भाषा

ENहिગુ
ग्रंथ पाठ

हठरत्नावली · अध्याय p3

p3.1

हठरत्नावली
द्वितीयोपदेशः
अष्टानां कुम्भकानां तु लक्षणं लक्ष्यते मया ।
अपूर्वाधिकसिद्ध्यर्थं कुम्भकानभ्यसेत्सुधीः

p3.2

अथवा -
विधिवत् प्राणसंयामैः नाडीचक्रे विशोधिते ।
सुषुम्नावदनं भित्वा सुखाद्विशति मारुतः

p3.3

मारुते मध्यमे जाते मनःस्थैर्य प्रजायते ।
मनसः सुस्थिरीभावः सैवावस्था मनोन्मनी

p3.4

तत्सिद्धये विधानज्ञः सदा कुर्वीत कुम्भकान् ।
विचित्रकुम्भकाभ्यासाद्विचित्रां सिद्धिमाप्नुयात्

p3.5

भस्त्रिका भ्रामरी सूर्यभेदोज्जायी च शीतली ।
मूर्छानामकसीत्कारं केवलश्चाष्टकुम्भकाः ।
भुजंगकरणी चेति कुम्भका नवसंख्यकाः

p3.6

अथवा -
सूर्यभेदनमुज्जायी तथा सीत्कारशीतली ।
भस्त्रिका भ्रामरी मूर्छा केवलश्चाष्टकुम्भकाः

p3.7

पूरकान्ते तु कर्तव्यो बन्धो जालन्धराभिधः ।
कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डियानकः

p3.8

अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते ।
मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः

p3.9

अपानमूर्ध्वमुत्थाप्य प्राणं कण्ठादधो नयेत् ।
योगी जराविमुक्तः स्यात् षोडशो वयसा भवेत्

p3.10

अथ सूर्यभेदनं नाम कुम्भकः
दक्षनाड्या समाकृष्य बहिःस्थं पवनं शनैः ।
यथा लगति कण्ठात्तु हृदयावधि सस्वनम्

p3.11

यथेष्टं कुम्भयेद्वायुं रेचयेदिडया ततः ।
कपालं शोधनं चापि रेचयेत्पवनं शनैः

p3.12

आलस्यं वातदोषघ्नं कृमिकीटं निहन्ति च ।
पुनः पुनरिदं कार्यं सूर्यभेदाख्यकुम्भकम्

p3.13

अथोज्जायी -
मुखं संयम्य नाडीभ्यामाकृष्य पवनं शनैः ।
यथा लगति हृत्कण्ठं हृदयावधि सस्वनः

p3.14

पूर्ववत्कुम्भयेत्प्राणं रेचयेदिडया ततः ।
गले श्लेष्महरं प्रोक्तं देहानलविवर्धनम्

p3.15

नाडीजालोदराधातुगतदोषविनाशनम् ।
गच्छता तिष्ठता कार्यमुज्जाय्याख्यं हि कुम्भकम्

p3.16

अथ सीत्कारः -
सीत्कां कुर्यात्तथा वक्त्रे घ्राणेनैव विसर्जयेत् ।
एवमभ्यासयोगेन कामदेवो द्वितीयकः

p3.17

योगिनीचक्रसंसेव्यः सृष्टिसंहारकारकः ।
न क्षुधा न तृषा निद्रा नैवालस्यं प्रजायते

p3.18

भवेत्स्वच्छन्ददेहस्तु सर्वोपद्रववर्जितः ।
अनेन विधिना सत्यं योगीन्द्रो भाति भूतले

p3.19

अथ शीतली -
जिह्वया वायुमाकृष्य पूर्ववत्कुम्भकादनु ।
शनैरशीतिपर्य्यन्तं रेचयेदनिलं सुधीः

p3.20

गुल्मप्लीहोदरं दोषं ज्वरपित्तक्षुधातृषाः ।
विषाणि शीतली नाम कुम्भकोऽयं निहन्ति च

p3.21

अथ भस्त्रिका -
रेचकः पूरकश्चैव कुम्भकः प्रणवात्मकः ।
रेचकोऽजस्रनिःश्वासः पूरकस्तन्निरोधकः ।
समानसंस्थितो योऽसौ कुम्भकः परिकीर्तितः

p3.22

यथैव लोहकाराणां भस्त्री वेगेन चाल्यते ।
तथैव स्वशरीरस्थं चालयेत्पवनं सुधीः

p3.23

यथा श्रमो भवेद् देहे तथा सूर्येण पूरयेत् ।
यथोदरं भवेत्पूर्णं पवनेन तथा लघु

p3.24

धारयेन्नासिकां मध्यातर्जनीभ्यां विना दृढम् ।
कुम्भकं पूर्ववत्कृत्वा रेचयेदिडयानिलम्

p3.25

वातपित्तश्लेष्महरं शरीराग्निविवर्धनम् ।
ब्रह्मनाडीमुखेसंस्थकफाद्यर्गलनाशनम् ।
विशेषेणैव कर्तव्यं भस्त्राख्यं कुम्भकं त्विदम्

p3.26

।25।
अथ भ्रामरी -
वेगोद्घोषं पूरकं भृंगनादं भृंगीनादं रेचकं मन्दमन्दम् ।
योगीन्द्राणां नित्यमभ्यासयोगाचित्ते जाता काचिदानन्दलीला

p3.27

अथ मूर्छा -
पूरकान्ते गाढतरं बद्ध्वा जालन्धरं शनैः ।
रेचयेनमूर्च्छनाख्योऽयं मनोमूर्छा सुखप्रदा

p3.28

अथ केवलः -
रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् ।
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः

p3.29

केवले कुम्भके सिद्धे रेचपूरकवर्जिते ।
न तस्य दुर्लभं किञ्चित् त्रिषु लोकेषु विद्यते

p3.30

शक्तः केवलकुम्भेन यथेष्टं वायुधारणम्" ।
एतादृशो राजयोगो कथितो नात्र संशयः

p3.31

अथ भुजंगीकरणम -
कण्ठेन पूरयेद्वायुं रेचयेत्कण्ठनालतः ।
भुजंगीकरणं चेति कुम्भकोऽयं नवमः स्मृतः

p3.32

महामुद्रा महाबन्धो महावेधस्तृतीयकः ।
उड्डियानं मूलबन्धो बन्धो जालन्धराभिधः

p3.33

करणी विपरीताख्या वज्रोली शक्तिचालनम् ।
सम्प्रदाया खेचरी सा दश मुद्राः प्रकीर्तिताः

p3.34

आदिनाथोदिता मुद्रा अष्टैश्वर्यप्रदायकाः ।
वल्लभाः सर्वसिद्धानां दुर्लभा महतामपि

p3.35

इति मुद्रा दश प्रोक्ता आदिनाथेन शम्भुना ।
एकैका तासु मुख्या स्यान्महासिद्धिप्रदायिनी

p3.36

अथ महामुद्रा -
महामुद्रां प्रवक्ष्यामि वशिष्ठेनोक्तमादरात्

p3.37

पादमूलेन वामेन योनिं सम्पीड्य दक्षिणम् ।
पादं प्रसारितं कृत्वा कराभ्यां पूरयेन्मुखम् ।
कण्ठे बन्धं समारोप्य पूरयेद्वायुमूर्ध्वतः

p3.38

यथा दण्डाहतः सर्पो दण्डाकारः प्रजायते ।
ऋज्वीभूता तथा शक्तिः कुण्डली सहजा भवेत्

p3.39

तथा सा मरणावस्था जायते द्विपुटीस्थिता

p3.40

न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः ।
अपि भुक्तं विषं घोरं पीयूषमिव जीर्यते

p3.41

क्षयकुष्ठगुदावर्तगुल्माजीर्णपुरोगमाः ।
दोषाः सर्वेः क्षयं यान्ति महामुद्रां तु योऽभ्यसेत्ऽ

p3.42

कथितेयं महामुद्रा जरामृत्युविनाशिनी ।
गोपनीया प्रयत्नेन न देया यस्य कस्यचित्

p3.43

अथ महाबन्धः -
पार्ष्णिं वामस्य पादस्य योनि-स्थाने नियोजयेत् ।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा

p3.44

पूरयेन्मुखतो वायुं हृदये चिबुकं दृढम् ।
निभृत्य योनिमाकुञ्च्य मनो मध्ये नियोजयेत् ।
रेचयेच्च शनैरेवं महाबन्धोऽयमुच्यते

p3.45

अयं योगो महाबन्धस्सर्वसिद्धिप्रदायकः ।
सव्यांगे च समभ्यस्य दक्षिणांगे समभ्यसेत्

p3.46

अयं च सर्वनाडीनामूर्ध्वगतिविबोधकः ।
त्रिवेणीसंगमं धत्ते केदारं प्रापयेन्मनः

p3.47

रूपलावण्यसम्पन्ना यथा स्त्री पुरुषं विना ।
महामुद्रामहाबन्धौ निष्फलौ वेधवर्जितौ

p3.48

अथ महावेधः
महाबन्धस्थितो योगी कृत्वा पूरकमेकधीः ।
वायूनां गतिमाकृष्य निभृतं कण्ठमुद्रया

p3.49

अष्टधा क्रियते चैतत् यामे यामे दिने दिने ।
पुण्यसंघातसन्धायी पापौघभिदुरः सदा

p3.50

सम्यक् श्रद्धावतामेव सुखं प्रथमसाधने ।
वह्निस्त्रीपथसेवां च प्रथमं परिवर्जयेत्

p3.51

समहस्तयुगो भूमौ स्फिचौ सन्ताडयेच्छनैः ।
अयमेव महावेधः सिद्धिदोऽभ्यासतो भवेत्

p3.52

एतत्त्रयं महागुह्यं जरामृत्युविनाशनम् ।
वह्निवृद्धिकरं चैव ह्यणिमादिगुणप्रदम्

p3.53

अथोड्यानबन्धः -
बद्धो येन सुषुम्नायां प्राणस्तूड्डियते यतः ।
तस्मादुड्डियानाख्योऽयं योगिभिः समुदाहृतः

p3.54

उड्डीनं कुरुते यस्मादविश्रान्तं महाखगः ।
उड्डियानं तदेव स्यात् तत्र बन्धोऽभिधीयते

p3.55

उदरे पश्चिमं तानं नाभेरूर्ध्वं च धारयेत् ।
उड्डियानो ह्यसौ बन्धो मृत्युमातंगकेसरी

p3.56

गुरुणा सहजं प्रोक्तं वृद्धोऽपि तरुणो भवेत् ।
बाह्योड्याणं च कुरुते बाह्यालंकारवर्धनम्

p3.57

नाभेरूर्ध्वमधो वापि तानं कुर्यात् प्रयत्नतः ।
षड्मासभ्यसेन्मृत्युं जयत्येव न संशयः

p3.58

अथ मूलबन्धः -
पार्ष्णिभागेन सम्पीड्य योनिमाकुञ्चयेद् गुदम् ।
अपानमूर्ध्वमाकुञ्च्य मूलबन्धोऽयमुच्यते

p3.59

अधोगतिमपानं वै ऊर्ध्वगं कुरुते बलात् ।
आकुञ्चनेन तं प्राहुर्मूलबन्धं हि योगिनः

p3.60

गुदं पार्ष्ण्या च सम्पीड्य वायुमाकुञ्चयेद् बलात् ।
वारं वारं यथा चोर्ध्व समायाति समीरणः

p3.62

प्राणापानौ नादबिन्दू मूलबन्धेन चैकताम् ।
गतौ तदा योगसिद्धिं प्राप्नोत्येव न संशयः 161 ॥
अपानप्राणयोरैक्यं क्षयो मूत्रपुरीषयोः ।
युवा भवति वृद्धोऽपि सततं मूलबन्धनात्

p3.63

अपाने चोर्ध्वगे जाते प्रयाते वह्निमण्डले ।
तथानलशिखादीप्तिर्वायुना प्रेरिता यथा

p3.64

यातायातौ वह्न्यपानौ मूलरूपस्वरूपकौ ।
तेनाभ्यन्तः प्रदीप्तस्तु ज्वलनो देहजस्तथा

p3.65

दण्डाहता भुजंगीव निश्चितं ऋजुतामियात् ।
बिलं प्रविष्टेव ततो ब्रह्मनाड्यन्तरं व्रजेत् ।
तस्मान्नित्यं मूलबन्धः कर्तव्यो योगिभिः सदा

p3.66

अथ जालन्धरः
कण्ठमाकुञ्च्य हृदये स्थापयेच्चिबुकं दृढम् ।
बन्धो जालन्धराख्योऽयं जरामृत्युविनाशकः ।
बध्नाति हि शिराजालं नाधो याति नभोजलम्

p3.67

ततो जालन्धरो बन्धः कण्ठसंकोचने कृते ।
न पीयूषं पतत्यग्नौ न च वायुः प्रकुप्यति

p3.68

बन्धत्रयमिदं श्रेष्ठं महासिद्धैश्च सेवितम् ।
सर्वेषां योगतन्त्राणां साधनं योगिनो विधुः

p3.69

अधस्तात्कुञ्चनेनाशु कण्ठसंकोचने कृते ।
मध्ये पश्चिमतानेन स्यात्प्राणो ब्रह्मनाडिगः

p3.70

मूलस्थानं समाकुञ्च्य उड्डियानं तु कारयेत् ।
इडां च पिंगलां बद्ध्वा वाहयेत् पश्चिमं पथम्

p3.71

अनेनैव विधानेन प्रयाति पवनो लयम् ।
ततो न जायते मृत्युर्जरारोगादिकं तथा

p3.72

अथ विपरीतकरणी -
यत्किञ्चित् स्रवते चन्द्रादमृतं दिव्यरूपि च।
तत्सर्वं ग्रसते सूर्यस्तेन पिण्डं विनाशि च

p3.73

तत्रास्ति दिव्यं करणं सूर्यस्य मुखबन्धनम् ।
गुरूपदेशतो ज्ञेयं न तु शास्त्रार्थकोटिभिः

p3.74

ऊर्ध्वं नाभिरधस्तालुरूर्ध्वं भानुरधः शशी ।
करणी विपरीताख्या गुरुवाक्येन लभ्यते

p3.75

करणी विपरीताख्या सर्वव्याधिविनाशिनी ।
नित्यमभ्यासयुक्तस्य जठराग्निविवर्धिनी

p3.76

आहारो बहुलस्तस्य सम्पाद्यः साधकेन वै ।
अल्पाहारो यदि भवेद्देहमग्निर्दहेत्" क्रमात्

p3.77

अधशिरश्चोर्ध्वपादौ क्षणं स्यात्प्रथमे दिने ।
क्षणाच्च किञ्चिदधिकमभ्यसेच्च दिने दिने

p3.78

वलितं पलितं चैव षण्मासान्न तु दृश्यते ।
याममात्रं तु यो नित्यमभ्यसेत् स तु कालजित्

p3.79

स्वस्थं यो वर्तमानोऽपि योगोक्तैर्नियमैर्विना ।
करणी विपरीताख्या श्रीनिवासेन लक्षिता

p3.80

अथ वज्रोली -
वज्रोलीं कथयिष्यामि गोपितां सर्वयोगिभिः ।
अतीव तद्रहस्यं हि न देयं यस्य कस्यचित्

p3.81

स्वमानैस्तु समो यस्मात् तस्यैव कथयेद् धुवम् ।
पुत्रस्यापि न दातव्यं गुरुशिष्यक्रम विना

p3.82

कुण्डलीबोधनं सम्यक् नाडीनां परिशोधनम् ।
अपानप्राणयोरैक्यं कार्यं वज्रोलिकर्मणा

p3.83

अभ्यासस्य क्रमं वक्ष्ये सम्प्रदायानुसारतः ।
कामिनी वा नरो वाथ वज्रोलीं बुद्धिमान्नयेत्

p3.84

फूत्कारोचितं लिंगं रन्ध्राग्रे बहिः स्थाप्यमेकं लिंगरन्ध्रमध्ये स्थाप्यमपरं मिलित्वा नालद्वयनिरूपणमादौ क्रियते ॥ तयोर्मध्ये फूत्कारोचितं नालस्वरूपं प्रदर्श्यते ।
काञ्चनस्य च रूपस्य ताम्रस्याप्यथवाऽयसः ।
नालं कुर्यात्प्रयत्नेन फुत्कारकरणोचितम्"

p3.85

विंशत्यंगुलदीर्घमानरुचिरं त्वादौ सुवृत्ताल्पगम्
फूत्कारोचितकालरूपसदृशं नालं हठाभ्यासिभिः ।
प्रोक्तं तादृशमेव लिंगविवरे यत्नेन संस्थापयेत्
फूत्कारं तदनन्तरं प्रकुरुतां वायुर्यथा सञ्चरेत्

p3.86

हठप्रदीपिकाकारस्तु -
यत्नतः शरनालेन फूत्कारं वज्रकन्धरे ।
शनैः शनैः प्रकुर्वीत वायुसञ्चारकारणात्

p3.87

हठप्रदीपिकाकारमतं हठयोगाभ्यासेऽज्ञानविलसितमित्युपेक्षणीयम् ॥
यदि स्याच्छरनाले हि भृशं वायुर्न सञ्चरेत् ।
वायुसञ्चारणे त्याज्ये शरनालादिकं मतम्

p3.88

लिंगरन्ध्रमध्येऽ स्थापनीयनालस्वरूपं लिंगरन्ध्रविस्तारार्थ निरूप्यते ।
तन्तुवत् कनकं नालं नागं ताम्रातिनिर्मलम् ।
नालद्रव्यमिदं प्रोक्तं श्रीनिवासेन योगिना

p3.89

निर्मितं त्रिपलैर्नागैर्द्वादशांगुलदीर्घकम् ।
छत्राकारं प्रकुर्वीत नालं स्निग्धं सितं मृदु

p3.90

नियोज्यं लिंगरन्ध्रे च निर्भीतः स्थापयेत् क्षणम् ।
लिंगस्थैर्यं लिंगदार्ढ्यं बहुवीर्यविवर्धनम्

p3.91

नालं काञ्चननिर्मितं मृदुतरं सांगं च नागैः कृतम् ।
छत्राकारमतः पलत्रययुतं दैर्घ्यं वितस्तैर्मितम्

p3.92

नालं तादृशमेव लिंगविवरे यत्नेन संस्थापयेत्

p3.93

विस्तारं तदनन्तरं दृढतरं लिंगं ततो जायते ।
वायुसञ्चारणे जाते ऊर्ध्वमाकृष्यते बलात्

p3.94

नारीं रम्यामधःस्थाप्य रहस्ये तु दिगम्बराम् ।
स्वयं दिगम्बरो भूत्वा उत्तानायास्तथोपरि ।
शयित्वा कुम्भकं कृत्वा किञ्चिन्नारी स्वयं च हि

p3.95

अन्योऽन्यं गाढमालिंग्य योनौ लिंग निरोपयेत् ।
मिथस्त्वधरपानं च कुर्यात् गलरवादिकम्

p3.96

विलिखेच्च नखेनैव धारयेत्स्वेदसम्भवम् ।
नार्या भगात् पतद्बिन्दुमभ्यासेनोर्ध्वमाहरेत्

p3.97

चलितं च निजं बिन्दुमूर्ध्वमाकृष्य रक्षयेत् ।
एवं संरक्षयेद् बिन्दुं मृत्युं जयति योगवित्

p3.98

मरणं बिन्दुपातेन जीवितं बिन्दुधारणात् ।
चित्तायत्तं नृणां शुक्रं शुक्रायत्तं च जीवितम् ।
तस्माच्छुक्रं मनश्चैव रक्षणीयं प्रयत्नतः

p3.99

एवं यो भजते नारी तामेव मनसा स्मरेत्

p3.100

सिन्दूरसदृशं योनौ स्त्रीणामास्थायिकः रजः ।
ऋतुमत्या रजोऽप्येवं रजो बिन्दुं च रक्षयेत्

p3.101

ऋतुकाले यथा शुक्रं निर्दोषं योनिसंगतम् ।
तथा तन्मारुतेनैव स्त्रीरक्तेनैकतामियात्

p3.102

आयुः कर्म च वित्तं च विद्या चैव चतुष्टयम् ।
आधानकाले लिखितं गर्भस्थस्यैव देहिनः

p3.103

यावद्यावदयं देहो धृयते गर्भशायिनः ।
तावत्तावदभिव्यक्तिर्लिंगस्यास्य प्रजायते

p3.104

आयुष्यं वर्धते नित्यं यदि बिन्दुः स्थिरो भवेत् ।
उत्पत्तिस्थितिसंहारे बिन्दुरेको हि कारणम्

p3.105

ततो भवेद्राजयोगी नान्तरा भवति ध्रुवम् ।
न चिन्मात्रेण सिद्धिः स्यादभ्यासात् पवनस्य वै

p3.106

अभ्यासस्य क्रमं वक्ष्ये नारीणां च शनैः शनैः

p3.107

लिंगं कराभ्यामाकुञ्च्य मणिं चान्तः प्रवेशयेत् ।
यावन्मणिप्रवेशः स्यात्तावदभ्यासमाचरेत् ।
ततः परं समर्था चेदूर्ध्वमाकुञ्चयेद्रजः

p3.108

तस्याः शरीरे नादस्तु बिन्दुतामेव गच्छति ।
स बिन्दुस्तद्रजश्चैव एकीकृत्य स्वदेहजौ

p3.109

वज्रोल्यभ्यासयोगेन योगसिद्धिः करे स्थिता ।
अज्ञातयोगशास्त्रेण वज्रोलीं स्त्री तु नाभ्यसेत्

p3.110

अयं योगः पुण्यवतां धन्यानां तत्त्वशालिनाम् ।
निर्मत्सराणां सिध्येत न तु मत्सरशालिनाम्

p3.111

सर्वेषामेव योगानामयं योगः शुभंकरः ।
तस्मादयं वरिष्ठोऽसौ भुक्तिमुक्तिफलप्रदः

p3.112

सुगन्धिर्योगिनो देहे जायते बिन्दुधारणात्

p3.113

अथ सहजोलिः -
सहजोली चामरोली व्रजोल्या एव भेदतः

p3.114

जले सुभस्म निक्षिप्य दग्धगोमयसम्भवम् ।
वज्रोली मैथुनादूर्ध्वं स्त्रीपुंसोश्चांगलेपनम्

p3.115

आसीनयोः सुखेनैव मुक्तव्यापारयोः क्षणम् ।
सहजोलिरियं प्रोक्ता कर्तव्या योगिभिः सदा

p3.116

अथामरोली -
विहाय नित्यां प्रथमां च धारां
विहाय निःसारतयान्त्यधाराम् ।
निषेव्यते शीतलमध्यधारां
कापालिकैः खण्डमतैरनर्घ्याम्

p3.117

अमरीं यः पिबेन्नित्यं नस्यं कुर्याद्दिने दिने ।
वज्रोलीमभ्यसेन्नित्यममरोलीति कथ्यते

p3.118

अथ शक्तिचालनम् -
पुच्छे प्रगृह्य भुजगी सुप्तामुद्बोधयेदभीः ।
निद्रां विहाय सा ऋज्वी ऊर्ध्वमुत्तिष्ठते हठात्

p3.119

द्वादशांगुल दैर्घ्यञ्च विस्तृतं च षडंगुलम् ।
हठज्ञैः मृदुलं प्रोक्तं वेष्टनाम्बरलक्षणम्

p3.120

विस्तारितेन तां जिह्वां वेष्टयित्वा ततः सुधीः ।
अङ्गुष्ठतर्जनीभ्यां च हस्ताभ्यां धारयेद् धुवम् ।
स्वशक्त्या चालयेद्वामे दक्षिणे च पुनः पुनः

p3.121

मुहूर्तद्वयपर्यन्तं निर्भीतश्चालयेदसौ ।
ऊर्ध्वमाकृष्यते किञ्चित्सुषुम्णां कुण्डलीगताम् ।
षण्मासाच्चालनेनैव शक्तिस्तस्योर्ध्वगा भवेत्

p3.122

सूर्येण पूरयेद्वायुं सरस्वत्यास्तु चालयेत् ।
शब्दगर्भाचालनेन योगी रोगैः प्रमुच्यते

p3.123

येन सञ्चालिताशक्तिः स योगी सिद्धिभाजनः ।
किमत्र बहुनोक्तेन मृत्युं जयति लीलया

p3.124

सशैलवनधात्र्यास्तु यथाधारोऽहि नायकः ।
अशेषयोगतन्त्राणां तथाधारो हि कुण्डली

p3.125

फणी कुण्डलिनी नागी चक्री वक्री सरस्वती ।
ललना रसना क्षत्री ललाटी शक्तिः शंखिनी

p3.126

रज्वी भुजंगी शेषा च कुण्डली सर्पिणी मणिः ।
आधारशक्तिः कुटिला कराली प्राणवाहिनी

p3.127

अष्टवक्रा षडाधारा व्यापिनी कलनाधरा ।
कुरीत्येवं च विख्याताः शब्दाः पर्यायवाचकाः

p3.128

इति शक्तिचालनम् ।
अथ खेचरीमुद्रा
खेचरी चान्तिमा मुद्रा अचिराद् ब्रह्मरन्ध्रगा ।
सुषुम्णगामृता मूर्ध्वा लम्बिका वाचकाः स्मृताः

p3.129

न क्रमेण विना शास्त्रं नैव शास्त्रं विना क्रमः ।
शास्त्रं क्रमयुतं ज्ञात्वा तन्यते श्रीमतां भुवि

p3.130

जिह्वाकतिनिभं शस्त्रमल्पं तच्छेदने क्षमम् ।
स्नुहीपत्रनिभं बल्यं शस्त्रं कुर्याद्विचक्षणः

p3.131

इडायाः पिङ्गलायाश्च सुषुम्णायाश्च मध्यतः ।
प्रज्ञावताङ्गुलिं दत्वा ग्रन्थिमध्यं समुच्छिनेत्

p3.132

द्विनिष्कं निष्कनिष्कार्द्धं पथ्यानागरसैन्धवान् ।
चूर्णयित्वा तु तत्चूर्णं तेन चूर्णेन घर्षयेत्

p3.133

पूर्वोक्तेन प्रकारेण शक्तिचालनमाचरेत् ।
गोदोहनं यथा तद्वच्छक्तिचालनमाचरेत्

p3.134

पुनः सप्तदिने प्राप्ते तिलमात्रं समुच्छिनेत्

p3.135

छेदनादिक्रमेणैव यावद् भ्रूमध्यगा भवेत् ।
तावच्छनैः प्रकर्तव्यं श्रीनिवासस्य भाषणम्

p3.136

अत्रायं हठयोगसम्प्रदायः -
शिशुर्लम्बिकायोगेनातीतानागतं जानाति । गर्भनिःसरणाद् भूमिपाते लम्बिकायोगे जिवाबन्धो पातिनी भवति । लम्बिका प्रतिबिम्बत्वेन जिह्वायां अधोग्रन्थि-सूक्ष्मरूपतया सर्वेषां नराणां प्रत्यक्षतया अद्यापि दृश्यते ॥ तत्रैव लम्बिका प्रतिबन्धकसूक्ष्मग्रन्थिभेदनं कार्यमिति मम प्रतिभाति ।
परमेश्वरप्रोक्तखेचरीनामपटले तु -
स्नुहीपत्रनिभं शस्त्रं सुतीक्ष्णं स्निग्धनिर्मलम् ।
समनायां तु जिह्वायां रोममात्रं समुच्छिनेत्

p3.137

रोममात्रछेदने न विलम्बेन हि लम्बिका ।
हृदये ग्रन्थकाराणामाकूतं भणितं मया

p3.138

दत्तात्रेयस्तु -
कपालकुहरे जिह्वा प्रविष्टा विपरीतगा ।
भुवोरन्तर्गता दृष्टिर्मुद्रा भवति खेचरी

p3.139

न रोगो मरणं तस्य न निद्रा न क्षुधा तृषा ।
न च मूर्छा भवेत्तस्य यो मुद्रां वेत्ति खेचरीम्

p3.140

पीड्यते न स रोगेण लिप्यते न च कर्मणा ।
बाध्यते न च कालेन यो मुद्रां वेत्ति खेचरीम्

p3.141

हठप्रदीपिकायाम् -
छेदनचालनदोहैः कलां क्रमेण वर्धयेत्तावत् ॥
यावदियं भ्रूमध्ये स्पृशति तदानीं खेचरीसिद्धिः

p3.142

छेदनस्य प्रकारोक्तेरभावान्मूढता यतः ।
साधारणोक्त्या दुर्बोधान्नांगीकार्यमिदं मतम्

p3.143

गुरुदर्शितमार्गेण संकेतः कथ्यते मया ।
संकेतशृंखलाभावे खेचरी तु कथं भवेत्

p3.144

सर्पाकारं सवलयं शृंखलाद्वयसेवितम् ।
सखर्परं षड्वितस्तिदैर्घ्यं संकेतलक्षणम्

p3.145

शृंखलाद्वितयनिर्मितां परां
सर्पवद्वलयखर्परान्विताम् ।
विंशदंगुलमितां सुदीर्घिकां
लम्बिकाभ्युदयकारिणीं विदुः

p3.146

शृंखलायाश्च वलये जिह्वां तत्र प्रवेशयेत् ॥
यथा भवेत्सुषुम्णागा तथा भवति खेचरी

p3.147

खेचर्या मुद्रणे जाते देही देहं न मुञ्चति ।
कायं त्यक्त्वा तु कल्पान्ते ब्रह्मस्थानं व्रजत्यसौ

p3.148

प्राणे सुषुम्णा सम्प्राप्ते नादं तु श्रूयतेऽष्टधा ।
घण्टादुन्दुभिशंखादिवीणावेणुनिनादवत् ।
तनूनपात्तडित्तारेशपवनोपमम्

p3.149

वासुक्याद्यैश्च नागैश्च तक्षकेनाथवा पुनः ।
दष्टस्य योगिनो देहे न विषं कर्तुमर्हति

p3.150

उत्कल्लोल कलामृतं च विमलं धारामृतं यः पिबेत् ।
निर्दोषः स मृणालकोमलतनुर्योगी चिरं जीवति

p3.151

सेवन्ते यदि लम्बिकाग्रमनिशं जिह्वा रसस्यन्दिनी
सक्षाराकटुतिक्तदुग्धसदृशं मध्वाज्यतुल्यं यदा

p3.152

अशेषाणां च नाडीनां जिह्वाग्रे रन्ध्रमागतः ।
विधत्ते येन मार्गेण तेन चान्द्री कलां व्रजेत्

p3.153

कन्यावादाखिला वादरसवादादिसिद्धयः ।
योगिनः सम्प्रवर्तन्ते तेषां वज्रोलिखेचरी

p3.154

त्रिकटुम्बी हठा चैव गोलीढं शिखरं तथा ॥
त्रिशंखी वज्रमोंकारी मूर्ध्वनालं भुवोर्मुखे

p3.155

पिंगला दम्भिनी सूर्या यमिना काक्षरा तथा ।
कालाग्नि रुद्री चण्डी च ते स्युः पिंगलनामकाः

p3.156

इडा चन्द्रा सिनीवाली गंगा चामरबोधिता ।
इडायाः वाचकाः शब्दाः पर्यायेण प्रकीर्तिताः

p3.157

गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि ।
गोमांसभक्षणं तत्तु महापातकनाशनम्

p3.158

गोमांस भक्षयेन्नित्यं पिबेदमरवारुणीम् ।
कुलीनं तमहं मन्ये अन्ये तु कुलघातकाः

p3.159

जिह्वाप्रवेशसम्भूतवह्निनोत्थापिता खलु ।
चन्द्रात् स्रवति यः सारः सा स्यादमरवारुणी

इति श्रीनिवासयोगीविरचितायां हठरत्नावल्यां द्वितीयोपदेशः

मूल पाठ: haṭharatnāvalī · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc