भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 10

10.1

सत्यव्रतस् तु भक्त्या च कृपया च प्रतिज्ञया
विश्वामित्रकलत्रं तद् बभार विनये स्थितः ॥

10.2

हत्वा मृगान् वराहांश् च महिषांश् च वनेचरान्
विश्वामित्राश्रमाभ्याशे मांसं तद् अवबन्धत ॥

10.3

उपांशुव्रतम् आस्थाय दीक्षां द्वादशवार्षिकीम्
पितुर् नियोगाद् अवसत् तस्मिन् वनगते नृपे ॥

10.4

अयोध्यां चैव राष्ट्रं च तथैवान्तःपुरं मुनिः
याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत ॥

10.5

सत्यव्रतस् तु बाल्याद् वा भाविनो ऽर्थस्य वा बलात्
वसिष्ठे ऽभ्यधिकं मन्युं धारयाम् आस नित्यदा ॥

10.6

पित्रा तु तं तदा राष्ट्रात् परित्य्क्तं प्रियं सुतम्
न वारयाम् आस मुनिर् वसिष्ठः कारणेन हि ॥

10.7

पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे
न च सत्यव्रतस् तस्माद् धृतवान् सप्तमे पदे ॥

10.8

जानन् धर्मं वसिष्ठस् तु न मां त्रातीति भारत
सत्यव्रतस् तदा रोषं वसिष्ठे मनसाकरोत् ॥

10.9

गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस् तदा
न च सत्यव्रतस् तस्य तम् उपांशुम् अबुध्यत ॥

10.10

तस्मिन्न् अपरितोषो यः पितुर् आसीन् महात्मनः
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥

10.11

तेन त्व् इदानीं वहता दीक्षां तां दुर्वहां भुवि
तेनार्थं चैव विहिता दिक्षास् तातहता भुवि ।
कुलस्य निष्कृतिस् तात कृता सा वै भवेद् इति ॥

10.12

न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत्
अभिषेक्ष्याम्य् अहं पुत्रम् अस्येत्य् एवं मतिर् मुनेः ॥

10.13

स तु द्वादश वर्षाणि दीक्षाम् ताम् उद्वहन् बली
उपांशुव्रतम् आस्थाय महत् सत्यव्रतोनृप ।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः
सर्वकामदुहां दोग्ध्रीं ददर्श स नृपात्मजः ॥

10.14

तां वै क्रोधाच् च मोहाच् च श्रमाच् चैव क्षुधान्वितः
दशधर्मगतो राजा जघान जनमेजय ॥

10.15

त च मांसं स्वयं चैव विश्वामित्रस्य चात्मजान्
भोजयाम् आस तच् छ्रुत्वा वसिष्ठो ऽप्य् अस्य चुक्रुधे ॥

10.16

पातयेयम् अहं क्रूर तव शङ्कुम् अयस्मयम्
यदि ते द्वाव् इमौ शङ्कू न स्यातां वै कृतौ पुनः ॥

10.17

पितुश् चापरितोषेण गुरोर् दोग्ध्रीवधेन च
अप्रोक्षितोपयोगाच् च त्रिविधस् ते व्यतिक्रमः ॥

10.18

एवं त्रीण्य् अस्य शङ्कूनि तानि दृष्ट्वा महातपाः
त्रिशङ्कुर् इति होवाच त्रिशङ्कुस् तेन स स्मृतः ॥

10.19

विश्वामित्रस् तु दाराणाम् आगतो भरणे कृते
तेन तस्मै वरं प्रादान् मुनिः प्रीतस् त्रिशङ्कवे
छन्द्यमानो वरेणाथ गुरुं वव्रे नृपात्मजः ॥

10.20

अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके
अभिषिच्य च राज्ये च याजयाम् आस तं मुनिः
तं मुनिर् याजयाम् आस पित्रिये राज्ये ऽभिषिच्य तु ।
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ॥

10.21

तस्य सत्यरथा नाम पत्नी केकयवंशजा
कुमारं जनयाम् आस हरिश्चन्द्रम् अकल्मषम् ॥

10.22

स वै राजा हरिश्चन्द्रस् त्रैशङ्कव इति स्मृतः
आहर्ता राजसूयस्य स सम्राड् इति विश्रुतः ॥

10.23

हरिश्चन्द्रस्य तु सुतो रोहितो नाम विश्रुतः
येनेदं रोहितपुरं कारितंराज्यसिद्धये ॥
कृत्वा राज्यं स राजर्षिः पालयित्वा तथा प्रजाः ।
संसारासारतां ज्ञात्वा द्विजेभ्यस् तत् पुरं ददौ ।
हरितो रोहितस्याथ चञ्चुर् हारीत उच्यते ।
विजयश् च सुदेवश् च चञ्चुपुत्रौ बभूवतुः ।
जेता क्षत्रस्य सर्वस्य विजयस् तेन स स्मृतः ॥
रुरुकस् तनयस् तस्य राजधर्मार्थकोविदः ।
हरितो जज्ञिवांस् ततः तथैव लोके धर्मात्मा ।
रोहितस्य वृकः पुत्रो वृकाद् बाहुस् तु जज्ञिवान् ॥

10.24

हेहयास् तालजङ्घाश् च निरस्यन्ति स्म तं नृपम्
नात्यर्थं धार्मिकश् तात स हि धर्मयुगे ऽभवत् ॥

10.25

सगरस् तु सुतो बाहोर् जज्ञे सह गरेण वै
और्वस्याश्रमम् आसाद्य भार्गवेणाभिरक्षितः ॥

10.26

आग्नेयम् अस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः
जिगाय पृथिवीं हत्वा तालजङ्घान् सहेहयान् ॥

10.27

शकानां पह्लवानां च धर्मं निरसद् अच्युतः
क्षत्रियाणां कुरुश्रेष्ठाः पारदानां च धर्मवित् ॥

10.28

कथं स सगरो जातो गरेणैव सहाच्युतः
किमर्थं च शकादीनां क्षत्रियाणां महौजसाम् ॥

10.29

धर्मं कुलोचितं क्रुद्धो राजा निरसद् अच्युतः
एतन् मे सर्वम् आचक्ष्व विस्तरेण तपोधन ॥

10.30

बाहोर् व्यसनिनस् तात हृतं राज्यम् अभूत् किल
हेहयैस् तालजङ्घैश् च शकैः सार्धं विशां पते ॥

10.31

यवनाः पारदाश् चैव काम्बोजाः पह्लवास् खशाः
कातिसर्पा माहिषिकाः पारदाष्टङ्कणाः शकाः ।
एते ह्य् अपि गणाः पञ्च हेहयार्थे पराक्रमन् ॥

10.32

हृतराज्यस् तदा राजा स वै बाहुर् वनं ययौ
पत्न्या चानुगतो दुःखी वने प्राणान् अवासृजत् ॥

10.33

पत्नी तु यादवी तस्य सगर्भा पृष्ठतो ऽन्वगात्
सपत्न्या च गरस् तस्या दत्तः पूर्वम् अभूत् किल ॥

10.34

सा तु भर्तुश् चितां कृत्वा वने ताम् अभ्यरोहत
और्वस् तां भार्गवस् तात कारुण्यात् समवारयत् ॥

10.35

तस्याश्रमे च तं गर्भं गरेणैव सहाच्युतम्
व्यजायत महाबाहुं सगरं नाम पार्थिवम् ॥

10.36

और्वस् तु जातकर्मादी तस्य कृत्वा महात्मनः
अध्याप्य वेदशास्त्राणि ततो ऽस्त्रं प्रत्यपादयत्
आग्नेयं तं महाभागाम् अमरैर् अपि दुःसहम् ॥

10.37

स तेनास्त्रबलेनाजौ बलेन च समन्वितः
हेहयान् निजघानाशु क्रुद्धो रुद्रः पशून् इव
आजहार च लोकेषु कीर्तिं कीर्तिमतां वरः ॥

10.38

ततः शकान् स यवनान् काम्बोजान् पारदांस् तथा
पह्लवांश् चैव निःशेषान् कर्तुं व्यवसितो नृपः ॥

10.39

ते वध्यमाना वीरेण सगरेण महात्मना
वसिष्ठं शरणं गत्वा प्रणिपेतुर् मनीषिणम् ॥

10.40

वसिष्ठस् त्व् अथ तान् दृष्ट्वा समयेन महाद्युतिः
सगरं वारयाम् आस तेषां दत्त्वाभयं तदा ॥

10.41

सगरः स्वां प्रतिज्ञां च गुरोर् वाक्यं निशम्य च
धर्मं जघान तेषां वै वेषान्यात्वं चकार ह ॥

10.42

अर्धं शकानां शिरसो मुण्डयित्वा व्यसर्जयत्
यवनानां शिरः सर्वं काम्बोजानां तथैव च ॥

10.43

पारदा मुक्तकेशास् तु पह्लवाः श्मश्रुधारिणः
निःस्वाध्यायवषट्काराः कृतास् तेन महात्मना ॥

10.44

शका यवनकाम्बोजाः पारदाश् च विशां पते
कोलिसर्पा माहिषका दर्वाश् चोलाः सकेरलाः ॥

10.45

सर्वे ते क्षत्रियास् तात धर्मस् तेषां निराकृतः
वसिष्ठवचनाद् राजन् सगरेण महात्मना ॥

10.46

स धर्मविजयी राजा विजित्येमां वसुंधराम्
अश्वं विचारयाम् आस वाजिमेधाय दीक्षितः ॥

10.47

तस्य चारयतः सो ऽश्वः समुद्रे पूर्वदक्षिणे
वेलासमीपे ऽपहृतो भूमिं चैव प्रवेशितः
तस्योत्सृष्टं पशुं यज्ञे जहाराश्वंपुरंदरः ।
हृत्वा कपिलपार्श्वे तं बद्ध्वागान् नगरीं पुनः ॥
सुमत्यास् तनया दृप्ताः पितुर् आदेशकारिणः ।
तानि षष्टिसहस्राणि हयरक्षणतत्पराः ।
स तं देशं तदा पुत्रैः खानयाम् आस पार्थिवः ॥

10.48

आसेदुस् ते ततस् तत्र खन्यमाने महार्णवे
तम् आदिपुरुषं देवं हरिं कृष्णं प्रजापतिम्
विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥

10.49

तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः
दग्धाः सर्वे महाराज चत्वारस् त्व् अवशेषिताः ॥

10.50

बर्हकेतुः सुकेतुश् च तथा भारद्रथो नृपः
शूरः पञ्चजनश् चैव तस्य वंशकरा नृपा ॥

10.51

प्रादाच् च तस्मै भगवान् हरिर् नारायणो वरम्
अक्षयं वंशम् इक्ष्वाकोः कीर्तिं चाप्य् अनिवर्तिनीम्
ततः स भगवान् देवो दत्त्वा चाश्वंवरं ददौ ।
सगराय महाराज ।
पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् ॥

10.52

समुद्रश् चार्घ्यम् आदाय ववन्दे तं महीपतिम्
सागरत्वं च लेभे स कर्मणा तेन तस्य ह ॥

10.53

तं चाश्वमेधिकं सो ऽश्वं समुद्राद् उपलब्धवान्
आजहाराश्वमेधानां शतं स सुमहायशाः
पुत्राणां च सहस्राणि षष्टिस् तस्येति नः श्रुतम् ॥

10.54

सगरस्यात्मजा वीराः कथं जाता महाबलाः
विक्रान्ताः षष्टिसाहस्रा विधिना केन वा द्विज ॥

10.55

द्वे भार्ये सगरस्यास्तां तपसा दग्धकिल्बिषे
ज्येष्ठाविदर्भदुहिता केशिनी नाम विश्रुता ।
कनीयसी तु या तस्य पत्नी परमधर्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ।
और्वस् ताभ्यां वरं प्रादात् तन् निबोध नराधिप ॥

10.56

षष्टिं पुत्रसहस्राणि गृह्णात्व् एका तरस्विनाम्
एकं वंशधरं त्व् एका यथेष्टं वरयत्व् इति ॥

10.57

तत्रैका जगृहे पुत्रांल् लुब्धा शूरान् बहूंस् तथा
एकं वंशधरं त्व् एका तथेत्य् आह ततो मुनिः ॥

10.58

राजा पञ्चजनो नाम बभूव सुमहाबलः
इतरा सुषुवे तुम्बं बीजपूर्णाम् इति श्रुतिः ॥

10.59

तत्र षष्टिसहस्राणि गर्भास् ते तिलसंमिताः
संबभूवुर् यथाकालं ववृधुश् च यथासुखम् ॥

10.60

घृतपूर्णेषु कुम्भेषु तान् गर्भान् निदधुस् ततः
धात्रीश् चैकैकशः प्रादात् तावतीः पोषणे नृप ॥

10.61

ततो दशसु मासेषु समुत्तस्थुर् यथाक्रमम्
कुमारास् ते यथाकालं सगरप्रीतिवर्धनाः ॥

10.62

षष्टिः पुत्रसहस्राणि तस्यैवम् अभवन् नृप
शुक्राद् अलाबूमध्याद् वै जातानि पृथिवीपतेः ॥

10.63

तेषां नारायणं तेजः प्रविष्टानां महात्मनाम्
एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ॥

10.64

सुतः पञ्चजनस्यासीद् अंशुमान् नाम वीर्यवान्
दिलीपस् तस्य तनयः खट्वाङ्ग इति विश्रुतः ॥

10.65

येन स्वर्गाद् इहागत्य मुहूर्तं प्राप्य जीवितम्
त्रयो ऽभिसंधिता लोका बुद्ध्या सत्येन चानघ ॥

10.66

दिलीपस्य तु दायादो महाराजो भगीरथः
यः स गङ्गां सरिच्छ्रेष्ठाम् अवातारयत प्रभुः
कीर्तिमान् स महाभागः शक्रतुल्यपराक्रमः ।
समुद्रम् आनयच् चैनां दुहितृत्वे त्व् अकल्पयत् ॥

10.67

भगीरथसुतो राजा श्रुत इत्य् अभिविश्रुतः
नाभागस् तु श्रुतस्यासीत् पुत्रः परमधार्मिकः ॥

10.68

अम्बरीषस् तु नाभागिः सिन्धुद्वीपपिताभवत्
अयुताजित् तु दायादः सिन्धुद्वीपस्य वीर्यवान् ॥

10.69

अयुताजित्सुतस् त्व् आसीद् ऋतपर्णो महायशाः
दिव्याक्षहृदयज्ञो वै राजा नलसखो बली ॥

10.70

ऋतपर्णसुतस् त्व् आसीद् आर्तपर्णिर् महीपतिः
सुदासस् तस्य तनयो राजा इन्द्रसखो ऽभवत् ।
सुदासस्य सुतस् त्व् आसीत् सौदासो नाम पार्थिवः ।
ख्यातः कल्माषपादो वै नाम्ना मित्रसहो ऽभवत् ॥

10.71

कल्माषपादस्य सुतः सर्वकर्मेति विश्रुतः
अनरण्यस् तु पुत्रो ऽभूद् विश्रुतः सर्वकर्मणः ॥

10.72

अनरण्यसुतो निघ्नो निघ्नपुत्रौ बभूवतुः
अनमित्रो रघुश् चैव पार्थिवर्षभसत्तमौ ॥

10.73

अनमित्रस् तु धर्मात्मा विद्वान् दुलिदुहो ऽभवत्
दिलीपस् तस्य तनयो रामस्य प्रपितामहः
दीर्घबाहुर् दिलीपस्य रघुर् नाम्नाभवत् सुतः ॥

10.74

अजस् तु राघुतो जज्ञे तथा दशरथो ऽप्य् अजात्
रामो दशरथाज् जज्ञे धर्मारामो महायशाः ॥

10.75

रामस्य तनयो जज्ञे कुश इत्य् अभिविश्रुतः
अतिथिस् तु कुशाज् जज्ञे निषधस् तस्य चात्मजः ॥

10.76

निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु
नभसः पुण्डरीकस् तु क्षेमधन्वा ततः स्मृतः ॥

10.77

क्षेमधन्वसुतस् त्व् आसीद् देवानीकः प्रतापवान्
आसीद् अहीनगुर् नाम देवानीकात्मजः प्रभुः
देवानीकस्य दायादो ऽहीनगस् तु प्रतापवान् ।
अहीनगोस् तु दायादः सहस्वान् नाम पार्थिवः ॥

10.78

नलौ द्वाव् एव विख्यातौ पुराणे भरतर्षभ
वीरसेनात्मजश् चैव यश् चेक्ष्वाकुकुलोद्वहः ॥

10.79

इक्ष्वाकुवंशप्रभवाः प्राधान्येनेह कीर्तिताः
एते विवस्वतो वंशे राजानो भूरितेजसः ॥

10.80

पठन् सम्यग् इमां सृष्टिम् आदित्यस्य विवस्वतः
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च
प्रजानान् एति सायुज्यम् आदित्यस्य विवस्वतः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc