हरिवंश · अध्याय 95
ततः संपूज्य गरुडं वासुदेवो ऽनुमान्य च
सखिवच् चोपगृह्यैनम् अनुजज्ञे गृहं प्रति ॥
सो ऽनुज्ञातो हि सत्कृत्य प्रणम्य च जनार्दनम्
ऊर्ध्वम् आचक्रमे पक्षी यथेष्टं गगनेचरः ॥
स पक्षवातसंक्षुब्धं समुद्रं मकरालयम्
कृत्वा वेगेन महता ययौ पूर्वं महोदधिम् ॥
कृत्यकाल उपस्थास्य इत्य् उक्त्वा गरुडे गते
कृष्णो ददर्श पितरं वृद्धम् आनकदुंदुभिम् ॥
उग्रसेनं च राजानं बलदेवं च माधवः
काश्यं सांदीपनिं चैव ब्रह्मगार्ग्यं तथैव च ॥
अन्यांश् च वृद्धान् वृष्णीनां तांश् च भोजान्धकांस् तथा
रत्नप्रवेकैर् दाशार्हो वीर्यलब्धैस् तदार्चयत् ॥
हता ब्रह्मद्विशः सर्वे यजन्त्य् अन्धकवृष्णयः
रणात् प्रतिनिवृत्तो ऽयम् अक्षतो मधुसूदनः ॥
इति चत्वररथ्यासु द्वारवत्यां सुपूजितः
चाक्रिको घोषयाम् आस पुरुषो मृष्टकुण्डलः ॥
ततः सांदीपनिं पूर्वम् उपगम्य जनार्दनः
ववन्दे वृष्णिनृपतिम् आहुकं विनयान्वितः ॥
अथाश्रुपरिपूर्णाक्षम् आनन्दगतचेतसम्
ववन्दे सह रामेण पितरं वासवानुजः ॥
ततः शेषान् अभिक्रम्य सत्कृत्य च यथार्हतः
सर्वेषां नाम जग्राह दाशार्हाणाम् अधोक्षजः ॥
ततः सर्वाणि दिव्यानि सर्वरत्नमयानि च
आसनाग्र्याणि विविशुर् उपेन्द्रप्रमुखास् तदा ॥
ततस् तद् धनम् अक्षय्यं किंकरैर् यत् समाहृतम्
सभां समानयाम् आसुः पुरुषाः कृष्णशासनात् ॥
ततः स मानयाम् आस दाशार्हान् यदुसत्तमान्
सर्वान् दुंदुभिशब्देन पूजयिष्यञ् जनार्दनः ॥
ताम् आसनवतीं रम्यां मणिविद्रुमतोरणाम्
सुदाशार्हीं सुदाशार्हा विविशुः कृष्णशासनात् ॥
ततः पुरुषसिंहैः सा यदुभिः सर्वतो वृता
सर्वार्थगुणसंपन्ना सा सभा भरतर्षभ ।
शुशुभे ऽभ्यधिकं शुभ्रा सिंहैर् गिरिगुहा यथा ॥
रामेण सह गोविन्दः काञ्चनं महद् आसनम्
उग्रसेनं पुरस्कृत्य भेजे वृष्णिपुरस्कृतः ॥
तत्रोपविष्टांस् तान् वीरान् यथाप्रीति यथावयः
समाभाष्य यदुश्रेष्ठान् उवाच मधुसूदनः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0