भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 89

89.1

ततः काले व्यतीते तु रुक्मी महति वीर्यवान्
दुहितुः कारयाम् आस स्वयंवरम् अरिंदमः ॥

89.2

तत्राहूताश् च राजानो राजपुत्राश् च रुक्मिणा
समाजग्मुर् महावीर्या नानादिग्भ्यः श्रियान्विताः ॥

89.3

जगाम तत्र प्रद्युम्नः कुमारैर् अपरैर् वृतः
सा हि तं चकमे कन्या स च तां शुभलोचनाम् ॥

89.4

शुभाङ्गी नाम वैदर्भी कान्तिद्युतिसमन्विता
पृथिव्याम् अभवत् ख्याता रुक्मिणस् तनया तदा ॥

89.5

उपविष्टेषु सर्वेषु पार्थिवेषु महात्मसु
वैदर्भी वरयाम् आस प्रद्युम्नम् अरिसूदनम् ॥

89.6

स हि सर्वास्त्रकुशलः सिंहसंहननो युवा
रूपेणाप्रतिमो लोके केशवस्यात्मजो ऽभवत् ॥

89.7

वयोरूपगुणोपेता राजपुत्री च साभवत्
नारायणी चन्द्रसेना जातकामा च तं प्रति ॥

89.8

वृत्ते स्वयंवरे जग्मू राजानः स्वपुराणि ते
उपादाय तु वैदर्भीं प्रद्युम्नो द्वारकां ययौ ॥

89.9

स तस्यां जनयाम् आस देवगर्भोपमं सुतम्
अनिरुद्धम् इति ख्यातं कर्मणाप्रतिमं भुवि
धनुर्वेदे च वेदे च नीतिशास्त्रे च पारगम् ॥

89.10

अभवत् स यदा राजन्न् अनिरुद्धो वयोन्वितः
तदास्य रुक्मिणः पौत्रीं रुक्मिणी रुक्मसंनिभां
पत्न्यर्थं वरयाम् आस नाम्ना रुक्मवतीति सा ॥

89.11

अनिरुद्धं गुणैर् दातुं कृतबुद्धिर् नृपस् तदा
प्रीत्या च रौक्मिणेयस्य रुक्मिण्याश् चाप्य् उपग्रहात् ॥

89.12

विस्पर्धन्न् अपि कृष्णेन वैरं तद् अपहाय सः
ददानीत्य् अब्रवीद् राजा प्रीतिमाञ् जनमेजय ॥

89.13

केशवः सह रुक्मिण्या पुत्रैः संकर्षणेन च
अन्यैश् च वृष्णिभिः सार्धं विदर्भान् सबलो ययौ ॥

89.14

संयुक्ता ज्ञातयश् चैव रुक्मिणः सुहृदश् च ये
आहूता रुक्मिणा ते ऽपि तत्राजग्मुर् नराधिपाः ॥

89.15

शुभे तिथौ महाराज नक्षत्रे चाभिपूजिते
विवाहायानिरुद्धस्य बभूव परमोत्सवः ॥

89.16

पाणौ गृहीते वैदर्भ्यास् त्व् अनिरुद्धेन भारत
वैदर्भयादवानां च बभूव परमोत्सवः ।
रेमिरे वृष्णयस् तत्र पूज्यमाना यथामराः ॥

89.17

अथाश्मकानाम् अधिपो वेणुदारिर् उदारधीः
अक्षः श्रुतर्वा चाणूरः क्राथश् चैवांशुमान् अपि ॥

89.18

जयत्सेनः कलिङ्गानाम् अधिपश् च महाबलः
पाण्ड्यश् च नृपतिः श्रीमान् ऋषीकाधिपतिस् तथा ॥

89.19

एते संमन्त्र्य राजानो दाक्षिणात्या महर्द्धयः
अभिगम्याब्रुवन् सर्वे रुक्मिणं रहसि प्रभुम् ॥

89.20

भवान् अक्षेषु कुशलो वयं चापि रिरंसवः
प्रियद्यूतश् च रामो ऽसाव् अक्षेष्व् अनिपुणो ऽपि च ॥

89.21

ते भवन्तं पुरस्कृत्य जेतुम् इच्छाम तं वयम्
इत्य् उक्तो रोचयाम् आस द्यूतं रुक्मी महारथः ॥

89.22

ते शुभां काञ्चनस्तम्भां कुसुमैर् भूषिताजिराम्
सभाम् आविविशुर् हृष्टाः सिक्तां चन्दनवारिणा ॥

89.23

तां प्रविश्य ततः सर्वे शुभ्रस्रगनुलेपनाः
सौवर्णेष्व् आसनेष्व् आसां चक्रिरे विजिगीषवः ॥

89.24

आहूतो बलदेवस् तु कितवैर् अक्षकोविदैः
बाढम् इत्य् अब्रवीद्द् हृष्टः सह दीव्याम पण्यताम् ॥

89.25

निकृत्या तं जिगीषन्तो दाक्षिणात्या नराधिपाः
मणिमुक्ताः सुवर्णं च तत्रानिन्युः सहस्रशः ॥

89.26

ततः प्रावर्तत द्यूतं तेषाम् अरतिनाशनम्
कलहायास्पदं घोरं दुर्मतीनां क्षयावहम् ॥

89.27

निष्काणां तु सहस्राणि सुवर्णस्य दशादितः
रुक्मिणा सह संपाते बलदेवो ग्लहं ददौ ॥

89.28

तं जिगाय ततो रुक्मी यतमानं महारथम्
तावद् एवापरं भूयो बलदेवं जिगाय सः ॥

89.29

असकृज् जीयमानस् तु रुक्मिणा केशवाग्रजः
सुवर्णकोटिं जग्राह ग्लहं तस्य महात्मनः ॥

89.30

जितम् इत्य् एव हृष्टो ऽथ तम् आह्वृतिर् अभाषत
श्लाघमानश् च चिक्षेप प्रहसन् मुसलायुधम् ॥

89.31

अविद्यो दुर्बलः श्रीमान् हिरण्यम् अमितं मया
अजेयो बलदेवो ऽयम् अक्षद्यूते पराजितः ॥

89.32

कलिङ्गराजस् तच् छ्रुत्वा प्रजहास भृशं तदा
दन्तान् विदर्शयन् हृष्टस् तत्राक्रुध्यद्द् हलायुधः ॥

89.33

रुक्मिणश् च वचः श्रुत्वा पराजयनिमित्तजम्
निगृह्यमाणस् तीक्ष्णाभिर् वाग्भिर् भीष्मकसूनुना
रोषम् आहारयाम् आस जितरोषो ऽपि धर्मवित् ॥

89.34

संक्रुद्धो धर्षणां प्राप्य रौहिणेयो महाबलः
धैर्यान् मनः संनियम्य ततो वचनम् अब्रवीत् ॥

89.35

दशकोटिसहस्राणि ग्लह एको ममापरः
एतं संपरिगृह्णीष्व पातयाक्षान् नराधिप
कृष्णाक्षांल् लोहिताक्षांश् च देशे ऽस्मिंस् त्वम् अपांसुले ॥

89.36

इत्य् एवम् आह्वयाम् आस रुक्मिणं रोहिणीसुतः
अनुक्त्वा वचनं किंचिद् बाढम् इत्य् अब्रवीत् पुनः ॥

89.37

अक्षान् रुक्मी ततो हृष्टः पातयाम् आस पार्थिवः
चातुरक्षे निवृत्ते तु निर्जितः स नराधिपः ॥

89.38

बलदेवेन धर्मेण नेत्य् उवाच ततो बलम्
धैर्यान् मनः संनियम्य स न किंचिद् उवाच ह
एते ब्रुवन्तु राजानो ये तथ्यवचना इह ।
बलदेवं ततो रुक्मी मया जितम् इति स्मयन् ॥

89.39

बलदेवस् तु तच् छ्रुत्वा जिह्मं वाक्यं नराधिपात्
भूयः क्रोधसमाविष्टो नोत्तरं व्याजहार ह ॥

89.40

ततो गम्भीरनिर्घोषा वाग् उवाचाशरीरिणी
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः
सत्यम् आह बलः श्रीमान् धर्मेणैष पराजितः ॥

89.41

अनुक्त्वा वचनं किंचित् प्राप्तो भवति कर्मणा
मनसा समनुज्ञातं तत् स्याद् इत्य् अवगम्यताम् ॥

89.42

इति श्रुत्वा वचस् तथ्यम् अन्तरिक्षात् सुभाषितम्
संकर्षणस् तदोत्थाय सौवर्णेनोरुणा बली
ताम् अनादृत्य वैदर्भो दुष्टराजन्यनोदितः ।
संकर्षणं परिहसन् बभाषे कालनोदितः ॥
नैवाक्षकोविदा यूयं गोपाला वनगोचराः ।
अक्षैः क्रीडन्ति राजानो बाणैश् च न भवादृशाः ॥
रुक्मिणैवम् अधिक्षिप्तो राजभिश् चोपहासितः ।
रुक्मिण्या भ्रातरं ज्येष्ठं निष्पिपेष महीतले ॥

89.43

विवादे कुपितो रामः क्षेप्तारं क्रूरभाषिणम्
जघानाष्टापदेनैव प्रसह्य यदुपुंगवः ॥

89.44

ततो ऽपसृत्य संक्रुद्धः कलिङ्गाधिपतेर् अपि
दन्तान् बभञ्ज संरम्भाद् उन्ननाद च सिंहवत्
खड्गम् उद्यम्य तांश् चापि त्रासयाम् आस पार्थिवान् ॥

89.45

स्तम्भं सभायाः सौवर्णम् उत्पाट्य बलिनां वरः
गजेन्द्र इव तं स्तम्भं कर्षन् सम्कर्षणस् ततः
तेनैव तु जघानाशु तत्रस्थान् क्रथकैशिकान् ।
निर्जगाम सभाद्वारात् त्रासयन् क्रथकैशिकान् ॥

89.46

रुक्मिणं निकृतिप्रज्ञं स हत्वा यादवर्षभः
वित्रास्य द्विषतः सर्वान् सिंहः क्षुद्रमृगान् इव ॥

89.47

जगाम शिबिरं रामः स्वम् एव स्वजनावृतः
न्यवेदयत कृष्णाय तच् च सर्वं यथाभवत् ॥

89.48

नोवाच स तदा किंचित् कृष्णो रामं महाद्युतिम्
रुक्मिणी तु ततः श्रुत्वा निहतं भ्रातरं प्रियम् ।
निगृह्य च तदात्मानं क्रोधाद् अश्रूण्य् अवर्तयत् ॥

89.49

न हतो वासुदेवेन यः पूर्वं परवीरहा
ज्येष्ठो भ्राताथ रुक्मिण्या रुक्मिणीस्नेहकारणात् ।
स रामकरमुक्तेन निहतो द्यूतमण्डले
अष्टापदेन बलवान् राजा वज्रधरोपमः ॥

89.50

तस्मिन् हते महामात्रे नृपतौ भीष्मकात्मजे
द्रुमभार्गवतुल्ये वै द्रुमभार्गवशिक्षिते ॥

89.51

कृतौ च युद्धकुशले नित्ययाजिनि पातिते
वृष्णयश् चान्धकाश् चैव सर्वे विमनसो ऽभवन् ॥

89.52

एतत् ते सर्वम् आख्यातं रुक्मिणो निधनं यथा
वैरस्य च समुत्थानं वृष्णिभिर् भरतर्षभ ॥

89.53

वृष्णयो ऽपि महाराज धनान्य् आदाय सर्वशः
रामकृष्णौ समाश्रित्य ययुर् द्वारवतीं पुरीम् ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc