हरिवंश · अध्याय 84
कस्यचित् त्व् अथ कालस्य सभायां यदुसंसदि
बभाषे पुण्डरीकाक्षो हेतुमद् वाक्यम् उत्तमम् ॥
यादवानाम् इयं भूमिर् मथुरा राष्ट्रवर्धनी
वयं चैवेह संभूता व्रजे च परिवर्धिताः ॥
तद् इदानीं गतं दुःखं शत्रवष् च पराजिताः
नृपेषु जनितं वैरं जरासंधे च विग्रहः ॥
वाहनानि च नः सन्ति पादातं चाप्य् अनन्तकम्
रत्नानि च विचित्राणि मित्राणि बहुलानि च ॥
इयं च माथुरी भूमिर् अल्पा गम्या परस्य नः
वृद्धिश् चापि परास्माकं बलतो मित्रतस् तथा ॥
कुमारकोट्यो याश् चेमा गणाश् चैव पदातिनाम्
एषाम् अपीह वसतां संमर्दम् उपलक्षये ॥
तन् मे न रोचते ह्य् अत्र निवासो यदुपुंगवाः
पुरीं निवेशयिष्यामि मम तत् क्षन्तुम् अर्हथ ॥
एतद् यद्य् अनुकूलं वो ममाभिप्रायजं वचः
भवाय भवतां काले रोचतां यदुसंसदि ॥
तम् ऊचुर् यादवाः सर्वे हृष्टेन मनसा तदा
साध्यतां यद् अभिप्रेतं जनस्यास्य भवाय च ॥
ततः संमन्त्रयाम् आसुर् वृष्णयो मन्त्रम् उत्तमम्
अवध्यो ऽसौकृतो ऽस्माकं सुमहच्च रिपोर् बलम् ॥
कृतः सैन्यक्षयश् चापि महान् इह नराधिपैः
बलानि च ससैन्यानि हन्तुं वर्षशतैर् अपि
न शक्ष्यामो ह्य् अतस् तेषाम् अपयाने ऽभवन् मतिः ॥
एतस्मिन्न् अन्तरे राजा स कालयवनो महान्
सैन्येन तद्विधेनैव मथुराम् अभ्युपागमत् ॥
ततो जरासंधबलं दुर्निवार्यं महत् तदा
ते कालयवनं चैव श्रुत्वैवं प्रतिपेदिरे ॥
केशवः पुनरेवाह यादवान् सत्यसंगरान्
अद्यैव दिवसः पुण्यो निर्याम सपदानुगाः ॥
निश्चक्रमुस् ते यदवः सर्वे केशवशासनात्
ओघा इव समुद्रस्य बलौघप्रतिवारणाः ॥
संगृह्य ते कलत्राणि वसुदेवपुरोगमाः
सुसंनद्धैर् गजैर् मत्तै रथैर् अश्वैश् च दंशितैः ॥
आहत्य दुंदुभीन् सर्वे सधनज्ञातिबान्धवाः
निर्ययुर् यादवाः सर्वे मथुराम् अपहाय वै ॥
स्यन्दनैः काञ्चनापीडैर् मत्तैश् च वरवारणैः
सृतप्लुतैश् च तुरगैः कशापार्ष्णिप्रचोदितैः ॥
स्वानि स्वानि बलाग्राणि शोभयन्तः प्रकर्षिणः
प्रत्यङ्मुखा ययुर् हृष्टा वृष्णयो भरतर्षभ ॥
ततो मुख्यतमाः सर्वे यादवा रणशोभिनः
अनीकाग्राणि कर्षन्तो वासुदेवपुरोगमाः ॥
ते स्म नानालताचित्रं नारिकेलवनायुतम्
कीर्णं नागवनैः कान्तैः केतकीषण्डमण्डितम् ॥
पुंनागतालीबहुलं द्राक्षावनघनं क्वचित्
सुसंनद्धैर् बलैस् तत्र तदा नृपवरोत्तमाः ।
अनूपं सिन्धुराजस्य प्रपेदुर् यदुपुंगवाः ॥
ते तत्र रमणीयेषु विषयेषु सखप्रियाः
मुमुदुर् यादवाः सर्वे देवाः स्वर्गगता इव ॥
पुरवास्तु विचिन्वन् स कृष्णस् तु परवीरहा
ददर्श विपुलं देशं सागरानूपभूषितम् ॥
वाहनानां हितं चैव सिकताताम्रमृत्तिकम्
पुरलक्षणसंपन्नं कृतास्पदम् इव श्रिया ॥
सागरानिलसंवीतं सागराम्बुनिषेवितम्
विषयं सिन्धुराजस्य शोभितं पुरलक्षणैः ॥
तत्र रैवतको नाम पर्वतो नातिदूरतः
मन्दरोदारशिखरः सर्वतो ऽभिविराजते ॥
तत्रैकलव्यसंवासो द्रोणेनाध्युषितश् चिरम्
बभूव पुरुषोपेतः सर्वरत्नसमाकुलः ॥
विहारभूमिस् तत्रैव तस्य राज्ञः सुनिर्मिता
नाम्ना द्वारवती नाम स्वायताष्टापदोपमा ॥
केशवस्य मतिस् तत्र पुर्यर्थे विनिवेशिता
निवेशं तत्र सैन्यानां रोचयन्ति स्म यादवाः ॥
ते रक्तसूर्ये दिवसे तत्र यादवपुंगवाः
निवेशाय मतिं चक्रुः कृष्णस्यानुमते स्थिताः ।
सेनापालाश् च संचक्रुः स्कन्धावारनिवेशनम् ॥
ध्रुवाय तत्र न्यवसत् केशवः सह यादवैः
देशे पुरनिवेशाय स यदुप्रवरो विभुः ॥
तस्यास्तु विधिवन् नाम वास्तूनि च गदाग्रजः
निर्ममे पुरुषश्रेष्ठो मनसा यादवोत्तमः ॥
एवं द्वारवतीं चैव पुरीं प्राप्य सबान्धवाः
सुखिनो न्यवसन् राजन् स्वर्गे देवगणा इव ॥
कृष्णो ऽपि कालयवनं ज्ञात्वा केशिनिषूदनः
जरासंधभयाच् चापि पुरीं द्वारवतीं ययौ ॥
मूल पाठ: Harivaṃśa constituted text with star passages · Edition: Parashuram Lakshman Vaidya, Poona : Bhandarkar Oriental Research Institute 1969 (For details see the separate introduction on the Zürich server.) · Data entry Atul Agarwala J. Wayne Bass Julie Bélanger Peter Bisschop Horst Brinkhaus John Brockington Eva De Clercq André Couture James Fitzgerald Arlo Griffiths N. Hanemann Petteri Koskikallio Kreshi · GRETIL (Göttingen) · CC BY-NC-SA 4.0