा त्व् इतराभ्यासाः प्रयासायैव योगिनाम्
पवनो बध्यते येन मनस् तेनैव बध्यते ।
मनश् च बध्यते येन पवनस् तेन बध्यते
हेतु-द्वयं तु चित्तस्य वासना च समीरणः ।
तयोर् विनष्ट एकस्मिन् तौ द्वाव् अपि विनश्यतः
मनो यत्र विलीयेत पवनस् तत्र लीयते ।
पवनो लीयते यत्र मनस् तत्र विलीयते
दुग्धाम्बुवत् संमिलिताव् उभौ तौ
तुल्य-क्रियौ मानस-मारुतौ हि ।
यतो मरुत् तत्र मनः-प्रवृत्तिर्
यतो मनस् तत्र मरुत्-प्रवृत्तिः
तत्रैक-नाशाद् अपरस्य नाश
एक-प्रवृत्तेर् अपर-प्रवृत्तिः ।
अध्वस् तयोश् चेन्द्रिय-वर्ग-वृत्तिः
प्रध्वस् तयोर् मोक्ष-पदस्य सिद्धिः
रसस्य मनसश् चैव चञ्चलत्वं स्वभावतः ।
रसो बद्धो मनो बद्धं किं न सिद्ध्यति भूतले
मूर्च्छितो हरते व्याधीन् मृतो जीवयति स्वयम् ।
बद्धः खेचरतां धत्ते रसो वायुश् च पार्वति
मनः स्थैर्यं स्थिरो वायुस् ततो बिन्दुः स्थिरो भवेत् ।
बिन्दु-स्थैर्यात् सदा सत्त्वं पिण्ड-स्थैर्यं प्रजायते
इन्द्रियाणां मनो नाथो मनोनाथस् तु मारुतः ।
मारुतस्य लयो नाथः स लयो नादम् आश्रितः
सोऽयम् एवास्तु मोक्षाख्यो मास्तु वापि मतान्तरे ।
मनः-प्राण-लये कश्चिद् आनन्दः सम्प्रवर्तते
प्रनष्ट-श्वास-निश्वासः प्रध्वस्त-विषय-ग्रहः ।
निश्चेष्टो निर्विकारश् च लयो जयति योगिनाम्
उच्छिन्न-सर्व-सङ्कल्पो निःशेषाशेष-चेष्टितः ।
स्वावगम्यो लयः कोऽपि जायते वाग्-अगोचरः
यत्र दृष्टिर् लयस् तत्र भूतेन्द्रिय-सनातनी ।
सा शक्तिर् जीव-भूतानां द्वे अलक्ष्ये लयं गते
लयो लय इति प्राहुः कीदृशं लय-लक्षणम् ।
अपुनर्-वासनोत्थानाल् लयो विषय-विस्मृतिः
वेद-शास्त्र-पुराणानि सामान्य-गणिका इव ।
एकैव शाम्भवी मुद्रा गुप्ता कुल-वधूर् इव
अथ शाम्भवी-
अन्तर् लक्ष्यं बहिर् दृष्टिर् निमेषोन्मेष-वर्जिता ।
एषा सा शाम्भवी मुद्रा वेद-शास्त्रेषु गोपिता
अन्तर् लक्ष्य-विलीन-चित्त-पवनो योगी यदा वर्तते
दृष्ट्या निश्चल-तारया बहिर् अधः पश्यन्न् अपश्यन्न् अपि ।
मुद्रेयं खलु शाम्भवी भवति सा लब्धा प्रसादाद् गुरोः
शून्याशून्य-विलक्षणं स्फुरति तत् तत्त्वं पदं शाम्भवम्
श्री-शाम्भव्याश् च खेचर्या अवस्था-धाम-भेदतः ।
भवेच् चित्त-लयानन्दः शून्ये चित्-सुख-रूपिणि
तारे ज्योतिषि संयोज्य किंचिद् उन्नमयेद् भ्रुवौ ।
पूर्व-योगं मनो युञ्जन्न् उन्मनी-कारकः क्षणात्
केचिद् आगम-जालेन केचिन् निगम-सङ्कुलैः ।
केचित् तर्केण मुह्यन्ति नैव जानन्ति तारकम्
अर्धोन्मीलित-लोचनः स्थिर-मना नासाग्र-दत्तेक्षणश्
चन्द्रार्काव् अपि लीनताम् उपनयन् निस्पन्द-भावेन यः ।
ज्योती-रूपम् अशेष-बीजम् अखिलं देदीप्यमानं परं
तत्त्वं तत्-पदम् एति वस्तु परमं वाच्यं किम् अत्राधिकम्
दिवा न पूजयेल् लिङ्गं रात्रौ चैव न पूजयेत् ।
सर्वदा पूजयेल् लिङ्गं दिवारात्रि-निरोधतः
अथ खेचरी-
सव्य-दक्षिण-नाडी-स्थो मध्ये चरति मारुतः ।
तिष्ठते खेचरी मुद्रा तस्मिन् स्थाने न संशयः
इडा-पिङ्गलयोर् मध्ये शून्यं चैवानिलं ग्रसेत् ।
तिष्ठते खेचरी मुद्रा तत्र सत्यं पुनः पुनः
सूर्च्याचन्द्रमसोर् मध्ये निरालम्बान्तरे पुनः ।
संस्थिता व्योम-चक्रे या सा मुद्रा नाम खेचरी
सोमाद् यत्रोदिता धारा साक्षात् सा शिव-वल्लभा ।
पूरयेद् अतुलां दिव्यां सुषुम्णां पश्चिमे मुखे
पुरस्ताच् चैव पूर्येत निश्चिता खेचरी भवेत् ।
अभ्यस्ता खेचरी मुद्राप्य् उन्मनी सम्प्रजायते
भ्रुवोर् मध्ये शिव-स्थानं मनस् तत्र विलीयते ।
ज्ञातव्यं तत्-पदं तुर्यं तत्र कालो न विद्यते
अभ्यसेत् खेचरीं तावद् यावत् स्याद् योग-निद्रितः ।
सम्प्राप्त-योग-निद्रस्य कालो नास्ति कदाचन
निरालम्बं मनः कृत्वा न किंचिद् अपि चिन्तयेत् ।
स-बाह्याभ्यन्तरं व्योम्नि घटवत् तिष्ठति ध्रुवम्
बाह्य-वायुर् यथा लीनस् तथा मध्यो न संशयः ।
स्व-स्थाने स्थिरताम् एति पवनो मनसा सह
एवम् अभ्यस्यतस् तस्य वायु-मार्गे दिवानिशम् ।
अभ्यासाज् जीर्यते वायुर् मनस् तत्रैव लीयते
अमृतैः प्लावयेद् देहम् आपाद-तल-मस्तकम् ।
सिद्ध्यत्य् एव महा-कायो महा-बल-पराक्रमः
शक्ति-मध्ये मनः कृत्वा शक्तिं मानस-मध्यगाम् ।
मनसा मन आलोक्य धारयेत् परमं पदम्
ख-मध्ये कुरु चात्मानम् आत्म-मध्ये च खं कुरु ।
सर्वं च ख-मयं कृत्वा न किंचिद् अपि चिन्तयेत्
अन्तः शून्यो बहिः शून्यः शून्यः कुम्भ इवाम्बरे ।
अन्तः पूर्णो बहिः पूर्णः पूर्णः कुम्भ इवार्णवे
बाह्य-चिन्ता न कर्तव्या तथैवान्तर-चिन्तनम् ।
सर्व-चिन्तां परित्यज्य न किंचिद् अपि चिन्तयेत्
सङ्कल्प-मात्र-कलनैव जगत् समग्रं
सङ्कल्प-मात्र-कलनैव मनो-विलासः ।
सङ्कल्प-मात्र-मतिम् उत्सृज निर्विकल्पम्
आश्रित्य निश्चयम् अवाप्नुहि राम शान्तिम्
कर्पूरम् अनले यद्वत् सैन्धवं सलिले यथा ।
तथा सन्धीयमानं च मनस् तत्त्वे विलीयते
ज्ञेयं सर्वं प्रतीतं च ज्ञानं च मन उच्यते ।
ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था द्वितीयकः
मनो-दृश्यम् इदं सर्वं यत् किंचित् स-चराचरम् ।
मनसो ह्य् उन्मनी-भावाद् द्वैतं नैवोलभ्यते
ज्ञेय-वस्तु-परित्यागाद् विलयं याति मानसम् ।
मनसो विलये जाते कैवल्यम् अवशिष्यते
एवं नाना-विधोपायाः सम्यक् स्वानुभवान्विताः ।
समाधि-मार्गाः कथिताः पूर्वाचार्यैर् महात्मभिः
सुषुम्णायै कुण्डलिन्यै सुधायै चन्द्र-जन्मने ।
मनोन्मन्यै नमस् तुभ्यं महा-शक्त्यै चिद्-आत्मने
अशक्य-तत्त्व-बोधानां मूढानाम् अपि संमतम् ।
प्रोक्तं गोरक्ष-नाथेन नादोपासनम् उच्यते
श्री-आदिनाथेन स-पाद-कोटि-
लय-प्रकाराः कथिता जयन्ति ।
नादानुसन्धानकम् एकम् एव
मन्यामहे मुख्यतमं लयानाम्
मुक्तासने स्थितो योगी मुद्रां सन्धाय शाम्भवीम् ।
शृणुयाद् दक्षिणे कर्णे नादम् अन्तास्थम् एकधीः
श्रवण-पुट-नयन-युगल-
घ्राण-मुखानां निरोधनं कार्यम् ।
शुद्ध-सुषुम्णा-सरणौ
स्फुटम् अमलः श्रूयते नादः
आरम्भश् च घटश् चैव तथा परिचयोऽपि च ।
निष्पत्तिः सर्व-योगेषु स्याद् अवस्था-चतुष्टयम्
अथ आरम्भावस्था-
ब्रह्म-ग्रन्थेर् भवेद् भेदो ह्य् आनन्दः शून्य-सम्भवः ।
विचित्रः क्वणको देहेऽनाहतः श्रूयते ध्वनिः
दिव्य-देहश् च तेजस्वी दिव्य-गन्धस् त्वरोगवान् ।
सम्पूर्ण-हृदयः शून्य आरम्भे योगवान् भवेत्
अथ घटावस्था-
द्वितीयायां घटीकृत्य वायुर् भवति मध्यगः ।
दृढासनो भवेद् योगी ज्ञानी देव-समस् तदा
विष्णु-ग्रन्थेस् ततो भेदात् परमानन्द-सूचकः ।
अतिशून्ये विमर्दश् च भेरी-शब्दस् तदा भवेत्
अथ परिचयावस्था-
तृतीयायां तु विज्ञेयो विहायो मर्दल-ध्वनिः ।
महा-शून्यं तदा याति सर्व-सिद्धि-समाश्रयम्
चित्तानन्दं तदा जित्वा सहजानन्द-सम्भवः ।
दोष-दुःख-जरा-व्याधि-क्षुधा-निद्रा-विवर्जितः
अथ निष्पत्त्य्-अवस्था-
रुद्र-ग्रन्थिं यदा भित्त्वा शर्व-पीठ-गतोऽनिलः ।
निष्पत्तौ वैणवः शब्दः क्वणद्-वीणा-क्वणो भवेत्
एकीभूतं तदा चित्तं राज-योगाभिधानकम् ।
सृष्टि-संहार-कर्तासौ योगीश्वर-समो भवेत्
अस्तु वा मास्तु वा मुक्तिर् अत्रैवाखण्डितं सुखम् ।
लयोद्भवम् इदं सौख्यं राज-योगाद् अवाप्यते
राज-योगम् अजानन्तः केवलं हठ-कर्मिणः ।
एतान् अभ्यासिनो मन्ये प्रयास-फल-वर्जितान्
उन्मन्य्-अवाप्तये शीघ्रं भ्रू-ध्यानं मम संमतम् ।
राज-योग-पदं प्राप्तुं सुखोपायोऽल्प-चेतसाम् ।
सद्यः प्रत्यय-सन्धायी जायते नादजो लयः
नादानुसन्धान-समाधि-भाजां
योगीश्वराणां हृदि वर्धमानम् ।
आनन्दम् एकं वचसाम् अगम्यं
जानाति तं श्री-गुरुनाथ एकः
कर्णौ पिधाय हस्ताभ्यां यः शृणोति ध्वनिं मुनिः ।
तत्र चित्तं स्थिरीकुर्याद् यावत् स्थिर-पदं व्रजेत्
अभ्यस्यमानो नादोऽयं बाह्यम् आवृणुते ध्वनिम् ।
पक्षाद् विक्षेपम् अखिलं जित्वा योगी सुखी भवेत्
श्रूयते प्रथमाभ्यासे नादो नाना-विधो महान् ।
ततोऽभ्यासे वर्धमाने श्रूयते सूक्ष्म-सूक्ष्मकः
आदौ जलधि-जीमूत-भेरी-झर्झर-सम्भवाः ।
मध्ये मर्दल-शङ्खोत्था घण्टा-काहलजास् तथा
अन्ते तु किङ्किणी-वंश-वीणा-भ्रमर-निःस्वनाः ।
इति नानाविधा नादाः श्रूयन्ते देह-मध्यगाः
महति श्रूयमाणेऽपि मेघ-भेर्य्-आदिके ध्वनौ ।
तत्र सूक्ष्मात् सूक्ष्मतरं नादम् एव परामृशेत्
घनम् उत्सृज्य वा सूक्ष्मे सूक्ष्मम् उत्सृज्य वा घने ।
रममाणम् अपि क्षिप्तं मनो नान्यत्र चालयेत्
यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।
तत्रैव सुस्थिरीभूय तेन सार्धं विलीयते
मकरन्दं पिबन् भृङ्गी गन्धं नापेक्षते यथा ।
नादासक्तं तथा चित्तं विषयान् नहि काङ्क्षते
मनो-मत्त-गजेन्द्रस्य विषयोद्यान-चारिणः ।
समर्थोऽयं नियमने निनाद-निशिताङ्कुशः
बद्धं तु नाद-बन्धेन मनः सन्त्यक्त-चापलम् ।
प्रयाति सुतरां स्थैर्यं छिन्न-पक्षः खगो यथा
सर्व-चिन्तां परित्यज्य सावधानेन चेतसा ।
नाद एवानुसन्धेयो योग-साम्राज्यम् इच्छता
नादोऽन्तरङ्ग-सारङ्ग-बन्धने वागुरायते ।
अन्तरङ्ग-कुरङ्गस्य वधे व्याधायतेऽपि च
अन्तरङ्गस्य यमिनो वाजिनः परिघायते ।
नादोपास्ति-रतो नित्यम् अवधार्या हि योगिना
बद्धं विमुक्त-चाञ्चल्यं नाद-गन्धक-जारणात् ।
मनः-पारदम् आप्नोति निरालम्बाख्य-खेऽटनम्
नाद-श्रवणतः क्षिप्रम् अन्तरङ्ग-भुजङ्गमम् ।
विस्मृतय सर्वम् एकाग्रः कुत्रचिन् नहि धावति
काष्ठे प्रवर्तितो वह्निः काष्ठेन सह शाम्यति ।
नादे प्रवर्तितं चित्तं नादेन सह लीयते
घण्टादिनाद-सक्त-स्तब्धान्तः-करण-हरिणस्य ।
प्रहरणम् अपि सुकरं स्याच् छर-सन्धान-प्रवीणश् चेत्
अनाहतस्य शब्दस्य ध्वनिर् य उपलभ्यते ।
ध्वनेर् अन्तर्गतं ज्ञेयं ज्ञेयस्यान्तर्गतं मनः ।
मनस् तत्र लयं याति तद् विष्णोः परमं पदम्
तावद् आकाश-सङ्कल्पो यावच् छब्दः प्रवर्तते ।
निःशब्दं तत्-परं ब्रह्म परमातेति गीयते
यत् किंचिन् नाद-रूपेण श्रूयते शक्तिर् एव सा ।
यस् तत्त्वान्तो निराकारः स एव परमेश्वरः
इति नादानुसन्धानम्
सर्वे हठ-लयोपाया राजयोगस्य सिद्धये ।
राज-योग-समारूढः पुरुषः काल-वञ्चकः
तत्त्वं बीजं हठः क्षेत्रम् औदासीन्यं जलं त्रिभिः ।
उन्मनी कल्प-लतिका सद्य एव प्रवर्तते
सदा नादानुसन्धानात् क्षीयन्ते पाप-संचयाः ।
निरञ्जने विलीयेते निश्चितं चित्त-मारुतौ
शङ्ख-दुन्धुभि-नादं च न शृणोति कदाचन ।
काष्ठवज् जायते देह उन्मन्यावस्थया ध्रुवम्
सर्वावस्था-विनिर्मुक्तः सर्व-चिन्ता-विवर्जितः ।
मृतवत् तिष्ठते योगी स मुक्तो नात्र संशयः
खाद्यते न च कालेन बाध्यते न च कर्मणा ।
साध्यते न स केनापि योगी युक्तः समाधिना
न गन्धं न रसं रूपं न च स्पर्शं न निःस्वनम् ।
नात्मानं न परं वेत्ति योगी युक्तः समाधिना
चित्तं न सुप्तं नोजाग्रत् स्मृति-विस्मृति-वर्जितम् ।
न चास्तम् एति नोदेति यस्यासौ मुक्त एव सः
न विजानाति शीतोष्णं न दुःखं न सुखं तथा ।
न मानं नोपमानं च योगी युक्तः समाधिना
स्वस्थो जाग्रद् अवस्थायां सुप्तवद् योऽवतिष्ठते ।
निःश्वासोच्छ्वास-हीनश् च निश्चितं मुक्त एव सः
अवध्यः सर्व-शस्त्राणाम् अशक्यः सर्व-देहिनाम् ।
अग्राह्यो मन्त्र-यन्त्राणां योगी युक्तः समाधिना
यावन् नैव प्रविशति चरन् मारुतो मध्य-मार्गे
यावद् विदुर् न भवति दृढः प्राण-वात-प्रबन्धात् ।
यावद् ध्याने सहज-सदृशं जायते नैव तत्त्वं
तावज् ज्ञानं वदति तद् इदं दम्भ-मिथ्या-प्रलापः
मूल पाठ: Haṭhayogapradīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0