हरिवंश · अध्याय 98
बहूनां स्त्रीसहस्राणाम् अष्टौ भार्याः प्रकीर्तिताः
तासाम् अपत्यान् यष्टानां भगवान् प्रब्रवीतु मे ॥
अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः
सर्वा वीरप्रजायिन्यस् तास्व् अपत्यानि मे शृणु ॥
रुक्मिणी सत्यभामा च देवी नग्नजिती तथा
सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी ॥
मित्रविन्दा च कालिन्दी जाम्बवत्य् अथ पौरवी
सुभीमा च तथा माद्री रौक्मिणेयान् इमाञ् शृणु ॥
प्रद्युम्नः प्रथमो यज्ञे शम्बरान्तकरः सुतः
द्वितीयश् चारुदेष्णश् च वृष्णिसिंहो महारथः ॥
चारुभद्रो भद्रचारुः सुदंष्ट्रो द्रुम एव च
सुषेणश् चारुगुप्तश् च चारुविन्दश् च चारुमान्
चारुबाहुः कनिष्ठश् च कन्या चारुमती तथा ॥
जज्ञिरे सत्यभामायां भानुर् भिमरथः क्षुपः
रोहितो दीप्तिमांश् चैव ताम्रजाक्षो जलान्तकः
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ॥
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः
मित्रबाहुर् मित्रधामा मित्रसेनस् तथैव च ।
मित्रवान् मित्रविन्दश् च मित्रवत्य् अपि चाङ्गना ॥
मित्रवाहः सुनीथश् च नग्नजित्याः प्रजाः शृणु
भद्रकारो भद्रविन्दः कन्या भद्रवती तथा ॥
सुदत्तायास् तु शैब्यायाः संग्रामजिद् अजायत
सत्यजित् सेनजिच् चैव तथा शूरः सपत्नजित् ॥
सुभीमायाः सुतो माद्र्या वृकाश्वो वृकनिर्वृतिः
कुमारो वृकदीप्तिश् च लक्ष्मणायाः प्रजाः शृणु ॥
गात्रवान् गात्रगुप्तश् च गात्रविन्दश् च वीर्यवान्
जज्ञिरे गात्रवन्त्य् एते भगिन्यानुजया सह ॥
अश्रुतश् च सुतो जज्ञे कालिन्द्याः श्रुतसत्तमः
अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः ॥
तं प्रदाय हृषीकेशस् तां भार्यां मुदितो ऽब्रवीत्
एष वाम् उभयोर् अस्तु दायादः शाश्वतीः समाः ॥
बृहत्यां तु गदस्याहुः शैब्यायाम् अङ्गदं सुतम्
उत्पन्नं कुमुदं चैव श्वेतं श्वेतां तथाङ्गनाम् ॥
अगावहः सुमित्रश् च शुचिश् चित्ररथस् तथा
चित्रसेनः सुते चास्य चित्रा चित्रवती तथा ॥
वनुस्तम्बस्य जज्ञाते स्तम्बः स्तम्बवनश् च ह
निवासनो वनस्तम्बः कन्या स्तम्बवती तथा ।
उपासङ्गस्य तु सुतौ वज्रः सुक्षिप्र एव च ॥
कौशिक्यां सुतसोमायां यौधिष्ठिर्यां युधिष्ठिरौ
कापाली गरुडश् चैव जज्ञाते चित्रयोधिनौ ॥
प्रद्युम्नस्य सुतो यस् तु वैदर्भ्यां राजसत्तमः
अनिरुद्धो रणे योद्धा जज्ञे स मृगकेतनः ॥
रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ
भ्रातरौ देवसंकाशाव् उभौ पुरुषसत्तमौ ॥
सुतनुश् च नराची च शौरेर् आस्तां परिग्रहः
पौण्ड्रश् च कपिलश् चैव वासुदेवस्य तौ सुतौ ॥
नराच्यां कपिलो जज्ञे पौण्ड्रश् च सुतनोः सुतः
तयोर् नृपो ऽभवत् पौण्ड्रः कपिलश् च वनं ययौ ॥
तुर्यां समभवद् वीरो वसुदेवान् महाबलः
जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् ॥
काश्या सुपार्श्वं तनयं लेभे साम्बात् तरस्विनम्
अनिरुद्धस्य वैदर्भ्या भार्या रुक्मवती शुभा ।
तस्यां वज्रो ऽनिरुद्धस्य वज्रस्य तनयं शृणु ।
सानोर् वज्रो ऽनिरुद्धस्य वज्रस् त्व् आदाव् अजायत ॥
वज्राज् जज्ञे प्रतिवहः सुचारुस् तस्य चात्मजः
अनमित्राच् छिनिर् जज्ञे कनिष्ठाद् वृष्णिनन्दनात् ॥
शिनेस् तु सत्यवाग् जज्ञे सत्यकश् च महारथः
सत्यकस्यात्मजः शूरो युयुधानस् त्व् अजायत ॥
असङ्गो युयुधानस्य भूमिस् तस्याभवत् सुतः
भूमेर् युगंधरः पुत्र इति वंशः समाप्यते ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0