भाषा

ENहिગુ
ग्रंथ पाठ

हरिवंश · अध्याय 87

87.1

एतस्मिन्न् एव काले तु जरासंधः प्रतापवान्
नृपान् उद्योजयाम् आस चेदिराजप्रियेप्सया ॥

87.2

भीष्मकस्य सुतायां वै रुक्मिण्यां रुक्मभूषणः
शिशुपालस्य नृपतेर् विवाहो भविता किल ॥

87.3

दन्तवक्त्रस्य तनयं सुवक्त्रम् अमितौजसम्
सहस्राक्षसमं युद्धे मायासु च विशारदम् ॥

87.4

पौण्ड्रस्य वासुदेवस्य तथा पुत्रं महाबलम्
सुदेवं वीर्यसंपन्नं पृथग् अक्षौहिणीपतिम् ॥

87.5

एकलव्यस्य पुत्रं च वीर्यवन्तं बलान्वितम्
पुत्रं च पाण्ड्यराजस्य कलिङ्गाधिपतिं तथा ॥

87.6

कृताप्रियं च कृष्णेन वेणुदारिं नराधिपम्
अंशुमन्तं तथा क्राथं श्रुतर्वाणं च भारत ॥

87.7

निकृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा
पटुशं च महाबाहुं काश्याधिपतिम् एव च ॥

87.8

कस्मिन् देशे नृपो जज्ञे रुक्मी वेदविदां वर
कस्याण्ववाये द्युतिमान् संभूतो द्विजसत्तम ॥

87.9

राजर्षेर् यादवस्यासीद् विदर्भो नाम वै सुतः
विन्ध्यस्य दक्षिणे पार्श्वे विदर्भान् यो न्यवेशयत् ॥

87.10

क्रथकैशिकमुख्यास् तु पुत्रास् तस्य महाबलाः
बभूवुर् वीर्यसंपन्नाः पृथग् वंशकरा नृपाः ॥

87.11

तस्यान्ववाये भीमस्य वृष्णयो जज्ञिरे नृप
क्रथस्य त्व् अंशुमाण् वंशे कैशिकस्य तु भीष्मकः ॥

87.12

हिरण्यलोमेत्य् आहुर् यं दाक्षिणात्येश्वरं जनाः
अगस्त्यगुप्ताम् आशां यः कुण्डिनस्थो ऽन्वशान् नृपः
रुक्मी तस्याभवत् पुत्रो रुक्मिणी च विशां पते ॥

87.13

रुक्मी चास्त्राणि दिव्यानि द्रुमात् प्राप महाबलः
जामदग्न्यात् तथ रामाद् ब्राह्मम् अस्त्रम् अवाप्तवान्
प्रास्पर्धत् सह कृष्णेन नित्यम् अद्भुतकर्मणा ॥

87.14

रुक्मिणी त्व् अभवद् राजन् रूपेणासदृशी भुवि
चकमे वासुदेवस् तां श्रवाद् एव महाद्युतिः ॥

87.15

स चाभिलषितस् तस्याः श्रवाद् एव जनार्दनः
तेजोवीर्यबलोपेतः स मे भर्ता भवेद् इति ॥

87.16

तां ददौ न तु कृष्णाय रुक्मी द्वेषान् महाबलः
कंसस्य वधसंतापात् कृष्णायामिततेजसे ।
याचमानाय कंसस्य प्रेष्यो ऽसाव् इति चिन्तयन् ॥

87.17

चैद्यस्यार्थे सुनीथस्य जरासंधस् तु भूमिपः
वरयाम् आस तां राजा भीष्मकं भीमविक्रमम् ॥

87.18

चेदिराजस्य हि वसोर् आसीत् पुत्रो बृहद्रथः
मगधेषु पुरा येन निर्मितं तद् गिरिव्रजम् ॥

87.19

तस्यान्ववाये जज्ञे ऽथ जरासंधो महाबलः
वसोर् एव तदा वंशे दमघोषो ऽपि चेदिराट् ॥

87.20

दमघोषस्य पुत्रास् तु पञ्च भीमपराक्रमाः
भगिन्यां वसुदेवस्य श्रुतश्रवसि जज्ञिरे ॥

87.21

शिशुपालो दशग्रीवो रैभ्यो ऽथोपदिशो बली
सर्वास्त्रकुशला वीरा वीर्यवन्तो महाबलाः ॥

87.22

ज्ञातेः समानवंशस्य सुनीथं प्रददौ सुतम्
तस्यान्ववाये संभूता बहवो राजवंशजाः ।
जरासंधस्य राजेन्द्र दमघोषो महाबलः ।
जरासंधः स्वसुतवद् ददर्शैनं जुगोप च ॥

87.23

जरासंधं पुरस्कृत्य वृष्णिशत्रुं महाबलम्
कृतान्य् आगांसि चैद्येन वृष्णीनां तत्प्रियैषिणा ॥

87.24

जामाता त्व् अभवत् तस्य कंसस् तस्मिन् हते युधि
कृष्णार्थं वैरमभवज् जरासंधस्य वृष्णिभिः ॥

87.25

भीष्मकं वरयाम् आस सुनीथार्थे ऽथ रुक्मिणीम्
तां ददौ भीष्मकश् चापि शिशुपालाय वीर्यवान् ॥

87.26

ततश् चैद्यम् उपादाय जरासंधो नराधिपः
ययौ विदर्भान् सहितो दन्तवक्त्रेण यायिना ॥

87.27

अनुयातश् च पौण्ड्रेण वासुदेवेन धीमता
अङ्गवङ्गकलिङ्गानाम् ईश्वरः स महाबलः ॥

87.28

मानयिष्यंश् च तान् रुक्मी प्रत्युद्गम्य नराधिपान्
परया पूजयोपेतान् आनिनाय पुरीं प्रति ॥

87.29

पितृष्व् असुः प्रियार्थं च रामकृष्णाव् उभाव् अपि
प्रययुर् वृष्णयश् चान्ये रथैस् तत्र बलान्विताः ॥

87.30

क्रथकैशिकभर्ता तान् प्रतिगृह्य यथाविधि
पूजयाम् आस पूजार्हान् न्यवसन्त बहिश् च ते ॥

87.31

श्वोभाविनि विवाहे तु रुक्मिणी निर्ययौ बहिः
चतुर्युजा रथेनैन्द्रं देवतायतनं शुभा ॥

87.32

इन्द्राणीम् अर्चयिष्यन्ती कृतकौतुकमङ्गला
दीप्यमानेन वपुषा बलेन महता वृता ॥

87.33

तां ददर्श ततः कृष्णो लक्ष्मीं साक्षाद् इव स्थिताम्
रूपेणाग्र्येण संपन्नां देवतायतनान्तिके ॥

87.34

वह्नेर् इव शिखां दीप्तां मायां भूमिगताम् इव
पृथिवीम् इव गम्भीराम् उत्थितां पृथिवीतलात् ॥

87.35

मरीचिम् इव सोमस्य सौम्यां स्त्रीविग्रहां भुवि
श्रियम् अग्र्याम् इवापद्मां भविश्यां श्रीसहायिनीम्
कृष्णेन मनसा दृष्टां दुर्निरीक्श्यां सुरैर् अपि ॥

87.36

श्यामावदाता सा ह्य् आसीत् पृथुचार्वायतेक्षणा
ताम्रौष्ठनयनापाङ्गी पीनोरुजघनस्तनी ॥

87.37

बृहती चारुसर्वाङ्गी तन्वी शशिनिभानना
ताम्रतुङ्गनखी सुभ्रूर् नीलकुञ्चितमूर्धजा
अत्यर्थं रूपतः कान्ता पीनश्रोणिपयोधरा ।
तीक्ष्णशुक्लैः समैर् दन्तैः प्रभासद्भिर् अलंकृता ॥

87.38

अनन्या प्रमदा लोके रूपेण यशसा श्रिया
रुक्मिणी रूपिणी देवी पाण्डुरक्षौमवासिनी ॥

87.39

तां दृष्ट्वा ववृधे कामः कृष्णस्य शुभदर्शनाम्
हविषेवानलस्यार्चिर् मनस् तस्यां समादधत् ॥

87.40

रामेण सह निश्चित्य केशवः सुमहाबलः
तत्प्रमाथे ऽकरोद् बुद्धिं वृष्णिभ्यः प्रणिधाय च ॥

87.41

कृते तु देवताकार्ये निष्क्रामन्तीं सुरालयात्
उन्मथ्य सहसा कृष्णः स्वं निनाय रथोत्तमम् ॥

87.42

वृक्षम् उत्पाट्य रामो ऽपि जघानापततः परान्
समनह्यन्त दाशार्हास् तदाज्ञाय तु सर्वशः ॥

87.43

ते रथैर् विविधाकारैः समुच्छ्रितमहाध्वजैः
वाजिभिर् वारणैश् चापि परिवव्रुर् हलायुधम् ॥

87.44

आदाय रुक्मिणीं कृष्णो जगामाशु पुरीं प्रति
रामे चासज्य तं भारं युयुधाने च वीर्यवान् ॥

87.45

अक्रूरे विपृथौ चापि गदे च कृतवर्मणि
चक्रदेवे सुनक्षत्रे सारणे च महाबले ॥

87.46

निवृत्तशत्रौ विक्रान्ते भङ्गकारे विदूरथे
उग्रसेनात्मजे कङ्के शतद्युम्ने च केशवः ॥

87.47

राजाधिदेवे मृदरे प्रसेने चित्रके तथा
अतिदान्ते बृहद्दुर्गे श्वफल्के चित्रके पृथौ ॥

87.48

वृष्ण्यन्धकेषु चान्येषु मुख्येषु मधुसूदनः
गुरुम् आसज्य तं भारं ययौ द्वारवतीं प्रति ॥

87.49

दन्तवक्त्रो जरासंधः शिशुपालश् च वीर्यवान्
संनद्धा निर्ययुः क्रुद्धा जिघांसन्तो जनार्दनम् ॥

87.50

अङ्गवङ्गकलिङ्गैश् च सार्धं पौण्ड्रैश् च वीर्यवान्
निर्ययौ चेदिराजः स भ्रातृभिः सुमहारथैः ॥

87.51

तान् प्रत्यगृह्णन् संरब्धा वृष्णिवीरा महारथाः
संकर्षणं पुरस्कृत्य वासवं मरुतो यथा ॥

87.52

आपतन्तं हि वेगेन जरासंधं महाबलम्
षड्भिर् विव्याध नाराचैर् युयुधानो महामृधे ॥

87.53

अक्रूरो दन्तवक्त्रं तु विव्याध नवभिः शरैः
तं प्रत्यविध्यत् कारूषो बाणैर् दशभिर् आशुगैः ॥

87.54

विपृथुः शिशुपालं तु शरैर् विव्याध सप्तभिः
अष्टभिः प्रत्यविध्यत् तं शिशुपालः प्रतापवाण् ॥

87.55

गवेशणो ऽपि चैद्यं तु षड्भिर् विव्याध मार्गणैः
अनिर्दान्तस् तथाष्टाभिर् बृहद्दुर्गश् च पञ्चभिः ॥

87.56

प्रतिविव्याध तांश् चैद्यः पञ्चभिः पञ्चभिः शरैः
जघान चाश्वांश् चतुरश् चतुर्भिर् विपृथोः शरैः ॥

87.57

बृहद्दुर्गस्य भल्लेन शिरश् चिच्छेद चारिहा
गवेषणस्य सूतं च प्राहिणोद्यमसादनम् ॥

87.58

हताश्वं स रथं त्यक्वा विपृथुस् तु महाबलः
आरुरोह रथं क्षिप्रं बृहद्दुर्गस्य वीर्यवान् ॥

87.59

विपृथोः सारथिश् चापि गवेषणरथं द्रुतम्
आरुह्य जवनान् अश्वान् नियन्तुम् उपचक्रमे ॥

87.60

ते क्रुद्धाः शरवर्षेण सुनीथं समवाकिरन्
नृत्यन्तं रथमार्गेषु चापहस्ताः कलापिनः ॥

87.61

चक्रदेवो दन्तवक्त्रं बिभेदोरसि कर्णिना
पटुशं पञ्चविंशत्या विव्याध युधि मार्गणैः ॥

87.62

ताभ्यां स विद्धो दशभिर् बाणैर् मर्मातिगैः शितैः
ततो बली चक्रदेवं बिभेद दशभिः शरैः ॥

87.63

पञ्चभिश् चापि विव्याध सो ऽविदूराद् विदूरथम्
विदूरथो ऽपि तं षड्भिर् विव्याधाजौ शितैः शरैः ॥

87.64

त्रिंशता प्रत्यविध्यत् तं बली बाणैर् महाबलम्
कृतवर्मा बिभेदाजौ राजपुत्रं त्रिभिः शरैः ॥

87.65

न्यहनत् सारथिं चास्य ध्वजं चिच्छेद चोच्छ्रितम्
प्रतिविव्याध तं क्रुद्धः पौण्ड्रः षड्भिः शिलीमुखैः ॥

87.66

धनुश् चिच्छेद चाप्य् अस्य भल्लेनायतपर्वणा
निवृत्तशत्रुः कालिङ्गं बिभेद निशितैः शरैः
तोमरेणांसदेशे तं निर्बिभेद कलिङ्गराट् ॥

87.67

गजेनासाद्य कङ्कस् तु गजम् अङ्गस्य वीर्यवान्
तोमरेण बिभेदाङ्गं बिभेदाङ्गश् च तं शरैः ॥

87.68

चित्रकश् च श्वफल्कश् च सत्यकश् च महारथः
कलिङ्गस्य तथानीकं नाराचैर् बिभिदुः शितैः ॥

87.69

विसृष्टेन द्रुमेणाजौ वङ्गराजस्य कुञ्जरम्
जघान रामः सम्क्रुद्धो वङ्गराजं च संयुगे ॥

87.70

तं हत्वा रथम् आरुह्य धनुर् आदाय वीर्यवान्
संकर्षणो जघानोग्रैर् नाराचैः कैशिकान् बहून् ॥

87.71

षड्भिर् निहत्य कारूषान् महेष्वासान् स वीर्यवान्
शतं जघान संक्रुद्धो मागधानां महारथः
निहत्य तान् महाबाहुर् जरासंधं ततो ऽभ्ययात् ॥

87.72

तम् आपतन्तं विव्याध नाराचैर् मागधस् त्रिभिः
तं बिभेदाष्टभिः क्रुद्धो नाराचैर् मुसलायुधः
चिच्छेद चास्य भल्लेन ध्वजं रत्नविभूषितम् ॥

87.73

तद् युद्धम् अभवद् घोरं तेषां देवासुरोपमम्
अनिवार्यं शरैर् एव प्रहर्षोघो महोदधेः ।
सृजतां शरवर्षाणि निघ्नताम् इतरेतरम् ॥

87.74

गजैर् गजा हि संक्रुद्धाः संनिपेतुः सहस्रशः
रथै रथाश् च संरब्धाः सादिभिश् चापि सादिनः ॥

87.75

पदातयः पदातींश् च शक्तिचर्मासिपाणयः
छिन्दन्तश् चोत्तमाङ्गानि विचेरुर् युधि ते पृथक् ॥

87.76

असीनां पात्यमानानां कवचेषु महास्वनः
शराणां पततां शब्दः पक्षिणाम् इव शुश्रुवे ॥

87.77

भेरीशङ्खमृदङ्गानां वेणूनां च मृधे ध्वनिम्
जुगूह घोषः शस्त्राणां ज्याघोषश् च महात्मनां ॥

मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc