भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 94

94.1

एवम् आलोकयाम् आस द्वारकां वृषभेक्षणः
अपश्यत् स्वगृहं कृष्णः प्रासादशतशोभितम् ॥

94.2

मणिस्तम्भसहस्राणाम् अयुतैर् विधृतं सितम्
तोरणैर् ज्वलनप्रख्यैर् मणिविद्रुमराजतैः
तत्र तत्र प्रभासद्भिश् चित्रकाञ्चनवेदिकैः ॥

94.3

प्रासादस् तत्र सुमहान् कृष्णोपस्थानिको ऽभवत्
स्फाटिकस्तम्भविधृतो विस्तीर्णः सर्वकाञ्चनः ॥

94.4

पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः
मणिहेमनिभाश् चित्रा रत्नसोपानभूषिताः ॥

94.5

मत्तबर्हिणसंघैश् च कोकिलैश् च सदामदैः
बभूवुः परमोपेता वाप्यश् च विकचोत्पलाः ॥

94.6

विश्वकर्मकृतः शैलः प्राकारस् तस्य वेश्मनः
व्यक्तकिष्कुशतोत्सेधः परिखायूथवेष्टितः ॥

94.7

तद् गृहं वृष्णिसिंहस्य निर्मितं विश्वकर्मणा
महेन्द्रवेश्मप्रतिमं समन्ताद् अर्धयोजनम् ॥

94.8

ततस् तं पाण्डुरं शौरिर् मूर्ध्नि तिष्ठन् गरुत्मतः
प्रीतः शङ्खम् उपाध्मासीद् द्विषतां लोमहर्षणम् ॥

94.9

तस्य शङ्खस्य शब्देन सागरश् चुक्षुभे भृशम्
ररास च नभः कृत्स्नं तच् चित्रम् अभचत् तदा ॥

94.10

पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः
विशोकाः समपद्यन्त गरुडस्य च दर्शनात् ॥

94.11

शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम्
दृष्ट्वा जहृषिरे भौमा भास्करोपमतेजसम् ॥

94.12

ततस् तूर्यप्रणादश् च भेरीणां च महास्वनः
सिंहनादश् च संजज्ञे सर्वेषां पुरवासिनाम् ॥

94.13

ततः सर्वे दशार्हाश् च सर्वे च कुकुरान्धकाः
प्रीयमाणाः समाजग्मुर् आलोक्य मधुसूदनम् ॥

94.14

वसुदेवं पुरस्कृत्य भेरीशङ्खरवैः सह
उग्रसेनो ययौ राजा वासुदेवनिवेशनम् ॥

94.15

अनन्दिनी पर्यचरत् स्वेषु वेश्मसु देवकी
रोहिणी च यथोद्देशम् आहुकस्य च याः स्त्रियः ॥

94.16

ततः कृष्णः सुपर्णेन स्वं निवेशनम् अभ्ययात्
चचार च यथोद्देशम् ईश्वरानुचरो हरिः ॥

94.17

अवतीर्य गृहद्वारि कृष्णस् तु यदुनन्दनः
यथार्हं पूजयाम् आस यादवान् यादवर्षभः ॥

94.18

रामाहुकगदाक्रूर प्रद्युम्नादिभिर् अर्चितः
प्रविवेश गृहं शौरिर् आदाय मणिपर्वतम् ॥

94.19

तं च शक्रस्य दयितं पारिजातं महाद्रुमम्
प्रवेशयाम् आस गृहं प्रद्युम्नो रुक्मिणीसुतः ॥

94.20

ते ऽन्योन्यं ददृशुर् भौमा देहबन्धान् अमानुषान्
पारिजातप्रभावेन ततो मुमुदिरे जनाः ॥

94.21

तैः स्तूयमानो गोविन्दः प्रहृष्टैर् यादवेश्वरैः
प्रविवेश गृहं श्रीमान् विहितं विश्वकर्मणा ॥

94.22

ततो ऽन्तःपुरमध्ये तच् छिखरं मणिपर्वतम्
न्यवेशयद् अमेयात्मा वृष्णिभिः सहितो ऽच्युतः ॥

94.23

तं च दिव्यं द्रुमश्रेष्ठं पारिजातम् अमित्रजित्
अर्च्यम् अर्चितम् अव्यग्रम् इष्टे देशे न्यवेशयत् ॥

94.24

अनुज्ञाय ततो ज्ञातीन् केशवः परवीरहा
ताः स्त्रियः पूजयाम् आस संक्षिप्ता नरकेण याः ॥

94.25

वस्त्रैर् आभरणैर् भोगैर् दासीभिर् धनसंचयैः
हारैश् चन्द्रांशुसंकाशैर् मणिभिश् च महाप्रभैः ॥

94.26

पूर्वम् अभ्यर्चिताश् चैव वसुदेवेन ताः स्त्रियः
वेदक्या सह रोहिण्या रेवत्या चाहुकेन च ॥

94.27

सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत् तदा
कुटुम्बस्येश्वरी त्व् आसीद् रुक्मिणी भीष्मकात्मजा ॥

94.28

तासां यथार्हं हर्म्याणि प्रासादशिखराणि च
आदिदेश गृहान् कृष्णः परिबर्हांश् च पुष्कलान् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc