हरिवंश · अध्याय 86
ततः प्रभाते विमले भास्करे ऽभ्युदिते तदा
कृतजप्यो हृषीकेशो वनान्ते निषसाद ह ॥
परिचक्राम तं देशं दुर्गस्थानदिदृक्षया
उपतस्थुः कुलप्राग्र्या यादवा यदुनन्दनम् ॥
रोहिण्याम् अहनि श्रेष्ठे स्वस्ति वाच्य द्विजोत्तमान्
पुण्याहघोषैर् विपुलैर् दुर्गस्यारब्धवान् क्रियां ॥
ततः पङ्कजपत्राक्षो यादवान् केशिसूदनः
प्रोवाच वदतां श्रेष्ठो देवान् वृत्ररिपुर् यथा ॥
कल्पितेयं मया भूमिः पश्यध्वं देवसद्मवत्
नाम चास्याः कृतं पुर्याः ख्यातिं यद् उपयास्यति ॥
इयं द्वारवती नाम पृथिव्यां निर्मिता मया
भविष्यति पुरी रम्या शक्रस्येवामरावती ॥
तान्य् एवास्याः कारयिष्ये चिह्नान्य् आयतनानि च
स्थानानि विदधुश् चात्र ब्रह्मादीनां यथाक्रमम् ।
चत्वरान् राजमार्गांश् च समान् अन्तःपुराणि च ॥
देवा इवात्र मोदन्तु भवन्तो विगतज्वराः
बाधमाना रिपुगणान् उग्रसेनपुरोगमाः ॥
गृह्यन्तां वेश्मवास्तूनि कल्प्यन्तां त्रिकचत्वराः
मीयन्तां राजमार्गाश् च प्राकारस्य च या गतिः ॥
प्रेष्यन्तां शिल्पिमुख्याश् च नियुक्ता वेश्मकर्मसु
नियुज्यन्तां च देशेषु प्रेष्यकर्मकरा जनाः ॥
एवम् उक्तास् तु कृष्णेन गृहसंग्रहतत्पराः
यथानिदेशं संहृष्टाश् चक्रुर् वास्तुपरिग्रहान् ॥
सूत्रहस्तास् ततो मानं चक्रुर् यादवसत्तमाः
पुण्ये ऽहनि महाराज द्विजातीन् अभिपूज्य च ॥
वास्तुदैवतकर्माणि विधिना कारयन्ति च
स्थपतीन् अथ गोविन्दस् तत्रोवाच महामतिः ॥
अस्मदर्थे सुविहितं क्रियताम् अत्र मन्दिरम्
विभक्तचत्वरपथं सुनिविष्टेष्टदैवतम् ॥
ते तथेति महाबाहुम् उक्त्वा स्थपतयस् तदा
दुर्गकर्मणि संभारान् उपलभ्य यथाविधि ॥
यथान्यायं निर्मिमिरे द्वाराण्य् आयतनानि च
स्थानानि विदधुश् चात्र ब्रह्मादीनां यथाक्रमम् ॥
उपामग्नेः सुरेशस्य दृषदोलूखलस्य च
चतुर्दैवानि चत्वारि द्वाराणि विदधुश् च ते
गृहक्षेत्रेन्द्रभल्लाटं पुष्पदन्तं तथैव च ॥
तेषु वेश्मसु युक्तेषु यादवेषु महात्मसु
पुर्याः क्षिप्रं निवेषार्थं चिन्तयाम् आस माधवः ॥
तस्य दैवी स्थिता बुद्धिश् चपला क्षिप्रकारिणी
पुरी सा वै प्रियकरी यदूनाम् अभिवर्धनी ॥
शिल्पिमुख्यो ऽस्ति देवानां प्रजापतिसुतः प्रभुः
विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिश्यति ॥
मनसा तम् अनुध्याय तस्यागमनकारणम्
त्रिदषाभिमुखः कृष्णो विविक्ते समपद्यत ॥
तस्मिन्न् एव ततः काले शिल्पाचार्यो महामतिः
विश्वकर्मा सुरश्रेष्ठः कृष्णस्य प्रमुखे स्थितः ॥
दैवेन मनसा क्शिप्रं तव विष्णो धृतव्रत
किंकरः समनुप्राप्तः शाधि मां किं करोमि ते ॥
यथा स्याद् देवदेवेशस् त्र्यम्बकश् च यथाव्ययः
तथा त्वं देव मान्यो ऽसि विशेषो नास्ति मे प्रभो ॥
त्रैलोक्यज्ञापिकां वाचम् उत्सृजस्व महाभुज
एषो ऽस्मि परिदृष्टार्थः किं करोमि प्रशाधि माम् ॥
श्रुत्वा विनीतवचनं केशवो विश्वकर्मणः
प्रत्युवाच यदुश्रेष्ठः कंसारिर् अतुलं वचः ॥
श्रुतार्थो देवगुह्यस्य भवान्य् अत्र वयं स्थिताः
अवश्यं त्व् इह कर्तव्यं सदनं मे सुरोत्तम ॥
तद् इयं भूः प्रकाशार्थं निवेश्या मयि सुव्रत
मत्प्रभावानुरूपैश् च गृहैश् चेयं समन्ततः ॥
उत्तमा च पृथिव्यां वै यथा स्वर्गे ऽमरावती
तथेयं हि त्वया कार्या शक्तो ह्य् असि महामते ॥
मम स्थानम् इदं कार्यं यथा वै त्रिदिवे तथा
मर्त्याः पश्यन्तु मे लक्ष्मीं पुर्या यदुकुलस्य च ॥
एवम् उक्तस् ततः प्राह विश्वकर्मा मतीश्वरः
कृष्णम् अक्लिष्टकर्माणं देवामित्रविनाशनम् ॥
सर्वम् एतत् करिष्यामि यत् त्वयाभिहितं प्रभो
पुरी त्व् इयं जनस्यास्य न पर्याप्ता भविष्यति ॥
भविष्यति च विस्तीर्णा वृद्धिर् अस्यास् तु शोभना
चत्वारः सागरा ह्य् अस्यां विचरिष्यन्ति रूपिणः ॥
यदीच्छेत् सागरः किंचिद् उत्स्रष्टुम् इह तोयराट्
ततः स्वायतलक्षण्या पुरी स्यात् पुरुषोत्तम ॥
एवम् उक्तस् ततः कृष्णः प्राग् एव कृतबुद्धिमान्
सागरं सरितां नाथम् उवाच वदतां वरः ॥
समुद्र दश च द्वे च योजनानि जलाशये
प्रतिसंह्रियताम् आत्मा यद्य् अस्ति मयि मान्यता ॥
अवकाशे त्वया दत्ते पुरीयं मामकं बलम्
पर्याप्तविषयाकारा समग्रा विसहिष्यति ॥
ततः कृष्णस्य वचनं श्रुत्वा नदनदीपतिः
समारुतेन योगेन उत्ससर्ज महार्णवः ॥
विश्वकर्मा ततः प्रीतः पुर्याः संदृश्य वास्तु तत्
गोविन्दे चैव संमानं सागरः कृतवांस् तदा ॥
विश्वकर्मा ततः कृष्णम् उवाच यदुनन्दनम्
अद्यप्रभृति गोविन्द सर्वे समधिरोहत ॥
मनसा निर्मिता चेयं मया पूःप्रवरा विभो
अचिरेणैव कालेन गृहसंबाधमालिनी ॥
भविष्यति पुरी रम्या सुद्वारा प्राग्र्यतोरणा
चयाट्टालककेयूरा पृथिव्याः ककुदोपमा ॥
अन्तःपुरं च कृष्णस्य परिचर्याक्षमं महत्
चकार तस्यां पुर्यां वै देशे त्रिदशपूजिते ॥
ततः सा निर्मिता कान्ता पुरी द्वारवती तदा
मानसेन प्रयत्नेन वैष्णवी विश्वकर्मणा ॥
कान्तनारीनरगणा वणिग्भिर् उपशोभिता
नानापण्यसमाकीर्णा खेचरीव च गां गता ॥
प्रपावापीप्रसन्नोदैर् उद्यानैर् उपशोभिता
समन्ततः संवृताङ्गी वनितेवायतेक्षणा ॥
समृद्धचत्वरवती वेश्मोत्तमघनाचिता
रथ्याकोटिसहस्राढ्या शुभ्रराजपथोत्तरा ।
भूषयन्ती समुद्रं सा स्वर्गम् इन्द्रपुरी यथा ॥
पृथिव्यां सर्वरत्नानाम् एका निचयशालिनी ।
सुराणाम् अपि सुक्षेत्रा सामन्तक्षोभकारिणी ।
अप्रकाशं तदाकाशं प्रासादैर् उपशोभिता ॥
पृथिव्यां पृथुराष्ट्रौघा जनौघप्रतिनादिता
ओघैश् च वारिराजस्य शिशिरीकृतमारुता ॥
अनूपोपवनैः कान्तैः कान्ता जनमनोरमा
सतारका द्यौर् इव सा द्वारका प्रत्यराजत ॥
प्राकारेणार्कवर्णेन शातकौम्भेन संवृता
हिरण्यप्रतिपूर्णैश् च गृहैर् गम्भीरनिस्वनैः ॥
शुभ्रमेघप्रतीकाशैर् द्वारैः सौधैश् च शोभिता
क्वचित् क्वचिद् उदग्राग्रैर् उपावृत्तमहापथा ॥
ताम् आवसत् पुरीं कृष्णः सर्वयादवनन्दनः
अभिप्रेतजनाकीर्णां सोमः खम् इव भासयन् ॥
विश्वकर्मा च तां कृत्वा पुरीं शक्रपुरीम् इव
जगाम त्रिदिवं देवो गोविन्देनाभिपूजितः ॥
भूयस् तु बुद्धिर् अभवत् कृष्णस्य विदितात्मनः
जनान् इमान् धनौघैस् तु तर्पयेयम् अहं यदि ॥
स वैश्रवणवस्तव्यं निधीनाम् उत्तमं निधिम्
शङ्खम् आह्वयतोपेन्द्रो निशि स्वभवने विभुः ॥
स शङ्खः केशवाह्वानं ज्ञात्वा गुह्यकराट् स्वयम्
आजगाम समीपं वै तस्य द्वारवतीपतेः ॥
स शङ्खः प्राञ्जलिर् भूत्वा विनयादवनिं गतः
कृष्णं विज्ञापयाम् आस यथा वैश्रवणं तथा ॥
भगवन् किं मया कार्यं सुराणां वित्तरक्षिणा
नियोजय महाबाहो यत्कार्यं यदुनन्दन ॥
तम् उवाच हृषीकेशः शङ्खं गुह्यकम् उत्तमम्
जना ये ऽस्मिन् कृशधनास् तान् धनेनाभिपूरय ॥
नेच्छाम्य् अनाशितं द्रष्टुं कृशं मलिनम् एव वा
देहीति चाभिभाषन्तं नगर्यां निर्धनं नरम् ॥
शिरसा शासनं गृह्य निधीनः केशवस्य सः
निधीनाज्ञापयाम् आस द्वारवत्यां गृहे गृहे
घनौघैर् अभिवर्षध्वं चक्रुः सर्वे तथा च ते ॥
नाधनो विद्यते तत्र हीनभाग्यो ऽपि वा नरः
द्वारवत्यां पुरि पुरा केशवस्य महात्मनः ।
कृशो वा मलिनो वापि द्वारवत्यां गृहे गृहे ॥
चकार वायोर् आह्वानं भूयश् च पुरुषोत्तमः
तत्रस्थ एव भगवान् यादवानां प्रियंकरः ॥
प्राणयोनिस् तु भूतानाम् उपतस्थे गदाग्रजम्
एकमासीनम् एकान्ते देवगुह्यधरं प्रभुम् ॥
किं मया देव कर्तव्यं सर्वगेनाशुगामिना
... शाधि मां पुरुषोत्तम ।
यद् ब्रवीषि महाबाहो ... ।
यथैव दूतो देवानां तथैवास्मि तवानघ ॥
तम् उवाच ततः कृष्णो रहस्यं पुरुषोत्तमः
मारुतं जगतः प्राणं रूपिणं समुपस्थितम् ॥
गच्छ मारुत देवेशम् अनुमान्य सहामरैः
सभां सुधर्माम् आदाय देवेभ्यस् त्वम् इहानय ॥
यादवा धार्मिका ह्येते विक्रान्ताश्च सहस्रशः
तस्यां विशेयुर् एते हि न तु या कृत्रिमा भवेत् ॥
सा ह्य् अक्षया सभा वायो कामगा कामरूपिणी
सा यदून् धारयेत् सर्वान् यथैव त्रिदशांस् तथा ॥
स गृह्य वचनं तस्य कृष्णस्याक्लिष्टकर्मणः
वायुर् आत्मोपमगतिर् जगाम त्रिदिवालयम् ॥
सो ऽनुमान्य सुरान् सर्वान् कृष्णवाक्यं निवेद्य च
सभां सुधर्माम् आदाय पुनर् आयान् महीतलम् ॥
सुधर्मां तां सुधर्माय कृष्णायाक्लिष्टकारिणे
देवो देवसभां दत्त्वा वायुर् अन्तरधीयत ॥
द्वारवत्यास् तु सा मध्ये केशवेन निवेशिता
सुधर्मा यदुमुख्यानां देवानां त्रिदिवे यथा ॥
एवं स दिव्यैर् भौमैश् च जलजैश् चाव्ययो हरिः
द्रव्यैरलंकरोति स्म पुरीं स्वां प्रमदाम् इव ॥
मर्यादाश् चैव संचक्रे श्रेणीः प्रकृतयस् तथा
बलाध्यक्षांश् च युक्तांश् च प्रकृतीशांस् तथैव च ॥
उग्रसेनं नरपतिं काश्यं चैव पुरोहितम्
सेनापतिम् अनाधृष्टिं विकद्रुं मन्त्रिपुंगवम् ॥
यादवानां कुलकरान् स्थविरान् दश तत्र वै
उद्धवो वसुदेवश् च कङ्को विपृथुर् एव च ।
श्वफल्कश् चित्रकश् चैव गदः सत्यक एव च ।
बलदेवः पृथुश् चैवं मत्रेश्व् अभ्यन्तरा दश ।
स्थापयाम् आस मतिमान् सर्वकार्येष्व् अनन्तरान् ॥
रथेष्व् अतिरथो यन्ता दारुकः केशवस्य वै
योधमुख्यश् च योधानां सात्यकिः सत्यविक्रमः ॥
विधानम् एवं कृत्वा स कृष्णः पुर्याम् अनिन्दितः
मुमुदे यदुभिः सार्धं लोकस्रष्टा महीतले ॥
रेवतस्याथ कन्यां च रेवतीं शीलसंमताम्
प्राप्तवान् बलदेवस् तु कृष्णस्यानुमते तदा ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0