भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 91

91.1

प्रत्येत्य द्वारकां विष्णुर् हते रुक्मिणि वीर्यवान्
अकरोद् यन् महाबाहुस् तन् मे वद महामुने ॥

91.2

स तैर् वृतः पुरीं गत्वा सर्वयादवनन्दनः
द्वारकां भगवान् विष्णुः प्रत्यवैक्षत वीर्यवान् ॥

91.3

प्रत्यपद्यत रत्नानि विविधानि वसूनि च
यथार्हं पुण्डरीकाक्षो नैरृतान् प्रत्यपादयत् ॥

91.4

तत्र विघ्नं चरन्ति स्म दैतेयाः सह दानवैः
ताञ् जघान महाबाहुर् वरदत्तान् महासुरान् ॥

91.5

विघ्नं तत्राकरोत् तस्य नरको नाम दानवः
त्रासनः सुरसंघानां देवराजरिपुर् महान् ॥

91.6

स बभौ मूर्तिलिङ्गस्थः सर्वदैवतबाधिता
ऋषीणां मानुषाणां च प्रतीपम् अकरोत् तदा ॥

91.7

त्वष्टुर् दुहितरं भौमः कशेरुम् अगमत् तदा
गजरूपेण जग्राह रुचिराङ्गीं चतुर्दशीम् ॥

91.8

प्रमथ्य च वरारोहां नरको वाक्यम् अब्रवीत्
नष्टशोकभयो मोहात् प्राग्ज्योतिषपतिस् तदा ॥

91.9

यानि देवमनुष्येषु रत्नानि विविधानि च
बिभर्ति च मही कृत्स्ना सागरेषु च यद् वसु ॥

91.10

अद्य प्रभृति तानीह सहिताः सर्वनैरृताः
ममैवोपहरिष्यन्ति दैत्याश् च सह दानवैः ॥

91.11

एवम् उत्तमरत्नानि वस्त्राणि विविधानि च
संजहार तदा भौमस् तच् च नाधिचचार सः ॥

91.12

गन्धर्वाणां च याः कन्या जहार नरको बली
याश् च देवमनुष्याणां सप्त चाप्सरसां गणाः ॥

91.13

चतुर्दश सहस्राणि एकविंशच्छतानि च
एकवेणीधराः सर्वाः सतां मार्गम् अनुव्रताः ॥

91.14

तासां पुरवरं भौमो ऽकारयन् मणिपर्वतम्
अलकायाम् अदीनात्मा मुरस्य विषयं प्रति ॥

91.15

ताश् च प्राग्ज्योतिषपतिर् मुरोश् चैव दशात्मजाः
नैरृताश् च यथामुख्याः पालयन्त उपासते ॥

91.16

स एष तमसः पारे वरदत्तो महासुरः
अदितिं धर्षयाम् आस कुण्डलार्थे महासुरः ॥

91.17

न चासुरगणैः सर्वैः सहितैः कर्म तत् पुरा
कृतपूर्वं तदा घोरं यद् अकार्षीन् महासुरः ॥

91.18

यं मही सुषुवे देवी यस्य प्राग्ज्योतिषं पुरम्
तस्यान्तपालाश् चत्वारस् तस्यासन् युद्धदुर्मदाः ॥

91.19

हयग्रीवो निसुन्दश् च वीरः पञ्चजनस् तथा
मुरुः पुत्रसहस्रैश् च वरदत्तो महासुरः ॥

91.20

आदेवयानम् आवृत्य पन्थानं समवस्थितः
वित्रासनः सुकृतिनां विरूपै राक्षसैः सह ॥

91.21

तद्वधार्थं महाबाहुः शङ्खचक्रगदासिभृत्
जातो वृष्णिषु देवक्यां वसुदेवाज् जनार्दनः ॥

91.22

तस्याथ पुरुषेन्द्रस्य लोके प्रथिततेजसः
निवासो धारका देवैर् उपायाद् उपपादिता ॥

91.23

अतीव हि पुरी रम्या द्वारका वासवक्षयात्
महार्णवपरिक्षिप्ता पञ्चपर्वतशोभिता ॥

91.24

तस्यां देवपुराभायां सभा काञ्चनतोरणा
सुदाशार्हीति विख्याता योजनायुतविस्तृता ॥

91.25

तत्र वृष्ण्यन्धकाः सर्वे रामकृष्णपुरोगमाः
लोकयात्राम् इमां कृत्स्नां परिरक्षन्त आसते ॥

91.26

तत्रासीनेषु सर्वेषु कदाचिद् भरतर्षभ
दिव्यगन्धो ववौ वायुः पुष्पवर्षं पपात ह ॥

91.27

ततः किलकिलाशब्दः प्रभाजालाभिसंवृतः
मुहूर्तम् अन्तरिक्षे ऽभूत् ततो भूमौ प्रतिष्ठितः ॥

91.28

मध्ये तु तेजसस् तस्य पाण्डुरं गजम् आस्थितः
वृतो देवगणैः सर्वैर् वासवः प्रत्यदृश्यत ॥

91.29

रामकृष्णै च राजा च वृष्ण्यन्धकगणैः सह
प्रत्युद्ययुर् महात्मानं पूजयन्तः सुरेश्वरम् ॥

91.30

सो ऽवतीर्य गजात् तूर्णं परिष्वज्य जनार्दनम्
सस्वजे बलदेवं च तं च राजानम् आहुकम्
प्रद्युम्नम् अथ देवेशस् तत्पुत्रं च महाद्युतिम् ।
वृष्णीन् अन्यान् सस्वजे च यथा स्थानं यथा वयः ॥

91.31

पूजितो रामकृष्णाभ्याम् आविवेश सभां शुभाम्
तत्रासनम् अलंकृत्य सभाम् तां स सुरेश्वरः
अर्घ्यादिसमुदाचारं प्रत्यगृह्णाद् यथाविधि ॥

91.32

अथोवाच महातेजा वासवो वासवानुजं
सान्त्वपूर्वं करेणास्य संस्पृषन् वदनं शुभम् ॥

91.33

देवकीनन्दन वचः शृणु मे मधुसूदन
येन त्वाभिगतो ऽस्म्य् अद्य कार्येणामित्रकर्शन ॥

91.34

नैरृतो नरको नाम ब्रह्मणो वरदर्पितः
बाधते नो हृषीकेश लोकपालान् समन्ततः ।
स्वर्गश्रेणिं विहायाशु निर्गताः स्म वयं दिशः ।
अदित्याः कुण्डले मोहाज् जहार दितिनन्दनः ॥

91.35

देवानां विप्रिये नित्यम् ऋषीणां च स वर्तते
नाहं शक्नोमि तं जेतुं तस्मात् त्वां शरणं गतः ।
तव चैवान्तरप्रेक्षी जहि तं पापपूरुषम् ॥

91.36

अयं त्वां गरुडस् तत्र प्रापयिष्यति कामगः
कामवीर्यो ऽतितेजस्वी वैनतेयो ऽन्तरिक्षगः ॥

91.37

अवध्यः सर्वभूतानां भौमः स नरको ऽसुरः
निषूदयित्वा तं पापं क्षिप्रम् आगन्तुम् अर्हसि ॥

91.38

इत्य् उक्तः पुण्डरीकाक्षो देवराजेन केशवः
प्रतिजज्ञे महाबाहुर् नरकस्य निबर्हणम् ॥

91.39

ततः सहैव शक्रेण शङ्खचक्रगदासिभृत्
नरकस्य वधार्थाय ययौ वै स हि केशवः ।
प्रतस्थे गरुडेनाथ सत्यभामासहायवान् ॥

91.40

क्रमेण सप्त स्कन्धान् स मरुतां सहवासवः
पश्यतां यदुसिंहानाम् ऊर्ध्वम् आचक्रमे बली ॥

91.41

वारणेन्द्रगतः शक्रो गरुडस्थो जनार्दनः
विदूरस्थौ प्रकाशेते सूर्याचन्द्रमसाव् इव ॥

91.42

अथान्तरिक्षे गन्धर्वैर् अप्सरोभिश् च माधवः
स्तूयमानो यथा शक्रः क्रमेणान्तरधीयत ॥

91.43

समाधायेतिकर्तव्यं वासवो विबुधाधिपः
स्वम् एव भवनं प्रायात् कृष्णः प्राग्ज्योतिषं ययौ ॥

91.44

सो ऽग्र्यान् रक्षोगणान् हत्वा नरकस्य महाबलान्
प्रदध्मौ देवदेवेशः पाञ्चजन्यं महास्वनम् ।
क्षुरान्तान् मौरवान् पाशान् षट्सहस्रान् ददर्श ह ॥

91.45

संछिद्य पाशान् सर्वांस् तान् मुरं हत्वा सहान्वयम्
शिलासंघान् अतिक्रम्य निसुन्दम् अवपोथयत्
... भगवान् देवकीसुतः ।
अपश्यद् दानवं सैन्यं ... ।
हयग्रीवं च दितिजं तथान्यांश् चित्रयोधिनः ।
रोधयाम् आस तन् मार्गं स्वसैन्येन महाबलः ॥
निसुन्दो बलिनां श्रेष्ठो रथम् आरुह्य सत्वरम् ।
जग्राह कार्मुकं दिव्यं हेमपृष्ठं दुरासदम् ॥
विव्याध दशभिर् बाणैर् निसुन्दो मधुसूदनम् ।
केशवश् चापि सप्तत्या विव्याध निशितैः शरैः ।
अप्राप्तांश् चान्तरिक्षे ताञ् शरांश् चिच्छेद माधवः ॥
ते सर्वे सैनिकाः कृष्णं समन्तात् पर्यवारयन् ।
शरजालेन महता छाद्यमानः सुरोत्तमः ॥
दृष्ट्वा तान् दानवान् सर्वान् सक्रोधो मधुसूदनः ।
ततो दिव्येन चास्त्रेण पार्जन्येन जनार्दनः ।
महता शरवर्षेण वारयाम् आस तद् बलम् ॥
पञ्चपञ्चशरैस् तेषु एकैकेन च तान् बहून् ।
पार्जन्यस्य प्रभावेण सर्वान् मर्मस्व् अताडयत् ।
दुद्रुवुर् भयसंत्रस्ता भग्नास् ते दानवा रणे ॥
स्वसैन्यं विद्रुतं दृष्ट्वा निश्चक्राम पुनर् मृधे ।
विसृजञ् शरवर्षाणि छादयाम् आस केशवम् ॥
न विभाति रणे सूर्यो नापि व्योम दिशो दश ।
शरैः संछादयाम् आस निसुन्दो गरुडध्वजम् ॥
सावित्रं नाम दिव्यास्त्रं जग्राह पुरुषोत्तमः ।
तेन बाणेन तान् बाणांश् चिच्छेद समरे हरिः ॥
बाणैर् बाणांस् तु संछिद्य तस्य कृष्णो महाबलः ।
छत्रम् एकेन बाणेन रथेषां च त्रिभिः शरैः ।
पुनश् चिच्छेद तान् अश्वांश् चतुर्भिश् चतुरः शरैः ॥
सारथिं पञ्चभिर् बाणैर् ध्वजम् एकेन चिच्छिदे ।
शरैकेन पुनः कृष्णः सुतीक्ष्णेन शितेन वै ।
शिरश् चिच्छेद भल्लेन निसुन्दस्य सुरोत्तमः ॥
स ममार महादैत्यः पपात च महीतले ।
निसुन्दं तु गदापाणिम् आपतन्तं रणाजिरे ॥
ततः शार्ङ्गविनिर्मुक्तैः शरैर् विव्याध केशवः ।
निसुन्दो ऽपि महाराज गदयापोथयद्द् हरिम् ॥
सत्यभामा ततः क्रुद्धा गदया बाहुमुक्तया ।
प्राहरद् दानवेन्द्रं तं केशवस्यैव पश्यतः ॥
ततस् तुष्टो हृषीकेशः सत्यभामाम् उदैक्षत ।
स तया गदया विद्ध उद्वमञ् शोणितं बहु ।
मुह्यन् संज्ञाम् अवाप्याथ निसुन्दस् त्व् अभ्यधावत ।
ततः क्रुद्धो हृषीकेशस् तं जघान शिलीमुखैः ।
यः सहस्रसमास् त्व् एकः सर्वान् देवान् अपोथयत् ॥

91.46

यथा देवासुरं युद्धम् अभवद् भरतर्षभ
नानाप्रहरणाकीर्णं तथा घोरम् अवर्तत ॥

91.47

ततः शार्ङ्गविनिर्मुक्तैर् नानावर्णैर् महाशरैः
गरुडस्थो महाबाहुर् निजघान महासुरान् ॥

91.48

महालाङ्गलनिर्भिन्नाः शरखङ्गनिपातिताः
विनेशुर् दानवास् तत्र समासाद्य जनार्दनम् ॥

91.49

केचिच् चक्राग्निनिर्दग्धा दानवाः पेतुर् अम्बरात्
संनिकर्षगताः केचिद् गतासुविकृताननाः ॥

91.50

तं जघान महाघोरं हयग्रीवं महासुरम्
अपारतेजा दुर्धर्षः सर्वयादवनन्दनः ॥

91.51

मध्ये लोहितगङ्गस्य भगवान् देवकीसुतः
अलकायां विरूपाक्षं पाप्मानं पुरुषोत्तमः ॥

91.52

अष्टौ शतसहस्राणि दानवानां परंतपः
निहत्य पुरुषव्याघ्रः प्राग्ज्योतिषम् उपाद्रवत्
बाह्यप्राकारमध्ये तु जघान पुरुषोत्तमः ।
भगवञ् श्रोतुम् इच्छामि विस्तरेण कथाम् इमाम् ।
अवधीन् नरकं कृष्णः कथं वद तपोधन ।
तं च पञ्चजनं घोरं नरकस्य महासुरम् ॥

91.53

ततः प्राग्ज्योतिषं नाम दीप्यमानम् इव श्रिया
पुरम् आसादयाम् आस तत्र युद्धम् अभून् महत् ॥

91.54

तत्रासीन् नरकेणास्य युद्धं परमदारुणम्
यत् समासेन वक्ष्यामि तन् मे निगदतः शृणु ॥

91.55

त्रासनः सुरसंघानां नरकः पुरुषोत्तमम्
योधयाम् आस तेजस्वी मधुवन्मधुसूदनम् ॥

91.56

मुहूर्तं योधयाम् आस नरकं मधुसूदनः
अथोग्रचक्रश् चक्रेण प्रदीप्तेनाकरोद् द्विधा ॥

91.57

चक्रद्विधाकृतं तस्य शरीरम् अपतद् भुवि
विभक्तं क्रकचेनेव गिरेः शृङ्गं द्विधा कृतम् ॥

91.58

भूमिस् तु पतितं पुत्रं निरीक्ष्यादाय कुण्डले
उपातिष्ठत गोविन्दं वचनं चेदम् अब्रवीत् ॥

91.59

दत्तस् त्वयैव गोविन्द त्वयैव विनिपातितः
यथेच्छसि तथा क्रीड बालः क्रीडनकैर् इव ।
इमे ते कुण्डले देव प्रजास् तस्यानुपालय ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc