हठरत्नावली · अध्याय p1
हठरत्नावली
चतुर्थोपदेशः
अत्र समाधिः
सलिले सैन्धवं यद्वत् साम्यं भवति योगवित् ।
तथात्ममनोरैक्यं समाधिः सोऽभिधीयते
मतान्तरेऽपि
तत्समत्वं भवेदन जीवात्मपरमात्मनोः ।
समस्तनष्टसंकल्प समाधिः सोऽभिधीयते
अतिविस्तारभीत्या तु न सर्वमिह लिख्यते ।
इन्द्रियाणां मनो नाथो मनोनाथस्तु मारूतः ।
मारूतस्य लयो नाथ! स लयो नादमाश्रित
अथ नादानुसन्धानम् -
नादानुसन्धानसमाधिभाजां योगीश्वराणां हृदये प्ररूढम् ।
आनन्दमेकं वचसोऽप्यगम्यं जानाति तं श्रीगुरुनाथ एवं
उदासीनपरो भूत्वा सदाभ्यासेन संयमी ।
उन्मनीकरणं" सद्यो नादमेवावधारयेत्
शीते काले द्वौ पटी वा पटी वाऽ पध्याहारे गोपयो वा पयो वा ।
भक्ष्ये भोज्ये वृत्तिमारण्यकं वा पाणी द्रोणी कोऽपि वा भक्ष्यपात्रेऽ
कर्णी पिधाय तूलेन यह शृणोतिऽ ध्वनि यमी ।
तत्र चित्तं स्थिरं" कुर्याधावत् स्थिरपदं व्रजेत्
श्रूयतेऽ प्रथमाभ्यासे नादो नानाविधो बहुः ।
वर्धमाने ततोऽभ्यासे श्रूयते सूक्ष्मसूक्ष्मतः 19 ॥
आदौ जलधिजीमूतभेरीनिर्झरसम्भवाः ।
मध्ये मईलशंखोत्था घण्टाकाहलकास्तथाऽ
अन्तेऽ तु किंकिणीवृन्द वीणाभ्रमरनिःस्वनाः ।
इति नानाविधा नादा: श्रूयन्ते देहमध्यतः
मकरन्दं पिबेद् भुंगो गन्धो न प्रेक्ष्यते यथा ।
नादासक्तं तथा चित्तं विषयान्नहि कांक्षते
सर्वचिन्तां समुत्सृज्य सर्वचेष्टां च सर्वदा ।
नादमेवानुसन्धानान्नादेऽ चित्तं विलीयते
सर्वचिन्तांऽ परित्यज्य सावधानेन चेतसा ।
नाद एवानुसन्धेय योगसाम्राज्यसिद्धये
काष्ठे प्रवर्तितो वह्निः काष्ठेन सह लीयते ।
नादे प्रवर्तितं चित्तं नादेन सह शाम्यति
अस्तु वा मास्तु वा मुक्तिरत्रैवाखण्डितं महत् ।
लयामृतं लये सौख्यं राजयोगादवाप्यते
अथ योगावस्था -
आरम्भश्च घटश्चैव तथा परिचयस्तथा ।
निष्पत्तिऽ सर्वयोगेषु योगावस्था भवन्ति ताः
ब्रह्मरन्ध्रेऽ भवेद भेदो यो नाद सूर्यसम्भवः ।
विचित्रक्वणदो देहेऽनाहतः श्रूयते ध्वनिष्ठ
दिव्यदेह सुतेजस्वी दिव्यगन्धस्त्वरोगवान् ।
सम्पूर्णहृदये" शून्ये त्वारम्भे योगवान् भवेत्
ऽद्वितीयायां घटीकृत्य वायुर्भवति मध्यगः ।
दृढासनो भवेद योगी कामदेवसमस्तदाऽ
विष्णुग्रन्थेस्तथा भेदः परमानन्दसूचकः ।
अतिशून्ये विमर्दश्च भेरीशब्दस्तथा भवेत्
ऽतृतीयायां ततो नित्यं आविष्कारोऽ मलध्वनि ।
महाशून्यं ततो याति सर्वसिद्धिसमाश्रयः
चिदानन्दं ततो जित्वा परमानन्दसम्भवः ।
दोषदु:खजरामृत्यु"क्षुधाऽनिद्राविवर्जितः
"रुद्रग्रन्थिं ततो भित्वा शर्वपीठगतोऽनिल ।
निष्पत्तौ वैणव शब्द: क्वणद्वीणाक्वणो भवेत्
इत्यारम्भादियोगावस्थानिरूपणम ।
दृष्टिः स्थिराऽ यस्य विनैव लक्ष्यात् वायुः स्थिरो यस्य विना प्रयलात् ।
तत्वं बीजं हठं क्षेत्रमौदासीन्यं जलं त्रिभिः ।
उन्मनी कल्पलतिका सद्य एव फलिष्यति
वेदशास्त्रपुराणानि सामान्यगणिका इव ।
एकैव शाम्भवी मुद्रा गुप्ता कुलवधूरिवऽ
एकं सृष्टिमयं बीजमेका मुद्रा च खेचरी ।
एको देवो निरालम्बः एकावस्था मनोन्मनी
मनो यत्र विलीयेत पवनस्तत्र लीयते
पाताले यद्विशतिऽ सुषिरंऽ मेरूमूलं तदस्ति"
तत्वं चैतद्वदति सुधाऽ तन्मुखं निम्नगानाम् ।
चन्द्रात्सार सवति वपुषस्तेन मृत्युनराणाम्
तबध्नीयात्सुखरतिमृदुनर्नान्यथा कार्यसिद्धिः
ऽब्रह्माण्डपिण्डाण्डयो- सांगोपासनयो पिण्डाण्डस्वरूपं दिङ्मानं प्रदर्श्यते ॥
शरीरं तावदेवं हि षण्णवत्यंगुलात्मकम् ।
विद्यते सर्वजन्तूनां स्वांगुलिभिरिति प्रिये
देहे द्वात्रिंशदस्थीनि शस्तंऽ स्यात्पार्श्वयोर्द्वयोः ।
द्वासप्तति सहस्राणि नाड्यश्चरति मारुतः
मूलाधारे स्थितं चक्रं कुक्कुटाण्डमिव स्थितम् ।
नाडीचक्रमिति प्रोक्तं तस्मान्नाड्य: समागताः
नाडीनामपि सर्वासां मुख्यास्तत्र चतुर्दश ।
सुषुम्णा पिंगला चैव सरस्वती तथा कुहुए
यशस्विनी वारुणी च गान्धारी शंखिनी तथा ।
पूषा विश्वोदरी जिह्वा अलम्बुषा च हंसिनी ।
इडा नाडी च सर्वासां मुख्याश्चैताश्चतुर्दश
तासां मुख्यतमास्तिसः तिसृष्वेकोत्तमाऽ स्थिता ।
इडायां पिंगलायां च सोमसूर्यो प्रतिष्ठितौ
तामसो राजसश्चैव सव्यदक्षिणसंस्थितौ ।
इडा निशाकरी ज्ञेयाऽ पिंगला सूर्यरूपिणी
वीणादण्डमयो मेरुरस्थीनिऽ कुलपर्वताः ॥ इडा भागीरथी प्रोक्ता पिंगला यमुना नदीऽ
सरस्वती सुषुम्नोक्ता नाइयोऽन्या निम्नगाठ स्मृताः ॥ द्वीपाः स्युर्धातवर सप्त स्वेदलालादयोर्मयऽ
मूले तिष्ठति कालाग्नि! कपाले चन्द्रमण्डलम् ।
नक्षत्राण्यपराण्याहुरेवं योज्यं तु धीमता
ग्रन्थविस्तारभीत्या तु नास्माभिरिह लिख्यते ।
श्रुत्यागमपुराणाथैध पिण्डब्रह्माण्डनिर्णयः ॥
ज्ञातव्य सर्वयलेन मोक्षसाम्राज्यामिच्छता
इति पिण्डाण्डयो किञ्चित् साम्यदर्शनम् ।
शब्दाद व्योम स्पर्शतत्वेन वायुस्ताभ्यां रूपाद वह्निरेतैरसाच्च ।
अम्भांस्येभिर्गन्धतो भूधराद्या भूताः पञ्च स्युर्गुणानुक्रमेण
कर्पूरमनले यद्वत् सैन्धवं सलिले यथा ।
ज्ञेयवस्तुपरित्यागाद्विलयं याति मानस ।
मानसे विलयं याते कैवल्यमुपजायते
खमध्ये कुरु चात्मानमात्ममध्ये च खं कुरु ।
सर्व च खमयं कृत्वा न किञ्चिदपि चिन्तयेत्
अन्तः पूर्णो बहिट पूर्ण पूर्णकुम्भ इवाम्भसि ।
अन्तः शून्यं बहिः शून्यं शून्यकुम्भ इवाम्बरे
स्वगतेनैव कालिम्ना दर्पणं मलिनं यथा ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ।
एक एव हि भूतात्मा भूते भूते व्यवस्थितः
एकधा बहुधा चैव दृश्यतेऽ जलचन्द्रवत् ।
मायायुक्तस्तथा जीवो मायाहीनस्तथा शिवः
बन्ध मोक्षोपदेशादिव्यवहारोऽपि मायया ।
मायाच्छेद प्रकर्तव्यः सुदृढं ज्ञानयोगत
अत्र सुतसंहितायाम -
एतदात्ममिदं सर्व नेह नानास्ति किञ्चन ।
अद्वैतमेव शास्त्रार्थः शम्भोट पादं स्पृशाम्यहम्
विष्णुपुराणे -
कनकमुकुटकर्णिकादिभेद: कनकमभिन्नमपीष्यते यथैकम् ।
बुधपशुमनुजादिकल्पभिन्नो हरिरखिलाभिरुदीर्यते तथैकम्
जीवात्मपरमात्मनोरपि भेदोपासनायामपि ।
भगवद्गीतायाम् -
उत्तम पुरुषस्त्वन्या परमात्मेत्युदाहृतः ॥
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरष्ठ
तन्मते" विधमात्र स्वरूपप्रदर्शननिराकरणम् ।
भूतैश्च पञ्चभिर्पणऽश्चतुर्विशदभिरिन्द्रियैः ।
चतुर्विशति तत्वानि सांख्यशास्त्रविदो विदुः
अहंकारं प्रधानं च माया विद्या च पूरुषः ।
इति पौराणिकाः प्राहु त्रिंशत्तत्वानि तैः सह
बिन्दुनादौ शक्तिशिवौ शाम्भवीति ततः परम् ।
षत्रिंशत्तत्वमित्युक्तं शैवागमविशारदैः
उपादानं प्रपञ्चस्य संसक्ताः परमाणवः ।
पूर्णरूपादयस्तेषां तेभ्यो जाता घटादयः
यत्कार्य जायते यस्मात्तत्तत्तस्मिन् प्रतिष्ठितम् ।
मृत्तिकायां घटस्तन्तौ पटस्स्वर्णेऽगुलीयकम्
इति वैशेषिका प्राहुस्तथा नैयायिका अपिऽ ।
जनार्दनाख्यमिश्राश्च भट्टा प्राभाकरादयः
ईश्वरस्य तु कर्तृत्वं नांगीचकुश्च मण्डना:
सत्वं रजस्तमश्चेति प्रधानास्त्रिगुणास्त्रयः ।
तेभ्यो जातमिदं विश्वं सृष्टिस्थित्यन्तहेतवः
मायाप्रधानमव्यक्तमविद्याज्ञानमक्षरम् ।
इति सांख्याश्च भाषन्ते तेषां दूषणमुच्यते ।
ज्ञानशक्तिक्रियाशक्त्या दृश्यते चेतनाश्रय ।
शैवाट पाशुपता महाव्रतधराः कालामुखा जंगमा
शाक्ताकौलऽकुलार्चना विधिरताश्चान्येऽपि वा बादिनः ।
एते कृत्रिमतन्त्रतत्वनिरता स्तत्तत्वतो वञ्चितास्
तस्मात्सिद्धिपदं स्वभावनिरतं धीरः सदा संश्रयेत् ॥ 64
इति श्रीनिवासयोगीश्वरविरचितायां हठरत्नापल्यां चतुर्थोपदेशः।
मूल पाठ: haṭharatnāvalī · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0