भाषा

ENहिગુ
ग्रंथ पाठ

हठयोगप्रदीपिका · अध्याय 1

1.1

हठ-योग-प्रदीपिका
(1)
प्रथमोपदेशः
श्री-आदि-नाथाय नमोऽस्तु तस्मै
येनोपदिष्टा हठ-योग-विद्या ।
विभ्राजते प्रोन्नत-राज-योगम्
आरोढुम् इच्छोर् अधिरोहिणीव

1.2

प्रणम्य श्री-गुरुं नाथं स्वात्मारामेण योगिना ।
केवलं राज-योगाय हठ-विद्योपदिश्यते

1.3

भ्रान्त्या बहुमत-ध्वान्ते राज-योगम् अजानताम् ।
हठ-प्रदीपिकां धत्ते स्वात्मारामः कृपाकरः

1.4

हठ-विद्यां हि मत्स्येन्द्र-गोरक्षाद्या विजानते ।
स्वात्मारामोऽथवा योगी जानीते तत्-प्रसादतः

1.5

श्री-आदिनाथ-मत्स्येन्द्र-शावरानन्द-भैरवाः ।
चौरङ्गी-मीन-गोरक्ष-विरूपाक्ष-बिलेशयाः

1.6

मन्थानो भैरवो योगी सिद्धिर् बुद्धश् च कन्थडिः ।
कोरंटकः सुरानन्दः सिद्धपादश् च चर्पटिः

1.7

कानेरी पूज्यपादश् च नित्य-नाथो निरञ्जनः ।
कपाली बिन्दुनाथश् च काकचण्डीश्वराह्वयः

1.8

अल्लामः प्रभुदेवश् च घोडा चोली च टिंटिणिः ।
भानुकी नारदेवश् च खण्डः कापालिकस् तथा

1.9

इत्य् आदयो महासिद्धा हठ-योग-प्रभावतः ।
खण्डयित्वा काल-दण्डं ब्रह्माण्डे विचरन्ति ते

1.10

अशेष-ताप-तप्तानां समाश्रय-मठो हठः ।
अशेष-योग-युक्तानाम् आधार-कमठो हठः

1.11

हठ-विद्या परं गोप्या योगिना सिद्धिम् इच्छता ।
भवेद् वीर्यवती गुप्ता निर्वीर्या तु प्रकाशिता

1.12

सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे ।
धनुः प्रमाण-पर्यन्तं शिलाग्नि-जल-वर्जिते ।
एकान्ते मठिका-मध्ये स्थातव्यं हठ-योगिना

1.13

अल्प-द्वारम् अरन्ध्र-गर्त-विवरं नात्युच्च-नीचायतं
सम्यग्-गोमय-सान्द्र-लिप्तम् अमलं निःशेस-जन्तूज्झितम् ।
बाह्ये मण्डप-वेदि-कूप-रुचिरं प्राकार-संवेष्टितं
प्रोक्तं योग-मठस्य लक्षणम् इदं सिद्धैर् हठाभ्यासिभिः

1.14

एवं विधे मठे स्थित्वा सर्व-चिन्ता-विवर्जितः ।
गुरूपदिष्ट-मार्गेण योगम् एव समभ्यसेत्

1.15

अत्याहारः प्रयासश् च प्रजल्पो नियमाग्रहः ।
जन-सङ्गश् च लौल्यं च षड्भिर् योगो विनश्यति

1.16

उत्साहात् साहसाद् धैर्यात् तत्त्व-ज्ञानाश् च निश्चयात् ।
जन-सङ्ग-परित्यागात् षड्भिर् योगः प्रसिद्ध्यति

1.17

अथ यम-नियमाः
अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यं क्षमा धृतिः ।
दयार्जवं मिताहारः शौचं चैव यमा दश

1.18

तपः सन्तोष आस्तिक्यं दानम् ईश्वर-पूजनम् ।
सिद्धान्त-वाक्य-श्रवणं ह्रीमती च तपो हुतम् ।
नियमा दश सम्प्रोक्ता योग-शास्त्र-विशारदैः

1.19

अथ आसनम्
हठस्य प्रथमाङ्गत्वाद् आसनं पूर्वम् उच्यते ।
कुर्यात् तद् आसनं स्थैर्यम् आरोग्यं चाङ्ग-लाघवम्

1.20

वशिष्ठाद्यैश् च मुनिभिर् मत्स्येन्द्राद्यैश् च योगिभिः ।
अङ्गीकृतान्य् आसनानि कथ्यन्ते कानिचिन् मया

1.21

जानूर्वोर् अन्तरे सम्यक् कृत्वा पाद-तले उभे ।
ऋजु-कायः समासीनः स्वस्तिकं तत् प्रचक्षते

1.22

सव्ये दक्षिण-गुल्फं तु पृष्ठ-पार्श्वे नियोजयेत् ।
दक्षिणेऽपि तथा सव्यं गोमुखं गोमुखाकृतिः

1.23

एकं पादं तथैकस्मिन् विन्यसेद् उरुणि स्थिरम् ।
इतरस्मिंस् तथा चोरुं वीरासनम् इतीरितम्

1.24

गुदं निरुध्य गुल्फाभ्यां व्युत्क्रमेण समाहितः ।
कूर्मासनं भवेद् एतद् इति योग-विदो विदुः

1.25

पद्मासनं तु संस्थाप्य जानूर्वोर् अन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थं कुक्कुटासनम्

1.26

कुक्कुटासन-बन्ध-स्थो दोर्भ्यां सम्बद्य कन्धराम् ।
भवेद् कूर्मवद् उत्तान एतद् उत्तान-कूर्मकम्

1.27

पादाङ्गुष्ठौ तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
धनुर् आकर्षणं कुर्याद् धनुर्-आसनम् उच्यते

1.28

वामोरु-मूलार्पित-दक्ष-पादं
जानोर् बहिर् वेष्टित-वाम-पादम् ।
प्रगृह्य तिष्ठेत् परिवर्तिताङ्गः
श्री-मत्य्सनाथोदितम् आसनं स्यात्

1.29

मत्स्येन्द्र-पीठं जठर-प्रदीप्तिं
प्रचण्ड-रुग् मण्डल-खण्डनास्त्रम् ।
अभ्यासतः कुण्डलिनी-प्रबोधं
चन्द्र-स्थिरत्वं च ददाति पुंसाम्

1.30

प्रसार्य पादौ भुवि दण्ड-रूपौ
दोर्भ्यां पदाग्र-द्वितयं गृहीत्वा ।
जानूपरिन्यस्त-ललाट-देशो
वसेद् इदं पश्चिमतानम् आहुः

1.31

इति पश्चिमतानम् आसनाग्र्यं
पवनं पश्चिम-वाहिनं करोति ।
उदयं जठरानलस्य कुर्याद्
उदरे कार्श्यम् अरोगतां च पुंसाम्

1.32

धराम् अवष्टभ्य कर-द्वयेन
तत्-कूर्पर-स्थापित-नाभि-पार्श्वः ।
उच्चासनो दण्डवद् उत्थितः खे
मायूरम् एतत् प्रवदन्ति पीठम्

1.33

हरति सकल-रोगान् आशु गुल्मोदरादीन्
अभिभवति च दोषान् आसनं श्री-मयूरम् ।
बहु कदशन-भुक्तं भस्म कुर्याद् अशेषं
जनयति जठराग्निं जारयेत् काल-कूटम्

1.34

उत्तानं शबवद् भूमौ शयनं तच् छवासनम् ।
शवासनं श्रान्ति-हरं चित्त-विश्रान्ति-कारकम्

1.35

चतुरशीत्य् आसनानि शिवेन कथितानि च ।
तेभ्यश् चतुष्कम् आदाय सारभूतं ब्रवीम्य् अहम्

1.36

सिद्धं पद्मं तथा सिंहं भद्रं वेति चतुष्टयम् ।
श्रेष्ठं तत्रापि च सुखे तिष्ठेत् सिद्धासने सदा

1.37

अथ सिद्धासनम्-
योनि-स्थानकम् अङ्घ्रि-मूल-घटितं कृत्वा दृढं विन्यसेत्
मेण्ढ्रे पादम् अथैकम् एव हृदये कृत्वा हनुं सुस्थिरम् ।
स्थाणुः संयमितेन्द्रियोऽचल-दृशा पश्येद् भ्रुवोर् अन्तरं
ह्य् एतन् मोक्ष-कपाट-भेद-जनकं सिद्धासनं प्रोच्यते

1.38

मेण्ढ्राद् उपरि विन्यस्य सव्यं गुल्फं तथोपरि ।
गुल्फान्तरं च निक्षिप्य सिद्धासनम् इदं भवेत्

1.39

एतत् सिद्धासनं प्राहुर् अन्ये वज्रासनं विदुः ।
मुक्तासनं वदन्त्य् एके प्राहुर् गुप्तासनं परे

1.40

यमेष्व् इव मिताहारम् अहिंसा नियमेष्व् इव ।
मुख्यं सर्वासनेष्व् एकं सिद्धाः सिद्धासनं विदुः

1.41

चतुरशीति-पीठेषु सिद्धम् एव सदाभ्यसेत् ।
द्वासप्तति-सहस्राणां नाडीनां मल-शोधनम्

1.42

आत्म-ध्यायी मिताहारी यावद् द्वादश-वत्सरम् ।
सदा सिद्धासनाभ्यासाद् योगी निष्पत्तिम् आप्नुयात्

1.43

किम् अन्यैर् बहुभिः पीठैः सिद्धे सिद्धासने सति ।
प्राणानिले सावधाने बद्धे केवल-कुम्भके ।
उत्पद्यते निरायासात् स्वयम् एवोन्मनी कला

1.44

तथैकास्मिन्न् एव दृढे सिद्धे सिद्धासने सति ।
बन्ध-त्रयम् अनायासात् स्वयम् एवोपजायते

1.45

नासनं सिद्ध-सदृशं न कुम्भः केवलोपमः ।
न खेचरी-समा मुद्रा न नाद-सदृशो लयः

1.46

अथ पद्मासनम्-
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अङ्गुष्ठौ हृदये निधाय चिबुकं नासाग्रम् आलोकयेत्
एतद् व्याधि-विनाश-कारि यमिनां पद्मासनं प्रोच्यते

1.47

उत्तानौ चरणौ कृत्वा ऊरु-संस्थौ प्रयत्नतः ।
ऊरु-मध्ये तथोत्तानौ पाणी कृत्वा ततो दृशौ

1.48

नासाग्रे विन्यसेद् राजद्-अन्त-मूले तु जिह्वया ।
उत्तम्भ्य चिबुकं वक्षस्य् उत्थाप्य् पवनं शनैः

1.49

इदं पद्मासनं प्रोक्तं सर्व-व्याधि-विनाशनम् ।
दुर्लभं येन केनापि धीमता लभ्यते भुवि

1.50

कृत्वा सम्पुटितौ करौ दृढतरं बद्ध्वा तु पद्मासनं
गाढं वक्षसि सन्निधाय चिबुकं ध्यायंश् च तच् चेतसि ।
वारं वारम् अपानम् ऊर्ध्वम् अनिलं प्रोत्सारयन् पूरितं
न्यञ्चन् प्राणम् उपैति बोधम् अतुलं शक्ति-प्रभावान् नरः

1.51

पद्मासने स्थितो योगी नाडी-द्वारेण पूरितम् ।
मारुतं धारयेद् यस् तु स मुक्तो नात्र संशयः

1.52

अथ सिंहासनम्-
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिपेत् ।
दक्षिणे सव्य-गुल्फं तु दक्ष-गुल्फं तु सव्यके

1.53

हस्तौ तु जान्वोः संस्थाप्य स्वाङ्गुलीः सम्प्रसार्य च ।
व्यात्त-वक्त्रो निरीक्षेत नासाग्रं सुसमाहितः

1.54

सिंहासनं भवेद् एतत् पूजितं योगि-पुङ्गवैः ।
बन्ध-त्रितय-सन्धानं कुरुते चासनोत्तमम्

1.55

अथ भद्रासनम्-
गुल्फौ च वृषणस्याधः सीवन्याः पार्श्वयोः क्षिप्ते ।
सव्य-गुल्फं तथा सव्ये दक्ष-गुल्फं तु दक्षिणे

1.56

पार्श्व-पादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेद् एतत् सर्व-व्याधि-विनाशनम् ।
गोरक्षासनम् इत्य् आहुर् इदं वै सिद्ध-योगिनः

1.57

एवम् आसन-बन्धेषु योगीन्द्रो विगत-श्रमः ।
अभ्यसेन् नाडिका-शुद्धिं मुद्रादि-पवनी-क्रियाम्

1.58

आसनं कुम्भकं चित्रं मुद्राख्यं करणं तथा ।
अथ नादानुसन्धानम् अभ्यासानुक्रमो हठे

1.59

ब्रह्मचारी मिताहारी त्यागी योग-परायणः ।
अब्दाद् ऊर्ध्वं भवेत् सिद्धो नात्र कार्या विचारणा

1.60

सुस्निग्ध-मधुराहारश् चतुर्थांश-विवर्जितः ।
भुज्यते शिव-सम्प्रीत्यै मिताहारः स उच्यते

1.61

कट्वाम्ल-तीक्ष्ण-लवणोष्ण-हरीत-शाक-
सौवीर-तैल-तिल-सर्षप-मद्य-मत्स्यान् ।
आजादि-मांस-दधि-तक्र-कुलत्थकोल-
पिण्याक-हिङ्गु-लशुनाद्यम् अपथ्यम् आहुः

1.62

भोजनम् अहितं विद्यात् पुनर् अस्योष्णी-कृतं रूक्षम् ।
अतिलवणम् अम्ल-युक्तं कदशन-शाकोत्कं वर्ज्यम्

1.63

वह्नि-स्त्री-पथि-सेवानाम् आदौ वर्जनम् आचरेत्

1.64

तथा हि गोरक्ष-वचनम्-
वर्जयेद् दुर्जन-प्रान्तं वह्नि-स्त्री-पथि-सेवनम् ।
प्रातः-स्नानोपवासादि काय-क्लेश-विधिं तथा

1.65

गोधूम-शालि-यव-षाष्टिक-शोभनान्नं
क्षीराज्य-खण्ड-नवनीत-सिद्धा-मधूनि ।
शुण्ठी-पटोल-कफलादिक-पञ्च-शाकं
मुद्गादि-दिव्यम् उदकं च यमीन्द्र-पथ्यम्

1.66

पुष्टं सुमधुरं स्निग्धं गव्यं धातु-प्रपोषणम् ।
मनोभिलषितं योग्यं योगी भोजनम् आचरेत्

1.67

युवो वृद्धोऽतिवृद्धो वा व्याधितो दुर्बलोऽपि वा ।
अभ्यासात् सिद्धिम् आप्नोति सर्व-योगेष्व् अतन्द्रितः

1.68

क्रिया-युक्तस्य सिद्धिः स्याद् अक्रियस्य कथं भवेत् ।
न शास्त्र-पाठ-मात्रेण योग-सिद्धिः प्रजायते

1.69

न वेष-धारणं सिद्धेः कारणं न च तत्-कथा ।
क्रियैव कारणं सिद्धेः सत्यम् एतन् न संशयः

1.70

पीठानि कुम्भकाश् चित्रा दिव्यानि करणानि च ।
सर्वाण्य् अपि हठाभ्यासे राज-योग-फलावधि

मूल पाठ: Haṭhayogapradīpikā · Data entry n.n. · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc