भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 92

92.1

निहत्य नरकं भौमं वासवोपमविक्रमः
वासवावरजो विष्णुर् ददर्श नरकालयम् ॥

92.2

अथार्थगृहम् आसाद्य नरकस्य जनार्दनः
ददर्श धनम् अक्षय्यं रत्नानि विविधानि च ॥

92.3

मणिमुक्ताप्रवालानि वैदूर्यस्य च संचयान्
महारजतकूटानि तथा वज्रस्य संचयान् ॥

92.4

जाम्बूनदमयान्य् अत्र शातकुम्भमयानि च
प्रदीप्तज्वलनाभानि च शीतरश्मिप्रभाणि च
शयनानि महार्हाणि तथा सिंहासनानि च ॥

92.5

हिरण्यवर्णं रुचिरं शीतरश्मिसमप्रभम्
ददर्श च महच् छत्रं वर्षमाणम् इवाम्बुदम् ॥

92.6

जातरूपस्य शुभ्रस्य धाराः शतसहस्रशः
वरुणाद् आहृतं पूर्वं नरकेणेति नः श्रुतम् ॥

92.7

यादृशं तु गृहे दृष्टं नरकस्य धनं बहु
न वै राज्ञा कुबेरेण न शक्रेण यमेन च
रत्नसंनिच्यस् तादृग् दृष्टपूर्वो न च श्रुतः ॥

92.8

हते भौमे निसुन्दे च हयग्रीवे च दानवे
उपनिन्युस् ततस् तानि रत्नान्य् अन्तःपुराणि च ॥

92.9

दानवा हतशिष्टा ये कोशसंचयरक्षिणः
केशवाय महार्हाणि यान्य् अर्हति जनार्दनः ॥

92.10

इमानि मणिरत्नानि विविधानि वसूनि च
भीमरूपाश् च मातङ्गाः प्रवालविकृताङ्कुशाः ॥

92.11

हेमसूत्रमहाकक्ष्याश् चापतोमरशालिनः
रुचिराभिः पताकाभिर् वसाना विविधाः कुथाः ॥

92.12

ते च विंशतिसाहस्रा द्विस्तावत्यः करेणवः
अष्टौ शतसहस्राणि देशजाश् चोत्तमा हयाः ॥

92.13

गोषु चापि कृतो यावत् कामस् तव जनार्दनः
तावतीः प्रापयिष्यामो वृष्ण्यन्धकनिवेशनम् ॥

92.14

आविकानि च सूक्ष्माणि शयनान्य् आसनानि च
कामव्याहारिणश् चैव पक्षिणः प्रियदर्शनाः ॥

92.15

चन्दनागरुकाष्ठानि तथा कालीयकान्य् अपि
वसु यत् त्रिषु लोकेषु धर्मेणाधिगतं त्वया
प्रापयिष्याम तत् सर्वं वृष्ण्यन्धकनिवेशनम् ॥

92.16

देवगन्धर्वरत्नानि पन्नगानां च यद् वसु
तानि सन्तीह सर्वाणि नरकस्य निवेशने ॥

92.17

स तत् सर्वं हृषीकेशः प्रतिगृह्य परीक्ष्य च
सर्वम् आहारयामास दानवैर् द्वारकां पुरीम् ॥

92.18

ततस् तद् वारुणं छत्रं स्वयम् उत्क्षिप्य माधवः
हिरण्यवर्षं वर्षन्तम् आरुरोह विहंगतम् ॥

92.19

गरुडं पततां श्रेष्ठं मूर्तिमन्तम् इवाम्बुदम्
ततो ऽभ्ययाद् गिरिश्रेष्ठम् अभितो मणिपर्वतम् ॥

92.20

तत्र पुण्या ववुर् वाता ह्य् अभवंश् चामलाः प्रभाः
मणीनां हेमवर्णानाम् अभिभूय दिवाकरम् ॥

92.21

तत्र वैदूर्यवर्णानि ददर्श मधुसूदनः
सतोरणपताकानि द्वाराणि शयनानि च ॥

92.22

विद्युद्ग्रथितमेघाभः प्रबभौ मणिपर्वतः
हेमचित्रविमानैश् च प्रासादैर् उपशोभितः ॥

92.23

तत्र ता वरहेमाभा ददर्श मधुसूदनः
गन्धर्वासुरमुख्यानां प्रिया दुहितरस् तथा ॥

92.24

ददर्श पृथुलश्रोणीः संरुद्धा गिरिकन्दरे
नरकेण समानीता रक्ष्यमाणाः समन्ततः ॥

92.25

त्रिविष्टपसमे देशे तिष्ठन्तम् अपराजितम्
निवसन्त्यो यथा देव्यः सुखिन्यः कामवर्जिताः ॥

92.26

परिवव्रुर् महाबाहुम् एकवेणीधराः स्त्रियः
सर्वाः काषायवासिन्यः सर्वाश् च नियतेन्द्रियाः ॥

92.27

व्रतोपवासतन्वङ्ग्यः काङ्क्षन्त्यः कृष्णदर्शनम्
समेत्य यदुसिंहस्य सर्वाश् चक्रुः स्त्रियो ऽञ्जलीन् ॥

92.28

नरकं निहतं ज्ञात्वा मुरं चैव महासुरम्
हयग्रीवं निसुन्दं च ताः कृष्णं पर्यवारयन् ॥

92.29

ते चासां रक्षिणो वृद्धा दानवा यदुनन्दनम्
कृताञ्जलिपुटाः सर्वे प्रणिपेतुर् वयोधिकाः ॥

92.30

तासां परमनारीणाम् ऋषभाक्षं निरीक्ष्य तम्
सर्वासाम् एव संकल्पः पतित्वेनाभवत् ततः ॥

92.31

तस्य चन्द्रोपमं वक्त्रम् उदीक्ष्य नियतेन्द्रियाः
संप्रहृष्टा महाबाहुम् इदं वचनम् अब्रुवन् ॥

92.32

सत्यं बत पुरा वायुर् इहास्मान् वाक्यम् अब्रवीत्
सर्वभूतरुतज्ञश् च देवर्षिर् अपि नारदः ॥

92.33

विष्णुर् नारायणो देवः शङ्खचक्रगदासिभृत्
स भौमं नरकं हत्वा भर्ता च भविता हि सः ॥

92.34

सुप्रियं बत पश्यामश् चिरश्रुतम् अरिंदमम्
दर्शनेन कृतार्था हि वयम् अद्य महात्मनः ॥

92.35

ततस् ताः सान्त्वयामास प्रमदा वासवानुजः
सर्वाः कमलपत्राक्षीर् दृष्ट्या वाचा च माधवः ॥

92.36

यथार्हतः सान्त्वयित्वा समाभाष्य च केशवः
यानैः किंकरसंयुक्तैर् उवाह मधुसूदनः ॥

92.37

किंकराणां सहस्राणां रक्षसां वातरंहसाम्
शिबिकां वहतां तत्र निर्घोषः सुमहान् अभूत् ॥

92.38

तस्य पर्वतमुख्यस्य शृङ्गं यत् परमार्चितम्
विमलार्केन्दुसंकाशं मणिकाञ्चनतोरणम् ॥

92.39

सपक्षिगणमातङ्गं सव्यालमृगपन्नगम्
शाखामृगगणैर् जुष्टं सुप्रस्तरशिलातलम् ॥

92.40

न्यङ्कुभिश् च वराहैश् च रुरुभिश् च निषेवितम्
सप्रपातमहासानुं विचित्रशिखरद्रुमम् ॥

92.41

अत्यद्भुतम् अचिन्त्यं च मृगवृन्दविलोडितम्
जीवंजीवकसंघैश् च बर्हिभिश् च निनादितम् ॥

92.42

तद् अप्य् अतिबलो विष्णुर् दोर्भ्याम् उत्पाट्य भास्वरम्
आरोपयामास तदा गरुडे पक्षिणां वरे ॥

92.43

मणिपर्वतशृङ्गं च सभार्यं च जनार्दनम्
उवाह लीलया पक्षी गरुडः पततां वरः ॥

92.44

स पक्षबलविक्षेपैर् महाद्रिशिखरोपमः
दिक्षु सर्वासु संह्रादं जनयामास पक्षिराट् ॥

92.45

आरुजन् पर्वताग्राणि पादपांश् च समाक्षिपन्
संजहार महाभ्राणि विजहार च कानिचित् ॥

92.46

विषयं समतिक्रम्य देवयोश् चन्द्रसूर्ययोः
ययौ वातजवः पक्षी जनार्दनवशे स्थितः ॥

92.47

स मेरुगिरिम् आसाद्य देवगन्धर्वसेवितम्
देवसद्मानि सर्वाणि ददर्श मधुसूदनः ॥

92.48

विश्वेषां मरुतां चैव साध्यानां च नराधिप
भ्राजमानान्य् अतिक्रामद् अश्विनोश् च परंतपः ॥

92.49

प्राप्य पुण्यकृतां लोकान् देवलोकम् अरिंदमः
शक्रसद्म समासाद्य प्रविवेश जनार्दनः ॥

92.50

अवतीर्य स तार्क्ष्यात् तु ददर्श विबुधाधिपम्
प्रीतश् चैवाभ्यनन्दत् तं देवराजः शतक्रतुः ॥

92.51

प्रदाय कुण्डले दिव्ये ववन्दे तं तदाच्युतः
सभार्यो विबुधश्रेष्ठं नरश्रेष्ठो जनार्दनः ॥

92.52

सो ऽर्चितो देवराजेन रत्नैश् च प्रतिपूजितः
सत्यभामा च पौलोम्या यथावद् अभिनन्दिता ॥

92.53

वासवो वासुदेवश् च सहितौ जग्मतुस् ततः
अदित्या भवनं पुण्यं देवमातुर् महर्द्धिमत् ॥

92.54

तत्रादितिम् उपास्यन्तीम् अप्सरोभिः समन्ततः
ददृशाते महात्मानौ महाभागां तपोन्विताम् ॥

92.55

ततस् ते कुण्डले दत्त्वा ववन्दे तां शचीपतिः
जनार्दनं पुरस्कृत्य कम चैव शशंश तत् ॥

92.56

अदितिस् तौ सुतौ प्रीत्या परिष्वज्याभिनन्द्य च
आशिर्भिर् अनुरूपाभिर् उभाव् अभ्यवदत् तदा ॥

92.57

पौलोमी सत्यभामा च प्रीत्या परमया युते
अगृह्णीतां वरार्हाया देव्याश् च चरणौ शुभौ ॥

92.58

ते चाप्य् अभ्यवदत् प्रेम्णा देवमाता यशस्विनी
यथावद् अब्रवीच् चैव जनार्दनम् इदं वचः ॥

92.59

अधृस्यः सर्वभूतानाम् अवध्यश् च भविष्यसि
यथैव देवराजो ऽयम् अजितो लोकपूजितः ॥

92.60

सत्यभामोत्तमा स्त्रीणां सुभगा स्थिरयौवना
जरां न यास्यति वधूर् यावत् त्वं कृष्ण मानुषः ॥

92.61

एवम् अभ्यार्चितः कृष्णो देवमात्रा महाबलः
देवराजाभ्यनुज्ञातो रत्नैश् च प्रतिपूजितः ॥

92.62

वैनतेयं समारुह्य सहितः सत्यभामया
देवाक्रीडान् परिक्रामन् पूज्यमानः सुरर्षिभिः ॥

92.63

स ददर्श महाबाहुर् आक्रीडे वासवस्य ह
दिव्यम् अभ्यर्चितं चैत्यं पारिजातं महाद्रुमम् ॥

92.64

नित्यपुष्पधरं दिव्यं पुण्यगन्धम् अनुत्तमम्
यम् आसाद्य जनः सर्वो जातिं स्मरति पौर्विकीम् ॥

92.65

संरक्ष्यमाणं देवैस् तं प्रसह्यामितविक्रमः
उत्पाट्यारोपयामास विष्णुस् तं वै महाद्रुमम् ॥

92.66

सो ऽपश्यत् सत्यभामां च दिव्याम् अप्सरसं हरिः
पृष्ठतः सत्यभामा च दिव्या योषाभिवीक्षिता ।
ततः प्रायाद् द्वारवतीं वायुजुष्टेन वै पथा ॥

92.67

श्रुत्वा तद् देवराजस् तु कर्म कृष्णस्य वै तदा
अनुमेने महाबाहुः कृतं कर्मेति चाब्रवीत् ॥

92.68

स पूज्यमानस् त्रिदशैर् महर्षिगणसंस्तुतः
प्रतस्थे द्वारकां कृष्णो देवलोकाद् अरिंदमः ॥

92.69

सो ऽभिपत्य महाबाहुर् दीर्घम् अध्वानम् अल्पवत्
आससाद महाबाहुः पुरीं द्वारवतीं तदा ।
पूजितो देवराजेन ददृशे यादवीं पुरीम् ॥

92.70

तथा कर्म महत् कृत्वा भगवान् वासवानुजः
उपायाद् द्वारकां विष्णुः श्रीमान् गरुडवाहनः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc