भाषा

ENहिગુ
ग्रंथ पाठ

हठरत्नावली · अध्याय p2

p2.1

हठरत्नावली
तृतीयोपदेशः
अथाष्टांगयोगः
अथातोऽष्टांगयोगानां स्वरूपं किञ्चिदुच्यते ।
बहवो योगिनः सिद्धा अंगैरेतैश्च शोभनैः

p2.2

मनःप्रसादसन्तोषो मौनमिन्द्रियनिग्रहः ।
दया दाक्षिण्यमास्तिक्यमार्जवं मार्द्दवं क्षमा

p2.3

भावशुद्धिरहिंसा च ब्रह्मचर्यं स्मृतिर्धृतिः ।
इत्येवमादयश्चान्ये मानसा नियमाः स्मृताः

p2.4

स्नानं शौचं ऋतं सत्यं जप-होमश्च तर्पणम् ।
तपोदान्तिस्तितिक्षा च नमस्कारऽ प्रदक्षिणम् ।
व्रतोपवासकाद्याश्च कायिका नियमाः स्मृताः

p2.5

हठस्य प्रथमांगत्वादासनं दर्श्यते मया ।
तत्कुर्यादासनं स्थैर्यमारोग्यं चांगपाटवम्

p2.6

वसिष्ठाद्यैश्च मुनिभिमत्स्येन्द्राद्यैश्च योगिभिः ।
अंगीकृतान्यासनानि लक्ष्यन्ते कानिचिन्मयाऽ

p2.8

चतुरशीतिलक्षेषु एकैकं जीवजन्तुषु ।
चतुरशीतिपीठेषुऽ केषाञ्चिल्लक्षणं बुवे ।
आदिनाथोदिताः पीठाः देहारोग्यसुखप्रदा:

p2.9

सिद्धं भद्रं तथा वज्रं सिंह शिल्पासनं परम् ।
" बन्धं कर सम्पुटितं शुद्धंऽ पद्मचतुष्टयम्

p2.10

दण्डपार्श्वऽ च सहज बन्धपिण्डं मयूरकम् ।
एकपादं मयूरं च षण्मयूरमिहोच्यते

p2.11

भैरवं कामदहनं पाणिपात्रं च कार्मुकम् ।
स्वस्तिकं गोमुखं वीरं मण्डूकं" मर्कटासनम्

p2.12

मत्स्येन्द्रं पार्श्वमत्स्येन्द्रं बद्धमत्स्येन्द्रमेव च ।
निरालम्बनं चान्द्राख्यं काण्ठवं 5 चैकपादकम्

p2.13

फणीन्द्रं पश्चिमं तानं शयितपश्चिमतानकम् ।
करणी चित्रनामासौ योगनिद्रा विधूननम्

p2.14

पादपीडन हंसाख्ये2 नाभीतलमतःपरम् ।
आकाशमुत्पादतलं नाभीलसितपादकम्

p2.15

वृश्चिकासनं चक्राख्य मुत्फालकमितीर्यते ।
उत्तानकूर्म कूर्म च बद्धकूर्म च नार्जवम्

p2.16

कबन्धासनमित्याहुः गोरक्षासनमेव च ।
अंगुष्ठमुष्टिकं ज्ञेयं ब्रह्मप्रासादितं तथा

p2.17

पञ्चचूलिं” कुक्कुटं च एकपादककुक्कुटम् ।
आकारितं बन्धचूली पार्श्वकुक्कुटमेव च

p2.18

अर्धनारीश्वरश्चैतेऽ बकासन धरावहे ।
चन्द्रकान्तं सुधासारं व्याघ्रासनमतः परम्

p2.19

राजासनमथेन्द्राणी शरभासनमेव च ।
रत्नासनं चित्रपीठं बद्धपक्षीश्वरासनम्

p2.20

विचित्र नलिनं कान्तं शुद्धपक्षी सुमन्द्रकम् ।
चौरंगी च तथाऽ क्रौञ्चं दृढासनखगासने ।
ब्रह्मासनं नागपीठमन्तिमं च शवासनम्

p2.21

एवं मिलित्वा चतुरशीत्यासनानि" ।
एवमुक्तेषु पीठेषु मुख्या: प्रोक्तास्तथा दश ।
स्वस्तिकं गोमुखं पदमं वीरं सिद्धासन तथा

p2.23

मयूरं कुक्कुटं चैव भद्रं सिंहासनं तथा ।
हठप्रदीपिकायाम्
चतुरशीत्यासनानि शिवेन कथितानि तु ।
तेभ्यश्चतुष्कमादांय सारभूतं ब्रवीम्यहम्

p2.24

सिद्धं पद्म तथा सिंह भद्रं चेति चतुष्टयम् ।
श्रेष्ठं तत्रापि च तथा तिष्ठेत्सिद्धासने" सदा

p2.25

तत्र सिद्धासनम् -
योनिस्थानक मंघिमूलघटितं कृत्वा दृढं विन्यसेन्
मेढे पादमथैकमेव नियतं कृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्यन्" भुवोरन्तरं
चैतन्मोक्षकपाट भेदजनक सिद्धासनं प्रोच्यते

p2.30

मेढादुपरि निक्षिप्य सव्यं गुल्फें तथोपरि ।
एतत्सिद्धासनं प्राहुरन्ये वज्रासनं विदुः ।
ब्रह्मचारी मिताहारी त्यागीऽ योगपरायणः ।
नासनं सिद्धसदृशं न कुम्भकं केवलोपमः।
अथ भद्रासनम् -
गुल्फी च वृषणस्याध: सीवन्या पार्श्वयोः क्षिपेत् ।
पार्श्वपादौ च पाणिभ्यां दृढं बद्ध्वा सुनिश्चलम् ।
भद्रासनं भवेदेतत् सर्वव्याधिविषापहम्

p2.31

अथ सिंहासनम -
गुल्फी च वृषणस्याध: सीवन्या पार्श्वयोः क्षिपेत् ।
दक्षिणे सव्यगुल्फं च दक्षिणे तु तथेतरम्

p2.32

हस्तौ च जान्वोऽ संस्थाप्य स्वाङ्गुली सम्प्रसार्य च ।
व्यात्तवको निरीक्षेत नासाग्रं सुसमाहितः

p2.33

सिंहासनं भवेदेतत्सेवितंऽ योगिभिः सदा ।
बन्धत्रितयसंस्थानं कुरुते चासनोत्तमम्

p2.34

अथ पद्मासनम् -
वामोरूपरि दक्षिणं च चरणं संस्थाप्य वामं तथा
याम्योरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढम् ।
अंगुष्ठी- हृदये निधाय चिबुकं नासाग्रमालोकयेद्
एतद् व्याधिविनाशकारिऽ यमिनां पदमासनं प्रोच्यते

p2.35

तथा च याज्ञवल्क्यः
पादाङ्गुष्ठौऽ निबध्नीया-द्धस्ताभ्यां व्युत्क्रमेण तु ।
ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे ।
पदमासनं भवेदेतत् सर्वेषामपि पूजितम्

p2.36

दत्तात्रेयोऽपि -
उत्तानौ चरणौ कृत्वा ऊर्वोः संस्थाप्य यत्नतः ।
ऊरुमध्ये तथोत्तानी" पाणी कृत्वा ततो दृशी

p2.37

नासाग्रे विन्यसेद्राजदन्तमूलं च जिह्वया ।
उत्तम्भ्य चिबुकं वक्षःसंस्थाप्य पवनं शनैः

p2.40

इदं पदमासनं प्रोक्तं सर्वव्याधिविनाशनम् ।
कृत्वा सम्पुटिती करौ दृढतरं बद्ध्वा तु पदमासनम्
गाढं वक्षसि सन्निधाय चिबुकं ध्यानं च तच्चेतसि ।
वारंवारमपानमूर्ध्वमनिलं प्रोच्चारयेत् पूरितम्
पदमासने स्थितोऽ योगी नाडीद्वारेषु पूरयेत् ।
पूरितं धियते यस्तु स मुक्तो नात्र संशयः

p2.41

करौ सम्पुटितौ कुर्यात् तत्सम्पुटितपंकजम्

p2.42

अथ मयूरम्
धरामवष्टभ्य करद्वयेन तत्कूपर स्थापितनाभिपार्श्व ।
उच्चासनो दण्डवदुत्थितः खे मयूरमेतत्प्रवदन्तिऽ पीठम्

p2.43

हरति सकलरोगानाशु गुल्मोदरादीन्
अभिभवति चऽ दोषानासनं श्रीमयूरम् ।
बहुकदशनभुक्तं भस्मकुर्याद्विचित्रम्
जनयति जठराग्निं जीर्यते कालकूटम्

p2.44

मयूरं दण्डवत्कुर्यान्मायूरं दण्डनामकम् ।
कुर्यान्मायूरं पाश्र्वाभ्यां मायूरपार्श्वनामकम्

p2.45

मयूरंऽ पद्मकं कुर्यात् बद्धकेकीति कथ्यते

p2.46

अथ पिण्डमयूरासनम् -
एक पादं मयूरागे प्रसार्यकं मयूरवत् ।
इदं पिण्ड"मयूराख्यं सर्वव्याधिविनाशकम्

p2.47

एकपादमयूरासनम् -
कण्ठे पादं प्रसार्यैकमेकपादं मयूरके

p2.48

अथ भैरवासनम् -
गुल्फो सम्पीड्य चान्योऽन्यं व्युत्क्रमेणोत्थितं शनैः ।
जान्वोध पार्श्वगती हस्ती दण्डवद् भैरवासनम्

p2.49

अथ कामदहनम्ऽ
भद्रासनं सुखं स्थाप्य विपरीते तु द्वे पदे ।
अनेन यदि कुर्याच्चैतत् कामदहनं भवेत्

p2.50

अथ पाणिपात्रासनम् -
नाभौ संस्थाप्य गुल्फी च तन्मध्ये करपात्रताम् ।
शनैर्यलेन कुर्वीत पाणिपात्रं तदुच्यते

p2.51

अथ धनुरासनम् -
पादांगुष्ठी तु पाणिभ्यां गृहीत्वा श्रवणावधि ।
धनुराकर्षणं कृत्वाऽ धनुरासनमुच्यतेऽ

p2.56

अथ स्वस्तिकासनम् -
जानूओरन्तरं सम्यक कृत्वा पादतले उभे ।
अथ गोमुखासनम् -
सव्ये दक्षिणगुल्फं तु पृष्ठपार्श्वे नियोजयेत् ।
अथ वीरासनम् -
एक पादमथैकस्मिन् विन्यसेदूरुणि स्थिरम् ।
अथ मण्डूकासनम् -
पृष्ठं" सम्पीड्य गुल्फाभ्यां जान्वंगे सवलयाकृतिः ।
अथ मर्कटासनम् -
पादौ सम्पीड्य हस्ताभ्यां अंगुष्ठीऽ धारयेद् दृढम् ।
पादमध्ये शिरः क्षिप्त्वा धनुर्वन्मर्कटासनम्

p2.57

अथ मत्स्येन्द्रासनम्
वामोरुमूलार्पितदक्षपादोऽ जान्वोर्बहिर्वेष्टितदक्षदोष्णा ।
प्रगृह्य तिष्ठेत्परिवर्तिताङ्गः श्रीमत्स्यनाथोदितमासनं स्यात्

p2.58

मत्स्येन्द्रपीठं जठरपदीप्तंऽ प्रचण्डरूपमण्डलखण्डनास्त्रम् ।
अभ्यासत: कुण्डलिनीप्रबोधं दण्डस्थिरत्वं च ददाति पुंसाम्

p2.61

अथ निरालम्बनम् -
कराभ्यां पंकजं कृत्वा तिष्ठेत्कूर्परया सुधीः ।
मुखमुन्नमयन्नुच्चैऽनिरालम्बनमासनम्

p2.62

निरालम्बनयोगी स्यान्निरालम्बनमासनम् ।
निरालम्बनता ध्यानं निरालम्बनमासनम्

p2.64

अथ सौरासनम् -
प्रसार्यकं पादतलं संस्थाप्य त्वेकपादकम् । 63 ॥
अथैकपादासनम -
एक पादमथो कण्ठे उत्थाप्यैकं च दण्डवत् ।
करौ सम्पुटितौ" कृत्वा एकपादं तदुच्यते

p2.65

अथ फणीन्द्रासनमऽ -
पादाभ्यां वेष्टयेत्कण्ठं करयोः संस्थितोन्मुखम् ।
फणीन्द्रं सर्वदोषनं वोभूयात् सुखदं सदा

p2.67

अथ पश्चिमतानासनम -
प्रसार्य पादौ भुवि दण्डरूपी दोआ पदाग"द्वितयं गृहीत्वाऽ ।
जानूपरि न्यस्तललाटदेशो वसेदिदं पश्चिमतानमाहुः । 66 ॥
इति पश्चिमतानमासनाम्यं पवनं पश्चिमवाहिनं करोति ।
उदयं जठरानलस्य कुर्यादुदरे कार्यमरोगतां च पुंसाम्

p2.70

शयितपश्चिमतानकमऽ -
तानं शयित्वा तु कुर्वीत शयितपश्चिमतानकम् । 68 ॥
अथ विचित्रकरणीनामासनम -
शयितपश्चिमतानस्थे हस्तौ" तत्र प्रसारयेत् ।
पादौ दण्डसमी कृत्वा विचित्रकरणी भवेत् । 69 ॥
अथ योगनिद्रासनम -
पादाभ्यां वेष्टयेत्कण्ठं हस्ताभ्यां पृष्ठबन्धनम् ।
तन्मध्ये शयनं कुर्याद योगनिद्रा सुखप्रदा

p2.71

अथ विधूननम् -
गुल्फ स्थितौ पादमेकं प्रसार्य तत्पादागं संस्पृशेत्तत्करेण ।
गुल्फं चान्यं धारयेत्तत्करेण धून पीठं चाभ्यसेच्चोभयत्र

p2.72

अथ पादपीडनासनम् -
स्थित्वैकस्मिन् पादतले कराभ्यां वेष्टयेत्तनुम् ।
पृष्ठे संस्थाप्य यत्नेन पादपीडनमासनम्

p2.73

अथ कुक्कुटासनम् -
पदमासनं सुसंस्थाप्यऽ जानूर्वोरन्तरे करौऽ ।
निवेश्य भूमी संस्थाप्य व्योमस्थऽ कुक्कुटासनम्

p2.75

अथोत्तानकूर्मासनम् -
कुक्कुटासनबन्धस्थो दोआ सम्बध्य कन्धराम् ।
-).
अथ वृश्चिकासनम् -
हस्तीऽ धरामवष्टभ्य चरणौ भालसंस्थिती ।
गुल्फो स्यातामुन्मुखः सन् वृश्चिकासनमीर्यते

p2.76

ग्रन्थविस्तारभीत्या तु सर्वेषां च न लक्षितम् ।
अथान्तिमं शवासनम -
प्रसार्य हस्तपादौ च विश्रान्त्या शयनं तथा ।
सर्वासन श्रमहरं शयितं तु शवासनम्

p2.77

इत्यासननिरूपणम् ।
आसनेन रुजं हन्ति प्राणायामेन पातकम् ।
प्रत्याहारेण योगीन्द्रो विकारं हन्ति मानसम्

p2.78

अथ प्राणायामः
अथासने दृढे योगी वशी हितमिताशनः ।
गुरुपदिष्टमार्गेण प्राणायामान्ऽ समभ्यसेत्

p2.79

ऽचले वाते चलं चित्तं निश्चले निश्चलं तथा ।
योगी स्थाणुत्वमाप्नोति ततो वायुं निरुन्धयेत्

p2.80

यावद्वायु: स्थितो देहे तावज्जीवितमुच्यते ।
मरणं तस्य निष्क्रान्ति "स्ततो वायुं निरोधयेत्

p2.81

मलाकुलासु नाडीषु मारुतो नैव मध्यगः ॥
कथं स्यादुन्मनीभावः कायसिद्धिः कथं भवेत्

p2.82

ब्रह्मादयोऽपि त्रिदशा पवनाभ्यासतत्पराः ।
अभूवन्मृत्युरहिता-स्तस्मात्पवनमभ्यसेत्

p2.83

ऽसिद्धे वा बद्धपदमे वा स्वस्तिके चाथवासने ।
ऋजुकाय: समासीन प्राणायामान्समभ्यसेत्

p2.84

पदमासनस्थितो योगी प्राणं चन्द्रेण पूरयेत् ॥ऽ
प्राणं सूर्येण चाकृष्य पूरयित्वोदरं शनैः

p2.85

विधिवत्कुम्भकं कृत्वा पुनश्चन्द्रेण रेचयेत् ।
येन त्यजेत्तेनापूर्य धारयेदविरोधतः

p2.86

पीत्वा पिंगलया समीरणमथो बद्ध्वा त्यजेद्वामयाऽ ।
सूर्याचन्द्रमसोरनेन विधिना बिम्बद्वयं ध्यायताम्
शुद्धा नाडिगणा" भवन्ति यमिनां मासत्रयादूर्ध्वतः

p2.90

प्रातमध्यन्दिने सायमर्धरात्रे च कुम्भकान् ।
कनीयसि भवेत्स्वेदः कम्पो भवति मध्यमे ।
जलेन श्रमजातेन अङ्गमर्दनमाचरेत् ।
यथा सिंहो गजो व्याघी भवेद्वश्यः शनैः शनैः ।
तथैव सेवितो वायुभवेद्वश्यः शनैः शनैः

p2.91

प्राणायामेन युक्तेन सर्वरोगक्षयो भवेत्
अयुक्ताभ्यासयोगेन सर्वरोगसमुद्भवः

p2.92

हिक्काऽ श्वासश्च कासश्च शिरकर्णाक्षिवेदनाः ।
भवन्ति विविधा रोगाठ पवनस्य व्यतिक्रमात्

p2.93

युक्तं युक्तं त्यजेद्वायुं युक्तं युक्तं प्रपूरयेत् ।
युक्तं युक्तं च बध्नीयादेवं सिद्धिमवाप्नुयात्

p2.94

यदा तु नाडीशुद्धि: स्यात् तदा चिह्नानि बाह्यतः ।
कायस्य कृशता कान्तिर्जायते तस्य निश्चितम्

p2.97

यथेष्टं धारणं वायोरनलस्य प्रदीपनम् ।
योगीऽ याज्ञवल्क्येनोक्तम् -
सव्याहृति सप्रणवां गायत्रीं शिरसा सह ।
अत्र शिववचनम -
प्राणायामपरो योगी सोऽपि विष्णुमहेश्वरः ।
सर्वदेवमयो योगी तस्यावज्ञां न कारयेत्

इति प्राणायामनिरूपणम् ।
इति श्रीनिवासयोगीविरचितायां हठरत्नावल्यां तृतीयोपदेशः

मूल पाठ: haṭharatnāvalī · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc