भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 88

88.1

कृष्णेन ह्रियमाणां तु रुक्मी श्रुत्वा तु रुक्मिणीम्
प्रतिज्ञाम् अकरोत् क्रुद्धः समक्षं भीष्मकस्य ह ॥

88.2

अहत्वा युधि गोविन्दम् अनानीय च रुक्मिणीम्
कुण्डिनं न प्रवेक्ष्यामि सत्यम् एतद् ब्रवीमि ते ॥

88.3

आस्थाय स रथं वीरः समुदग्रायुधध्वजम्
जवेन प्रययौ क्रुद्धो बलेन महता वृतः ॥

88.4

तम् अन्वयुर् नृपाश् चैव दक्षिणापथवासिनः
क्राथो ऽंशुमाञ् श्रुतर्वा च वेणुदारिश्च वीर्यवान् ॥

88.5

भीष्मकस्य सुतश् चापि रथेन रथिनां वरः
क्रथकैशिकमुख्याश्च सर्व एव महारथाः ॥

88.6

ते गत्वा दूरम् अध्वानं सरितं नर्मदाम् अनु
गोविन्दं ददृशुः क्रुद्धाः सहैव प्रियया स्थितम् ॥

88.7

अवस्थाप्य च तत् सैन्यं रुक्मी बलमदान्वितः
आदाय निशितं बाणम् इदमाह जनार्दनम् ॥
अरे गोपकदायाद परदारप्रधर्षण ।
विमुच्यताम् इयं बाला स्थातव्यं च क्षणान्तरम् ।
शिरश्छेत्स्यामि ते बाणैः स्थितो ऽसि यदि मत्पुरः ।
इत्युक्त्वा निशितं बाणं संदधे धनुषि प्रभो ।
चिकीर्षुर् द्वैरथं युद्धम् अभ्ययान् मधुसूदनम् ॥

88.8

स विव्याध चतुःषष्ट्या गोविन्दं निशितैः श्रैः
तं प्रत्यविध्यत् सप्तत्या बाणैर् युधि जनार्दनः ॥

88.9

यतमानस्य चिच्छेद ध्वजं चास्य महाबलः
जहार च शिरः कायात् सारथेश् चास्य वीर्यवान् ॥

88.10

तं कृच्छ्रगतम् आज्ञाय परिवव्रुर् जनार्दनम्
दाक्षिणात्या जिघांसन्तो राजानः सर्व एव ते ॥

88.11

तम् अंशुमान् महाबाहुर् विव्याध दशभिः श्रैः
श्रुतर्वा पञ्चभिः क्रुद्धो वेणुदारिश् च सप्तभिः ॥

88.12

ततो ऽंशुमन्तं गोविन्दो बिभेदोरसि वीर्यवान्
निषसाद रथोपस्थे व्यथितः स नराधिपः ॥

88.13

श्रुतर्वणो जघानाश्वांश् चतुर्भिश् चतुरः शरैः
वेणुदारेर् ध्वजं छित्त्वा भुजं विव्याध दक्षिणम् ॥

88.14

तथैव च श्रुतर्वाणं शरैर् विव्याध पञ्चभिः
शिश्रिये स ध्वजं क्लान्तो न्यषीदच्च व्यथान्वितः ॥

88.15

मुञ्चन्तः शरवर्षाणि वासुदेवं ततो ऽभ्ययुः
क्रथकैशिकमुख्यास् ते रथवंशेन सर्वशः ॥

88.16

बाणैर् बाणांश् च चिच्छेद तेषां युधि जनार्दनः
जघान चैषां संरब्धो यतमानांश् च ताञ् शरान् ॥

88.17

पुनर् अन्यांश् चतुःषष्ट्या जघान निशितैः शरैः
क्रुद्धान् आद्रवतो वीरान् आद्रवत् स महाबलः ॥

88.18

विद्रुतं स्वबलं दृष्ट्वा रुक्मी क्रोधवशं गतः
पञ्चभिर् निशितैर् बाणैर् विव्याधोरसि केशवम् ॥

88.19

सारथिं चास्य विव्याध सायकैर् निशितैस् त्रिभिः
आजघान ध्वजं चास्य शरेण नतपर्वणा ॥

88.20

केशवश् चापि तं षष्ट्या क्रुद्धो विव्याध मार्गणैः
धनुश् चिच्छेद चाप्य् अस्य यतमानस्य रुक्मिणः ॥

88.21

अथान्यद् धनुर् आदाय रुक्मी कृष्णजिघांसया
प्रादुश् चकार दिव्यानि दीप्तान्य् अस्त्राणि वीर्यवान् ॥

88.22

अस्त्रैर् अस्त्राणि संवार्य तस्य कृष्णो म्हाबलः
पुनश् चिच्छेद तं चापं रथेषां च त्रिभिः शरैः ॥

88.23

स च्छिन्नधन्वा विरथः खड्गम् आदाय चर्म च
उत्पपात रथाद् वीरो गरुत्मान् इव वीर्यवान् ॥

88.24

तस्याभिपततः खड्गं चिच्छेद युधि केशवः
नाराचैश् च त्रिभिः क्रुद्धो बिभेदैनम् अथोरसि ॥

88.25

स पपात महाबाहुर् वसुधाम् अनुनादयन्
विसंज्ञो मूर्छितो राजा वज्रेणेव हतो गिरिः ॥

88.26

तांश् च राज्ञः शरैः सर्वान् पुनर्विव्याध केशवः
साश्वध्वजरथांश् चैव ससूतान्सपदानुगान् ।
रुक्मिणं पतितं दृष्ट्वा व्यद्रवन्त नराधिपाः ॥

88.27

विवेष्टमानं भूमौ तं भ्रातरं वीक्ष्य रुक्मिणी
पादयोर् न्यपतद् भर्तुर् भ्रातुर् जीवितकाङ्क्षिणी ॥

88.28

तामुत्थाप्य परिष्वज्य सान्त्वयामास केशवः
अभयं रुक्मिणे दत्त्वा प्रययौ स्वां पुरीं ततः ॥

88.29

वृष्णयो ऽपि जरासंधं भङ्क्त्वा तांश् चापि पार्थिवान्
जित्वा तु सात्यकिर्वीरः शिशुपालं महाबलम् ।
बलदेवो ऽपि वार्ष्णेयो जित्वा मगधपुंगवम् ।
ते ऽपि वीरा यथायोगं जित्वा तान् यादवोत्तमाः ।
प्रययुर् द्वारकां हृष्टाः पुरस्कृत्य हलायुधम् ॥

88.30

प्रयाते पुण्डरीकाक्षे श्रुतर्वाभ्येत्य संयुगे
रुक्मिणं रथम् आरोप्य प्रययौ स्वपुरं ततः ॥

88.31

अनानीय स्वसारं तु रुक्मी वीर्यमदान्वितः
हीनप्रतिज्ञो नैच्छत् स प्रवेष्टुं कुण्डिनं पुरम् ॥

88.32

विदर्भेषु च वासार्थं निर्ममे ऽन्यत् पुरं महत्
तद्भोजकटम् इत्य् एव बभूव भुवि विश्रुतम् ॥

88.33

तत्रौजसा महातेजसाः सो ऽन्वशाद् दक्षिणां दिशम्
भीष्मकः कुण्डिने चैव राजोवास महामनाः ॥

88.34

द्वारकाम् अभिसंप्राप्ते रामे वृष्णिबलान्विते
रुक्मिण्याः केशवः पाणिं जग्राह विधिवत् प्रभुः ॥

88.35

ततः सह तया रेमे प्रियया प्रीयमाणया
सीतयेव पुरा रामः पौलोम्य् एव पुरंदरः ॥

88.36

सा हि तस्याभवज् ज्येष्ठा पत्नी कृष्णस्य भामिनी
पतिव्रता गुणोपेता रूपशीलगुणान्विता ॥

88.37

तस्याम् उत्पादयामास पुत्रान् दश महारथान्
चारुदेष्णं सुदेष्णं च प्रद्युम्नं च महाबलम् ॥

88.38

सुषेणं चारुगुप्तं च चारुबाहुं च वीर्यवान्
चारुविन्दं सुचारुं च भद्रचारुं तथैव च ॥

88.39

चारुं च बलिनां श्रेष्ठं सुतां चारुमतीं तथा
धर्मार्थकुशलास् ते तु कृतास्त्रा युद्धदुर्मदाः ॥

88.40

महिषीः सप्त कल्याणीस् ततो ऽन्या मधुसूदनः
उपयेमे महाबाहुर् गुणोपेताः कुलोद्भवाः ॥

88.41

कालिन्दीं मित्रविन्दां च सत्यां नाग्नजितीम् अपि
सुतां जाम्बवतश् चापि रोहिणीं कामरूपिणीम् ॥

88.42

मद्रराजसुतां चापि सुशीलां शुभलोचनाम्
सत्राजितीं सत्यभामां लक्ष्मणां चारुहासिनीम्
शैब्यां सुदत्तां रूपेण श्रिया ह्य् अप्सरसोपमाम् ॥

88.43

स्त्रीसहस्राणि चान्यानि षोडशातुलविक्रमः
उपयेमे हृषीकेशः सर्वा भेजे स ताः समम्
परार्ध्यवस्त्राभरणाः कामैह् सर्वैः समेधितः ॥

88.44

जज्ञिरे तस्य पुत्राश् च तासु वीराः सहस्रशः
अशीतिं च सहस्राणि षोडशान्यानि भारत ।
सर्वास्त्रकुशलाः सर्वे बलवन्तो महारथाः
यज्वानः पुण्यकर्माणो महाभागा महाबलाः ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc