भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 90

90.1

भूय एव तु विप्रर्षे बलदेवस्य धीमतः
माहात्म्यं श्रोतुम् इच्छामि शेषस्य धरणीभृतः ॥

90.2

अतीव बलवन्तं हि तेजोराशिम् अनिर्जितम्
कथयन्ति महात्मानं ये पुराणविदो जनाः ॥

90.3

तस्य कर्माण्य् अहं विप्र श्रोतुम् इच्छामि तत्त्वतः
अनन्तं यं विदुर् नागम् आदिदेवं महौजसम् ॥

90.4

पुराणे नागराजो ऽसौ पठ्यते धरणीधरः
शेषस् तेजोनिधिः श्रीमान् अकम्प्यः पुरुषोत्तमः ॥

90.5

योगाचार्यो महावीर्यः सुबलो बलवान् बली
जरासंधं गदायुद्धे जितवान् यो न चावधीत् ॥

90.6

बहवश् चैव राजानः पार्थिवाः पृथिवीपते
अन्वयुर् मागधं संख्ये ते चापि विजिता रणे ॥

90.7

नागायुतसमप्राणो भीमो भीमपराक्रमः
असकृद् बलदेवेन बाहुयुद्धे पराजितः ॥

90.8

दुर्योधनस्य कन्यां तु हरमाणो न्यगृह्यत
साम्बो जाम्बवतीपुत्रो नगरे नागसाह्वये ॥

90.9

तम् उपश्रुत्य संक्रुद्ध आजगाम हलायुधः
रामस् तस्य विमोक्षार्थम् आगतो नालभच् च तम्
ततश् चुक्रोध बलवान् अद्भुतं चाकरोन् महत् ॥

90.10

अनिवार्यम् अभेद्यं च दिव्यम् अप्रतिमं बली
लाङ्गलास्त्रं समुद्यम्य ब्रह्मदण्डानुमन्त्रितम् ॥

90.11

प्राकारवप्रे विन्यस्य पुरस्य स महाबलः
प्रक्षेप्तुम् ऐच्छद् गङ्गायां नगरं कौरवस्य तत् ॥

90.12

तद् आघूर्णितम् आलक्ष्य पुरं दुर्योधनो नृपः
साम्बं निर्यातयाम् आस सभार्यं तस्य धीमतः ॥

90.13

ददौ शिष्यं तदात्मानं रामस्य सुमहात्मनः
गदायुद्धे कुरुपतिः प्रतिजग्राह तं च सः ॥

90.14

ततः प्रभृति राजेन्द्र पुरम् एतद् विघूर्णितं
आवर्जितम् इवाभाति गङ्गाम् अभिमुखं नृप ॥

90.15

इदम् अत्यद्भुतं कर्म रामस्य प्रथितं भुवि
भाण्डीरे कथ्यते राजन् यत् कृतं शौरिणा पुरा ॥

90.16

प्रलम्बं मुष्टिनैकेन यज् जघान हलायुधः
धेनुकं च महाकायं चिक्षेप नगमूर्धनि ॥

90.17

लवणजलगमा महानदी द्रुतजलवेगतरंगमालिनी
नगरम् अभिमुखा यद् आहृता हलविधृता यमुना यमस्वसा ॥

90.18

बलदेवस्य माहात्म्यम् एतत् ते कथितं मया
अनन्तस्याप्रमेयस्य शेष्यस्य सुमहात्मनः ॥

90.19

इति पुरुषवरस्य लाङ्गलेर् बहुविधम् उत्तमम् अन्यद् एव च
यद् अकथितम् इहाद्य कर्म ते तद् उपलभस्व पुराणविस्तरात् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc