हरिवंश · अध्याय 85
भगवञ् श्रोतुम् इच्छामि विस्तरेण महात्मनः
चरितं वासुदेवस्य यदुश्रेष्ठस्य धीमतः ॥
किमर्थं च परित्यज्य मथुरां मधुसूदनः
मध्यदेशस्य ककुदं धाम लक्ष्म्याश् च केवलम् ॥
शृङ्गं पृथिव्याः स्वालक्ष्यं प्रभूतधनधान्यवत्
आर्याढ्यजनभूयिष्ठम् अधिष्ठानवरोत्तमम्
अयुद्धेनैव दाशार्हस् त्यक्तवान् द्विजसत्तम ॥
स कालयवनश् चापि कृष्णे किं प्रत्यपद्यत ॥
द्वारकां च समाश्रित्य वारिदुर्गां जनार्दनः
किं चकार महाबाहुर् महायोगी महामनाः ॥
किंवीर्यः कालयवनः केन जातश् च वीर्यवान्
यम् असह्यं समालक्ष्य व्यपयातो जनार्दनः ॥
वृष्णीनाम् अन्धकानां च गुरुर् गार्ग्यो महातपाः
ब्रह्मचारी पुरा भूत्वा न स्म दारान् स विन्दति ॥
तथा हि वर्तमानं तं ऊर्ध्वरेतसम् अव्ययम्
गार्ग्यं गोष्ठे द्विजं स्यालः षण्ढम् इत्य् उक्तवान् द्विजः ।
यदूनां संनिधौ सर्वे जहसुर् यादवास् ततः ॥
एवं वर्षसहस्रं मे षट्शतं भूपसंमितम् ।
वत्सरा द्वादशाश् चैव चूर्णं लोहरजोद्भवम् ।
स्यालो ऽभिशप्तवान् गार्ग्यम् अपुमान् इति भूपते ॥
सो ऽभिशप्तस् तदा राजन् नगरे त्व् अमितंजये
लिप्सुः पुत्रं ततो गत्वा तपस् तेपे सुदारुणम् ॥
ततो द्वादश वर्षाणि सो ऽयश् चूर्णम् अभक्षयत्
आराधयन् महादेवम् अचिन्त्यं शूलपाणिनम् ॥
रुद्रस् तस्मै वरं प्रादात् समर्थं युधि निग्रहे
वृष्णीनाम् अन्धकानां च सर्वतेजोमयं सुतम् ॥
ततः शुश्राव तं राजा यवनाधिपतिर् वरम्
पुत्रप्रसवजं देवाद् अपुत्रः पुत्रकामुकः ॥
तम् उपानाय्य स नृपः सान्त्वयित्वा द्विजोत्तमम्
गोपमध्ये यवनराड् गोपस्त्रिषु समुत्सृजत् ॥
गोपाली त्व् अप्सरास् तत्र गोपस्त्रीवेषधारिणी
धारयाम् आस गार्ग्यस्य गर्भं दुर्धरम् अच्युतम् ॥
मानुष्यां गार्ग्यभार्यायां नियोगाच् छूलपाणिनः
स कालयवनो नाम जज्ञे शूरो महाबलः
अपुत्रस्याथ राज्ञस् तु ववृधे ऽन्तःपुरे शिशुः ॥
तस्मिन्न् उपरते राजन् स कालयवनो नृपः
युद्धाभिकामो राजा तु पर्यपृच्छद् द्विजोत्तमम्
वृष्ण्यन्धककुलं तस्य नारदो वै न्यवेदयत् ॥
ज्ञात्वा तु वरदानं तन् नारदान् मधुसूदनः
उपप्रैक्षत तेजस्वी वर्धन्तं यवनेषु तम् ॥
स विवृद्धो यदा राजा यवनानां महाबलः
तत एनं नृपा म्लेच्छाः संश्रित्यानुययुस् तदा ॥
शकास् तुषारा दरदाः पारदास् तङ्गणाः खशाः
पह्लवाः शतशश् चान्ये म्लेच्छा हैमवतास् तथा ॥
स तैः परिवृतो राजा दस्युभिः शलभैर् इव
नानावेषधरैर् भीमैर् मत्रुराम् अभ्यवर्तत ॥
गजवाजिखरोष्ट्राणां सहस्रैर् अयुतैर् अपि
पृथिवीं कम्पयाम् आस सैन्येन महता तदा ॥
रेणुना सूर्यमार्गं तु समवच्छाद्य पार्थिवः
मूत्रेण शकृता चैव सैन्येन ससृजे नदीम् ॥
अश्वोष्ट्रशकृतो राशेर् निःसृतेति जनाधिप
ततो ऽश्वशकृद् इत्येव नाम नद्या बभूव ह ॥
तत् सैन्यं महद् आयाद् वै श्रुत्वा वृष्ण्यन्धकाग्रणीः
वासुदेवः समानाय्य ज्ञातीन् इदम् उवाच ह ॥
इदं समुत्थितं घोरं वृष्ण्यन्धकभयं महत्
अवध्यश् चापि नः शत्रुर् वरदानात् पिनाकिनः ॥
सामादयो ऽभ्युपायाश् च विहितास् तस्य सर्वशः
मत्तो मदबलाभ्यां च युद्धम् एव चिकीर्षति
एतावान् इह वासश् च कथितो नारदेन मे ॥
जरासंधश् च नो राजा नित्यम् एव न मृष्यते
तथान्ये पृथिवीपाला वृष्णिचक्रप्रतापिताः ॥
केचित् कंसवधाच् चापि विरक्तास् तद्गता नृपाः
समाश्रित्य जरासंधम् अस्मान् इच्छन्ति बाधितुम् ॥
बहवो ज्ञातयश् चैव यदूनां निहता नृपैः
विवर्धितुं न शक्ष्यामः पुरे ऽस्मिन्न् इति केशवः
ततो वृष्ण्यन्धकाः कृष्णं पुरस्कृत्य महामतिम् ।
समेत्य मन्त्रयाम् आसुर् जरासंधभयेन च ।
कृत्वा च निश्चयं सर्वे पलायनम् अरोचयन् ॥
विहाय मथुरां रम्यां मानयन्तः पिनाकिनम् ।
कुशस्थलीं द्वारवतीं निवेशयितुम् ईप्सवः ।
अपयाने मतिं कृत्वा दूतं तस्मै ससर्ज ह ॥
ततः कुम्भे महासर्पं भिन्नाञ्जनचयोपमम्
घोरम् आशीविषं कृष्णं कृष्णः प्राक्षेपयत् तदा ॥
ततस् तं मुद्रयित्वा तु स्वेन दूतेन हारयत्
निदर्शनार्थं गोविन्दो भीषयाणश् च तं नृपम्
स दूतः कालयवनं दर्शयाम् आस तं घटम् ॥
कालसर्पोपमः कृष्ण इत्य् उक्त्वा भरतर्षभ
तत् कालयवनो बुध्वा त्रासनं यादवैः कृतम्
पिपीलिकानां चण्डानां पूरयाम् आस तं घटम् ॥
स सर्पो बहुभिस् तीक्ष्णैः सर्वतस् तैः पिपीलिकैः
भक्ष्यमाणः किलाङ्गेषु भस्मीभूतो ऽभवत् तदा ॥
तं मुद्रयित्वाथ घटं तथैव यवनाधिपः
प्रेषयाम् आस कृष्णाय बाहुल्यम् उपवर्णयन् ॥
वासुदेवस् तु तं दृष्ट्वा योगं विहितम् आत्मनः
उत्सृज्य मथुराम् आशु द्वारकाम् अभिजग्मिवान् ॥
वैरस्यान्तं विधित्संस् तु वासुदेवो महायशाः
निवेश्य द्वारकां राजन् वृष्णीन् आश्वास्य चैव ह ॥
पदातिः पुरुषव्याघ्रो बाहुप्रहरणस् तदा
आजगाम महायोगी मथुरां मधुसूदनः ॥
तं दृष्ट्वा निर्ययौ हृष्टः स कालयवनो रुषा
प्रेक्षापूर्वं च कृष्णो ऽपि निश्चक्राम महाबलः ॥
अथान्वगच्छद् गोविन्दं जिघृक्षुर् यवनेश्वरः
न चैनम् अशकद् राजा ग्रहीतुं योगधर्मिणम् ॥
मान्धातुस् तु सुतो राजा मुचुकुन्दो महायशाः
यत्र तिष्ठति राजेन्द्रस् तत्र चाशु विवेश वै ।
पुरा देवासुरे युद्धे कृतकर्मा महाबलः ॥
वरेण च्छन्दितो देवैर् निद्राम् एव गृहीतवान्
श्रान्तस्य तस्य वाग् एवं तदा प्रादुर् अभूत् किल ॥
प्रसुप्तम् बोधयेद् यो मां तं दहेयम् अहं सुराः
चक्षुषा क्रोधदीप्तेन एवम् आह पुनः पुनः ॥
एवम् अस्त्व् इति शक्रस् तम् उवाच त्रिदशैः सह
स सुरैर् अभ्यनुज्ञातो लोकं मानुषम् आगमत् ॥
स पर्वतगुहां कांचित् प्रविश्य श्रमकर्शितः
सुष्वाप कालम् एतं वै यावत् कृष्णस्य दर्शनम् ॥
तत् सर्वं वासुदेवस्य नारदेन निवेदितम्
वरदानं च देवेभ्यस् तेजस् तस्य च भूपतेः ॥
अनुगम्यमानः कृष्णश् च तेन म्लेच्छेन शत्रुणा
तां गुहां मुचुकुन्दस्य प्रविवेश विनीतवत् ॥
शिरःस्थाने तु राजर्षेर् मुचुकुन्दस्य केशवः
संदर्शनपथं त्यक्त्वा तस्थौ बुद्धिमतां वरः ॥
अनुप्रविश्य यवनो ददर्श पृथिवीपतिम्
प्रस्वपन्तं कृतान्ताभम् आससाद सुदुर्मतिः ॥
वासुदेवं तु तं मत्वा घट्टयाम् आस पार्थिवम्
पादेनात्मविनाशाय शलभः पावकं यथा ॥
मुचुकुन्दश् च राजर्षिः पादस्पर्शविबोधितः
चुकोप निच्राच्छेदेन पादस्पर्शेन तेन च ॥
संस्मृत्य च वरं शक्राद् अवैक्षत तमग्रतः
स दृष्टमात्रः क्रुद्धेन संप्रजज्वाल सर्वतः ॥
ददाह पावकस् तं तु शुष्कं वृक्षम् इवाशनिः
क्षणेन कालयवनं नेत्रतेजोविनिर्गतः ॥
तं वासुदेवः श्रीमन्तं चिरसुप्तं नराधिपम्
कृतकार्यो ऽब्रवीद् धीमान् इदं वचनम् उत्तमम् ॥
राजंश् चिरप्रसुप्तो ऽसि कथितो नारदेन मे
कृतं मे सुमहत् कार्यं स्वस्ति ते ऽस्तु व्रजाम्य् अहम् ॥
वासुदेवम् अथालक्श्य राजा ह्रस्वं प्रमाणतः
परिवृत्तं युगं मेने कालेन महता ततः ॥
उवाच राजा गोविन्दं को भवान् किम् इहागतः
कश् च कालः प्रसुप्तस्य यदि जानासि कथ्यताम् ॥
सोमवंशोद्भवो राजा ययातिर् नाम नाहुषः
तस्य पुत्रो यदुर् ज्येष्ठश् चत्वारो ऽन्ये यवीयसः ॥
यदुवंशे समुत्पन्नं वसुदेवात्मजं विभो
वासुदेवं विजानीहि नृपते माम् इहागतम् ॥
त्रेतायुगे समुत्पन्नो विदितो मे ऽसि नारदात्
इदं कलियुगं विद्धि किम् अन्यत् करवाणि ते ॥
मम शत्रुस् त्वया दग्धो देवदत्तवरो नृप
अवध्यो यो मया संख्ये भवेद् वर्षशतैर् अपि ॥
इत्युक्तः स तु कृष्णेन निर्जगाम गुहामुखात्
अन्वीयमानः कृष्णेन कृतकार्येण धीमता ॥
ततो ददर्श पृथिवीम् आवृतां ह्रस्वकैर् नरैः
अल्पोत्साहैर् अल्पबलैर् अल्पवीर्यपराक्रमैः
परेणाधिष्ठितं चैव राज्यं केवलम् आत्मनः ॥
विसर्जयित्वा गोविन्दं प्रविवेश महद् वनम्
हिमवन्तम् अगाद् राजा तपसे धृतमानसः ॥
ततः स तप आस्थाय विनिर्मुच्य कलेवरम्
आरुरोह दिवं राजा कर्मभिः स्वैर् जितं शुभैः ॥
वासुदेवो ऽपि धर्मात्मा उपायेन महामनाः
घातयित्वात्मनः शत्रुं तत् सैन्यं प्रत्यपद्यत ॥
प्रभूतरथहस्त्यश्व+ +वर्मशस्त्रायुधध्वजम्
आदायोपययौ धीमांस् तत् सैन्यं निहतेश्वरम् ॥
निवेदयाम् आस ततो नराधिपे तद् उग्रसेने प्रतिपूर्णमानसः
जनार्दनो द्वारवतीं च तां पुरीम् अशोभयत् तेन धनेन भूरिणा ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0