भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 100

100.1

हृतो यदैव प्रद्युम्नः शम्बरेणात्मघातिना
तम् एव मासं साम्बस् तु जाम्बवत्याम् अजायत ॥

100.2

बाल्यात् प्रभृति रामेण मानेषु विनियोजितः
रामाद् अनन्तरं चैव मानितः सर्ववृष्णिभिः ॥

100.3

जातमात्रे ततः कृष्णः शुभं तत् पुरम् आविशत्
निहतामित्रसामन्तः शक्रोद्यानं यथामरः ॥

100.4

यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः
जनार्दनभयाच् चैव न शान्तिं लेभिरे नृपाः ॥

100.5

कस्यचित् त्व् अथ कालस्य पुरे वारणसाह्वये
दुर्योधनस्य यज्ञे वै समेयुः सर्वपार्थिवाः ॥

100.6

तां श्रुत्वा माधवीं लक्ष्मीं सपुत्रं च जनार्दनम्
पुरीं द्वारावतीं चैव निविष्टां सागरान्तरे ॥

100.7

दूतैस् तैः कृतसंधानाः पृथिव्यां सर्वपार्थिवाः
श्रियं द्रष्टुं हृषीकेशम् आजग्मुः कृष्णमन्दिरम् ॥

100.8

दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः
पाण्डवप्रमुखाश् चैव धृष्टद्युम्नादयो नृपाः ॥

100.9

पाण्ड्यचोलकलिङ्गेशा बाह्लीका द्रविडाः शकाः
अक्षौहिणीः प्रकर्षन्तो दश चाष्टौ च भूमिपाः
आजग्मुर् यादवपुरीं गोविन्दभुजपालिताम् ॥

100.10

ते पर्वतं रैवतकं परिवार्यावनीश्वराः
विविशुर् योजनाढ्यासु स्वासु स्वास्व् अवनीष्व् अथ ॥

100.11

ततः श्रीमान् हृषीकेशः सह यादवपुंगवैः
समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः ॥

100.12

स तेषां नरदेवानां मध्ये मधुनिषूदनः
व्यराजत यदुश्रेष्ठः शरदीव नभःशशी ॥

100.13

स तत्र समुदाचारं यथास्थानं यथावयः
कृत्वा सिंहासने कृष्णः काञ्चने निषसाद ह ॥

100.14

राजानो ऽपि यथास्थानं निषेदुर् विविधेष्व् अथ
सिंहासनेषु चित्रेषु पीठेषु च जनाधिपाः ॥

100.15

स यादवनरेन्द्राणां समाजः शुशुभे तदा
सुराणाम् असुराणां च सदने ब्रह्मणो यथा ॥

100.16

तेषां चित्राः कथास् तत्र प्रवृत्तास् तत्समागमे
यदूनां पार्थिवानां च केशवस्योपशृण्वतः ॥

100.17

एतस्मिन्न् अन्तरे वायुर् ववौ मेघरवोद्धतः
तुमुलं दुर्दिनं चासीत् सविद्युत् स्तनयित्नुमत् ॥

100.18

तद् दुर्दिनतलं भित्त्वा नारदः प्रत्यदृश्यत
संवेष्टितजटाभारो वीणासक्तेन बाहुना ॥

100.19

स पपात नरेन्द्राणां मध्ये पावकवर्चसाम्
नारदो ऽग्निशिखाकारः श्रीमाञ् शक्रसखो मुनिः ॥

100.20

तस्मिन् भूमौ निपतिते नारदे मुनिपुंगवे
तद् उद्धतमहामेघं दुर्दिनं व्यपकृष्यत ॥

100.21

सो ऽवगाह्य नरेन्द्राणां मध्यं सागरसंनिभम्
आसनस्थं यदुश्रेष्टम् उवाच मुनिर् अव्ययः ॥

100.22

आश्चर्यं खलु देवानाम् एकस् त्वं पुरुषोत्तम
धन्यश् चासि महाबाहो लोके नान्यो ऽस्ति कश् चन ॥

100.23

एवम् उक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः
आश्चर्यश् चैव धन्यश् च दक्षिणाभिः सहेत्य् अहम् ॥

100.24

एवम् उक्तो मुनिश्रेष्ठः प्राह मध्ये महीक्षिताम्
कृष्ण पर्याप्तवाक्यो ऽस्मि गमिष्यामि यथागतम् ॥

100.25

तं प्रस्थितम् अभिप्रेक्ष्य पार्थिवाः प्राहुर् ईश्वरम्
गुह्यं मन्त्रम् अजानन्तो वचनं नारदेरितम् ॥

100.26

आश्चर्य इत्य् अभिहितो धन्यो ऽसीति च माधव
दक्षिणाभिः सहेत्य् एवं प्रत्युक्ते ऽपि च नारदे ॥

100.27

किम् एतन् नाभिजानीमो दिव्यं मन्त्रपदं महत्
यदि श्राव्यम् इदं कृष्ण श्रोतुम् इच्छामि तत्त्वतः ॥

100.28

तान् उवाच ततः कृष्णः सर्वान् पार्थिवपुंगवान्
श्रोतव्यं नारदस् त्व् एष द्विजो वः कथयिष्यति ॥

100.29

ब्रूहि नारद तत्त्वार्थं श्राव्यन्तां पृथिवीक्षितः
यत् त्वयाभिहितं वाक्यं मया च प्रतिभाषितम् ॥

100.30

स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलंकृतः
प्रभवं तस्य वाक्यस्य प्रवक्तुम् उपचक्रमे ॥

100.31

श्रुयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः
अस्य प्रश्नस्य महतो यथा पारम् अहं गतः ॥

100.32

अहं कदाचिद् गङ्गायास् तीरे त्रिषवणातिथिः
चराम्य् एकः क्षपापाये संदृश्यति दिवाकरे ॥

100.33

अपश्यम् अश्मकूटाभं कपालद्वयदेहिनम्
क्रोशमण्डलविस्तारं तावद्वृत्तं समन्ततः ॥

100.34

चतुश्चरणसंश्लिष्टं क्लिन्नं शैवलपङ्किलम्
मम वीणाकृतिं कूर्मं गजचर्मचयोपमम् ॥

100.35

सो ऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ् जलचारिणम्
त्वम् आश्चर्यशरीरो ऽसि कूर्म धन्यश् च मे मतः ॥

100.36

यस् त्वम् एवम् अभेद्याभ्यां कपालाभ्यां समावृतः
तोये चरसि निःशङ्कः किं चिद् अप्य् अविचिन्तयन् ॥

100.37

स माम् उवाचाम्बुचरः कूर्मो मानुषवत् स्वयम्
किम् आश्चर्यं मयि मुने धन्यश् चाहं कथं विभो ॥

100.38

गङ्गेयं निम्नगा धन्या किम् आश्चर्यम् अतः परम्
यत्राहम् इव सत्त्वानि चरन्त्य् अयुतशो जले ॥

100.39

सो ऽहं कुतूहलाविष्टो नदीं गङ्गाम् उपस्थितः
धन्यासि त्वं नदीश्रेष्ठे नित्यम् आश्चर्यदर्शने ॥

100.40

या त्वम् एवं महादेहैः श्वापदैर् उपशोभिता
ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् ॥

100.41

एवम् उक्ता ततो गङ्गा रूपिणी प्रत्यभाषत
नारदं देवगन्धर्वं शक्रस्य दयितं द्विजम् ॥

100.42

नाहं धन्या द्विजश्रेष्ठ नाप्य् आश्चर्योपशोभिता
तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते ॥

100.43

लोकाश्चर्यकरो लोके धन्यश् चैवार्णवो द्विज
यत्राहम् इव विस्तीर्णाः शतशो यान्ति निम्नगाः ॥

100.44

सो ऽहं त्रिपथगावाक्यं श्रुत्वार्णवम् उपस्थितः
आश्चर्यः खलु लोकानां धन्यश् चासि महार्णव
तेन खल्व् असि योनिस् त्वम् अम्भसां सलिलेश्वरः ॥

100.45

स्थाने त्वा वारिवाहिन्यः सरितो लोकभावनाः
इमाः समभिगच्छन्ति पत्न्यो लोकनमस्कृताः ॥

100.46

समुद्रस् त्व् एवम् उक्तस् तु ततो माम् अब्रवीद् वचः
स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः ॥

100.47

मा मैवं देवगन्धर्व नास्म्य् आश् चर्यो द्विजोत्तम
वसुधेयं मुने धन्या यत्राहम् उपरि स्थितः
ऋते तु पृथिवीं लोके किम् आश्चर्यम् अतः परम् ॥

100.48

सो ऽहं सागरवाक्येन क्षितिं क्षितितले स्थितः
कौतूहलसम् आविष्टो ह्य् अब्रुवं जगतो गतिम् ॥

100.49

धरित्रि देहिनां योनिर् धन्या खल्व् असि शोभने
आश्चर्या चासि भूतेषु महत्या क्षमया युते ॥

100.50

तेन खल्व् असि लोकानां धरणी मनुजारणिः
क्षमा त्वत्तः प्रसूता च कर्म चाम्बरगामिनाम् ॥

100.51

ततो भूः स्तुतिवाक्येन सा मयोक्तेन लज्जिता
विहाय सहजं धैर्यम् अथ मां प्रत्यभाषत ॥

100.52

देवगन्धर्व मा मैवं संग्रामकलहप्रिय
नास्मि धन्या न चाश्चर्या पारक्येयं धृतिर् मम ॥

100.53

एते धन्या द्विजश्रेस्थ पर्वता धारयन्ति माम्
एष्व् आश्चर्याणि दृश्यन्ते एते लोकस्य सेतवः ॥

100.54

सो ऽहं पृथिव्या वाक्येन पर्वतान् समुपस्थितः
धन्या भन्तो दृश्यन्ते बह्वाश्चर्याश् च भूधराः ॥

100.55

काञ्चनस्याग्ररत्नस्य धातूनां च विशेषतः
तेन रत्नाकराः सर्वे भवन्तो भुवि शाश्वताः ॥

100.56

मम त्व् एतद् वचः श्रुत्वा पर्वतास् तस्थुषां वराः
ऊचुर् मां सान्त्वयुक्तानि वचांसि वनशोभिताः ॥

100.57

ब्रह्मर्षे न वयं धन्या नाप्य् आश्चर्याणि सन्ति नः
अस्माकम् ईश्वरः शूली गिरिशो वृषभध्वजः ।
नाश् चर्यो वापि धन्यो वा तस्मात् परतरो भुवि ॥
विहाय तं महादेवं नास्मान् स्तोतुम् इहार्हसि ॥
इति तेषां वचः श्रुत्वा कैलासम् अहम् आगतः ।
दृष्ट्वा तं पार्वतीशानम् अब्रुवं वचनं तदा ॥
देवदेव महादेव नीलकण्ठ वृषध्वज ।
आश्चर्यो ऽसि भवान् एको धन्यस् त्वं जगतीपते ।
त्वत्तः परतरो नास्ति देवो जगति कश् चन ॥
यद् इदं दृश्यते देव भुवनं सचराचरम् ।
तस्याधारस् त्वम् एवासि सर्वस्य त्रिपुरान्तक ॥
अथ माम् अब्रवीद् देवो विरूपाक्षस् त्रिलोचनः ।
नाहं धन्यो न चाश्चर्यो नैवं मां वक्तुम् अर्हसि ।
मत्तः परतरो ज्ञेयो जगत् स्रष्टा द्विजोत्तम ।
ब्रह्मा प्रजापतिर् धन्यः स चाश्चर्यः सुरेष्व् अपि ॥

100.58

सो ऽहं पितामहं गत्वा सर्वप्रभवम् अव्ययम्
तस्य वाक्यस्य पर्यायं पर्याप्तम् इव लक्षये ॥

100.59

सो ऽहं स्वयंभुवं देवं लोकयोनिं चतुर्मुखम्
पारंपर्याद् उपगतः प्रणामावनताननः ॥

100.60

सो ऽहं वाक्यसमाप्त्यर्थं श्रावयाम्य् आत्मयोनिनम्
आश्चर्यो भगवान् एको धन्यश् च जगतो गुरुः ॥

100.61

न किं चिद् अन्यत् पश्यामि भूतं यद् भवता समम्
त्वत्तः सर्वम् इदं जातं जगत् स्थावरजंगमम् ॥

100.62

सदेवदानवा मर्त्या लोके भूतेन्द्रियात्मकाः
भवन्ति सर्वदेवेश दृश्यं सर्वम् इदं वपुः ॥

100.63

तेन खल्व् असि देवानां देवदेवः सनातनः
तेषामेवासि यत् स्रष्टा लोकानाम् अपि संभवः ॥

100.64

ततो माम् आह भगवान् ब्रह्मा लोकपितामहः
धन्याश्चर्याश्रितैर् वाक्यैः किं मां नारद भाषसे ॥

100.65

आश्चर्यं परमं देवा धन्या देवाश् च नारद
ये लोकान् धारयन्ति स्म देवास् तत्त्वार्थदर्शिनः ॥

100.66

ऋक्सामयजुषां सत्यम् अथर्वणि च यन् मतम्
तन्मयं विद्धि मां विप्र धृतो ऽहं तैर् मया च ते ॥

100.67

परमेष्ठ्येन वाक्येन चोदितो ऽहं स्वयंभुवा
वेदोपस्थानिकां चक्रे मतिं संक्रान्तविस्तराम् ॥

100.68

सो ऽहं स्वयंभुवचनाद् वेदान् वै समुपस्थितः
उवाच चैनांश् चतुरो मन्त्रप्रवचनार्चितान् ॥

100.69

धन्या भवन्तः पुण्याश् च नित्यम् आश्चर्यविश्रुताः
आधाराश् चैव विप्राणाम् एवम् आह प्रजापतिः ॥

100.70

स्वयंभुवो ऽपीह परं भवत्सु प्रश्न आहितः
युष्मत् परतरं नास्ति श्रुत्या वा तपसापि वा ॥

100.71

प्रतूचुस् ते ततो वाक्यं देवा माम् अभितः स्थिताः
आश्चर्याश् चैव धन्याश् च यज्ञाश् चात्मपरायणाः ॥

100.72

यज्ञार्थे तु वयं सृष्टाः सृष्टा येन स्म नारद
तद् अस्माकं परा यज्ञा न वयं स्ववशे स्थिताः
स्वयंभुवो ऽपीह परा वेदानां च परा गतिः ॥

100.73

ततो ऽहम् अब्रुवं यज्ञान् गृहस्थाग्निपुरस्कृतान् ॥

100.74

भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते
ब्रह्मणाभिहितं वाक्यं यन् मे वेदैर् इहेरितम् ॥

100.75

आश्चर्यम् एतल् लोकेषु भवद्भ्यो नाधिगम्यते
धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशिनः ॥

100.76

तेन खल्व् अग्नयस् तृप्तिं पुष्माभिर् यान्ति तर्पिताः
भागैश् च त्रिदशाः सर्वे मन्त्रैश् चैव महर्षयः ॥

100.77

अग्निष्टोमादयो यज्ञा मम वाक्याद् अनन्तरम्
प्रत्यूचुर् मां परं वाक्यं सर्वे यूपध्वजाः स्थिताः ॥

100.78

आश्चर्यशब्दो नास्मासु धन्यशब्दो ऽपि वा मुने
आश्चर्यं परमं विष्णुः स ह्य् अस्माकं परा गतिः ॥

100.79

यद् आज्यं वयम् अश्नीमो हुतम् अग्निषु पावनम्
तत् सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति ॥

100.80

सो ऽहं विष्णोर् गतिं प्रेप्सुर् इह संपतितो भुवि
दृष्टश् चायं मया विष्णुर् भवद्भिर् अभिसंवृतः ॥

100.81

यन् मयाभिहितो ह्य् एष त्वम् आश्चर्यं जनार्दन
धन्यश् चासीति भवतां मध्यस्थो ह्य् अत्र पार्थिवाः ॥

100.82

प्रत्युक्तोऽहम् अनेनाद्य वाक्यस्यास्य यद् उत्तरम्
दक्षिणाभिः सहेत्य् एवं पर्याप्तं वचनं मम ॥

100.83

यज्ञानां हि गतिर् विष्णुः सर्वेषां सहदक्षिणः
दक्षिणाभिः सहेत्य् एवं प्रश्नो मम समाप्तवान् ॥

100.84

कूर्मेणाभिहितं पूर्वं पारंपर्याद् इहागतम्
सदक्षिणे ऽस्मिन् पुरुषे तद् वाक्यं पर्ययागतम् ॥

100.85

यन् मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम्
तद् एतत् सर्वम् आख्यातं साधयामि यथागतम् ॥

100.86

नारदे तु गते स्वर्गं सर्वे ते पृथिवीक्षितः
विस्मिताः स्वानि राष्ट्राणि जग्मुः सबलवाहनाः ॥

100.87

जनार्दनो ऽपि सहितो यदुभिः पावकोपमैः
स्वम् एव भवनं वीरो विवेश यदुपुंगवः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc