भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 97

97.1

सादिता मौरवाः पाशा निसुन्दनरकौ हतौ
कृतः क्षेमः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥

97.2

शौरिणा पृथिवीपालास् त्रासिताः स्पर्धिनो युधि
धनुषश् च निनादेन पाञ्चजन्यस्वनेन च ॥

97.3

मेघप्रख्यैर् अनीकैश् च दाक्षिणात्याभिरक्षिताम्
रुक्मिणं युधि निर्जित्य महाबलपराक्रमम् ।
रुक्मिणीम् आजहाराशु केशवो वृष्णिपुंगवः ॥

97.4

ततः पर्जन्यघोषेण रथेनादित्यवर्चसा
उवाह महिषीं भोजां शङ्खचक्रगदासिभृत् ॥

97.5

जारूथ्याम् आह्वृतिः क्राथः शिशुपालश् च निर्जितः
वक्त्रश् च सह सैन्येन शतधन्वा च दुर्जयः ॥

97.6

इन्द्रद्युम्नो हतः कोपाद् यवनश् च कशेरुमान्
हतः सौभपतिः साल्वः शौभश् च दृढधन्वना ॥

97.7

पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः
विकीर्य पुण्डरीकाक्षो द्युमत्सेनम् अपोथयत् ॥

97.8

महेन्द्रशिखरे चैव निमेषोन्तरचारिणौ
जघान यो नरव्याघ्रो रावणस्याभितश् चरौ ॥

97.9

इरावत्यां महाभोजाव् अग्निसूर्यसमौ युधि
गोपतिस् तालकेतुश् च निहतौ शार्ङ्गधन्वना ॥

97.10

अक्षप्रपतने चैव निमिर् हंसश् च दानवौ
उभौ ताव् अपि कृष्णेन सराष्ट्रौ विनिपातितौ ॥

97.11

दग्धा वाराणसी चैव केशवेन महात्मना
सानुबन्धः सराष्ट्रश् च काशीनाम् अधिपो हतः ॥

97.12

विजित्य च यमः संख्ये शरैः संनतपर्वभिः
अथैन्द्रसेनिर् आनीतः कृष्णेनाद्भुतकर्मणा ॥

97.13

सहितः सर्वयादोभिः सागरेषु महाबलः
प्राप्य लोहितकूटानि कृष्णेन वरुणो जितः ॥

97.14

महेन्द्रभवने जातो देवैर् गुप्तो महात्मभिः
अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः ॥

97.15

पाण्ड्यं पौण्ड्रं च मत्स्यं च कलिङ्गं च जनार्दनः
जघान सहितान् सर्वान् वङ्गराजं तथैव च ॥

97.16

एष चैकशतं हत्वा रणे राज्ञां महात्मनाम्
गान्धारीम् आवहद् धीमान् महिषीं प्रियदर्शनाम् ॥

97.17

तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः
जिगाय भरत श्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥

97.18

द्रोणं द्रौणिं कृपं कर्णं भीमसेनं सुयोधनम्
चक्रानुयाते सहिताञ् जिगाय पुरुषोत्तमः ॥

97.19

बभ्रोश् च प्रियम् अन्विच्छञ् शङ्खचक्रगदासिभृत्
सौवीरराजस्य सुतां प्रसह्य हृतवान् प्रभुः ॥

97.20

पर्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम्
वेणुदारिकृते यत्नाज् जिगाय पुरुषोत्तमः ॥

97.21

अवाप्य तपसो वीर्यं बलम् ओजश् च माधवः
पूर्वदेहे जहारायं बलेस् त्रिभुवनं हरिः ॥

97.22

वज्राशनिगदाशृङ्गैस् त्रासयद्भिश् च दानवैः
यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति ॥

97.23

अभिभूतश् च कृष्णेन सगणः स महाबलः
बलेः पुत्रो महावीर्यो बाणो द्रविणवत्तरः ॥

97.24

पीठं तथा महाबाहुः कंसामात्यं जनार्दनः
पैठिकं चासिलोमानं निजघान महाबलः ॥

97.25

जम्भम् ऐरावतं चापि विरूपं च महायशाः
जघान पुरुषव्याघ्रः शम्बरं चारिमर्दनः ॥

97.26

तथा नागपतिं तोये कालियं च महौजसम्
निर्जित्य पुण्डरीकाक्षः प्रेषयाम् आस सागरम् ॥

97.27

संजीवयाम् आस मृतं पुत्रं सांदीपनेस् तथा
निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः ॥

97.28

एवम् एष महाबाहुः शास्ता सर्वदुरात्मनाम् ॥

97.29

निहत्य नरकं भौमम् आहृत्य मणिकुण्डले
देवमातुर् ददौ चापि प्रीत्यर्थं वज्रपाणिनः ॥

97.30

एवं स देवदैत्यानां सुराणां च महायशाः
भयाभयकरः कृष्णः सर्वलोकेश्वरो विभुः ॥

97.31

संस्थाप्य धर्मान् मर्त्येषु यज्ञैर् इष्ट्वाप्तदक्षिणैः
कृत्वा देवार्थम् अमितं स्वस्थानं प्रतिपत्स्यते ॥

97.32

कृष्णो भोगवतीं रम्याम् ऋषिकान्तां महायशाः
द्वारकाम् आत्मसात्कृत्वा समुद्रं गमयिष्यति ॥

97.33

बहुरत्नसमाकीर्णा चैत्ययूपशताङ्किता
द्वारका वरुणावासं प्रवेक्ष्यति सकानना ॥

97.34

तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः
विसृष्टां वासुदेवेन सागरः प्लावयिष्यति ॥

97.35

सुरासुरमनुष्येषु नासिन् न भविता क्वचित्
य इमाम् आवसेत् कश्चिद् अन्यत्र मधुसूदनात् ॥

97.36

एवम् एष दशार्हाणां विधाय विधिना विधिम्
विष्णुर् नारायणः सोमः सूर्यश् च भविता स्वयम् ॥

97.37

अप्रमेयो ऽनियोज्यश् च यत्रकामगमो वशी
मोदत्य् एष सदा भूतैर् बालः क्रीडनकैर् इव ॥

97.38

न प्रमातुं महाबाहुः शक्यो ऽयं मधुसूदनः
प्रमाणं ह्य् अत्र विच्छिन्नं प्रमाणं सर्ववस्तुषु ।
यतो ऽयं देवदेवेशो न प्रमाणे प्रमा भवेत् ।
परं ह्य् अपरम् एतस्माद् विश्वरूपान् न विद्यते ॥

97.39

स्तव्यो ऽयम् एवं शतशस् तथा शतसहस्रशः
अन्तो हि कर्मणाम् अस्य दृष्टपूर्वो न केनचित् ॥

97.40

एवम् एतानि कर्माणि शिशुर् मध्यवयास् तथा
कृतवान् पुण्डरीकाक्षः संकर्षणसहायवान् ॥

97.41

इत्य् उवाच पुरा व्यासस् तपोदीर्घेण चक्षुषा
महायोगी महाबुद्धिः सर्वप्रत्यक्षदर्शिवान् ॥

97.42

इति संस्तूय गोविन्दं महेन्द्रवचनाद् ऋषिः
यदुभिः पूजितः सर्वैर् नारदस् त्रिदिवं गतः ॥

97.43

ततस् तद् वसु गोविन्दो दिदेशान्धकवृष्णिषु
यथार्हं पुण्डरीकाक्षो विधिवन् मधुसूदनः ॥

97.44

यादवाश् च धनं प्राप्य विधिवद् भूरिदक्षिणैः
यज्ञैर् इष्ट्वा महात्मानो द्वारकाम् आवसन् पुरीम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc