भाषा

ENहिગુ
ग्रंथ पाठ

हठरत्नावली · अध्याय p4

p4.1

हठरत्नावली प्रथमोपदेशः
श्रीगणेशाय नमः
श्रीआदिनाथं नत्वाऽथ श्रीनिवासो महामतिः ।
हठरत्नावलीं धत्ते योगिनां कण्ठभूषिताम्

p4.2

वेदे वेदान्तशास्त्रे फणिपतिरचिते शब्दशास्त्रे स्वशास्त्रे
तन्त्रे प्राभाकरीये कणभुगभिहिते न्यायरत्नार्णवेन्दुः ।
सांख्ये सारस्वतीये विविधमतिमते तत्वचिन्तामणिज्ञः
श्रीमज्ज्योतिर्विदग्रे सरवरतनुजो राजते श्रीनिवासः

p4.3

हठविद्यां हि गोरक्षमत्स्येन्द्राद्या विजानते ।
आत्मारामोऽपि जानीते श्रीनिवासस्तथा स्वयम्

p4.4

भ्रान्त्या बहुमतध्वान्ते राजयोगमजानताम् ।
केवलं राजयोगाय हठविद्योपदिश्यते

p4.5

अथातो योगजिज्ञासा शास्त्रमाद्यमिदं कृतम् ।
योगस्य विषयं वक्तुं योगशास्त्रे प्रयोजनम्

p4.6

अपानप्राणयोश्चापि जीवात्मपरमात्मनोः।
योगश्चायं हि योगार्थं केचिदाचक्षते बुधाः

p4.7

चित्तवृत्तिनिरोधस्तु महायोगः प्रकीर्तितः ।
योगश्चतुर्विधः प्रोक्तो योगज्ञैः सर्वसिद्धिदः

p4.8

मन्त्रयोगो लयश्चैव राजयोगस्तृतीयकः ।
हठयोगश्चतुर्थ: स्यात् प्राणिनां मोक्षदायकः

p4.9

अथ मन्त्रयोगः
अंगेषु मन्त्रं विन्यस्य पूर्वमन्त्रं जपन् सुधीः ।
येन केनापि सिद्धः स्यात् मन्त्रयोगः स उच्यते

p4.10

अथ लययोगः
लययोगश्चित्तलयात् संकेतैस्तु प्रजायते ।
आदिनाथेन तु लया: सार्द्धकोटिरुदीरिताः

p4.11

भ्रूमध्ये दृष्टिमात्रेण परः संकेत उच्यते ।
शिरः पाश्चात्यभागस्य ध्याने मृत्युञ्जयः परः

p4.12

एतदेव मतं सम्मतं हठप्रदीपिकायामपि -
श्रीआदिनाथेन सपादकोटिलयप्रकाराः कथिता जयन्तु ।
नादानुसन्धानकमेव कार्यं मन्यामहे मान्यतमं लयानाम्

p4.13

लयो लय इति प्राहुः कीदृशं लयलक्षणम् ।
अपुनर्भवसंस्थानं लयो विषयविस्मृतिः

p4.14

अथ राजयोगः
न दृष्ट लक्षाणि न चित्तभंगो न देशकालौ न च वायुरोधः ।
न धारणाध्यानपरिश्रमो वा समेधमाने सति राजयोगे

p4.15

न जागरो नास्ति सुषुप्तिभावो न जीवितं न मरणं न चित्तम् ।
अहं ममत्वाद्यपहाय सर्वे श्रीराजयोगस्थिरचेतनानाम्

p4.16

राजयोगं विना पृथ्वी राजयोगं विना निशा ।
राजयोग विना मुद्रा विचित्रापि न राजते

p4.17

पीठानि कुम्भकाश्चित्रा दिव्यानि करणानि च ।
सांगोऽपि च हठाभ्यासो राजयोगफलार्थदः

p4.18

अथ हठयोगः
महामुद्रादिदशकं कर्माण्यष्टौ च कुम्भकाः ।
चतुरशीत्यासनानि प्राहुश्चैतद्धठाह्वयम्

p4.19

हठं विना राजयोगो राजयोगं विना हठः ।
व्याप्तिः स्यादविनाभूता श्रीराजहठयोगयोः

p4.20

मतान्तरे तु -
मकारेण मनः प्रोक्तं त्रकारः प्राण उच्यते ।
मनःप्राणसमायोगाद् योगो वै मन्त्रसञ्ज्ञकः

p4.21

अपानवृत्तिमाकृष्य प्राणो गच्छति मध्यमे ।
राजते गगनाम्भोजे राजयोगस्तु तेन वै

p4.22

हकारेणोच्यते सूर्यष्ठकारश्चन्द्रसञ्ज्ञकः ।
चन्द्रसूर्यसमीभूते हठश्च परमार्थदः

p4.23

युवा भवति वृद्धोऽपि व्याधितो दुर्बलोऽपि वा ।
अभ्यासात्सिद्धिमाप्नोति सर्वयोगेष्वतन्द्रितः

p4.24

अभ्यासकाले प्रथमे शस्तं क्षीरादिभोजनम् ।
ततोऽभ्यासे दृढीभूते न तावन्नियमग्रहः

p4.25

अभ्यासकाले प्रथमे निषिञ्चन्ति कफादयः ।
अकार्यकर्मभावेन भविष्यन्त्यखिलामयाः

p4.26

अत्र वयं गुरुसम्प्रदायानुसारेण चक्र्याद्यष्टकर्माणि ब्रूमः
चक्रि नौलिधौतिनेतिबस्तिश्च गजकरिणी ।
त्राटकं मस्तकभ्रान्तिः कर्माण्यष्टौ प्रचक्षते

p4.27

हठप्रदीपिकायाम् -
बस्तिर्धौतिस्तथा नेतिस्त्राटकं नौलिकं तथा ।
कपालभान्तिरेतानि षट्कर्माणि प्रचक्षते

p4.28

इदं मतं चिन्तनीयं चक्र्यभावे कथं भवेत् ? उद्देश्यस्य विरोधित्वादसंगतमिदं मतम् । हठप्रदीपिकोक्तदूषणनिराकरणप्रयासस्तु उत्तुंगशृंग-वपुर्भंग प्रसंगमनुकरोति । अलं नखच्छेद्ये परशु प्रहारेणेत्युपरम्यते ।
कर्माष्टकमिदं गोप्यं घटशोधनकारकम् ।
कस्यचिन्नैव वक्तव्यं कुलस्त्रीसुरतं यथा

p4.29

अथ चक्रिकर्म -
पायुनाले प्रसार्यार्द्धमंगुलीं भ्रामयेदभीः ।
यावद् गुदविकासः स्याच्चक्रिकर्म निगद्यते

p4.30

मूलव्याधिः गुल्मरोगो नश्यत्यत्र महोदरः ।
मलशुद्ध्युद्दीपनं च जायते चक्रिकर्मणा

p4.31

सर्वेषां कर्मणां चक्रिसाधनं प्रोच्यते मया ।
स्वात्मारामप्रभूणां तु चक्रिकर्म न सम्मतम्

p4.32

साधकैस्तत् प्रकर्तव्यं सर्वकर्माभिसिद्धये ।
तस्मान्मदुक्तरीत्यैव ज्ञातव्यं योगिपुंगवैः

p4.33

अथ नौलिः
सा च नौलिर्द्विधा प्रोक्ता भारी चैकान्तराभिधा ।
भारी स्याद् बाह्यरूपेण जायन्तेऽन्तस्तु सा तथा

p4.34

अमन्दावर्तवेगेन तुन्दं सव्यापसव्यतः ।
नतांसो भ्रामयेदेषा नौलिः गौडैः प्रशस्यते

p4.35

तुन्दाग्निसन्दीपनपाचनादि सन्दीपिकाऽऽनन्दकरी सदैव ।
अशेषदोषामयशोषिणी च हठक्रियामौलिरियं च नौलिः

p4.36

अथ अन्तरा -
इडयावर्तवेगेन तथा पिंगलया पुनः ।
उभाभ्यां भ्रामयेच्चैव ह्यन्तरा कीर्तिता मया

p4.37

अथ धौतिः
विंशद्धस्तप्रमाणेन धौतवस्त्रं सुदीर्घितम् ।
चतुरंगुलविस्तारं सिक्तं चैव शनैः ग्रसेत्

p4.38

ततः प्रत्याहरेच्चैतदभ्यासाद्धौतिरुच्यते ।
दिने दिने ततः कुर्याज्जठराग्निः प्रवर्द्धते

p4.39

कासश्वासप्लीहकुष्ठं कफरोगाश्च विंशतिः ।
धौतिकर्मप्रभावेन धावन्त्येव न संशयः

p4.40

अथ नेतिकर्म -
आखुपुच्छाकारनिभं सूत्रं सुस्निग्धनिर्मितम् ।
षड्वितस्तिमितं सूत्रं नेति सूत्रस्य लक्षणम्

p4.41

नासानाले प्रविश्यैनं मुखान्निर्गमयेत् क्रमात् ।
सूत्रस्यान्तं प्रबद्ध्वा तु भ्रामयेन्नासनालयोः ।
मथनं च ततः कुर्यान्नेति सिद्धैर्निगद्यते

p4.42

कपालशोधिनी कार्या दिव्यदृष्टिप्रदायिनी ।
जत्रूर्ध्वजातरोगघ्नी जायते नेतिरुत्तमा

p4.43

अथ बस्तिः -
बस्तिस्तु द्विविधो प्रोक्तः जलवायुप्रभेदतः ।
चक्रिं कृत्वा यथाशक्त्या बस्तिञ्चैव तु कारयेत्

p4.44

वायुमाकुञ्च्य जठरे गुदनाले विसर्जयेत् ।
वायुबस्तिरियं प्रोक्ता जलबस्तिमथ ब्रुवे

p4.45

नाभिदघ्ने जले स्थित्वा पायुनाले स्थिताङ्गुलिः ।
चक्रिमार्गेन जठरं पयुनालेन पूरयेत्

p4.46

विचित्रकरणीं कृत्वा निर्भीतः रेचयेज्जलम् ।
यावद्बलं प्रपूर्यैव क्षणं स्थित्वा विरेचयेत्

p4.47

घटीत्रयं न भोक्तव्यं बस्तिमभ्यसता ध्रुवम् ।
निवातभूमौ सन्तिष्ठेद् वशी हितमिताशनः

p4.48

गुल्मप्लीहोदरं वापि वातपित्तकफादिकम् ।
बस्तिकर्मप्रभावेन धावन्येव न संशयः

p4.49

धात्विन्द्रियान्तःकरणप्रसादं दद्याच्च कान्तिं दहनप्रदीप्तिम् ।
अशेषदोषोपचयं निहन्यादभ्यस्यमानं जलबस्तिकर्मः

p4.50

अथ हठप्रदीपिकाकारमते तु -
नाभिदघ्नजले पायुं न्यस्तनालोत्कटासनः ।
आधाराकुञ्चनं कुर्यात् कापालं बस्तिकर्म तत्

p4.51

अस्माकं तु पायुन्यस्तनालेन जलाकुञ्चनमेकदेशयोगीन्द्रमार्गबस्तिकर्म प्रकारापेक्षया पायुनाले न्यस्ताङ्गुल्या आकुञ्च्य जलबस्तिमार्गः चर्पट्यादिसर्वयोगीन्द्रसाधारणो अयमेव प्रकारः समीचीन इव प्रतिभाति ।
अथ गजकरणी -
उदरगतपदार्थमुद्वमन्ती पवनमपानमुदीर्य कण्ठनाले ।
क्रमपरिचयतस्तु वायुमार्गे गजकरणीति निगद्यते हठज्ञैः

p4.52

अथवा-
पीत्वाऽऽकण्ठं सतिलगुडजलं नालिकेरोदकं वा
वायुमार्गे पवनजलयुतं कुम्भयेद्वाथ शक्त्या ।
निःशेषं शोधयित्वा परिभवपवनो बस्तिवायुप्रकाशात् ।
कुम्भाम्भः कण्ठनाले गुरुगजकरणी प्रोच्यते यं हठज्ञैः

p4.53

यथैव गजयूथानां राजते राजकुञ्जरः ।
तथैव हठतन्त्राणां मुख्या हि गजकरिणी

p4.54

अथ त्राटकम् -
निरीक्ष्य निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः ।
अश्रुसम्पातपर्यन्तमाचार्यैस्त्राटकं स्मृतम्

p4.55

स्फोटनं नेत्ररोगाणां तन्द्रादीनां कपाटकम् ।
प्रयत्नात्त्राटकं गोप्यं यथा रत्नसुपेटकम्

p4.56

अथ कपालभस्त्रिका -
भस्त्रिवल्लोहकाराणां रेचपूरसुसम्भ्रमौ ।
कपालभस्त्री विख्याता सर्वरोगविशोषणी

p4.57

अथवा -
कपालं भ्रामयेत्सव्यमपसव्यं तु वेगतः ।
रेचपूरकयोगेन कपालभस्त्रिरुच्यते

p4.58

कफदोषं निहन्त्येव पित्तदोषं जलोद्भवम् ।
कपालशोधनञ्चापि ब्रह्मचक्रं विशुद्ध्यति

p4.59

इत्यष्टकर्माणि ।
वपुः कृशत्वं वदने प्रसन्नता
नादस्फुटत्वं नयने च निर्मले ।
अरोगता बिन्दुजयोऽग्निदीपनं
नाडीषु शुद्धिर्हठसिद्धिलक्षणम्

p4.60

कर्माष्टभिर्गतस्थौल्यं कफमेदोमलादिकम् ।
प्राणायामं ततः कुर्यादनायासेन सिद्ध्यति

p4.61

षट्चक्रशोधनं सम्यक् प्राणायामस्य कारणम् ।
नाशनं सर्वरोगाणां मोक्षमार्गस्य साधनम्

p4.62

देहारोग्यं च लभते ह्यष्टकर्मप्रभावतः ।
आधारशोधनं चक्र्या लिंगं वज्रोलिकर्मणा

p4.63

मणिपूरं नाभिगतं नौल्याख्येन तु कर्मणा ।
हृदयं कण्ठचक्रं च धौत्याख्येन तु कर्मणा

p4.64

शोधनं कार्यमाज्ञायां नेतित्राटककर्मणा ।
सर्वांगशोधनं कार्यं बस्तिभस्त्रैककर्मणा

p4.65

स्यादाधारं स्वाधिष्ठानं मणिपूरमनाहतम् ।
विशुद्धं कण्ठचक्रस्थमाज्ञाचक्रं भ्रुवोर्मुखे
चक्रभेदमिति ज्ञात्वा चक्रातीतं निरञ्जनम्

p4.66

सुराष्ट्रे धार्मिके देशे सुभिक्षे निरुपद्रवे ।
एकान्तमठिकामध्ये स्थातव्यं हठयोगिना

p4.67

अल्पद्वारमरन्ध्रगर्तपिठरं नात्युच्चनीचायतम्
सम्यग्गोमयसान्द्रलिप्तविमलं निःशेषबाधोज्झितम् ।
बाह्ये मण्डपवेदिकूपरुचिरं प्राकारसंवेष्टितम्
प्रोक्तं योगमठस्य लक्षणमिदं सिद्धैर्हठाभ्यासिभिः

p4.68

एवंविधे मठे स्थित्वा सर्वचिन्ताविवर्जितः ।
गुरूपदिष्टमार्गेण योगमेव सदाऽभ्यसेत्

p4.69

त्यक्तनिद्रो मिताहारो जितश्वासो जितेन्द्रियः ।
हठाभ्यासपरो नित्यं योगी ब्रह्मसमो भवेत्

p4.70

योगीश्वरस्य योगस्य योगशास्त्रस्य पार्वति ।
निन्दाञ्च ये प्रकुर्वन्ति राक्षसास्ते नराः क्षितौ

p4.71

गोधूमशालियवषष्टिकशोभनान्न ।
क्षीराज्यमण्डनवनीतसितामधूनि ॥
शुण्ठीपटोलफलपत्रजपञ्चशाकं ।
मुद्गादिदिव्यमुदकं च यमीन्द्रपथ्यम्

p4.72

कट्वम्लतीक्ष्णलवणोष्णहरीतशाकं
सौवीरतैलतिलसर्षपमत्स्यमद्यम् ॥
अजादिमांसदधितक्रकुलत्थकोद्र
पिण्याकहिंगुलशुनाद्यमपथ्यमाहुः

p4.73

तथा च गोरक्षवचनम् -
वर्जयेद् दुर्जनप्रीतिवह्निस्त्रीपथसेवनम् ।
प्रातःस्नानोपवासादिकायक्लेशादिकं तथा

p4.74

मत्स्येन्द्रवचनमपि -
रसमारे मारे हेमकरे मलजारे जारे रोगहरे ।
वायुपूरे पूरे आयुकरे आत्मध्याने ध्याने मोक्षकरे

p4.75

श्रेष्ठं सुमधुरं स्निग्धं गव्यं धातुप्रपोषणम् ।
मनोऽभिलषितं योग्यं चतुर्थांशविवर्जितम् ॥
शिवार्पितं च नैवेद्यं योगी भोजनमाचरेत्

p4.76

अयमेव मिताहारी कदन्नेन विवर्जितः

p4.77

अत्याहारः प्रयासश्च प्रजल्पो नियमग्रहः ।
जनसंगञ्च लौल्यञ्च षड्भिर्योगो विनश्यति

p4.78

उत्साहान्निश्चयाद् धैर्यात्तत्त्वज्ञानार्थदर्शनात्
बिन्दुस्थैर्यान्मिताहाराज्जनसंगविवर्जनात् ।
निद्रात्यागाज्जितश्वासात् पीठस्थैर्यादनालसात्
गुर्वाचार्यप्रसादाच्च एभिर्योगस्तु सिद्ध्यति

p4.79

श्रुत्याचार्यप्रसादाच्च योगाभ्यासबलेन च ।
ईश्वरानुग्रहेणैव योगसिद्धिस्तु जायते

p4.80

श्रीआदिनाथमत्स्येन्द्रशाबरानन्द भैरवाः ।
शारंगीमीनगोरक्षविरूपाक्षबिलेशयाः

p4.81

मन्थानभैरवो योगी सिद्धबुद्धिश्च कन्दली ।
कोरन्दकः सुरानन्दः सिद्धिपादश्च चर्पटी

p4.82

करोटिः पूज्यपादश्च नित्यनाथो निरञ्जनः ।
कपाली बिन्दुनाथश्च काकचण्डीश्वराह्वयः

p4.83

अल्लमः प्रभुदेवश्च नैटचूटिश्च टिण्टिणिः ।
भालुकिर्नागबोधश्च खण्डकापालिकस्तथा

p4.84

इत्यादयो महासिद्धाः हठयोगप्रसादतः ।
खण्डयित्वा कालदण्डं ब्रह्माण्डे विचरन्ति ते

p4.85

53).
प्राणायामैरेव सर्वे प्रशुष्यन्ति मला इति ।
आचार्याणान्तु केषान्चित् अन्यत्कर्म न सम्मतम्

p4.86

इदं वचनं हठाभ्यासकरणासामर्थ्यमिति बोध्यम् ।
सम्प्रदायाब्धिमथनाज्जायते रत्नमालिका ।
सुवर्णखचिता सेयं को वा योगी ह्युपेक्षते

इति श्रीनिवासयोगिविरचितायां हठरत्नावल्यां प्रथमोपदेशः

मूल पाठ: haṭharatnāvalī · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc