हरिवंश · अध्याय 96
भवतां पुण्यकीर्तीनां तपोबलसमाधिभिः
अपध्यानाच् च पापात्मा भौमः स नरको हतः ॥
मोक्षितं बन्धनाद् गुप्तं कन्यापुरवरं महत्
मणिपर्वतम् उत्पाट्य शिखरं चैतद् आहृतम् ॥
अयं धनौघः सुमहान् किंकरैर् आहृतो मया
ईशा भवन्तस् तस्येति तान् उक्त्वा विरराम ह ॥
तच् छ्रुत्वा वासुदेवस्य भोजवृष्ण्यन्धका वचः
जहृषुर् हृष्टलोमानः पूजयन्तो जनार्दनम् ॥
ऊचुश् चैनं नृवीरास् ते कृताञ्जलिपुटास् ततः
नैतच् चित्रं महाबाहो त्वयि देवकिनन्दन ॥
यत् कृत्वा दुष्करं कर्म देवैर् अपि सुदुष्करम्
लालयेः स्वजनं भोगै रत्नैश् च स्वयम् अर्जितैः ॥
ततः सर्वदशार्हाणाम् आहुकस्य च याः स्त्रियः
प्रीयमाणाः सभां जग्मुर् वासुदेवदिदृक्षया ॥
देवकीसप्तमा देव्यो रोहिणी च शुभानना
ददृशुः कृष्णम् आसीनं रामं चैव महाभुजम् ॥
तौ तु पूर्वम् अतिक्रम्य रोहिणीम् अभिवाद्य च
अभ्यवादयतां देवौ देवकीं रामकेशवौ ॥
सा ताभ्याम् ऋषभाक्षाभ्यां पुत्राभ्यां शुशुभे ऽधिकम्
अदितिर् देवमातेव मित्रेण वरुणेन च ॥
ततः प्राप्तौ नराग्र्यौ तु तस्या दुहितरं तदा
एकानंशेति याम् आहुर् नरा वै कामरूपिणीम् ॥
तथा क्षणमुहूर्ताभ्यां यया जज्ञे सहेश्वरः
यत्कृते सगणं कंसं जघान पुरुषोत्तमः ॥
सा कन्या ववृधे तत्र वृष्णिसद्मनि पूजिता
पुत्रवत् पाल्यमाना वै वासुदेवाज्ञया तदा ॥
ताम् एकाम् आहुर् उत्पन्नाम् एकानंशेति मानवाः
एकानंशेति याम् आहुर् उत्पन्नां मानवा भुवि ।
योगकन्यां दुराधर्षां रक्षार्थं केशवस्य च ॥
तां वै सर्वे सुमनसः पूजयन्ति स्म यादवाः
देववद् दिव्यवपुषा क्र्ष्णः संरक्षितो यया ॥
तां च तत्रोपसंगम्य प्रियाम् इव सखीं सखा
दक्षिणेन कराग्रेण परिजग्राह माधवः ॥
तथैव सामो ऽतिबलस् तां परिष्वज्य भाविनीम्
मूर्ध्न्य् उपाघ्राय सव्येन परिजग्राह पाणिना ॥
ददृशुस् तां प्रियां मध्ये भगिनीं रामकृष्णयोः
रुक्मपद्मकरव्यग्रां श्रियं पद्मालयाम् इव ॥
अथाक्षतमहावृष्ट्या पुष्पैश् च विविधैः शुभैः
अवकीर्य च लाजैस् तां स्त्रियो जग्मुर् यथागतम् ॥
ततस् ते यादवाः सर्वे पूजयन्तो जनार्दनम्
उपोपविविशुः प्रीताः प्रशंसन्तो ऽद्भुतं कृतम् ॥
पूज्यमानो महाबाहुः पौराणां रतिवर्धनः
विजहार महाकीर्तिर् देवैर् इव स तैः सह ॥
समासीनेषु सर्वेषु यादवेषु जनार्दनम्
नियोगात् त्रिदशेन्द्रस्य नारदो ऽभ्यागमत् सभाम् ॥
सो ऽथ संपूजितः पूज्यः शूरैस् तैर् यदुपुंगवैः
करे संस्पृश्य गोविन्दं विवेश महद् आसनम् ॥
सुखोपविष्टस् तान् वृष्णीन् उपविष्टान् उवाच ह
आगतं शक्रवचनाज् जानीध्वं मां नरर्षभाः ॥
शृणुध्वं राजशार्दूलाः कृष्णस्यास्य पराक्रमम्
यानि कर्माणि कृतवान् बाल्यात् प्रभृति केशवः ॥
उग्रसेनसुतः कंसः सर्वान् निर्मथ्य बान्धवान्
राज्यं जग्राह दुर्बुद्धिर् बध्वा पितरम् आहुकम् ॥
समाश्रित्य जरासंधं श्वशुरं कुलपांसनः
भोजवृष्ण्यन्धकान् सर्वान् अवमन्यत दुर्मतिः ॥
ज्ञातिकार्यं चिकीर्षंस् तु वसुदेवः प्रतापवान्
उग्रसेनस्य रक्षार्थं स्वपुत्रं पर्यरक्षत ॥
स गोपैः सह धर्मात्मा मथुरोपवने वसन्
अत्यद्भुतानि कर्माणि कृतवान् मधुसूदनः ॥
प्रत्यक्षं शूरसेनानां श्रूयते महद् अद्भुतम्
यथानेन शयानेन शकटान्तरचारिणा ॥
राक्षसी निहता रौद्रा शकुनीवेषधारिणी
पूतना नाम घोरा सा महाकाया महाबला
विषदिग्धं स्तनं क्षुद्रा प्रयच्छन्ती महात्मने ॥
ददृशुस् तां विनिहतां राक्षसीं ते वनेचराः
बलेः सुतां महाघोरां भीषणां विकृताननाम् ।
पुनर्जातो ऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥
अत्यद्भुतम् इदं चासीद् यच् छिशुः पुरुषोत्तमः
पादाङ्गुष्ठेन शकटं क्रीडमानो व्यलोडयत् ॥
दाम्ना चोलूखले बद्धो विप्रकुर्वन् कुमारकान्
उलूखले परामृद्गाद् (सिच्) वृक्षौ सत्योपचायिनौ ।
दामोदर इति ख्यातो वसुदेवसुतस् ततः ॥
कालियश् च महानागो दुराधर्षो महाबलः
क्रीडता वासुदेवेन निर्जितो यमुनाह्रदे ॥
अक्रूरस्य च प्रत्यक्षं यन् नागभवने प्रभुः
पूज्यमानस् तदा नागैर् दिव्यं वपुर् अधारयत् ॥
शीतवातार्दिता गाश् च दृष्ट्वा कृष्णेन धीमता
धृतो गोवर्धनः शैलः सप्तरात्रं महात्मना
शिशुना वासुदेवेन गवां त्राणार्थम् इच्छता ॥
तथा सुदुष्टो ऽतिबलो महाकायो नरान्तकृत्
गोपतिर् वासुदेवेन निहतो ऽरिष्टकः क्षितौ ॥
धेनुकः स महाकायो दानवः सुमहाबलः
निहतो वासुदेवेन गवां त्राणाय दुर्मतिः ॥
सुनामानम् अमित्रघ्नं सर्वसैन्यपुरस्कृतम्
वृकैर् विद्रावयाम् आस ग्रहीतुं समुपागतम् ॥
रौहिणेयेन संगम्य वने विचरता पुनः
गोपवेषधरेणैव कंसस्य भयम् आहृतम् ॥
तथा वनगतः शौरिर् दंष्ट्रायुधबलं हयम्
प्रग्रहं भोजराजस्य जघान पुरुषोत्तमः ॥
प्रलम्बश् च महाकायो रौहिणेयेन धीमता
दानवो मुष्टिनैकेन कंसामात्यो निपातितः ॥
एतौ हि वसुदेवस्य पुत्रौ सुरसुतोपमौ
ववृधाते महात्मानौ ब्रह्मगार्ग्येण संस्कृतौ ॥
जन्मप्रभृति चाप्य् एतौ गार्ग्येण परमर्षिणा
याथातथ्येन विज्ञाय संस्कारं प्रतिपादितौ ॥
यदा त्व् इमौ नरश्रेष्ठौ स्थितौ यौवनगौ मुखे
सिंहशावाव् इवोदीर्णौ मत्तौ हैमवतौ यथा ॥
ततो मनांसि गोपीनां हरमाणौ महाबलौ
आस्तां गोष्ठचरौ वीरौ देवपुत्रसमद्युती ॥
नैतौ जवे वा युद्धे वा क्रीडासु विविधासु वा
नन्दगोपस्य गोपालाः शेकुः प्रतिसमीक्षितुम् ॥
व्यूढोरस्कौ महाबाहू सालस्कन्धाव् इवोद्गतौ
श्रुत्वेमौ व्यथितः कंसो मन्त्रिभिः सहितो ऽभवत् ॥
नाशकच् च यदा कंसो ग्रहीतुं बलकेशवौ
निजग्राह ततः क्रोधाद् वसुदेवं सबान्धवम् ॥
सहोग्रसेनेन तदा चोरवद् गाढबन्धनम्
कालं महान्तम् अवसत् कृच्छ्रम् आनकदुंदुभिः ॥
कंसस् तु पितरं बध्वा शूरसेना? शशास ह
जरासंधं समाश्रित्य तथैवाह्वृतिभीष्मकौ ॥
कस्यचित् त्व् अथ कालस्य मथुरायां महोत्सवम्
पिनाकिनं समुद्दिश्य कंसश् चक्रे नराधिपः ॥
तत्र मल्लाः समापेतुर् नानादेश्या विशां पते
नर्तका गायकाश् चैव कुशला नृत्तसामसु ॥
ततः कंसो महातेजा रङ्गवाटं महाधनम्
कुशलैः कारयाम् आस शिल्पिभिः साधुनिष्ठितैः ॥
तत्र मञ्चसहस्राणि पौरजानपदैर् जनैः
समाकीर्णान्य् अदृश्यन्त ज्योतिर्भिर् गगनं यथा ॥
भोजराजः श्रिया जुष्टं राजमञ्चं महर्द्धिमत्
अरुरोह ततः कंसो विमानं सुकृती यथा ॥
रङ्गद्वारे गजं मत्तं प्रभूतायुधकल्पितम्
शूरैर् अधिष्ठितं कंसः स्थापयाम् आस वीर्यवान् ॥
यदा हि स महाभोजो रामकृष्णौ समागतौ
शुश्राव पुरुषव्याघ्रौ सूर्याचन्द्रमसाव् इव ॥
तदाप्रभृति यत्तो ऽभूद् रक्षां प्रति नराधिपः
न च शेते सुखं रात्रौ रामकृष्णौ विचिन्तयन् ॥
श्रुत्वा तु रामकृष्णौ च तं समाजम् अनुत्तमम्
उभौ विविशतुर् वीरौ शार्दूलौ गोव्रजं यथा ॥
ततः प्रवेशे संरुद्धौ रक्षिभिः पुरुषर्षभौ
हत्वा कुवलयापीडं ससादिनम् अरिंदमौ
अवमृद्य दुराधर्षौ रङ्गं विविशतुस् तदा ॥
चाणूरान्ध्रौ विनिष्पिष्य केशवेन बलेन च
औग्रसेनिः स दुष्टात्मा सानुजो विनिपातितः ॥
यत् कृतं यदुसिंहेन देवैर् अपि सुदुःसहम्
कर्म तत् केशवाद् अन्यः कर्तुम् अर्हति कः पुमान् ॥
यद् धि नाधिगतं पूर्वैः प्रह्रादबलिशम्बरैः
तद् इदं शौरिणा चित्तं प्रापितं भवताम् इह ॥
एतेन मुरम् आक्रम्य दैत्यं पञ्चजनं तथा
शैलसंघान् अतिक्रम्य निसुन्दः सगणो हतः ॥
नरकश् च हतो भौमः कुण्डले चाहृते शुभे
प्राप्तं च दिवि देवेषु केशवेन महद् यशः ॥
वीतशोकभयाबाधाः कृष्णबाहुबलाश्रयाः
यजन्तु बहुभिर् यज्ञैर् यादवा वीतमत्सराः ॥
देवानां सुमहत् कार्यं कृतं कृष्णेन धीमता
क्षिप्रम् आवेदये चेदं भवतां भद्रम् अस्तु वः ॥
यद् इष्टं वो यदुश्रेष्ठाः कर्तास्मि तद् अतन्द्रितः
भवताम् अस्मि यूयं च मम युष्मास्व् अहं स्थितः ॥
इति संबोधयन् कृष्णम् अब्रवीत् पाकशासनः
माम् अप्रैषीत् सुरश्रेष्ठः प्रीतास् तुष्टास् तथा वयम् ॥
यत्र ह्रीः श्रीः स्थिता तत्र यत्र श्रीस् तत्र संनतिः
संनतिर् ह्रीस् तथा श्रीश् च नित्यं कृष्णे महात्मनि ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0