हरिवंश · अध्याय 9
मनोर् वैवस्वतस्यासन् पुत्रा वै नव तत्समाः
इक्ष्वाकुश् चैव नाभागश् च धृष्णुः शर्यातिर् एव च ॥
नरिष्यन्तस् तथा प्रांशूर् नाभानेदिष्ठसप्तमः
करूषश् च पृषध्रश् च नवैते पुरुषर्षभ ॥
अकरोत् पुत्रकामस् तु मनुर् इष्टिं प्रजापतिः
मित्रावरुणयोस् तात पूर्वम् एव विशां पते
अनुत्पन्नेषु नवसु पुत्रेष्व् एतेषु भारत ॥
तस्यां तु वर्तमानायाम् इष्ट्यां भरतसत्तम
मित्रावरुणयोर् अंशे मनुर् आहुतिम् आजुहोत् ॥
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता
दिव्यसंहनना चैव इडा जज्ञ इति श्रुतिः ॥
ताम् इडेत्य् एव होवाच मनुर् दण्डधरस् तदा
अनुगच्छस्व मां भद्रे तम् इडा प्रत्युवाच ह ॥
मित्रावरुणयोर् अंशे जातास्मि वदतां वर
तयोः सकाशं यास्यामि न मां धर्मो हतो ऽहनत् ॥
सैवम् उक्त्वा मनुं देवं मित्रावरुणयोर् इडा
गत्वान्तिकं वरारोहा प्राञ्जलिर् वाक्यम् अब्रवीत्
अंशे ऽस्मि युवयोर् जाता देवौ किं करवाणि वाम् ॥
तां तथावादिनीं साध्वीम् इडां धर्मपरायणाम्
मित्रश् च वरुणश् चोभाव् ऊचतुर् यन् निबोध तत् ॥
अनेन तव धर्मेण प्रश्रयेण दमेन च
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥
आवयोस् त्वं महाभागे ख्यातिं कन्येति यास्यसि
मनोर् वंशकरः पुत्रस् त्वम् एव च भविष्यसि ॥
सुद्युम्न इति विख्यातस् त्रिषु लोकेषु शोभने
जगत्प्रियो धर्मशीलो मनोर् वंशविवर्धनः ॥
निवृत्ता सा तु तच् छ्रुत्वा गच्छन्ती पितुर् अन्तिकाम्
बुधेनान्तरम् आसाद्य मैथुनायोपवर्तिता ॥
सोमपुत्राद् बुधाद् राजंस् तस्यां जज्ञे पुरूरवाः
जनयित्वा ततः सा तम् इडा सुद्युम्नतां गता ॥
सुद्युम्नस्य तु दायादास् त्रयः परमधार्मिकाः
उत्कलश् च गयश् चैव विनताश्वश् च भारत ॥
उत्कलस्योत्तरा राजन् विनताश्वस्य पश्चिमा
दिक् पूर्वा भरतश्रेष्ठ गयस्य तु गया स्मृता ॥
प्रविष्टे तु मनौ तात दिवाकरम् अरिंदम
दशधा तद्गतं क्षत्रम् अकरोत् पृथिवीम् इमाम् ॥
इक्ष्वाकुर् ज्येष्ठदायादो मध्यदेशम् अवाप्तवान्
कन्याभावाच् च सुद्युम्नो नैनं गुणम् अवाप्तवान् ॥
वसिष्ठवचनाच् चासीत् प्रतिष्ठानं महात्मनः
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य कुरूद्वह ॥
तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः
चक्रवर्ती महाराज बभूव जनमेजय ।
सुद्युम्नः कारयाम् आस प्रतिष्ठाने नृपक्रियाम् ।
धृष्णुकश् चाम्बरीषश् च दण्डश् चेतीह ते त्रयः ।
यश् चकार महात्मा वै दण्डकारण्यम् उत्तमम् ॥
वनं तल् लोकविख्यातं तापसानाम् अनुत्तमम् ।
तत्र प्रविष्टमात्रस् तु नरः पापात् प्रमुच्यते ॥
सुद्युम्नश् च दिवं यात एडम् उत्पाद्य भारत ।
उत्कलस्य त्रयः पुत्रास् त्रिषु लोकेषु विश्रुताः ।
मानवेयो महाराज स्त्रीपुंसोर् लक्षणैर् युतः ॥
नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भारत
अम्बरीषो ऽभवत् पुत्रः पार्थिवर्षभसत्तम ॥
धृष्णोस् तु धार्ष्णिकं क्षत्रं रणदृष्टं बभूव ह
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ।
सहस्रं क्षत्रियगणो विक्रान्तः संबभूव ह ॥
नाभागारिष्टपुत्राश् च क्षत्रिया वैश्यतां गताः ॥
प्रांशोर् एको ऽभवत् पुत्रः प्रजापतिर् इति श्रुतः ।
नरिष्यन्तस्य दायादो राजा दण्डधरो दमः ।
शर्यातेर् मिथुनं चासीद् आनर्तो नाम विश्रुतः
पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह ॥
आनर्तस्य तु दायादो रेवो नाम महाद्युतिः
आनर्तविषयश् चासीत् पुरी चासीत् कुशस्थली ॥
रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः
ज्येष्ठः पुत्रशतस्यासीद् राज्यं प्राप्य कुशस्थलीम् ॥
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणो ऽन्तिके
मुहूर्तभूतं देवस्य मर्त्यं बहुयुगं प्रभो ॥
आजगाम युवैवाथ स्वां पुरीं यादवैर् वृताम्
कृतां द्वारवतीं नाम्ना बहुद्वारां मनोरमाम्
भोजवृष्ण्यन्धकैर् गुप्तां वासुदेवपुरोगमैः ॥
ततस् तद् रैवतो ज्ञात्वा यथातत्त्वम् अरिंदम
कन्यां तां बलदेवाय सुव्रतां नाम रेवतीम् ॥
दत्त्वा जगाम शिखरं मेरोस् तपसि संश्रितः
रोहिण्या सहितश् चन्द्रो यथा शच्या शचीपतिः ।
रेमे रामो ऽपि धर्मात्मा रेवत्या सहितः सुखी ॥
कथं बहुयुगे काले समतीते द्विजर्षभ
न जरा रेवतीं प्राप्ता रैवतं च ककुद्मिनम् ॥
मेरुं गतस्य वा तस्य शार्यातेः संततिः कथम्
स्थिता पृथिव्याम् अद्यापि श्रोतुम् इच्छामि तत्त्वतः ॥
न जरा क्षुत्पिपासे वा न मृत्युर् भरतर्षभ
ऋतुचक्रं प्रभवति ब्रह्मलोके सदानघा ॥
ककुद्मिनस् तु तं लोकं रैवतस्य गतस्य ह
हता पुण्यजनैस् तात राक्षसैः सा कुशस्थली ॥
तस्य भ्रातृशतं त्व् आसीद् धार्मिकस्य महात्मनः
तद् वध्यमानं रक्षोभिर् दिशः प्राक्रमद् अच्युता ॥
अन्ववायस् तु सुमहांस् तत्र तत्र विशां पते
तेषां ये ते महाराज शार्याता इति विश्रुताः ॥
क्षत्रिया भरतश्रेष्ठ दिक्षु सर्वासु धार्मिकाः
सर्वशः सर्वगहनं प्रविष्टाः कुरुनन्दन ॥
नाभागस्य तु पुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्मदाः ॥
पृषध्रो हिंसयित्वा तु गुरोर् गां जनमेजय
शापाच् छूद्रत्वम् आपन्नो नवैते परिकीर्तिताः ॥
क्षुवतस् तु मनोस् तात इक्ष्वाकुर् अभवत् सुतः
तस्य पुत्रशतं त्व् आसीद् इक्ष्वाकोर् भूरिदक्षिणम् ॥
तेषां विकुक्षिर् ज्येष्ठस् तु विकुक्षित्वाद् अयोधताम्
प्राप्तः परमधर्मज्ञ सो ऽयोध्याधिपतिः प्रभुः ॥
शकुनिप्रमुखास् तस्य पुत्राः पञ्चशतं स्मृताः
उत्तरापथदेशस्य रक्षितारो विशां पते ॥
चत्वारिंशद् अथास्टौ च दक्षिणस्यां तथा दिशि
वसातिप्रमुखाश् चान्ये रक्षितारो विशां पते ॥
श्राद्धकर्मणि चोद्दिष्टे अकृते श्राद्धकर्मणि
भक्षयित्वा शशं तात शशादो मृगयां गतः ॥
इक्ष्वाकुणा परित्यक्तो वसिष्ठवचनात् प्रभुः
शशादनाच् छशादो ऽभूच् छशादो वनमाविशत् ।
इक्ष्वाकौ संस्थिते तात शशादः पुरम् आवसत् ॥
अयोधस्य तु दायादः ककुत्स्थो नाम वीर्यवान्
इन्द्रस्य वृषभूतस्य ककुत्स्थो ऽजयतासुरान् ।
पूर्वम् आडीबके युद्धे ककुत्स्थस् तेन स स्मृतः ।
अनेनास् तु ककुत्स्थस्य पृथुर् आनेनसः स्मृतः ॥
विष्टराश्वः पृथोः पुत्रस् तस्माद् आर्द्रस् त्व् अजायत
आर्द्रस्य युवनाश्वस् तु श्रावस्तस् तस्य चात्मजस् ॥
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता
श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः ॥
कुवलाश्वः सुतस् तस्य ट्राजा परमधार्मिकः
यः स धुन्धुवधाद् राजा धुन्धुमारत्वम् आगतः ॥
धुन्धोर् वधम् अहं ब्रह्मञ् श्रोतुम् इच्छामि तत्त्वतः
यदर्थं कुवलाश्वः सन् धुन्धुमारत्वम् आगतः ॥
बृहदश्वस्य पुत्राणां शतम् उत्तमधन्विनाम्
सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ।
बभूवाथ पिता राज्ये कुवलाश्वं न्ययोजयत् ॥
पुत्रसंक्रामितश्रीस् तु वनं राजा समाविशत्
तम् उत्तङ्को ऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥
भवता रक्षणं कार्यं तत् तावत् कर्तुम् अर्हसि
निरुद्विग्नस् तपश् चर्तुं न हि शक्नोमि पार्थिव ॥
ममाश्रमसमीपे वै समेषु मरुधन्वसु
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः ॥
देवतानाम् अवध्यश् च महाकायो महाबलः
अन्तर्भूमिगतस् तत्र वालुकान्तर्हितो महान् ॥
राक्षसस्य मधोः पुत्रो धुन्धुर् नाम सुदारुणः
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥
संवत्सरस्य पर्यन्ते स निःश्वासं विमुञ्चति
यदा तदा मही तात चलति स्म सकानना ॥
तस्य निःश्वासवातेन रज उद्धूयते महत्
आदित्यपथम् आवृत्य सप्ताहं भूमिकम्पनम् ॥
सविस्फुलिङ्गं साङ्गारं सधूमम् अतिदारुणम्
तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥
तं वारय महाकायं लोकानां हितकाम्यया
लोकाः स्वस्था भवन्त्व् अद्य तस्मिन् विनिहते त्वया ॥
त्वं हि तस्य वधायैकः समर्थः पृथिवीपते
विष्णुना च वरो दत्तो मह्यं पूर्वं ततो ऽनध
यस् तं महासुरंरौद्रं हनिष्यति महाबलम् ।
स च विख्यातकीर्तिस् तु चक्रवर्ती नसंशयः ।
तेजसा स्वेन ते विष्णुस् तेज आप्याययिष्यति ॥
न हि धुन्धुर् महातेजास् तेजसाल्पेन शक्यते
निर्दग्धुं पृथिवीपाल चिरं युगशतैर् अपि
वीर्यं हि सुमहत् तस्य देवैर् अपि दुरासदम् ॥
स एवम् उक्तो राजर्षिर् उत्तङ्केन महात्मना
कुवलाश्वं सुतं प्रादात् तस्मै धुन्धुनिबर्हणे ॥
भगवन् न्यस्तशस्त्रो ऽहम् अयं तु तनयो मम
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥
स तं व्यादिश्य तनयं राजर्षिर् धुन्धुनिग्रहे
जगाम पर्वतायैव तपसे संशितव्रतः ॥
कुवलाश्वस् तु पुत्राणां शतेन सह पार्तिवः
प्रायाद् उत्तङ्कसहितो धुन्धोस् तस्य निबर्हणे ॥
तम् आविशत् तदा विष्णुर् भगवांस् तेजसा प्रभुः
उत्तङ्कस्य नियोगाद् वै लोकानां हितकाम्यया ॥
तस्मिन् प्रयाते दुर्धर्षे दिवि शब्दो महान् अभूत्
एष श्रीमान् नृपसुतो धुन्धुमारो भविष्यति ॥
दिव्यैर् माल्यैश् च तं देवाः समन्तात् समवाकिरन्
देवदुन्दुभयश् चैव प्रणेदुर् भरतर्षभ ॥
स गत्वा जयतां श्रेष्ठस् तनयैः सह वीर्यवान्
समुद्रं खानयाम् आस वालुकार्णवम् अव्ययम् ॥
नारायणेन कौरव्य तेजसाप्यायितस् तदा
बभूव स महातेजा भूयो बलसमन्वितः ॥
तस्य पुत्रैः खनद्भिस् तु वालुकान्तर्हितस् तदा
धुन्धुर् आसादितो राजन् दिशम् आवृत्य पश्चिमाम् ॥
मुखजेनाग्निना क्रोधाल् लोकान् उद्वर्तयन्न् इव
वारि सुस्राव वेगेन महोदधिर् इवोदये
सोमस्य भरतश्रेष्ठ धारोर्मिकलिलो महान् ॥
तस्य पुत्रशतं दग्धं त्रिभिर् ऊनं तु रक्षसा ॥
ततः स राजा कौरव्य राक्षसं तं महाबलम्
आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥
तस्य वारिमयं वेगम् आपीय स नराधिपः
योगी योगेन वह्निं च शमयाम् आस वारिणा ॥
निहत्य तं महाकायं बलेनोदकराक्षसम्
उत्तङ्कं दर्शयाम् आस कृतकर्मा नराधिपः ॥
उत्तङ्कस् तु वरं प्रादात् तस्मै राज्ञे महात्मने
ददतश् चाक्षयं वित्तं शत्रुभिश् चापराजयम् ॥
धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम्
पुत्राणां चाक्षयांल् लोकान् स्वर्गे ये रक्षसा हताः ॥
तस्य पुत्रास् त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते
दण्डाश्वकपिलाश्वौ तु कुमारौ तु कनीयसौ ॥
धौन्धुमारिर् दृढाश्वस् तु हर्यश्वस् तस्य चात्मजः
हर्यश्वस्य निकुम्भो ऽभूत् क्षत्रधर्मरतः सदा ॥
संहताश्वो निकुम्भस्य सुतो रणविशारदः
अकृशाश्वः कृशाश्वश् च संहताश्वसुतौ नृप ॥
तस्य हैमवती कन्या सतां मता दृषद्वती
विख्याता त्रिषु लोकेषु पुत्रश् चापि प्रसेनजित् ॥
लेभे प्रसेनजिद् भार्यां गौरीं नाम पतिव्रताम्
अभिशप्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥
तस्याः पुत्रो महान् आसीद् युवनाश्वो नराधिपः
युवनाश्वस्य तनयश् चक्रवर्ती जजान ह ।
कं धारयति कुमारो ऽयं न्यस्तो रोरूयते भृशम् ।
मान्धातर् वत्स मा रोदीर् इतीन्द्रो देशिनीम् अदात् ।
मान्धाता युवनाश्वस्य त्रिलोकविजयी नृपः ॥
तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत्
साध्वी बिन्दुमती नाम रूपेणासदृशी भुवि
पतिव्रता च ज्येष्ठा च भ्रातॄणाम् अयुतस्य सा ॥
तस्याम् उत्पादयाम् आस मान्धाता द्वौ सुतौ नृप
पुरुकुत्सं च धर्मज्ञं मुचुकुन्दं च पार्थिवम् ॥
पुरुकुत्ससुतस् त्व् आसीत् त्रसद्दस्युर् महीपतिः
नर्मदायाम् अथोत्पन्नः संभूतस् तस्य चात्मजः ॥
संभूतस्य तु दायादः सुधन्वा रिपुमर्दनः
सुधन्वनः सुतश् चापि विष्णुवृद्धिर् इति स्मृतः ।
विष्णुवृद्धा इति ख्यातास् तस्य वंश्या नराधिपाः ।
एते त्व् अङ्गिरसः पक्षे क्षेत्रोपेता द्विजातयः ॥
संभूतस्यापरः पुत्रो अनरण्यो महायशाः ।
रावणेन हतो यो ऽसौ त्रिलोकजयिना पुरा ॥
त्रसदश्वो नरस् तस्य हर्यश्वस् तस्य चात्मजः ।
हर्यश्वस्य दृषद्वत्यां जज्ञे सुमनसः सुतः ॥
तस्य पुत्रो ऽभवद् राजा सुधन्वा रिपुमर्दनः ।
सुधन्वनः सुतश् चापि त्रिधन्वा नाम पार्थिवः ॥
राज्ञस् त्रिधन्वनस् त्व् आसीद् विद्वांस् त्रय्यारुणः प्रभुः
तस्य सत्यव्रतो नाम कुमारो ऽभून् महाबलः ॥
पाणिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्मतिः
येन भार्या हृता पूर्वं कृतोद्वाहा परस्य वै ॥
बाल्यात् कामाच् च मोहाच् च संहर्षाच् चापलेन च
जहार कन्यां कामात् स कस्य चित् पुरवासिनः ॥
अधर्मशङ्कुना तेन राजा त्रय्यारुणो ऽत्यजत्
तम् अधर्मेण संयुक्तं पितासूर्यारुणो जहौ ।
अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ॥
पितरं सो ऽब्रवीत् त्यक्तः क्व गच्छामीति वै मुहुः
पिता त्व् एनम् अथोवाच श्वपाकैः सह वर्तय
नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥
इत्य् उक्तः स निराक्रामन् नगराद् वचनात् पितुः
न च तं वारयाम् आस वसिष्ठो भगवान् ऋषिः ॥
स तु सत्यव्रतस् तात श्वपाकावसथान्तिके
पित्रा त्यक्तो ऽवसद् वीरः पिताप्य् अस्य वनं ययौ ॥
ततस् तस्मिंस् तु विषये नावर्षत् पाकशासनः
अचिरान् नरपतेर् वसिष्ठस्याविचारतः ।
परित्यागात् कुमारस्य नावर्षत् पाकशासनः ॥
यदा द्वादश वर्षाणि तेन नष्टाभवत् प्रजा ।
स्वाहाकारः स्वधाकारो वषट्कारो ऽपि नाभवत् ।
राष्ट्रे तस्य महीपस्य धर्मनाशो ऽभवत् तदा ।
समा द्वादश राजेन्द्र तेनाधर्मेण वै तदा ॥
दारांस् तु तस्य विषये विश्वामित्रो महातपाः
संन्यस्य सागरानूपे चचार विपुलं तपः ॥
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रम् औरसम्
शेषस्य भरणार्थाय व्यक्रीणाद् गोशतेन वै ॥
तं तु बद्धं गले दृष्ट्वा विक्रीयन्तं नृपात्मजः
महर्षिपुत्रं धर्मात्मा मोक्षयाम् आस भारत ॥
सत्यव्रतो महाबाहुर् भरणं तस्य चाकरोत्
विश्वामित्रस्य तुष्ट्यर्थम् अनुकम्पार्थम् एव च ॥
सो ऽभवद् गालवो नाम गलबन्धान् महातपाः
महर्षिः कौशिकस् तात तेन वीरेण मोक्षितः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0