भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 93

93.1

ददर्शाथ पुरीं कृष्णो द्वारकां गरुडे स्थितः
देवसद्मप्रतीकाशां समन्तात् प्रतिनादिताम् ॥

93.2

मणिपर्वतयात्रां हि गते देवकिनन्दने
तथा क्रीडागृहाणि च ।
उद्यानवनमुख्यानि वलभीचत्वराणि च ।
संप्राप्ते तु तदा कृष्णे ।
विश्वकर्माणम् आहूय देवराजो ऽब्रवीद् इदम् ॥

93.3

प्रियम् इच्छसि चेत् कर्तुं मह्यं शिल्पवतां वर
कृष्णप्रियार्थं भूयस् त्वं करिष्यसि मनोहराम् ॥

93.4

उद्यानवनसंबाधां द्वारकां स्वर्गसंनिभाम्
कुरुष्व विबुधश्रेष्ठ यथा मम पुरी तथा ॥

93.5

यत् किं चित् त्रिषु लोकेषु रत्नभूतं प्रपश्यसि
तेन संयुज्यतां क्षिप्रं पुरी द्वारवती त्वया ॥

93.6

कृष्णो हि सुरकार्येषु सर्वेषु सततोत्थितः
संग्रामान् घोररूपांश् च विगाहति महाबलः ॥

93.7

ताम् इन्द्रवचनाद् गत्वा विश्वकर्मा पुरीं ततः
अलंचक्रे समन्ताद् वै यथेन्द्रस्यामरावती ॥

93.8

तां ददर्श दशार्हाणाम् ईश्वरः पक्षिवाहनः
विश्वकर्मकृतैर् दिव्यैर् अभिप्रायैर् अलंकृताम् ॥

93.9

तां पुरीं द्वारकां दृष्ट्वा विभुनारायणो हरिः
हृष्टः सर्वार्थसंपन्नः प्रवेष्टुम् उपचक्रमे ॥

93.10

सो ऽपश्यद् वृक्षषण्डांश् च रम्यान् दृष्टिमनोहरान्
द्वारकां प्रति दाशार्हश् चित्रितां विश्वकर्मणा ॥

93.11

पद्मषण्डाकुलाभिश् च हंससेवितवारिभिः
गङ्गासिन्धुप्रकाशाभिः परिखाभिर् वृतां पुरीम् ॥

93.12

प्राकारेणार्कवर्णेन शातकौम्भेन राजता
चयमूर्ध्नि निविष्टेन द्यां यथैवाभ्रमालया ॥

93.13

काननैर् नन्दनप्रख्यैस् तथा चैत्ररथोपमैः
बभौ चारुपरिक्षिप्ता द्वारका द्यौर् इवाम्बुभिः ॥

93.14

भाति रैवतकः शैलो रम्यसानुगुहाजिरः
पूर्वस्यां दिशि लक्ष्मीवान् मणिकाञ्चनतोरणः ॥

93.15

दक्षिणस्यां लतावेष्टः पञ्चवर्णो विराजते
इन्द्रकेतुप्रतीकाशः पश्चिमस्यां तथाक्षयः ॥

93.16

उत्तरां दिशम् अत्यर्थं विभूषयति वेणुमान्
मन्दराद्रिप्रतीकाशः पाण्डुरः पार्थिवर्षभ ॥

93.17

चित्रकम्बलवर्णं च पाञ्चजन्यवनं महत्
सर्वर्तुकवनं चैव भाति रैवतकं प्रति ॥

93.18

लतावेष्टं समन्तात् तु मेरुप्रभवनं महत्
भाति भार्गवनं चैव पुष्पकं च महद् वनम् ॥

93.19

अक्षकैर् बीजकैश् चैव मन्दारैश् चोपशोभितम्
शतावर्तवनं चैव करवीरकरम्भि च ॥

93.20

भाति चैत्ररथं चैव नन्दनं च महद् वनम्
रमणं भावनं चैव वेणुमद् वै समन्ततः ॥

93.21

वैदूर्यपत्रैर् जलजैस् तथा मन्दाकिनी नदी
भाति पुष्करिणी रम्या पूर्वस्यां दिशि भारत ॥

93.22

सानवो भूषितास् तत्र केशवस्य प्रियैषिभिः
बहुभिर् देवगन्धर्वैश् चोदितैर् विश्वकर्मणा ॥

93.23

महानदी द्वारवतीं पञ्चाशद्भिर् महामुखैः
प्रविष्टा पुण्यसलिला भावयन्ती समन्ततः ॥

93.24

अप्रमेयां महोत्सेधाम् अगाधपरिखायुताम्
प्राकारवरसंपन्नां सुधापाण्डुरलेपनाम् ॥

93.25

तीक्ष्णयन्त्रशतघ्नीभिर् यन्त्रजालैश् च भूषिताम्
आयसैश् च महाचक्रैर् ददृशे द्वारकां पुरीम् ॥

93.26

अष्टौ रथसहस्राणि नगरे किंकिणीकिनाम्
समुच्छ्रितपताकानि यथा देवपुरे तथा ॥

93.27

अष्टयोजनविस्तीर्णाम् अचलां द्वादशायताम्
द्विगुणोपनिवेशां च ददृशे द्वारकां पुरीम् ॥

93.28

अष्टमार्गमहाकक्ष्यां महाषोडशचत्वराम्
एकमार्गपरिक्षिप्तां साक्षाद् उशनसा कृताम्
स्त्रियो ऽपि यस्यां युध्येरन् किम् उ वृष्णिमहारथाः ॥

93.29

व्यूहानाम् उत्तमा मार्गाः सप्त चैव महापथाः
तत्र वै विहिताः साक्षाद् विविधा विश्वकर्मणा
तस्मिन् पुरवरश्रेष्ठे दाशार्हाणां यशस्विनाम् ॥

93.30

वेश्मानि जहृषे दृष्ट्वा ततो देवकिनन्दनः
काञ्चनैर् मणिसोपानैर् उपेतानि नृहर्षणैः ॥

93.31

भीमघोषमहाघोषैः प्रासादवरचत्वरैः
समुच्छ्रितपताकानि पारिप्लवनिभानि च ॥

93.32

काञ्चनाग्राणि भास्वन्ति मेरुकूटनिभानि च
पाण्डुपाण्डुरशृङ्गैश् च शातकुम्भपरिच्छदैः
रम्यसानुगुहाशृङ्गैर् विचित्रैर् इव पर्वतैः ॥

93.33

पञ्चवर्णसवर्णैश् च पुष्पवृष्टिसमप्रभैः
पर्जन्यतुल्यनिर्घोषैर् नानारूपैर् इवाद्रिभिः ॥

93.34

दावाग्निज्वलितप्रख्यैर् निर्मितैर् विश्वकर्मणा
आलिखद्भिर् इवाकाशम् अतिचन्द्रार्कभास्वरैः ॥

93.35

तैर् दाशार्हैर् महाभागैर् बभासे भवनह्रदैः
वासुदेवेन्द्रपर्जन्यैर् गृहमेघैर् अलंकृता ॥

93.36

ददृशे द्वारका चारु मेघैर् द्यौर् इव संवृता
साक्षाद् भगवतो वेश्म विहितं विश्वकर्मणा ॥

93.37

ददृशे वासुदेवस्य चतुर्योजनम् आयतम्
तावद् एव च विस्तीर्णम् अप्रमेयं महाधनैः ॥

93.38

प्रासादवरसंपन्नैर् युक्तं जगति पर्वतैः
यश् चकार महाभागस् त्वष्टा वासवचोदितः ॥

93.39

प्रासादं चैव हेमाभं सर्वभूतमनोहरम्
मेरोर् इव गिरेः शृङ्गम् उच्छ्रितं काञ्चनं महत्
रुक्मिण्याः प्रवरं वासं विहितं विश्वकर्मणा ॥

93.40

सत्यभामा पुनर् वेश्म यदावसत पाण्डुरम्
विचित्रमणिसोपानं तद् विदुर् भोगवान् इति
विमलादित्यवर्णाभिः पताकाभिर् अलंकृतम् ॥

93.41

व्यक्तसंजवनोद्देशो यश् चतुर्दिङ्महाध्वजः
स च प्रासादमुख्यो यो जाम्बवत्या विभूषितः
प्रभयाभ्यभवत् सर्वांस् तान् अन्यान् भास्करो यथा ॥

93.42

उद्यद्भास्करवर्णाभस् तयोर् अन्तरमाश्रितः
विश्वकर्मकृतो दिव्यः कैलासशिखरोपमः ॥

93.43

जाम्बूनद इवादीप्तः प्रदीप्तज्वलनोपमः
सागरप्रतिमस् तिष्ठन् मेरुर् इत्य् अभिविश्रुतः ॥

93.44

तस्मिन् गान्धारराजस्य दुहिता कुलशालिनी
गान्धारी भरतश्रेष्ठ केशवेन निवेशिता ॥

93.45

पद्मकूटम् इति ख्यातं पद्म्वर्णं महाप्रभम्
सुभीमाया महाकूटं वासं सुपरमार्चितम् ॥

93.46

सूर्यप्रभस् तु प्रासादः सर्वकामगुणैर् युतः
लक्ष्मणायाः कुरुश्रेष्ठ निर्दिष्टः शार्ङ्गधन्वना ॥

93.47

वैदूर्यमणिवर्णाभः प्रासादो हरितप्रभः
यं विदुः सर्वभूतानि परम् इत्य् एव भारत ॥

93.48

वासं तं मित्रविन्दाया देवर्षिगणपूजितम्
महिष्या वासुदेवस्य भूषणं तेषु वेश्मसु ॥

93.49

यस् तु प्रासादमुख्यो ऽत्र विहितो विश्वकर्मणा
अतीव सौम्यः सो ऽप्य् आसीद् विष्ठितः पर्वतो यथा ॥

93.50

सुदत्ताया निवासं तं प्रशस्तं सर्वदैवतैः
महिष्या वासुदेवस्य केतुमान् इति विश्रुतः ॥

93.51

तत्र प्रासादमुख्यो वै यं त्वष्टा विदधे स्वयम्
योजनायतविष्कम्भः सर्वरत्नमयः शुभः ॥

93.52

स श्रीमान् विरजो नाम व्यराजत् तत्र सुप्रभः
उपस्थानगृहं यत्र केशवस्य महात्मनः ॥

93.53

तस्मिन् सुविहिताः सर्वे रुक्मदण्डाः पताकिनः
सदने वासुदेवस्य मार्गसंजवनध्वजाः
रत्नजालानि तत्रैव तत्र तत्र निवेशिताः ॥

93.54

आहृत्य यदुसिंहेन वैजयन्तो ऽचलो महान्
हंसकूटस्य यच्छृङ्गम् इन्द्रद्युम्नसरः प्रति
षष्टितालसमुत्सेधम् अर्धयोजनम् आयतम् ॥

93.55

सकिंनरमहानागं तद् अप्य् अमिततेजसा
पश्यतां सर्वभूतानाम् आनीतं लोकविश्रुतम् ॥

93.56

आदित्यपथगं यत् तु मेरोः शिखरम् उत्तमम्
जाम्बूनदमयं दिव्यं त्रिषु लोकेषु विश्रुतम्
तद् अप्य् उत्पाट्य कृष्णार्थम् आनीतं विश्वकर्मणा ॥

93.57

भ्राजमानम् अतीवोग्रं सर्वौषधिविभूषितम्
तद् इन्द्रवचनात् त्वष्टा आनयत् कार्यहेतुना
पारिजातस् तु तत्रैव केशवेनाहृतः स्वयम् ॥

93.58

नीयमाने हि तत्रासीद् युद्धम् अद्भुतकर्मणः
कृष्णस्य यो ऽभ्यरक्षंस् तं देवाः पादपम् उत्तमम्
पुण्डरीकशतैर् जुष्टं विमानैश् च हिरण्मयैः ॥

93.59

विहिता वासुदेवार्थं ब्रह्मस्थलमहाद्रुमाः
पद्माकुलजलोपेता रत्नसौगन्धिकोत्पलाः
मणिहेमप्लवाकीर्णाः पुष्करिण्यः सरांसि च ॥

93.60

तासां परमकूलानि शोभयन्ति महाद्रुमाः
सालास् तालाः कदम्बाश् च शतशाखाश् च रोहिणाः ॥

93.61

ये च हैमवता वृक्षा ये च मेरुरुहास् तथा
आहृत्य यदुसिंहार्थं विहिता विश्वकर्मणा ॥

93.62

रक्तपीतारुणप्रख्याः श्वेतपुष्पाश् च पादपाः
सर्वर्तुफलसंपन्नास् तेषु काननसंधिषु ॥

93.63

समाकुलजलोपेताः पीतशर्करवालुकाः
तस्मिन् पुरवरे नद्यः प्रसन्नसलिला ह्रदाः ॥

93.64

पुष्पाकुलजलोपेता नानाद्रुमलताकुलाः
अपराश् चाभवन् नद्यो हेमशर्करवालुकाः ॥

93.65

मत्तबर्हिणसंघैश् च कोकिलैश् च सदामदैः
बहूवुः परमोपेतास् तस्यां पुर्यां तु पादपाः ॥

93.66

तत्रैव गजयूथानि पुरे गोमहिषास् तथा
निवासश् च कृतस् तत्र वराहमृगपक्षिणाम् ॥

93.67

पुर्यां तस्यां तु रम्यायां प्राकारो वै हिरण्मयः
व्यक्तं किष्कुशतोत्सेधो विहितो विश्वकर्मणा ॥

93.68

तेन ते च महाशैलाः सरितश् च सरांसि च
परिक्षिप्तानि भौमेन वनान्य् उपवनानि च ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc