हरिवंश · अध्याय 99
य एष भवता पूर्वं शम्बरघ्नेत्य् उदाहृतः
प्रद्युम्नः स कथं जघ्ने शम्बरं तद् ब्रवीहि मे ॥
रुक्मिण्यां वासुदेवस्य लक्ष्मीकामो धृतव्रतः
शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः ॥
तं सप्तरात्रे संपूर्णे निशीथे सूतिकागृहात्
जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः ॥
विदितं तच् च कृष्णस्य देवमायानुवर्तिनः
ततो न निगृहीतः स दानवो युद्धदुर्मदः ॥
स मृत्युना परीतायुर् माययाभिजहार तम्
दोर्भ्याम् उत्क्षिप्य नगरं स्वं जगाम महासुरः ॥
अनपत्या तु तस्यासीद् भार्या रूपगुणान्विता
नाम्ना मायावती नाम मायेव शुभदर्शन ॥
ददौ तं वासुदेवस्य पुत्रं पुत्रम् इवात्मजम्
तस्या महिष्या नाथिन्या दानवः कालचोदितः ॥
सा तं संवर्धयाम् आस कार्ष्णिं कमललोचनम्
मायाश् चास्मै ददौ सर्वा दानवीः काममोहिता ॥
स यदा यौवनस्थस् तु प्रद्युम्नः कामदर्शनः
चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः ॥
तं सा मायावती कान्तं कामयाम् आस कामिनी
इङ्गितैश् चापि वीक्षन्ती प्रालोभयत सस्मिता ॥
प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम्
मातृभावं परित्यज्य किम् एवं वर्तसे ऽन्यथा ॥
अहो दुष्टस्वभावासि स्त्रीत्वेन चलमानसा
या पुत्रभावम् उत्सृज्य मयि कामात् प्रवर्तसे ॥
ननु ते ऽहं सुतः सौम्ये को ऽयं शीलव्यतिक्रमः
तत् त्वम् इच्छाम्य् अहं देवि कथितं कस् त्व् अयं विधिः ॥
विद्युत्संपातचपलः स्वभावः खलु योषिताम्
या नरेषु प्रसज्जन्ते नगाग्रेषु घना इव ॥
यदि ते ऽहं सुतः सौम्ये यदि वा नात्मजः शुभे
कथितं तत् त्वम् इच्छामि किम् इदं ते चिकीर्षितम् ॥
एवम् उक्ता तु सा भीरुः कामेन व्यथितेन्द्रिया
प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम् ॥
न त्वं मम सुतः सौम्य नापि ते शम्बरः पिता
रूपवान् असि विक्रान्तस् त्वं जात्या वृष्णिनन्दनः
पुत्रस् त्वं वासुदेवस्य रुक्मिण्या नन्दिवर्धनः ॥
दिवसे सप्तमे बालो जातमात्रो ऽपवाहितः
सूतिकागारमध्यात् त्वं शिशुर् उत्तानशायितः ॥
मम भर्त्रा हृतो वीर बलवीर्यप्रवर्तिना
पितुस् ते वासुदेवस्य धर्षयित्वा गृहं महत्
पाकशासनकल्पस्य हृतस् त्वं शम्बरेण ह ॥
सा च ते करुणं माता त्वां बालम् अनुशोचती
अत्यर्थं श्राम्यते वीर विवत्सा सौरभी यथा ॥
स हि शक्राद् अपि महान् पिता ते गरुडध्वजः
इह त्वां नाभिजानाति बालम् एवापवाहितम् ॥
कान्त वृष्णिकुमारस् त्वं न हि त्वं शम्बरात्मजः
वीर नैवंविधान् पुत्रान् दानवा जनयन्ति हि ॥
ततो ऽहं कामयामि त्वां न हि त्वं जनितो मया
रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला ॥
यन् मे व्यवसितं कान्त यच् च मे हृदि वर्तते
तन्मे मनसि वार्ष्णेय प्रतिसंधातुम् अर्हसि ॥
एष ते कथितः सौम्य सद्भावस् त्वयि यो मम
यथा न मम पुत्रस् त्वं न पुत्रः शम्बरस्य च ॥
श्रुत्वैतन् निखिलं सर्वं मायावत्या प्रभाषितम्
चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् ॥
समस्तमायामायाज्ञो विक्रान्तः समरे ऽव्ययः
अष्टम्यां निहतो युद्धे मायया कालशम्बरः ॥
तमृक्षवन्ते नगरे निहत्यासुरसत्तमम्
गृह्य मायावतीं देवीं स्वाम् अगच्छत् पुरीं पितुः ॥
सो ऽन्तरिक्षगतो भूत्वा मायया शीघ्रविक्रमः
आजगाम पुरीं रम्यां रक्षितां तेजसा पितुः ॥
सो ऽन्तरिक्षात् प्रपतितः केशवान्तःपुरे शिशुः
मायावत्या सह तया रूपवान् इव मन्मथः ॥
तस्मिंस् तत्रावपतिते महिष्यः केशवस्य याः
विस्मिताश् चैव हृष्टाश् च भीराश् चैवाभवंस् तदा ॥
ततस् तं कामसंकाशं कान्तया सह संगतम्
प्रेक्षन्त्यो हृष्टवदनाः पिबन्त्यो नयनासवम् ॥
तं व्रीडितमुखं दृष्ट्वा सज्जमानं पदे पदे
अभवन् स्निग्धसंकल्पाः प्रहृष्टाः कृष्णयोषितः ॥
रुक्मिणी त्व् एव तं दृष्ट्वा शोकार्ता पुत्रगृद्धिनी
सपत्नीशतसंकीर्णा सबाष्पा वाक्यम् अब्रवीत् ॥
धन्यायाः खल्व् अयं पुत्रो दीर्घायुः प्रियदर्शनः
इदृशः कामसंकाशो यौवने प्रथमे स्थितः ॥
जीवपुत्रा त्वया पुत्र का सा भाग्यविभूषिता
किम् अर्थं चाम्बुदश्याम सभार्यस् त्वम् इहागतः ॥
अस्मिन् वयसि सुव्यक्तं प्रद्युम्नो मम पुत्रकः
भवेद् यदि न नीतः स्यात् कृतान्तेन बलीयसा ॥
व्यक्तं वृष्णिकुमारो ऽयं न मिथ्या मम तर्कितम्
विज्ञातो ऽसि मया चिह्नैर् विना चक्रं जनार्दनः ॥
मुखं नारायणस्येव केशाः केशान्त एव च
मूर्धवक्षोभुजैस् तुल्यो हलिनः श्वशुरस्य मे ॥
कस् त्वं वृष्णिकुलं सर्वं वपुषा द्योतयन् स्थितः
अहो जनार्दनस्यास्य दिव्या त्वम् अपरा तनुः ॥
एतस्मिन्न् अन्तरे कृष्णः सहसा प्रविवेश ह
नारदस्य वचः श्रुत्वा शम्बरस्य वधं प्रति ॥
सो ऽपश्यत् तं सुतं ज्येष्ठं सिद्धं मन्मथलक्षणैः
स्नुषां मायावतीं चैव हृष्टचेता जनार्दनः ॥
सो ऽब्रवीत् सहसा देवीं रुक्मिणीं देवताम् इव
अयं ते देवि संप्राप्तः पुत्रश् चापधरः प्रभुः ॥
अनेन शम्बरं हत्वा मायायुद्धविशारदम्
हता मायाश् च ताः सर्वा याभिर् देवान् अबाधत ॥
सती चेयं शुभा साध्वी भार्या वै तनयस्य ते
मायावतीति विख्याता शम्बरस्य गृहोषिता
मा च ते शम्बरस्येयं पत्नीत्य् एवं व्यथा भवेत् ॥
मन्मथे तु गते नाशं गते चानङ्गतां पुरा
नेत्राग्निना त्र्यम्बकस्य शूलपाणेः पुरा युगे ।
कामपत्नी हि कन्यैषा कामकामा रतिः शुभा
मायारूपेण तं दैत्यं मोहयत्य् असकृच् छुभा ॥
न चैषा तस्य कौमारे वशे तिष्ठति शोभना
अत्ममायामयं रूपं कृत्वा शम्बरम् आविशत् ॥
पत्न्य् एषा मम पुत्रस्य स्नुषा तव वराङ्गना
लोककान्तस्य साहाय्यं करिष्यति मनोमयम् ॥
प्रवेशयैनां भवनं पूज्या ह्य् एषा स्नुषा मम
चिरप्रनष्टं च सुतं भजस्य पुनरागतम् ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0