हरिवंश · अध्याय 8
विवस्वान् कश्यपाज् जज्ञे दाक्षायण्याम् अरिंदम
तस्य भार्याभवत् संज्ञा त्वाष्ट्री देवी विवस्वतः
सुरेणुर् इति विख्याता त्रिषु लोकेषु भामिनी ॥
सा वै भार्या भगवतो मार्तण्डस्य महात्मनः
भर्तृरूपेण नातुष्यद् रूपयौवनशालिनी
संज्ञा नाम स्वतपसा दीप्तेनेह समन्विता ॥
आदित्यस्य हि तद्रूपं मार्तण्डस्य स्वतेजसा
गात्रेषु परिदग्धं वै नातिकान्तम् इवाभवत् ॥
न खल्व् अयं मृतो ऽण्डस्थ इति स्नेहाद् अभाषत
अजानन् काश्यपस् तस्मान् मार्तण्ड इति चोच्यते ॥
तेजस् त्व् अभ्यधिकं तात नित्यम् एव विवस्वतः
येनातितापयामास त्रींल् लोकान् कश्यपात्मजः ॥
त्रीण्य् अपत्यानि कौरव्य संज्ञायां तपतां वरः
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥
मनुर् वैवस्वतः पूर्वं श्राद्धदेवः प्रजापतिः
यमश् च यमुना चैव यमजौ संबभूवतुः ॥
श्यामवर्णं तु तद्रूपं संज्ञा दृष्ट्वा विवस्वतः
असहन्ती तु स्वां छायां सवर्णां निर्ममे ततः
मायामयी तु सा संज्ञा तस्याश् छाया समुत्थिता ॥
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां नरेश्वर
उवाच किं मया कार्यं कथयस्व शुचिस्मिते
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥
अहं यास्यामि भद्रं ते स्वम् एव भवनं पितुः
त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया ॥
इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा
संभाव्यास् ते न चाख्येयम् इदं भगवते त्वया ॥
आ कचग्रहणाद् देवि आ शापान् नैव कर्हिचित्
आख्यास्यामि मतं तुभ्यं गच्छ देवि यथासुखम् ॥
समाधाय सवर्णां तु तथेत्य् उक्ता तया च सा
त्वष्टुः समीपम् अगमद् व्रीडितेव मनस्विनी ॥
पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा
भर्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥
अगच्छद् वडवा भूत्वाच् छाद्य रूपम् अनिन्दिता
कुरून् अथोत्तरान् गत्वा तृणान्य् एव चचार सा ॥
द्वितीयायां तु संज्ञायां संज्ञेयम् इति चिन्तयन्
आदित्यो जनयामास पुत्रम् आत्मसमं तदा ॥
पूर्वजस्य मनोस् तात सदृशो ऽयम् इति प्रभुः
मनुर् एवाभवन् नाम्ना सावर्ण इति चोच्यते ॥
संज्ञा तु पार्थिवी तात स्वस्य पुत्रस्य वै तदा
चकाराभ्यधिकं स्नेहं न तथा पूर्वजेषु वै ॥
मनुस् तस्याः क्षमत् तत् तु यमस् तस्या न चक्षमे
तां वै रोषाच् च बाल्याच् च भाविनो ऽर्थस्य वा बलात्
पदा संतर्जयामास संज्ञां वैवस्वतो यमः ॥
तं शशाप ततः क्रोधात् सवर्णा जननी तदा
चरणः पतताम् एष तवेति भृशदुःखिता ॥
यमस् तु तत् पितुः सर्वं प्राञ्जलिः प्रत्यवेदयत्
भृशं शापभयोद्विग्नः संज्ञावाक्यैर् विवेजितः
शापो निवर्तेद् इति च प्रोवाच पितरं तदा ॥
मात्रा स्नेहेन सर्वेषु वर्तितव्यं सुतेषु वै
सेयम् अस्मान् अपाहाय यवीयांसं बुभूषति ॥
तस्या मयोद्यतः पादो न तु देहे निपातितः
बाल्याद् वा यदि वा मोहात् तद् भवान् क्षन्तुम् अर्हति ॥
शप्तो ऽहम् अस्मि लोकेश जनन्या तपतां वर
तव प्रसादाच् चरणो न पतेन् मम गोपते ॥
असंशयं पुत्र महद् भविष्यत्य् अत्र कारणम्
यस् त्वं धर्मपरो नित्यं धर्मं संत्यक्तवान् इमम् ।
येन त्वाम् आविशत् क्रोधो धर्मज्ञं सत्यवादिनम् ॥
न शक्यम् एतन् मिथ्या तु कर्तुं मातृवचस् तव
कृमयो मांसम् आदाय यास्यन्ति तु महीतले ॥
कृतम् एवं वचस् तथ्यं मातुस् तव भविष्यति
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥
आदित्यश् चाब्रवीत् संज्ञां किमर्थं तनयेषु वै
तुल्येष्व् अभ्यधिकः स्नेहः क्रियते ऽति पुनः पुनः
सा तत् परिहरन्ती स्म नाचचक्षे विवस्वतः ॥
तां शप्तुकामो भगवान् नाशाय कुरुनन्दन
मूर्धजेषु च जग्राह समये ऽतिगते तु सा ।
ततः सर्वं यथावृत्तम् आचचक्षे विवस्वतः
विवस्वान् अथ तच् छ्रुत्वा क्रुद्धस् त्वष्टारम् अभ्यगात् ॥
त्वष्टा तु तं यथान्यायम् अर्चयित्वा विभावसुम्
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥
तवातितेजसाविष्टम् इदं रूपं न शोभते
असहन्ती स्म तत् संज्ञा वने चरति शाड्वलम् ॥
द्रष्टा हि तां भवान् अद्य स्वां भार्यां शुभचारिणीम्
नित्यं तपस्य् अभिरतां वडवारूपधारिणीम् ।
पर्णाहारां कृशां दीनां जटिलां मलधारिणीम् ।
हस्तिहस्तपरिक्लिष्टां व्याकुलां पद्मिनीम् इव ।
श्लाघ्यां योगबलोपेतां योगम् आस्थाय गोपते ॥
अनुकूलं तु ते देव यदि स्यान् मम तन् मतम्
रूपं निर्वर्तयाम्य् अद्य तव कान्तम् अरिंदम ॥
ततो ऽभ्युपगमात् त्वष्टा मार्तण्डस्य विवस्वतः
भ्रमिम् आरोप्य तत् तेजः शातयामास भारत ॥
ततो निर्भासितं रूपं तेजसा संहृतेन वै
कान्तात् कान्ततरं द्रष्टुम् अधिकं शुशुभे तदा ॥
ददर्श योगम् आस्थाय स्वां भार्यां वडवां ततः
अधृष्यां सर्वभूतानां तेजसा नियमेन च ॥
सो ऽश्वरूपेण भगवांस् तां मुखे समभावयत्
मैथुनाय विवेष्टन्तीं परपुंसो विशङ्कया ॥
सा तन् निरवमच् छुक्रं नासिकाया विवस्वतः
देवौ तस्याम् अजायेताम् अश्विनौ भिषजां वरौ ॥
नासत्यश् चैव दस्रश् च स्मृतौ द्वाव् अश्विनाव् इति
मार्तण्डस्यात्मजाव् एताव् अष्टमस्य प्रजापतेः ॥
तां तु रूपेण क्रान्तेन दर्शयामास भास्करः
सा तु दृष्ट्वैव भर्तारं तुतोष जनमेजय ॥
यमस् तु कर्मणा तेन भृशं पीडितमानसः
धर्मेण रञ्जयामास धर्मराज इमाः प्रजाः ॥
स लेभे कर्मणा तेन शुभेन परमद्युतिः
पितॄणाम् आधिपत्यं च लोकपालत्वम् एव च ॥
मनुः प्रजापतिस् त्व् आसीत् सावर्णः स तपोधनः
भाव्यः सो ऽनागते तस्मिन् मनुः सावर्णिके ऽन्तरे ॥
मेरुपृष्ठे तपो नित्यम् अद्यापि स चरत्य् उत
भ्राता शनैश्चरश् चास्य ग्रहत्वं स तु लब्धवान् ॥
त्वष्टा तु तेजसा तेन विष्णोश् चक्रम् अकल्पयत्
तद् अप्रतिहतं युद्धे दानवान्तचिकीर्षया ॥
यवीयसी तयोर् या तु यमी कन्या यशस्विनी
अभवत् सा सरिच्छ्रेष्ठा यमुना लोकभावनी ॥
मनुर् इत्य् उच्यते लोके सावर्ण इति चोच्यते
द्वितीयो यः सुतस् तस्य स विज्ञेयः शनैश्चरः ॥
य इदं जन्म देवानां शृणुयाद् धारयेत वा
आपदं प्राप्य मुच्येत प्राप्नुयाच् च महद् यशः ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0